भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 26

26.1

(तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)

26.2

(आगमयानन्द येन पापाग्रामकः ॥ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥)

26.3

(अथ भगवान् मल्लेषु जनपदेष्व् अनुपूर्वेण चर्यां चरन् पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्डे ॥)
26.4. (अश्रौषुः पापीयका मल्ला भगवान् मल्लेषु जनपदेष्व् अनुपूर्वेण चर्यां चरन् पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्डे ॥)
26.5. (श्रुत्वा च पुनः संघात् संघं पूगात् पूगं संगम्य समागम्य पापाया निष्क्रम्य येन भगवांस् तेनोपजग्मुः ॥)

26.6

(उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥ एकान्तनिषण्णान् भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥)

26.7

(तेन खलु समयेन चुन्दः कर्मारपुत्रस् तस्मिन् समाजे सन्निषण्णो ऽभूत् सन्निपतितः ॥ अथ भगवान् पापीयकान् मल्लान् अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत् ॥ अथ पापीयका मल्ला भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा प्रक्रान्ताः ॥)

26.8

(चुन्दः कर्मारपुत्रस् तत्रैवास्थात् ॥ अथ चुन्दः कर्मारपुत्रो ऽचिरप्रक्रान्तान् पापीयकान् मल्लान् विदित्वोत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ॥)

26.9

(अधिवासयतु मे भगवाञ् श्वो भक्तेन सार्धं भिक्षुसंघेन ॥)

26.10

(अधिवासयति भगवाञ् चुन्दस्य कर्मारपुत्रस्य तूष्णींभावेन ॥)

26.11

(अथ चुन्दः कर्मारपुत्रो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः ॥)

26.12

(अथ चुन्दः कर्मारपुत्रस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति ॥)

26.13

(समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ् गौतमः कालं मन्यते ॥)

26.14

(अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपु)रस्कृ(तो) येन चुन्दस्य क(र्)मारपुत्रस्य भ्(अक्ताभिसारस् तेनोपजगाम ॥ उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीद)त् ॥

26.15

अथ चुन्दः कर्मारपुत्रः सुख्(ओप)निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदि(त्वा भगवन्तं प्रणीतेन खादनीयेन लोहकरोटकात् स्वहस्तं सन्तर्पयति संप्रवार)यति ॥ भिक्षुसंघं च शुचिना प्रणीतेन खादनीयभोजनीयेन स्व(हस्तं सन्तर्पयति संप्रवारयति ॥)

26.16

(तेन समयेन अन्यतमः पापभिक्षुर्) लोहकरोटकं कक्षेणापहृतवांस् तं खलु पापभिक्षुं भग(वान् अद्राक्षीच् चुन्दश् च बुद्धानुभावेन ॥)

26.17

(अथ चुन्दः कर्मारपुत्रो बुद्धप्र)मुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वह(स्तं सन्तर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचत)र्(अ)क्(अ)म् आसनं गृहीत्वा भगवतः प्(उ)रतो निषद्य भगवन्तं गा(थाभिर् गीताभिः पप्रच्छ ॥)

26.18

+ + + + + + + + + + + +
+ + + + + + + + + + + +
(सा)र्(अ)थ्(इ)प्र्(अ)वरं विनायकाग्रं
कत्(इ) लोक्(ए) श्रमणास् तद् अङ्ग ब्रूहि । 1

26.19

भ्(अगवान् आह ॥)
+ + + + + + + + + + + +
+ + + + + + + + + + + +
(मार्गज्ञश् च मार्ग)दैशिको
मार्ग्(ए) जीवति यश् च मार्गदूषी । 2

26.20

चुन्द(ः) प्राह ॥
कं मार्गजिनं वद्(अन्ति) + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + + । 3

26.21

भगवान् आह ॥
यश् छिन्नकथंकथो विशल्यो
निर्वाणा + + + + + + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + + । 4

26.22

परमप्रवरं हि यो विदित्वा
आख्याता विभजेत् तथैव ध + ॥
+ + + + + + + + + + + +
+ + + + + + + + + + + + । 5

26.23

(ध)र्मपदे सुदेशिते
मार्गे जीवति संयतः स्मृतश् च ॥
अनवद्यपदेषु स्. + + +
+ + + + + + + + + + + + । 6

26.24

+ + + + + + + + + + + +
प्रस्कन्दी कुलदूषकः प्रगल्भः ॥
मायावी ह्(य् अ)संयतः प्रलापी
प्(र)तिर्(ऊ)पे चर + + + + + । 7

26.25

+ + + + + + + + + + + +
+ + + + + + + + + + + +
(सर्वे) न्(आ)प्य् एवंविधा भवन्ति
ज्ञात्वैतान् + + + ति तस्य श्रद्धाम् । 8

26.26

कथं नु दुष्टेषु (ह्य् अ)संप्रदुष्टं
शुद्धान् अशुद्ध्. + + + + + + ॥
+ + + + + + + + + + + +
+ + + + + + + + + + + + ।

26.27

<तिब्.>

26.28

+ + पकं धूपिता कर्णिकेव
लोहार्धमाष इव हिरण्यनद्धः ॥
+ + + + + (बहि)र् आर्य(बिंबः)
+ + + + + + + + + + + + ।

26.29

(अथ भगवाञ् चुन्दस्य कर्मारपु)त्रस्य तद् दानम् अनयाभ्यनुमोदनयाभ्य्(अनुमोदते ॥)

26.30

(ददतः) पुण्यं प्र + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + +
रागद्वेषमोहक्षयात् सुनिर्वृतिः ।

26.31

अथ भ्(अगवांश् चुन्दं कर्मा)रपुत्रं धार्म्या कथ्(अया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्ष)यित्वोत्थायासनात् प्रक्रान्तः ॥
<हिएर् इम् तिब्. उद्दान>

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc