भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 12

12.1

(अथाम्रपालिस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थाय आसनकानि प्रज्ञ)प्योदकमणिं प्रतिष्ठाप्य भ(गवतो दूतेन कालम् आरोचयति ॥)

12.2

(समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ् गौतमः कालं मन्यते ॥)

12.3

(अथ भगवान् पूर्वाह्णे निवस्य पा)त्रचीवरम् आदाय भिक्षुसंघप(रिवृतो भिक्षुसंघपुरस्कृतो येनाम्रपाल्या गणिकाया भक्ताभिसारस् तेनोपजगाम ॥ उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्य)षीदत् ॥

12.4

अथाम्रपालिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शु(चिन्)आ प्रणीते(न खादनी)यभोजनीयेन स्वहस्तं सन्तर्पयति संप्रवारयति ॥ शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयित्वा संप्रवारयित्वा

12.5

भगवन्तं भुक्तव्(अन्)त्(अं) विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरकम् आसनं गृहीत्वा भगवतः पुरतो निषण्णा धर्मश्रवणाय ॥

12.6

अथ भगवान् आम्रपाल्यास् तद् दानम् अनयाभ्यनुमोदनयाभ्यनुमोदते ।

12.7

ददत् प्रियो भवति भजन्ति तं जनाः
कीर्तिं समाप्नोति यशश् च वर्धते ॥
अम(द्)गु(भू)तः परिषदं विगाहते
विशारदो भवति नरो ह्य् अमत्सरी । 1

12.8

तस्माद् धि दानानि ददति पण्डिता
विनीय मात्सर्यमलं सुखैषिणः ॥
ते दीर्घरात्रं त्रिदशे प्रतिष्ठिता
देवानां स्वभावगता रमन्ति त्(ए) । 2

12.9

कृतायुषाः कृतकुशला इतश् च्युताः
स्वयंप्रभा अनुविचरन्ति नन्दने ॥
(ते) तत्र क्रीडन्ति रमन्ति चोभयं
समर्पिताः कामगुणैस् तु पञ्चभिः ॥
श्रुत्वेह वाक्यम् असितस्य तायिनः
स्वर्गे रमन्ते सुगतस्य श्रावकाः । 3

12.10

अथ भगवान् आम्रपालि(ं) धार्म्य्(आ) कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात् प्रक्रान्तः ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc