महापरिनिर्वाणसूत्र · अध्याय 10
(तत्र भगवान् आ)युष्मन्तम् आनन्दम् आमन्त्रयते ॥ आगमयानन्द येन वैशाली ॥
(एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् ॥)
(अथ भगवान् वृजिषु जनपदे)षु चर्यां चरन् वैशालिम् अनुप्राप्तो वैशाल्यां विहरत्य् आम्र(पालिवने ॥)
(अश्रौषीद् आम्रपालिर् गणिका ॥ भगवाङ् गौतमो वैशालीम् अनु)प्राप्तो वैशाल्यां विहरत्य् अस्माकम् एवाम्रवने ॥
श्रुत्वा च पुनः सर्वाल्(अंकारैर् अलंकृता स्त्रीगणम् अन्वाहिण्डयित्वा भद्रं यानम् अधिरुह्य वैशाल्या निर्याति भगवतो ऽन्तिकेनोपदर्श)नाय भगवन्तं पर्युपासनायै ॥
तस्या यावद् यानभूमिस् तावद् यानेन ग्(अत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपसंक्रान्ता ॥)
(अद्राक्षीद् भगवान् अनेकशतभिक्षुपरिवारे सन्निषण्ण आम्रपालिं दूराद् आगच्छन्तीं) दृष्ट्व्(आ) च पुन(र्) भ्(इ)क्षून् आमन्त्रयते ॥
आतापिनो भिक्षवो विह(रत संप्रजानाः प्रतिस्मृताः ॥ आम्रपालिर् गणिकात्रागता ॥)
(कथं च भिक्षुर् आता)पी भवति ॥
इह भिक्षुर् उत्पन्नानां पापकानाम् अकुशलानां धर्माण्(आं प्रहाणाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधाति ॥)
(अ)नुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पाद्(आय च्छन्दं जनयति पूर्ववत् ॥
अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय च्छन्दं जन)यति पूर्ववत् ॥
उत्पन्नानां कुशलानां धर्माणां स्थितये (भूयोभावताया असंप्रमोषाय परिपूरणाय वैपुल्याय च्छन्दं जनयति पूर्ववत् ॥ अयं) भ्(इ)क्षुर् आतापी भवति ॥
कथञ् च भिक्षुः संप्रजानो भवति ॥
इह भि(क्षुर् अभिक्रान्ते प्रतिक्रान्ते संप्रजानो भवत्य् आलोकिते विलोकिते संमिञ्जिते प्रसारि)त्(ए) संघाटीचीवरपात्रधारणे गते स्थिते निषण्णे शयिते जागरिते (भाषिते तूष्णींभावे सुप्ते श्रमे विश्रमे संप्रजानो भवति ॥ अयं भिक्षुर् संप्रजा)नो भवति ॥
कथञ् च भिक्षुः प्रतिस्मृतो भवति ॥
इह भिक्षुर् अध्यात्मं का(ये कायानुपश्यी विहरत्य् आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥ बहिर्धा का)ये ऽध्यात्मबहिर्धा काये ऽध्यात्मं वेदनासु बहिर्धा वेदनास्व् (अध्यात्मबहिर्धा वेदनास्व् अध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मबहिर्धा चित्ते ऽध्यात्मं धर्मे)षु बहिर्धा धर्मेष्व् अध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी वि(हरत्य् आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥ अयं भिक्षुः प्रति)स्मृतो भवति ॥
आतापिनो भिक्षवो विहरत संप्रजानाः प्र(तिस्मृताः ॥ आम्रपालिर् गणिकात्रागतेत्य् एव मयाख्यात)म् ॥
अथ्(आ)म्रप्(आ)लिर् येन भगवांस् तेनोपजगाम ॥ उपेत्य भगवत्पादौ शि(रसा वन्दित्वैकान्ते न्यषीदत् ॥)
(एकान्तनिषण्णाम् आम्रपालिं भगवान् धार्म्या कथया) पूर्ववद् यावत् संप्रहर्षयित्वा तूष्णीम् अभूत् ॥
अथ आम्रपालि(र् उत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ॥)
(अधिवास)यतु मे भगवा(ञ्) श्वो भक्तेन सार्ध्(अं) भिक्षु(संघेन ॥)
(अधिवासयति भगवां तूष्णींभावेन ॥ अथ आम्रपालिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा) भगवत्पादौ शिरसा वन्दित्वा भगवतो (ऽन्तिकात् प्रक्रान्ता ॥)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0