भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 29

29.1

तत्र भगवान् आयु(ष्)म्(अ)न्तम् आनन्दम् आमन्त्रयते ॥

29.2

आग(मयानन्द येन नदी हिरण्यवती ॥)

29.3

(एवं भदन्तेत्य् आयुष्मा)न् आनन्दो भगवतः प्रत्यश्रौषीत् ॥

29.4

अथ भगवान् येन नदी हिरण्यवती तेनोपजगाम्(ओपेत्य नद्या हिरण्यवत्यास् तीरे निवासनम् एकान्ते स्थापयित्वा नदीं हिरण्)य्(अ)वतीम् अभ्यवगाह्य गात्राणि परिषिच्य नदीं हिरण्यवतीं प्रत्यु(त्थ्)आ(य न्यषीदद् गात्राणि विशोषयन् ॥)

29.5

(अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)

29.6

स्याद् आनन्द चुन्दस्य कर्मारपुत्रस्य विप्रतिसारः परे(षाम् आपादितः ॥ तस्य ते चुन्द न लब्धम् अलाभा ॥ तस्य ते दुर्लब्धं न सुलब्धं य)स्य्(अ) ते शास्ता प्(अ)श्च्(इ)मं पिण्डपातं परिभुज्यानुपधिशेषे निर्वाणधातौ प(रिनिर्वृतः ॥)

29.7

(द्विविधानन्द चुन्दस्य कर्मारपुत्रस्य विप्रतिसारिणो कौकृत्यं व्)इनोदयितव्यम् ॥

29.8

संमुखं म आयुष्मंश् चुन्द भगवतो ऽन्तिकाच् छ्रुतं संमुख्(अम् उद्गृहीतं द्वौ पिण्डपातौ समसमौ विपाकेन ॥)

29.9

(यं च पिण्डपातं) भुक्त्वा बोधिसत्वो ऽनुत्तरां सम्य(क्स)ंबोधिम् अभिसंबुद्धः ॥

29.10

यं च पिण्द(पातं भुक्त्वा तथागतो ऽनुपधिशेषे निर्वाणधातौ परिनिर्वास्यते ॥)

29.11

(इमौ द्वौ पिण्डपातौ) समसमौ विपाकेन ॥

29.12

तद् इदम् आनन्द चुन्देन कर्मारपुत्रेणायुःसं(वर्तनीयं कर्म कृतं वर्णसंवर्तनीयं बलसंवर्तनीयं भोग)संवर्तनीयं स्वर्गसंवर्(त)नीयम् ऐश्(व)र्यसंवर्तनीयं कर्म कृतं भविष्य(ति ॥)

29.13

(अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥)

29.14

(अयम् आयुष्माञ् छन्दश् चण्डो रभसः परुषो रोषित आक्रोश)को भिक्षू(णां ॥ त)स्य्(आ)स्म्(आभिर्) भद(न्)त (भ)गवत्(ओ) ऽत्यय्(आ)त् कथ्(अं प्)र्(अ)त्(इ)प्(अत्त)व्य्(अं ॥)

29.15

छ्(अन्)द्(अ) आ(नन्द भिक्षुर् ममात्ययाद् ब्रह्मदण्डेन तर्जनीयः ॥ ब्रह्मदण्डेन तर्जितश् चेद् विप्रतिसार)वश्(अ)म् आपत्स्यते तथासंविग्नश् च कात्यायनाववादेनाववादितव्यः ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc