महापरिनिर्वाणसूत्र · अध्याय 25
(स्त्.इ) तत्र भगवान् आयुष्म्(अन्तम् आनदम् आ)मन्त्र्(अय)त्(ए ॥)
(स्त्.इ) आगम्(अयानन्द येन रामग्रामकः ॥ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥)
(स्त्.इ) (अथ भगवान् क्रौड्येषु जन)पदेषु चर्यां चरं रा(मग्रामक)म् अनुप्राप्(तो रामग्रामके विहरति ......)
(स्त्.इ) (तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)
(राम)ग्रामके र्. .इ .. (नाम क्रौ)ड्यः प्रतिवसति ॥ स तथा(गतस्य परिनिर्वृतस्य रामग्रामके शरीरस्तूपं प्रतिष्ठापयिष्यति शरीराणां सत्काराय) गुरुक्(आराय मानना)य पूजनाय अर्चना(य अपचितये ॥)
(स्त्.इ) (स तथागतस्य परिनिर्वृतस्य शरीरस्तूपप्रतिष्ठापनेन ...... कल्पान् विनिपातं न गमिष्यति देवांश् च म)नुष्यांश् च सन्धा(व्य संसृत्य प)श्चिमे भवे पश्चिमे निकेते (पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य ................ धर्म)चरितेन (केशश्मश्रूण्य् अवता)र्य काषायाणि वस्त्रा(ण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षीकरिष्यति ॥)
(स्त्.इ) (वि)ष्णुद्वीपे आनन्द शुभाकृत्स्नो नाम ब्राह्मण(ः प्रतिवसति ॥ सो ऽपि तथागतस्य परिनिर्वृतस्य विष्णुद्वीपे शरीरस्तूपं प्रतिष्ठाप्य)
(स्त्.इ) (एतेन शरीरस्तूपप्रतिष्ठापनेन ....... कल्पान्) विनिपातं न गमिष्यति देवांश् च मनुष्यांश् च पूर्व्(अवद् यावत् प्रत्येकां बोधिं साक्षीकरिष्यति ॥)
(स्त्.इ) (कपिलवस्तुन्य् आनन्द ............) बुद्धो नाम शाक्यः प्रतिवसति ॥ सो ऽपि तथागतस्य्(अ परिनिर्वृतस्य कपिलवस्तुनि शरीरस्तूपं प्रतिष्ठाप्य)
(स्त्.इ) (एतेन शरीरस्तूपप्रतिष्ठापनेन ..... कल्पान् विनिपातं न गमिष्यति) द्(ए)वांश् च मनुष्यांश् च पूर्ववद् यावत् प्रत्(य्)ए(कां बोधिं साक्षीकरिष्यति ॥)
(स्त्.इ) (राजगृहे आनन्द राजा) मागध अजातशत्रुर् वैदेहीपुत्रः प्रतिवसति ॥ सो ऽपि तथागतस्य परिनिर्वृत(स्य राजगृहे शरीरस्तूपं प्रतिष्ठापयिष्यति शरीराणां सत्कारा)य गुरुकाराय (माननाय) प्(ऊ)जनाय अर्चनाय अपचितये ॥
(स्त्.इ) स त(थागतस्य परिनिर्वृतस्य शरीरस्तूपप्रतिष्ठापनेन ...... कल्पान्) विनिपातं न ग्(अमिष्यति देवांश् च) मनुष्यांश् च पूर्ववद् यावत् प्रत्येकां बोधिं साक्षीकरिष्य(ति ॥)
(स्त्.इ) (अथ भगवांस् तस्यां वेलायां गाथा बभाषे ॥)
(स्त्.इ) (शतं सहस्राणि सुव)र्णनिष्का
जां(बूनदा नास्य समा भ)वंति (॥)
ये बुद्धचैत्येषु प्रसंनचित्ताः
पदा (विहारे समतिक्रमंति । 1)
(स्त्.इ) ()(शतं सहस्राणि सुवर्णपिण्डा
जांबूनदा नास्य समा भवं)ति ॥
यो (बुद्धचैत्येषु प्)र्(अस)न्न(चित्त)
आ(रोप)य्(ए)न् मृत्तिकपिण्डम् एकम् (।) 2
(स्त्.इ) शतं सह(स्राणि सुवर्णमूटा
जांबूनदा नास्य समा भवंति ॥
यो बुद्धचैत्येषु प्रसन्नचित्त
आरोपयेन्) मुक्तपुष्पस्य राशिम् (।) 3
(स्त्.इ) शतं सहस्राणि सुवर्णकोट्य
जांबूनदा ना(स्य समा भवंति ॥
यो बुद्धचैत्येषु प्रसन्नचित्तः
प्रदीपदानं प्रकरोति विद्वान् । 4)
(स्त्.इ) (श)त्(अं) सहस्राणि सुवर्णवाहाः
जांबूनदा ना(स्य स)मा भवंति ॥
यो बुद्धचैत्येषु प्रस(न्नचित्तो
मालाविहारं प्रकरोति विद्वान् । 5)
(स्त्.इ) (शतं सहस्राणि सुवर्णपर्)व्(अ)ताः
मेरोः समा नास्य समा भवंति ॥
यो बुद्ध्(अचैत्येषु प्रस)न्नचित्त
आरोपयेच् छत्रध्वजं पता(कम् । 6)
(स्त्.इ) (एषाहो दक्षिणा प्रोक्ता
अप्रमेया तथागते ॥
समुद्रकल्पे) संबुद्धे
स्(आ)र्थवाहे अनुत्तरे (।) 7
(स्त्.इ) तिष्ठन्तं पूजयेद् यश् च
यश् चापि परिनिर्वृतम् (॥
समे चित्तप्रसादे हि
नास्ति पुण्यविशेषता । 8)
(स्त्.इ) (न हि चित्ते प्रसन्ने ऽस्मि)म्*
स्वल्पा भ(वति) दक्षिणा ॥
तथागते वा संबुद्धे
बुद्धानां श्रावकेषु वा (।) 9
(स्त्.इ) एवं (ह्य् अचिन्तिता बुद्धा
बुद्धधर्मो ऽप्य् अचिन्तितः ॥
अचिन्तिते प्रसाद्येह
विपाकः स्याद् अचिन्तितः ।) 10
(स्त्.इ) तेषाम् अचिन्तितान्(आम्
अप्रतिहतधर्म)चक्रवर्तीनाम् (॥)
सम्यक्संबुद्धानां नालं
(गुणपारम् अधिगन्तुम् । 11)
<25.24 (उद्दानम्* ।) च्f. ब्ल्. (185) र् 6:
.. चलकल्पा विष्णु(द्वीपं कपिलवस्तु) + राजगृहं पश्चिमं ज्ञेयम्* रामश् च रो>
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0