महापरिनिर्वाणसूत्र · अध्याय 28
(तेन खलु समयेन पुत्कसो मल्लमहामात्रस् तत्रैवाध्वप्रतिपन्नः ॥)
(अद्राक्षीत् पुत्कसो मल्लमहामात्रो भगवन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परचित्तदमकम् उपशान्तोपशमनं सुवर्णयष्टिसदृशप्रभम् अन्यतमस्मिन् वृक्षमूले निषण्णम् ॥)
(दृष्ट्वा च पुनर् येन भगवांस् तेनोपजगाम ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत् ॥)
(एकान्तनिषण्णं पुत्कसं मल्लमहामात्रं भगवान् आमन्त्रयते ॥)
(पुत्कस रोचयसि त्वं काञ्चिच् छ्रमणस्य वा ब्राह्मणस्य शौचेयान् धर्मान् ॥)
(भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि ॥)
(कस्मात् पुत्कस रोचयसि त्वम् आराडस्य कालामस्य शौचेयान् धर्मान् ॥)
(एको ऽयं भदन्त समय आराडः कालामो ऽध्वप्रतिपन्नो मार्गाद् अवक्रम्यान्यतमस्मिन् वृक्षमूले दिवाविहारोपगतः ॥)
(तेन खलु समयेन तत्रैव मार्गस्य पञ्चमात्राणि शकटशतान्य् अचिरव्यतिक्रान्तानि ॥)
(अथान्यतमः पुरुषस् तेषां शकटानां पृष्ठतो ऽवशिष्टो येनाराडः कालामस् तेनोपजगाम ॥ उपेत्याराडं कालामम् इदम् अवोचत् ॥)
(किं भवान् पञ्चमात्राणि शकटशतानि व्यतिक्रममाणान्य् अद्राक्षीत् ॥)
(न भोः पुरुषाद्राक्षम् ॥)
(किं नु भवान् पञ्चमात्राणां शकट)श्(अ)ताना(ं) व्य्(अतिक्रम)म्(आणानां) श्(अ)ब्द्(अं नाश्रौषीत् ॥)
(न भोः पुरुषाश्रौषम् ॥)
क्(इं) नु भवाञ् शये (सुप्)त्(अः ॥)
(न भोः पुरुषाहं शये सुप्तः ॥)
(किं नु भवान् संज्ञ्य् एव समानो जाग्रन् नाश्रौषीत् पञ्चानां शकटशतानां व्यतिक्रममाणानां शब्दम् ॥)
संज्ञी एवाहं भोः पुरुष समानो जाग्रन् नाश्रौषं पञ्चानां शकटशतानां व्यत्(इ)क्रममाणानां शब्दम् ॥
अथ तस्य पुरुषस्यैत(द् अभवत् ॥)
(आश्चर्यं बत प्रव्रजितानां शान्तविहारिणां यत्रेदानीं संज्ञी) समानो जाग्रन् नाश्रौषीत् पञ्चानां शकटशतानां व्यतिक्रममाणा(नां शब्दम् ॥ तथापि चीवरं रजसावकीर्णम् ॥)
(प्रसन्नश् चास्य स पुरुषो वशीकृतः ॥ एवम् एवाहं) भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि ॥
किं मन्यसे (पुत्कस कतर उत्तमो यः पञ्चानां शकटशतानां व्य)तिक्रममाणानां शब्दो यो वा देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः ॥
किं भदन्त करि(ष्यन्ति पञ्चमात्राणि दश वा सहस्रं वा शकटशतानि ॥ उत्तमः) शब्दो यो देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः ॥
एको ऽयं पुत्कस समय आदुम्(आ)य्(आं) विहर्(आमि भूतागारे ॥ पूर्वाह्णे निवस्य पात्रचीवरम् आदायादुमां पिण्डा)य प्रविशामि ॥ आदुमां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातः प्र(तिक्रम्य पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य भूतागारे निषण्णः प्रतिसंल)यनाय ॥
तेन खलु समयेनादुमायां देवेन गर्जताशन्या (च) स्फ्(ओ)टत्या च्(अत्वारो बलिवर्दका हता द्वौ च कार्षकौ भ्रातरौ ॥ तदादुमाया उच्चशब्दमहाश)ब्दो महाजनकायस्य निर्घोषः ॥
सो ऽहं सायाह्ने प्रतिसंलयन्(आद् व्युत्थाय भूतागारस्य च्छायायाम् अभ्यवकाशे चङ्क्रमे चङ्क्रम्ये ॥)
(अथान्यतमः पु)रुषस् तस्मान् महाजनकायाद् येनाहं तेनोपसंक्रान्तः ॥ उपेत्य मम्(अ पादौ शिरसा वन्दित्वा मां चङ्क्रममाणम् अनुचङ्क्रम्यते ॥)
(तम् अहम् एवम् आ)मन्त्रये ॥
किम् एतद् भोः पुरुषादुमाया उच्चशब्दमहाशब्दो महाजनकायस्य नि(र्घोषः ॥)
(स आह ॥ इदानीं भदन्तादुमायां देवेन गर्जताशन्या च स्फ्)ओटत्या च्(अत्वारो ब)लिव्(अर्दक्)आ (हता) द्वौ च कार्षकौ भ्रातरौ ॥ त(द्)ऐष उच्चशब्दमहाशब्(दो महाजनकायस्य निर्घोषः ॥)
(किं नु भगवान् देवं गर्जन्तम् अशनिं च स्फोटतीं नाश्रौषीत् ॥)
(न भोः पुरुषाश्रौषम् ॥)
(आह स) पुरुषः ॥ कि(ं) नु भगवाञ् (शये सुप्तः ॥)
(न भोः पुरुषाहं शये सुप्तः ॥)
(किं नु) भगवान् संज्ञ्य् ए(व) समानो ज्(आग्रन् नाश्रौषीद् देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः शब्दम् ॥)
(सं)ज्ञ्य् एवाहं भोः पुरुष्(अ समानो जाग्रन् नाश्रौषं देवस्य गर्जतो ऽश)न्याश् च स्फोटत्याः शब्दम् ॥
अथ तस्य पुरुषस्य्(ऐतद् अभवत् ॥ आश्चर्यं बत) तथागतानाम् अ(र्हतां सम्यक्संबुद्धानां शान्तविहारिणां यत्रेदानीं सं)ज्ञ्य् एव सम्(आ)नो जाग्रन् नाश्रौषीद् देवस्य गर्जतो (ऽशन्याश् च स्फोटत्याः शब्दम् ॥)
(प्र)सन्नश् च मे स पुरु(षो वशीकृतः ॥)
(स आह ॥ को भदन्त भग)वतो न्(आ)भिप्रसीदेत् ॥ एषाहं भदन्त भगव(त उदारम् अभिप्रसन्नः ॥)
अथ पुत्कसो मल्लमहा(मात्र उपकारकं पुरुषम् इदम् अवोचत् ॥)
अनुप्रयच्छ मे भोः (पु)रु(ष) नवं सुवर्णपीतं दुष्य(युगं तेनाहं भगवन्तम् आच्छादयि)ष्य्(आ)मि ॥
अदाद् उप(क्)आ(रकः पुरुषः पुत्कसाय मल्लमहामात्रा)य नवं (सुव)र्(ण)पी(तं दुष्)ययुगम् ॥
अथ पुत्कसो म(ल्लमहामात्रो नवं सुवर्णपीतं दुष्ययु)गम् आद्(आ)य भग(वन्तम् इदम् अवोचत् ॥)
(इदं नवं सुवर्णपी)तं दुष्य(युगम् अ)स्म्(आकं प्रि)य्(अं) मनापं च तद् भगवा(न् प्रतिगृह्णात्व् अनुकम्पाम् उपादाय ॥)
(प्र)तिगृह्णाति भगवान् पुत्क्(असस्य मल्लमहामात्रस्य नवं सु)वर्णपीतं दुष्ययु(ग)म् अनुकम्पाम् उपादाय ॥
अथ पुत्कसो मल्ल्(अमहामात्रो भगवन्त)म् इदम् अवोचत् ॥
पुन्(अर् अहं भदन्तोपस्थास्यामि भगवन्तं भि)क्षुसंघञ् च ॥
कल्याणम् इदं पुत्कसोच्यते भगवान् अवोचत् ॥
अथ पु(त्क)सो म्(अल्ल)महामात्रो भगव्(अतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ) शिरसा वन्दित्वा भ(ग)वतो ऽन्तिकात् प्रक्रान्तः ॥
तत्र भगवान् आयुष्मन्त(म् आनन्दम् आमन्त्र)यते ॥
अनुप्रयच्छ म (आनन्द नवं सुवर्णपीतं दुष्ययुगं शस्त्र)लूनं कृत्वाच्छादयिष्यामि ॥
अदाद् आयुष्मान् आनन्दो भगवतो (नवं सुवर्णपीतं दु)ष्ययुगं शस्त्रलूनं कृ(त्वा ॥)
(तद् आच्छादितं भगवतश् छविवर्णा)वभासेन हतावभासम् इव ख्य्(आ)ति ॥
अथायुष्मान् आनन्दो भगव(न्)त्(अम् इदम् अवोचत् ॥)
(अहं भदन्त विंशतिं वर्षाणि साधिकं भगवन्तम्) उपत्(इ)ष्ठा(मि) नाभ्(इ)जानाम्य् (ए)व्(अं)विधस्य च्छविवर्णावभासस्य प्रादुर्भावं ॥ को भदन्त हेत्(उः कः प्रत्ययो ऽस्यैवंविधस्य छविवर्णावभासस्य प्रादुर्भा)वाय ॥
एवम् एतद् आनन्द ॥ एवम् एतद् आनन्द ॥ द्वाव् इमौ हेतू द्वौ प्रत्ययाव् अस्यैवंविधस्य (च्छविवर्णावभासस्य प्रादुर्भावाय ॥)
(कतमौ द्वौ ॥)
(यस्यां रात्रौ बोधिसत्)वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो यस्यां च रात्रौ तथागतो ऽनुपधिशेषे निर्वाण्(अधातौ परिनिर्वास्यते ॥)
(इमौ द्वौ हेतू द्वौ प्रत्ययाव् एवंविधस्)य च्छविवर्णावभासस्य प्रादुर्भावाय ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0