भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 15

15.1

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

15.2

आगमयानन्द येन वैशाली ॥

15.3

एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥

15.4

अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्कटह्रद्(अतीरे कू)टागारशालायाम् ॥

15.5

अथ भगवान् प्(ऊ)र्वाह्णे निवस्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविशद् आयुष्मतानन्देन पश्चाच्छ्रमणेन ॥

15.6

अ(थ भगवान्) वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातःप्रतिक्रान्तः ॥

15.7

(पात्रचीवरं प्रतिशमय्य) येन चापालं चैत्यं तेनोपजगाम ॥ उपेत्यान्यतरं वृक्षमू(लं निश्रित्य निष)ण्णो दि(वा)विहाराय ॥

15.8

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

15.9

रमणीयानन्द वैशाली वृजिभूमिश् चापालं चैत्यं सप्ताम्रकं बहुपत्त्रकं ग्(औतमन्य)ग्रोधः शालवनं धुरानिक्षेपणं मल्लानां मकुटबन्धनं चैत्यम् ॥ चित्रो जंबुद्वीपो मधुरं जीवितं मनुष्याणाम् ॥

15.10

यस्य कस्यचिच् चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणः स कल्पं वा तिष्ठेत् कल्पावशेषं वा ॥ तथागतस्यानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः ॥ आकांक्षमाणस् तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा ॥

15.11

एवम् उक्त आयुष्मान् आनन्दस् तूष्णीम् अभूत् ॥ द्विर् अपि त्रिर् अपि भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

15.12

रमणीयानन्द वैशाली वृजिभूमिश् चापालं चै(त्)यं सप्ताम्रकं बहुपत्त्रकं गौतमन्यग्रोधः शालवनं धुरानिक्षेपणं मल्ला(नां मकुटबन्धनं चैत्यम् ॥ चित्रो जंबुद्वीपो मधुरं जीवितं मनुष्याणाम् ॥)

15.13

(यस्य कस्यचिच् चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणः स कल्पं वा तिष्ठेत् कल्पावशेषं वा ॥ तथागतस्यानन्द च)त्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः ॥ आकांक्षमाणस् तथागतः कल्(पं वा तिष्ठेत् कल्पावशेषं वा ॥)

15.14

(द्विर् अपि त्रिर् अप्य् आयुष्मान् आनन्दस् तूष्णीम् ॥)

15.15

(अथ भगवत एतद् अ)भवत् ॥ स्फ्(उ)टो बतायम् आनन्दो भिक्षुर् मारेण पापीयसा यत्रेदानीं यावत् त्रिर् अप्य् औ(दारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तम् आज्ञातुं यथापि ततः स्फु)टो म्(आ)रेण पापीयसा ॥

15.16

इति विदित्वायुष्मन्तम् आनन्दम् आमन्त्रयते ॥

15.17

गच्छा(नन्दान्यतरवृक्षमूलं निश्रित्य विहर मा उभाव् अप्य् आकीर्ण)विहारिणौ भविष्यावः ॥

15.18

एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रु(त्यान्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc