भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 14

14.1

(भगवान् तत्रैव वेणुग्रामके वर्षाम् उपगत आनन्देन भिक्षुणोपस्थाय)क्(ए)न ॥

14.2

त्(अस्य) ख्(अल्)उ (वर्षोपगतस्योत्पन्नः खर आबाधः प्रगाढा वेदना मारणान्तिका ॥)

14.3

(अथ भगवत एतद् अभवत् ॥)

14.4

(उत्पन्नो मे खर आबाधः प्रगाढा वे)दना मारणान्तिका विप्रक्रान्त(श् च भिक्षुसंघः ॥)

14.5

(न मम प्रतिरूपं स्याद् यद् अहं विप्रक्रान्ते भिक्षुसंघे परिनिर्वायाम् ॥ यन् न्व् अहं तत एकत्या वेदना वी)र्येण प्र्(अ)तिप्रस्रभ्य सर्वनिमि(त्तानाम् अमनसिकाराद् आनिमित्तं चेतःसमाधिं कायेन साक्षीकृत्वोपसंपद्य विहरेयम् ॥)

14.6

(अथ भगवान् तत ए)कत्या वेदना वीर्येण प्रतिप्रस्र(भ्य) सर्वनिमित्ता(नाम् अमनसिकाराद् अनिमित्तं चेतःसमाधिं कायेन साक्षीकृत्वोपसंपद्य व्यहार्षीत् ॥ तेन तथागतस्य क्षेमणी)यतरञ् चाभूद् यापनीयतर(ञ् च ॥)

14.7

(अथायुष्मान् आ)नन्दः स्(आ)याह्न्(ए) प्रतिस्(अंलयनाद् व्युत्थाय येन भगवांस् तेनोपजगाम ॥ उपेत्य भगवतः पादौ शिरसा व)न्दित्वैकान्ते ऽस्थात् ॥

14.8

एकान्तस्थित्(अ आयुष्मान् आनन्दो भगवन्तम् इदम् अ)वोचत् ॥

14.9

अपि मे भद(न्)त म्. .............. लपन्ते भगवत इमम् एवं .र् .......... (आ)श्वासमात्रम् ॥ न तावद् भगव्(आन् परिनिर्वा)स्यति यावद् भगवान् भिक्षुसं(घ्). .............

14.10

(य)स्यानन्दैवं स्यात् ॥ (ममास्ति भिक्षु)संघ(ः ॥ अहं) भिक्षुसंघं परि(हरिष्यामीति) ......

14.11

(मम खल्व् आ)नन्द नैवं भव(ति ॥ ममास्ति भिक्षु)स्(अ)ंघः ॥ अ(ह)ं (भिक्षुसंघं परिहरिष्यामीति) ................

14.12

..............

14.13

(तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः ॥)

14.14

(न तत्रानन्द तथागतस्य धर्मेष्व् आचार्यमु)ष्टि(र्) यं तथागतः प्रतिच्छादयितव्यं मन्येत ॥ कच्चिन् मे परे न वि(द्युर् इति ॥)

14.15

(उत्पन्नः कदापि तथागतस्य खर आबाधः प्रगाढा वेदना मारणा)न्तिक्(आ ॥)

14.16

तस्य म एतद् अभवत् ॥ उत्पन्नो मे खर आबाधः प्रगाढा वेद(ना मारणान्तिका विप्रक्रान्तश् च भिक्षुसंघः ॥)

14.17

(न मम प्रतिरूपं स्याद् यद् अहं वि)प्रक्रान्ते भिक्षुसंघे परिनिर्वायाम् ॥ यन् न्व् अहं तत एकत्या वेदना वीर्येण प्रतिप्र(स्)र्(अभ्य सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तं चेतःसमा)धिं कायेन साक्षीकृत्वोपसंपद्य विहरेयम् ॥

14.18

सो ऽहं तत (एकत्या वे)दना वीर्येण प्रतिप्रस्र्(अभ्य सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तं चेतःसमाधिं कायेन) साक्षीकृत्वोपसंपद्य व्यहार्षम् ॥ तेन तथागतस्य (क्षेमणीयतरञ् चा)भूद् यापनीयतरञ् (च ॥)

14.19

(पुनर् अपरम् आनन्द तथागतो वृद्धो जीर्णतां प्राप्तो ऽशी)तिके वयसि वर्तते द्वैधानिश्रयेण याप्य्(अते ॥ तद्यथा जीर्णं शकटं द्वैधानिश्रये)ण य्(आ)प्यत एवम् एव (तथागतो वृद्धो जीर्नतां प्राप्तो) ऽशीतिके वयसि वर्तते द्वैधानिश्रयेण या(प्यते ॥)

14.20

(मा तस्मात् त्वम् आनन्द शोच मा क्लाम ॥ कस्मा)द् एव तत् ॥ कुत एतल् लभ्य्(अं यत् तज् जातं भूतं कृतं संस्कृतं वेदयि)तं प्रतीत्यसमुत्पन्नं क्षयधर्मं व्ययधर्मं वि(रोधधर्मं प्रलोकधर्मं न प्ररुज्य)ते ॥ नेदं स्थानं विद्यते ॥

14.21

प्राग् (एव भि)क्षवो मयाख्यातं सर्वैर् इष्टैः कान्तैः प्रियैर् मनापै(र् नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः ॥)

14.22

(तस्माद्) आनन्दैतर्हि मम्(अ वा)त्ययाद् आत्मद्वीपैर् विहर्तव्यम् आत्मशरणैर् धर्मद्वीपैर् ध(र्मशरणैर् अनन्यद्वीपैर् अनन्यशरणैः ॥ तत् कस्माद् धेतोः ॥)

14.23

(ये केचिद् आनन्दैतर्हि मम वात्)ययाद् आत्मद्वीपा आत्मशरणा धर्मद्वीपा धर्मशरणा अनन्यद्वीपा अ(नन्यशरणास् ते ऽग्रं भविष्यन्ति यदुत मम श्र्)आवक्(आणां शिक्षाकामानां ॥)

14.24

(कथं चानन्द भि)क्ष्(उ)र् आत्मद्वीपो भवत्य् आत्मशरणो धर्मद्वीपो धर्मशरणो ऽनन्यद्वीपो ऽनन्यशरणः ॥

14.25

इह भिक्षुर् (अ)ध्य्(आ)त्म्(अं) काय्(ए) कायानुपश्यी विह(रत्य्) आतापी संप्रजानः स्मृतिमा(न्) विनीयाभिध्या लोके दौर्मनस्यम् ॥ बहिर्धा काये ऽध्यात्मबहिर्धा काये ऽध्यात्मं वेदनासु बहिर्धा वेदनास्व् अध्यात्मबहिर्धा वेदनास्व् अध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मबहिर्धा चित्ते ऽध्यात्मं धर्मेषु बहिर्धा धर्मेष्व् अध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी विहरत्य् आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥

14.26

एवं हि भिक्षुर् आत्मद्वीपो भवत्य् आत्मशरणो धर्मद्वीपो धर्मशरणो ऽनन्यद्वीपो ऽनन्यशरणः ॥
<हिएर् इम् तिब्. उद्दान>

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc