भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 27

27.1

तत्र भगवान् आयुष्मन्त्(अम् आनन्दम् आमन्त्रयते ॥)

27.2

आगमयान्(अन्द येन कुशिनगरी ॥
)27.3 (एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्र)त्यश्रौषीत् ॥

27.4

अथ भगवान् मल्लेषु जनपदेषु चर्यां चरन् त(त्रान्तरा च पापाम्) अन्त्(अ)रा च नदीं हि(रण्यवतीम् अध्वप्रतिपन्नो मार्गाद् अवक्रम्य्)

27.5

(आयुष्मन्तम् आनन्दम् आमन्त्रय)ते ॥

27.6

प्रज्ञापयानन्द तथागतस्य चतुर्गुणम् उत्तरास(ङ्गं पृष्ठी म आवि)लायति ता(ं) त्(आवद् आयामयिष्ये ॥)

27.7

(एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य) लघु लघ्व् एव चतुर्गुणम् उत्तरासङ्गं प्रज्ञप्य भग्(अवन्तम् इदम् अवोच)त् ॥

27.8

प्रज्ञप्तस् तथाग(तस्य चतुर्गुण उत्तरासङ्गः ॥ यस्येदानीं भगवाङ् कालं मन्यते ॥)

27.9

अथ भगवाङ् गणगुणां संघाटिं शिर(सि प्रतिष्ठाप्य दक्षिण्)एन पार्श्वेन शय्यां (कल्पयति पादे पादम् आधायालोकसंज्ञी प्रतिस्मृतः संप्रजान) उत्थानसंज्ञां मनसि कुर्वाणः ॥ तत्र भग(वान् आयुष्मन्तम् आन)न्दम् आमन्त्र(यते ॥)

27.10

(गच्छानन्द नद्याः कुकुस्तायाः पात्रेण उदकम् आहर य)तो ऽहं पानीयं पास्यामि गात्राणि च परिषेक्ष्यामि ॥

27.11

एवं भदन्ते(त्य् आयुष्मान् आनन्दो) भगव(तः प्रतिश्रुत्य पात्रं गृहीत्वा जगाम येन नदी कुकुस्ता ॥)

27.12

(तेन ख)लु समयेन नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशता(न्य् अचिरव्यतिक्रान्तानि ॥ तैर् उदकं विलोडितं लुठितम् आविलम् ॥)

27.13

(अथ आयुष्मान् आनन्दो नद्याः कुकुस्तायाः पात्रेण पानीयम् आदाय येन भगवांस् तेनोपजगाम ॥ उपेत्य भगवन्तम् इदम् अवोचत् ॥)

27.14

(अत्र भदन्त नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशतान्य् अचिरव्यतिक्रान्तानि ॥ तैर् उदकं विलोडितं लुठितम् आविलम् ॥)

27.15

(तेन भदन्तोदकेन भगवान् मुखं परिषिञ्चतु पादौ प्रक्षालयतु ॥ अस्माद् भदन्ताविदूरे नदी हिरण्यवती ॥ तत्र भगवान् पानीयं पास्यति गात्राणि च परिषेक्ष्यति ॥)

27.16

(अथ भगवांस् तेन पात्रोदकेन पादौ प्रक्षालयति मुखं परिषिञ्चति ॥ अतो विश्रान्तः सुखित उत्थाय न्यषीदत् पर्यङ्कम् आभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc