महापरिनिर्वाणसूत्र · अध्याय 11
(अश्रौषुर् वैशालका लिच्छवयः ॥ भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीम् अनुप्रा)प्(त्)ओ वै(शा)ल्यां विहरत्य् आम्रपालिवने ॥
(श्रुत्वा प्रत्येकप्रत्येकं भद्रेषु यानेष्व् अधिरुह्य) ........... माणाभिर्
ए(क)त्या नीलाश्वा नीलरथा नी(लप्रग्रहप्रतोदा नीलोष्णीषा नीलच्छत्रखड्गकोशा नीलमणिदण्डकचामरा नीलवस्त्रालंकारविलेपना नीलपरिवारा)
एकत्याः (पीता)श्वाः पीतरथाः पीतप्रग्रह्(अप्रतोदाः पीतोष्णीषाः पीतच्छत्रखड्गकोशाः पीतमणिदण्डकचामराः पीतवस्त्रालंकारविलेपनाः पीतपरिवारा ॥)
(एकत्या लोहिताश्वा) लोहितरथा लोहितप्रग्रहप्रतोदा ल्(ओहितोष्णीषा लोहितच्छत्रखड्गकोशा लोहितमणिदण्डकचामरा लोहितवस्त्रालंकारविलेपना लोहितपरिवारा)
(एकत्याः श्वेताश्वाः श्)व्(एत)र्(अ)थाः श्वेतप्रग्रहप्रतोदाः श्व्(ए)तोष्णीष्(आः श्वेतच्छत्रखड्गकोशाः श्वेतमणिदण्डकचामराः श्वेतवस्त्रालंकारविलेपनाः श्वेतपरिवारा)
(उच्चशब्दं प्रक्ष्वेडयन्तो महाशब्दं प्रक्ष्वेडयन्तो वैशाल्या निष्क्रम्य येन भगवांस् तेनोपजग्मुर् भग)वद्दर्शनाय्(अ भ)गवन्तं पर्युपासनायै ॥
(अद्राक्षीद् भगवान् वैशलकाल् लिच्छवीन् दूराद् एवागच्छतो दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते ॥)
............... वैशालका(ल् लि)च्छवीन् पश्यथ ॥ अनयर्द्(ध्या) ........
तेषां यावद् यानभूमिस् ताव्(अद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपजग्मुर् उपे)त्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्(यषीदन् ॥)
(एकान्तनिषण्णान् वैशालकाल् लिच्छवीन् भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥)
(तेन ख)लु समयेन पैङ्गिको माणवस् त्(अस्मिन् समाजे) सन्निषण्णो ऽभूत् सन्निपतितः ॥ अ(थ पैङ्गिको माणव उत्थायासनाद् एकांसं चीवरं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ॥)
(प्रति)भाति मे भगवन् प्रतिभाति मे सु(गत ॥)
(प्रतिभातु ते पैङ्गिकेति भगवान् अवोचत् ॥)
(अथ पैङ्गिको माणवो गाथा बभाषे ॥)
+ + + + + + + + धारिणो
लाभा सुलब्धा मगधे + + + ॥
+ + + + + + + + + + +
+ + + + + + + + + + + । 1
+ + + + + + + + + + +
+ + + + (फु)ल्लम् उपेतगन्धम् ॥
अङ्गीरसं + + + + + + +
+ + + + + + + + + + + । 2
+ + + + + + + + + + +
+ + + + + + + + + + +
(चक्षु)ष्करालोककरा भवन्ति
य उ + + + + + + + + + । 3
..............
.............. तैः पञ्चोत्तरासङ्गशतानि सो .........
(अथ भगवान् वैशालकाल् लिच्छवीन् धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत् ॥)
(अथ वैशालका लिच्छवय उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्ज)लिं प्रणम्य भगवन्तम् इदम् अवो(चन् ॥)
(अधिवासयतु नो भगवाञ् श्वो भक्तेन सार्धं भिक्षुसंघेन ॥)
(निमन्त्रितो ऽस्मि वासिष्ठास् तत्प्रथमत आम्रपाल्या ॥)
(भ)दन्ताम्रपाल्याम्बकया अ ................... (पुनर् वयं भदन्तोपस्थास्यामो भगवन्तं भिक्षुसं)घं च ॥
कल्याणम् इदं वासिष्ठा उ(क्तम् ॥)
(अथ वैशालका लिच्छवयो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दि)त्वा भगवतो ऽन्तिकात् प्र्(अ)क्रान्ताः ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0