भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 13

13.1

तत्र भगवान् आयुष्मन्तम् आनन्दम् आम(न्)त्रयत्(ए) ॥

13.2

आगमयानन्द येन वेणुग्रामकः ॥

13.3

एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवत(ः प्रत्)य्(अ)श्रौषीत् ॥

13.4

अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वेणुग्रामकम् अनुप्राप्तो वेणुग्रामके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने ॥

13.5

तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन ॥

13.6

तत्र भगवान् भिक्षून् आमन्त्रयते ॥

13.7

एतर्हि भिक्षवो दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभो पिण्डको याचनकेन ॥

13.8

एत यूयं भिक्षवो यथासंस्तुतिकया यथासंलप्तिकया यथासंप्रेमिकया वैशालीसम(न्)तकेन वृजिग्रामकेषु वर्षाम् उपगच्छत ॥

13.9

अहम् अप्य् अस्मिन्न् एव वेणुग्रामके वर्षाम् उपगमिष्याम्य् आनन्देन भिक्षुणोपस्थायकेन ॥ मा सर्व एव पिण्डकेन क्(लाम)थ ॥

13.10

एवं भ्(अदन्तेति) ते भिक्षवो भगवतः प्रतिश्रुत्य

13.11

यथासंस्तुतिकया यथासंलप्त्(इ)क(य्)आ य्(अथासंप्रेमिकया वैशालीसमन्तकेन वृजिग्रामकेषु वर्षाम् उपगताः ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc