महाभारततात्पर्यनिर्णय · भाग 81100
धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्च । 12.94 ।
यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे ।
प्रवर्त्यमाने स्वपुरं हरेयुश्चौर्यात् परे तद् द्वयमत्र योग्यम् । 12.95 ।
शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं त् आदृशमाह्वयातः ।
शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः । 12.96 ।
नवै सुपर्णः सुतदो नरेषु प्रजायते वाऽस्य यतस्तथाऽज्ञा ।
कृत् आ पुरा हरिणा ण्सङ्करस्तु क्रोधात्मकः पालने नैव योग्यः । 12.97 ।
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट्।
इतीरिता साऽह्वयदाण्सु वासवं ततः प्रजज्ञे स्वयमेव शक्रः । 12.98 ।
स चार्जुनो नाम नरां शयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता ।
रूप्यन्यः स्यात् सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात् । 12.99 ।
बृहस्पतिः पूर्वमभूद्धरेः पदं सं सेवितुं पवनावेशयुक्तः ।
स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात् । 12.100 ।
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव ।
स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य । 12.101 ।
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता ।
वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्च तस्मिन् । 12.102 ।
मरुत्सु नाम प्रतिभो यदुष्वभूत् स चेकितानो हरिसेवनार्थम् ।
तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः । 12.103 ।
ततोऽब्दतो भूभरसं हृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट ।
अण्स्वत्थामा नामतोऽश्वध्वनिं स यस्माच्चक्रे जायमानो महात्मा । 12.104 ।
च्xxxइx.स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत् ।
दुर्योधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः । 12.105 ।
यदा समासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः ।
बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत् । 12.106 ।
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम् ।
कं सेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराण्स्च । 12.107 ।
विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कं सः ।
स्थानान्तरे प्रसवो यावदासां सं स्थापयामास सुपापबुद्धिः । 12.108 ।
हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी ।
लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम् । 12.109 ।
यदा त्रिमासः स बभूव देवस्तदाऽविरासीत् पुरुषोत्तमोऽजः ।
कृष्णण्सेषावाप्तुकामौ सुतौ हि तपश्चक्राते देवकीशूरपुत्रौ । 12.110 ।
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च।
तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः । 12.111 ।
अवर्द्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः ।
कृष्णोऽपि लील् आ लल् . इत् आः प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम् । 12.112 ।
स प्राकृतं शिशुमात्मानमुच्चैर्विजानन्त्या मातुरादर्शनाय ।
विजृम्भमाणोऽखिलमात्मसं स्थं प्रदर्शयामास कदाचिदीशः । 12.113 ।
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः ।
सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा । 12.114 ।
न्यमीलयच्चाक्षिणी भीतभीत् आ जुगूह चाऽत्मानमथो रमेशः ।
वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयं स्तद्ध्यदर्शयत् । 12.115 ।
कदाचित् तं ल् आल् . अयन्ती यशोदा वोढुं नाण्सक्नोद् भूरिभाराधिकार्ता ।
च्xल्.निधाय तं भूमितल् . ए स्वकर्म यदा चक्रे दैत्य आगात् सुघोरः । 12.116 ।
तृणावर्तो नामतः कं सभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातः शिशुं तम् ।
आदायाऽयादन्तरिक्षं स तेन शस्तः कण्ठग्राहसं रुद्धवायुः । 12.117 ।
पपात कृष्णेन हतः शिलातल् . ए तृणावर्तः पर्वतोदग्रदेहः ।
सुविस्मयं चाऽपुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णित् आङ्गम् । 12.118 ।
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम् ।
स क्रुद्ध्यतां नवनीत् आदि मृष्णं श्चचार देवो निजसत्सुखाम्बुधिः । 12.119 ।
यस्मिन्नब्दे भाद्रपदे स मासे सिं हस्थयोर्गुरुरव्योः परेशः ।
उदैत् ततः फाल्गुने फल्गुनोऽभूद् गते ततो माद्रवती बभाषे । 12.120 ।
ज् आताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात् ।
तवैव भूयासमहं सुतेता विधत्स्व कुन्तीं मम मन्त्रदात्रीम् । 12.121 ।
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम् ।
इत्यूचिवां सं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय । 12.122 ।
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति ।
मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत् स्यां नु कथं द्विपुत्रा । 12.123 ।
सदाऽवियोगौ दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि ।
एका भार्या सैतयोरप्युषा हि तदायातः सकृदावर्तनाद् द्वौ । 12.124 ।
इतीक्षन्त्याऽकारितावश्विनौ तौ शीघ्रप्राप्तौ पुत्रकौ तत्प्रसूतौ ।
त् आवेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत् पश्चिमस्तौ यमौ च । 12.125 ।
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता ।
पृथाऽवादीत् कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ । 12.126 ।
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीत् आं न मां त्वम् ।
नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः । 12.127 ।
च्xलि.विशेषनाम्नैव समाहुतः सुतान् दद्युः सुरा इत्यविशेषितं ययोः ।
विशेषनामापि समाह्वयत् तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता । 12.128 ।
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽथो विशेषात् ।
युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ । 12.129 ।
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः ।
शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम् । 12.130 ।
शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश ।
गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदान्तरात्मा । 12.131 ।
सुपुल्लवाकारतनुर्हि कोमल् . अः प्रायो जनैः प्रोच्यते रूपशाली ।
ततः सुजातं वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत् । 12.132 ।
अप्राकृत् आनां तु मनोहरं यद् रूपं द्वात्रिं शल्लक्षणोपेतमग्र्यम् ।
तन्मारुतो नकुले कोमल् . आभ एवं वायुः पञ्चरूपोऽत्र चाऽसीत् । 12.133 ।
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः ।
स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत् तृतीयः । 12.134 ।
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च ।
पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः । 12.135 ।
क्रमात् सं स्कारान् क्षत्रियाणामवाप्य तेऽवर्द्धन्त स्वतवसो महित्वना ।
सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः । 12.136 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पॣअण्डवोत्पत्तिर्नाम द्वादशोऽध्यायः
च्xलिइ.(कं सवधः )
अथ त्रयोदशोऽध्यायः
ओं । गर्गः शूरसुतोक्त्या व्रजमायात् सात्त्वतां पुरोधाः सः ।
चक्रे क्षत्रिययोग्यान् सं स्कारान् कृष्णरोहिणीसून्वोः । 13.1 ।
ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः ।
सर्वे चैतत्त्राताः सुखमाप्स्यन्त्युन्नतं भवत्पूर्वाः । 13.2 ।
इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाऽद्यः ।
स्वपदैरग्रजयुक्तश्चक्रे पुण्यं व्रजन् व्रजोद्देशम् । 13.3 ।
स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः ।
अपनेतुं परमेशो मृदं जघासेक्षतां वयस्यानाम् । 13.4 ।
मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षित् आऽहं ।
पश्येत्यास्यान्तरे तु प्रकृतिविकृतियुक् सा जगत् पर्यपश्यत् ।
इत्थं देवोऽत्यचिन्त्यामपरदुरधिगां शक्तिमुच्चां प्रदर्श्य
प्रायो ज्ञातात्मतत्त्वां पुनरपि भगवानावृणोदात्मशक्त्या । 13.5 ।
इति प्रभुः स लीलया हरिर्जगद् विडम्बयन् ।
चचार गोष्ठमण्डलेऽप्यनन्तसौख्यचिद्धनः । 13.6 ।
कदाचिदीश्वरः स्तनं पिबन् यशोदया पयः ।
शृतं निधातुमुज्झितो बभञ्ज दध्यमत्रकम् । 13.7 ।
स मथ्यमानदध्युरुप्रजातमिन्दुसन्निभम् ।
नवं हि नीतमाददे रहो जघास चेशिता । 13.8 ।
प्रजायते हि यत्कुले यथा युगं यथा वयः ।
तथा प्रवर्तनं भवेद् दिवौकसां समुद्भवे । 13.9 ।
इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन् ।
अधर्मपावकोऽपि सन् विडम्बते जनार्दनः । 13.10 ।
च्xलिइइ.नृतिर्यगादिरूपकः स बाल्ययौवनादि यत् ।
क्रियाण्स्च तत्तदुद्भवाः करोति शाण्स्वतोऽपि सन् । 13.11 ।
स विप्रराजगोपकस्वरूपकस्तदुद्भवाः ।
तदातदा विचेष्टते क्रियाः सुरान् विशिक्षयन् । 13.12 ।
तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः ।
प्रकाण्सयन् पुनः पुनः प्रदर्शयत्यजो गुणान् । 13.13 ।
अथाऽत्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः ।
प्रपुप्लुवे तमन्वयान्मनोविदूरमङ्गना । 13.14 ।
पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम् ।
प्रभुः स्वभक्तवश्यतां प्रकाण्सयन्नुरुक्रमः । 13.15 ।
सदा विमुक्तमीश्वरं निबद्धुमञ्जसाऽददे ।
यदैव दाम गोपिका न तत् पुपूर तं प्रति । 13.16 ।
समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम् ।
ययावनन्तविग्रहे शिशुत्वसम्प्रदर्शके । 13.17 ।
अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः ।
स एकवत्सपाण्सकान्तरं गतोऽखिलम्भरः । 13.18 ।
सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्वरः ।
बभञ्ज तौ दिविस्पृशौ यमार्जुनौ सुरात्मजौ । 13.19 ।
पुरा धुनिश्चुमुस्तथाऽपि पूतनासमन्वितौ ।
अनोक्षसं युतौ तपः प्रचक्रतुः शिवां प्रति ।
तया वरोऽप्यवध्यता चतुर्षु च प्रयोजितः । 13.20 ।
अनन्तरं तृणोद्भृमिस्तपोऽचरद् वरं च तम् ।
अवाप ते त्रयो हताः शिशुस्वरूपविष्णुना । 13.21 ।
धुनिश्चुमुश्च तौ तरू समाण्स्रितौ निसूदितौ ।
च्xलिव्.तरुप्रभङ्गतोऽमुना तरू चशापसम्भवौ । 13.22 ।
पुरा हिनारदान्तिके दिगम्बरौ शशाप सः ।
धनेशपुत्रकौ द्रुतं तरुत्वमाप्नुतं त्विति । 13.23 ।
ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ ।
अवापतुः स्तुतिं प्रभोर्विधाय जग्मतुर्गृहम् । 13.24 ।
नल् . अकूबरमणिग्रीवौ मोचयित्वा तुशापतः ।
वासुदेवोऽथ गोपालैर्विस्मितैरभिवीक्षितः । 13.25 ।
वृन्दावनयियासुः स नन्दसूनुर्बृहद्वने ।
ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले । 13.26 ।
अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः ।
युयुर्वृन्दावनं नित्यानन्दमादाय नन्दजम् । 13.27 ।
इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः ।
नन्दयामास नन्दादीनुद्दामतरचेष्टितैः । 13.28 ।
स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा ।
सं युतो रौहिणेयेन वत्सपालो बभूव ह । 13.29 ।
दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कं सानुगं हरवरादपरैरवध्यम् ।
प्रक्षिप्य वृक्षण्सिरसि न्यहनद् बकोऽपि कं सानुगोऽथ विभुमच्युतमाससाद । 13.30 ।
स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः ।
चच्छर्द तुण्डण्सिरसैव निहन्तुमेतमायान्तमीक्ष्य जगृहेऽस्य स तुण्डमीशः । 13.31 ।
तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाऽशु विददार ह पक्षिदैत्यम् ।
ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः सायं ययौ व्रजभुवं सहितोऽग्रजेन । 13.32 ।
एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम् ।
प्राप्तो गवामखिलपोऽपि स पालकोऽभूद् वृन्दावनान्तरगसान्द्रलताविताने । 13.33 ।
च्xल्व्.ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनाजलेषु ।
रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बाधनाय निजमग्रमेषु सोऽधात् । 13.34 ।
स ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात् ।
विज्ञाय तद्विषविदूषितवारिपानसन्नान् पशूनपि वयस्यजनान् स आवीत् । 13.35 ।
तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्चशाखम् ।
"कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढरशनो न्यपतद् विषोदे । 13.36 ।
सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छवसिताम्बुराण्सिः ।
पर्युप्लुतो विषकषायविभीषणोर्मिभीमो धनुः शतमनन्तबलस्य किं तत्" 70 । 13.37 ।
तं यामुनह्रदविलोल् . अकमाप्य नागः काल् . यो निजैः समदशत् सह वासुदेवम् ।
भोगैर्बबन्ध च निजेश्वरमेनमज्ञः सेहे तमीश उत भक्तिमतोऽपराधम् । 13.38 ।
उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राऽजगाम हलिना प्रतिबोधितोऽपि ।
दृष्ट्वा निजाण्स्रयजनस्य बहोः सुदुःखं कृष्णः स्वभक्तमपि नागममुं ममर्द । 13.39 ।
तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः ।
आर्तो मुखैरुरु वमन् रुधिरं स नागो नारायणं तमरणं मनसा जगाम । 13.40 ।
तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम् ।
दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्यो नेमुश्च सर्वजगदादिगुरुं भुवीशम् । 13.41 ।
त् आभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम् ।
उत्सृज्य निर्विषजलां यमुनां चकार सं स्तूयमानचरितः सुरसिद्धसाध्यैः । 13.42 ।
गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्द्धं समेत्य भगवानरविन्दनेत्रः ।
त् आं रात्रिमत्र निवसन् यमुनातटे सदावाग्निमुद्धतबलं च पपौ व्रजार्थे । 13.43 ।
इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ ।
कुर्वत्यजे व्रजभुवामभवद् विनाण्स उग्राभिधादसुरतस्तरुरूपतोऽलम् । 13.44 ।
70 भा. पु. 10.14.6-7
च्xल्वि.तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहल् . अरोगनिपीडित् आनि ।
धातुर्वराज्जगदभावकृतैकबुद्धिर्वद्ध्यो न केनचिदसौ तरुरूपदैत्यः । 13.45 ।
सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम् ।
कृत्वा बभञ्ज विषवृक्षममुं बलेन तस्यानुगैः सह तदाकृतिभिः समस्तैः । 13.46 ।
दैत्यां श्च गोवपुष आत्तवरान् विरिञ्चान्मृत्यूज्झितानपि निपात्य ददाह वृक्षान् ।
विक्रीड्य रामसहितो यमुनाजले स नीरोगमाण्सु कृतवान् व्रजमब्जनाभः । 13.47 ।
सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान् ।
हत्वा सुतामलभदाण्सु विभुर्यशोदाभ्रातुः स कुम्भकसमाह्वयिनोऽपि नील् आम् । 13.48 ।
या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे ।
स्यात् कृष्णजन्मनि समस्तवराङ्गनाभ्यः पूर्वं त्विति स्म तदिमां प्रथमं स आप । 13.49 ।
अग्रे द्विजत्वत उपावहदेष नील् आं गोपाङ्गना अपि पुरा वरमापिरे यत् ।
सं स्कारतः प्रथममेव सुसङ्गमो नो भूयात् तवेति परमाप्सरसः पुरा याः । 13.50 ।
तत्राथ कृष्णमवदन् सबलं वयस्याः पक्वानि तालसुफलान्यनुभोजयेति ।
इत्यर्थितः सबल आप स तालवृन्दं गोपैर्दुरासदमतीव हि धेनुकेन । 13.51 ।
विघ्नेशतो वरमवाप्य स दुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत् ।
नित्योद्धतः स उत राममवेक्ष्य तालवृन्तात् फलानि गल् . अयन्तमथाभ्यधावत् ।
तस्य प्रहारमभिकाङ्क्षत आण्सु पृष्ठपादौ प्रगृह्य तृणराजशिरोऽहरत् सः । 13.52 ।
तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराण्स्च खरतालवनान्तरस्थाः ।
प्रापुः खरस्वरतरा खरराक्षसारिं कृष्णं बलेन सहितं निहताण्स्च तेन । 13.53 ।
सर्वान् निहत्य खररूपधरान् स दैत्यान् विघ्नेश्वरस्य वरतोऽन्यजनैरवध्यान् ।
पक्वानि तालसुफलानि निजेषु चादाद् दुर्वारपौरुषगुणोद्भरितो रमेशः । 13.54 ।
पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कं सविसृष्ट आगात् ।
कृष्णस्य पक्षिषु जयत्सु स राममेत्य पापः पराजित उवाह तमुग्ररूपः । 13.55 ।
भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्त्यै ।
च्xल्विइ.तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलम्बमुरुमुष्टिहतं चकार । 13.56 ।
तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्च ।
वह्निं पपौ पुनरपि प्रदहन्तमुच्चैर्गोपां श्च गोगणमगण्यगुणार्णवोऽपात् । 13.57 ।
कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधाऽर्दिततरा वयमित्युदारम् ।
सोऽप्याह सत्रमिह विप्रगणाण्स्चरन्ति तान् याचतेति परिपूर्णसमस्तकामः । 13.58 ।
त् आन् प्राप्य काममनवाप्य पुनश्च गोपाः कृष्णं समापुरथ तानवदत् स देवः ।
पत्नीः समर्थयत् मद्वचनादिति स्म चक्रुश्च ते तदपि ता भगवन्तमापुः । 13.59 ।
त् आः षड्विधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून् ।
आत्मार्चनैकपरमा विससर्ज कृष्ण एका पतिप्रविधुता पदमाप विष्णोः । 13.60 ।
भुक्त्वाऽथ गोपसहितो भगवां स्तदन्नं रेमे च गोकुलमवाप्य सम्स्तनाथः ।
आज्ञातिलङ्घनकृतेः स्वकृत् आपराधात् पश्चात् सुतप्तमनसोऽप्यभवन् स्म विप्राः । 13.61 ।
कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान् न्यवारयदविस्मरणाय तस्य ।
मा मानुषोऽयमिति मामवगच्छतां स इत्यव्ययोऽस्य विदधे महभङ्गमीशः । 13.62 ।
गोपां श्च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य ।
भूत्वाऽतिविस्तृततनुर्बुभुजे बलिं स नानाविधान्नरसपानगुणैः सहैव । 13.63 ।
इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै ।
ते प्रेरिताः सकलगोकुलनाण्सनाय धारा वितेरुरुनागकरप्रकाराः । 13.64 ।
त् आभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार ।
वामेन कञ्जदलकोमल् . अपाणिनैव तत्राखिलाः प्रविविशुः पशुषाः स्वगोभिः । 13.65 ।
वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं समीक्ष्य हरिणा व्रजमश्रमेण ।
शक्रोऽनुसं स्मृतसुरप्रवरावतारः पादाम्बुजं यदुपतेः शरणं जगाम । 13.66 ।
तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम् ।
गोभृद् गुरुं हरगुरोरपि गोगणेन युक्तः सहस्रगुरगाधगुमग्र्यमग्र्यात् । 13.67 ।
च्xल्विइइ.त्वत्तो जगत् सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते ।
अत्सि त्वयैव जगतोऽस्य हि बन्धमोक्षौ न त्वत्समोऽस्ति कुहचित् परिपूर्णण्सक्ते । 13.68 ।
क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्सं श्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः ।
क्षान्तं सदैव भवतस्तव शिक्षणाय पूजापहारविधिरित्यवदद् रमेशः । 13.69 ।
गोविन्दमेनमभिषिच्य स गोगणेतो गोभिर्जगाम गुणपूर्णममुं प्रणम्य ।
गोपैर्गिराम्पतिरपि प्रणतोऽभिगम्य गोवर्द्धनोद्धरणसङ्गतसं शयैः सः । 13.70 ।
कृष्णं ततः प्रभृति गोपगणा व्यजानन् नारायणोऽयमिति गर्गवचश्च नन्दात् ।
नारायणस्य सम इत्युदितं निशम्य पूजां च चक्रुरधिकामरविन्दनेत्रे । 13.71 ।
स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा चरामनिहतं बलिनं प्रलम्बम् ।
चक्रुर्विनिश्चयममुष्य सुराधिकत्वे गोपा अथास्य विदधुः परमां च पूजाम् । 13.72 ।
कात्यायनीव्रतपराः स्वपतित्वहेतोः कन्या उवाह भगवानपराण्स्च गोपीः ।
अन्यैर्धृत् आ अयुगबाणण्सराभिनुन्नाः प्राप्ता निशास्वरमयच्छशिराजितासु । 13.73 ।
त् आस्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्च गोपाः ।
सर्वेऽपि दैवतगणा भगवत्सुतत्वमाप्तुं धरातल् . अगता हरिभक्तिहेतोः । 13.74 ।
त् आस्तत्र पूर्ववरदानकृते रमेशो रामा द्विजत्वगमनादपि पूर्वमेव ।
सर्वा निशास्वरमयत् समभीष्टसिद्धिचिन्तामणिर्हि भगवानशुभैरलिप्तः । 13.75 ।
सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते ।
श्रुत्वा मुकुन्दमुखनिस्सृतगीतसारं गोपाङ्गना मुमुहुरत्र ससार यक्षः । 13.76 ।
रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खलतरोऽपिच शङ्खचूडः ।
त् आः कालयन् भगवतस्तल् . अताडनेन मृत्युं जगाम मणिमस्य जहार कृष्णः । 13.77 ।
नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः ।
शम्भोर्वरादनुगतश्च सदैव कं सं गा भीषयन्तममुमाह्वयदाण्सु कृष्णः । 13.78 ।
सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः ।
भूमौ निपात्य च वृषासुरमुग्रवीर्यं यज्ञे यथा पशुममारयदग्र्यशक्तिः । 13.79 ।
च्xलिx.केशी च कं सविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः ।
पापः स केशवमवाप मुखेऽस्य बाहुं प्रावेशयत् स भगवान् ववृधेऽथ देहे । 13.80 ।
तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः ।
दीर्णः पपात च मृतो हरिरप्यशेषैर्ब्रह्मेशशक्रदिनकृत्प्रमुखैः स्तुतोऽभूत् । 13.81 ।
व्योमश्च नाम मयसूनुरजप्रसादाल्लब्धायुतायुरखिलान् विदधे बिले सः ।
तं श्रीपतिः पशुपतिः पशुवद् विशस्य निः सारितान् बिलमुखादखिलां श्चकार । 13.82 ।
कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे ।
कं साय सर्वमवदत् सुरकार्यहेतोर्ब्रह्माङ्कजो मुनिरकारि यदीशपित्रा । 13.83 ।
श्रुत्वाऽतिकोपरभसोच्चलितः स कं सो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा ।
अक्रूरमाण्स्वदिशदानयनाय विष्णो रामान्वितस्य सह गोपगणै रथेन । 13.84 ।
सं सेवनाय स हरेरभवत् पुरैव नाम्ना किशोर इति यः सुरगायनोऽभूत् ।
स्वायम्भुवस्य च मनोः परमां शयुक्त आवेशयुक् कमलजस्य बभूव विद्वान् । 13.85 ।
सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथाऽस स हि भोजपतेश्च मन्त्री ।
आदिष्ट एव जगदीश्वरदृष्टिहेतोरानन्दपूर्णसुमना अभवत् कृत् आर्थः । 13.86 ।
आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण ।
सञ्चिन्तयन् पथि जगाम स गोष्ठमाराद् दृष्ट्वा पदाङ्कितभुवं मुमुदे परस्य । 13.87 ।
सोऽवेष्टतात्र जगदीशितुरङ्गसङ्गलब्धोच्चयेन निखिलाघविदारणेषु ।
पां सुष्वजेशपुरुहूतमुखोच्चविद्युद्भ्राजत्किरीटमणिलोचनगोचरेषु । 13.88 ।
सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम् ।
आनन्दसान्द्रतनुमक्षयमेनमीक्ष्य हृष्टः पपात पदयोः पुरुषोत्तमस्य । 13.89 ।
उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन् ।
नित्योदिताक्षयचिदप्यखिलं स तस्माच्छुश्राव लोकचरितानुविडम्बनेन । 13.90 ।
श्रुत्वा स कं सहृदि सं स्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह ।
च्ल्.रामश्वफल्कतनयाभियुतो जगाम यानेन तेन यमुनातटमव्ययात्मा । 13.91 ।
सं स्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्वाफल्किराण्स्ववततार यमस्वसारम् ।
स्नात्वा स तत्र विधिनैव कृत् आघमर्षः शेषासनं परमपूरुषमत्र चैक्षत् । 13.92 ।
नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्वरः स तु तदा ददृशे हरिं च ।
अग्रे हि बालतनुमीक्ष्य स कृष्णमत्र किं नास्ति यान इति यानमुखो बभूव । 13.93 ।
तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्ज्य शेषोरुभोगशयनं परमं ददर्श ।
ब्रह्मेशशक्रमुखदेवमुनीन्द्रवृन्दसं वन्दिताङ्घ्रियुगमिन्दिरया समेतम् । 13.94 ।
स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह ।
यानं च तेन सहितो भगवान् जगाम सायं पुरीं सहबलो मधुरामनन्तः । 13.95 ।
अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः ।
द्रष्टुं पुरीमभिजगाम नरेन्द्रमार्गे पौरैः कुतूहलयुतैरभिपूज्यमानः । 13.96 ।
आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कं सदयितं गिरिशावरेण ।
मृत्यूज्झितं सपदि तेन दुरुक्तिविद्धः पापं कराग्रमृदितं व्यनयद् यमाय । 13.97 ।
हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चाऽत्मसमितानि बलस्य चाऽदात् ।
दत्वाऽपराणि सखिगोपजनस्य शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चाऽगात् । 13.98 ।
ग्राह्याऽपहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः ।
लोकान् विडम्ब्य नरवत् समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः । 13.99 ।
माला अवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि ।
पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजनपुष्पकरौ पुराऽपि । 13.100 ।
सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे ।
गच्छन् ददर्श वनितां नरदेवयोग्यमादाय गन्धमधिकं कुटिल् आं व्रजन्तीम् । 13.101 ।
तेनार्थिता सपदि गन्धमदात् त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे ।
त् आं चाऽश्वृजुत्वमनयत् स तयाऽर्थितोऽलमायामि कालत इति प्रहसन्नमुञ्चत् । 13.102 ।
च्लि.पूर्णेन्दुवृन्दनिवहाधिककान्तशान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः ।
पीत् आम्बरः कनकभासुरगन्धमाल्यः शृङ्गारवारिधिरगण्यगुणार्णवोऽगात् । 13.103 ।
प्राप्याथ चाऽयुधगृहं धनुरीशदत्तं कृष्णः प्रसं ह्य जगृहे सकलैरभेद्यम् ।
कां सं स नित्यपरिपूर्णसमस्तशक्तिरारोप्य चैनमनुकृष्य बभञ्ज मध्ये । 13.104 ।
तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः ।
शब्दः स येन निपपात भुवि प्रभग्नसारोऽसुरो धृतियुतोऽपि तदैव कं सः । 13.105 ।
आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्च ।
नन्दादिगोपसमितिं हरिरत्र रात्रौ भुक्त्वा पयोऽन्वितशुभान्नमुवास कामम् । 13.106 ।
कं सोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम् ।
मञ्चं विवेश सह जानपदैश्च पौरैर्नानाऽनुमञ्चकगतैर्युवतीसमेतैः । 13.107 ।
सं स्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम् ।
चाणूरमुष्टिकमुखानपि मल्लवीरान् रङ्गे निधाय हरिसं यमनं किलैच्छत् । 13.108 ।
अक्षोहिणी गणितमस्य बलं च विं शदासीदसं ह्यमुरुवीर्यमनन्यवध्यम् ।
शम्भोर्वरादपि च तस्य सुनीथनामा यः पूर्वमास वृक् इत्यसुरोऽनुजोऽभूत् । 13.109 ।
सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कं सपृतनासहिताः स्म रङ्गे ।
तस्थुः सराममभियान्तमुदीक्ष्य कृष्णमात्तायुधा युधि विजेतुमजं सुपापाः । 13.110 ।
कृष्णोऽपि सूर उदिते सबलो वयस्यैः सार्द्धं जगाम वररङ्गमुखं सुरेशैः ।
सं स्तूयमान उरुविक्रम आसुराणां निर्मूलनाय सकल् . आचलितोरुशक्तिः । 13.111 ।
आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाण्स्वपश्यत् ।
दुष्टोरुरङ्गमुखसं स्थितमीक्ष्य चैभ्यं पापापयाहि नचिरादिति वाचमूदे । 13.112 ।
क्षिप्तः स ईश्वरतमेन गिरीशलब्धाद् दृप्तो वराज्जगति सर्वजनैरवध्यः ।
नागं त्ववध्यमभियापयते ततोऽग्रे पापो दुरन्तमहिमं प्रति वासुदेवम् । 13.113 ।
विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ ।
कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य हस्तिपमहन् निपपात सोऽपि । 13.114 ।
च्लिइ.नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसज्ज्य सहाग्रजेन ।
नागेन्द्रसान्द्रमदबिन्दुभिरञ्चिताङ्गः पूर्णात्मशक्तिरमलः प्रविवेश रङ्गम् । 13.115 ।
विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र ।
कञ्जं तथाऽपि कुमुदं च यथैव सूर्य उद्यत्यजेऽनुभविनो विपरीतकाण्स्च । 13.116 ।
रङ्गप्रविष्टमभिवीक्ष्य जगाद मल्लः कं सप्रियार्थमभिभाष्य जगन्निवासम् ।
चाणूर इत्यभिहितो जगतामवध्यः शम्भुप्रसादत इदं शृणु माधवेति । 13.117 ।
राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः ।
योत्स्याव तेन नृपतिप्रियकाम्यया वां रामोऽभियुद्ध्यतु बली सह मुष्टिकेन । 13.118 ।
इत्युक्त आह भगवान् परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः ।
सन्दर्श्य दैवतपतिर्युधि मल्ललील् आं मौहूर्तिकीमथ पदोर्जगृहे स्वशत्रुम् । 13.119 ।
उत्क्षिप्य तं गगनगं गिरिसन्निकाण्समुद्भ्राम्य चाथ शतशः कुलिशाक्षताङ्गम् ।
आविद्ध्य दुर्धरबलो भुवि निष्पिपेष चूर्णीकृतः स निपपात यथा गिरीन्द्रः । 13.120 ।
कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम् ।
तद्वद् बलस्य दृढमुष्टिनिपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपि । 13.121 ।
कूटण्स्च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन ।
कं सस्य ये त्ववरजाण्स्च सुनीथमुख्याः सर्वे बलेन निहताः परिघेण वीराः । 13.122 ।
त् आभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कं सो दिदेश बलमक्षयमुग्रवीर्यम् ।
रुद्रप्रसादकृतरक्षमवध्यमेनौ निस्सार्य दण्डमधिकं कुरुतेति पापः । 13.123 ।
श्रुत्वैव राजवचनं बलमक्षयं तदक्षोहिणीदशकयुग्ममनन्तवीर्यम् ।
कृष्णं चकार विविधास्त्रधरं स्वकोष्ठे सिं हं यथा किल सृगालबलं समेतम् । 13.124 ।
ज् आनन्नपीश्वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयापयदायुधाढ्यम् ।
शुश्रूषणाय परमस्य यथा समुद्रमर्घ्येण पूरयति पूर्णजलं जनोऽयम् । 13.125 ।
स्वस्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृहीतम् ।
च्लिइइ.नानायुधोग्रकिरणस्तरणिर्यथैव ध्वान्तं व्यनाण्सयदशेषत आण्सु सैन्यम् । 13.126 ।
निः शेषतो विनिहते स्वबले स कं सश्चर्मासिपाणिरभियातुमियेष कृष्णम् ।
त् आवत् तमेव भगवन्तमभिप्रयातमुत्तुङ्गमञ्चशिरसि प्रददर्श वीरम् । 13.127 ।
तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाण्सु जगृहे भगवान् प्रसह्य ।
केशेषु चैनमभिभृश्य करेण वामेनोद्धृत्य दक्षिणकरेण जघान केऽस्य । 13.128 ।
सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च।
स्रस्ताम्बरेण जघनेन सुशोच्यरूपः कं सो बभूव नरसिं हकराग्रसं स्थः । 13.129 ।
उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम् ।
अब्जोद्भवेशवरगुप्तमनन्तशक्तिर्भूमौ निपात्य स ददौ पदयोः प्रहारम् । 13.130 ।
देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाण्स्रयदन्यपापम् ।
दैत्यं चकर्ष हरिरत्र शरीरसं स्थं पश्यत्सु कञ्जजमुखेषु सुरेष्वनन्तः । 13.131 ।
द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वप्रमापितजनैः सहितः समस्तैः ।
धात्र्यादिभिः प्रतिययौ कुमतिस्तमोऽन्धमन्येऽपि चैवमुपयान्ति हरावभक्ताः । 13.132 ।
नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः ।
भक्तोऽपि कञ्जजगिरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन । 13.133 ।
यो वेत्ति निश्चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले ।
सृष्टिस्थितिप्रल् . अयमोक्षदमात्मतन्त्रं लक्ष्म्या अपीशमतिभक्तियुतः स मुच्येत् । 13.134 ।
तस्मादनन्तगुणपूर्णममुं रमेशं निश्चित्य दोषरहितं परयैव भक्त्या ।
विज्ञाय दैवतगणां श्च यथाक्रमेण भक्ता हरेरिति सदैव भजेत धीरः । 13.135 ।
निहत्य कं समोजसा विधातृशम्भुपूर्वकैः ।
स्तुतः प्रसूनवर्षिभिर्मुमोद केशवोऽधिकम् । 13.136 ।
सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी ।
यथोदयो रवेर्भवेत् सदोदितस्य लोकतः । 13.137 ।
च्लिव्.अनन्तचित्सुखार्णवः सदोदितैकरूपकः ।
समस्तदोषवर्जितो हरिर्गुणात्मकः सदा । 13.138 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
कं सवधो नाम त्रयोदशोऽध्यायः
च्ल्व्.(उद्धवप्रतियानम्)
अथ चतुर्दशोऽध्यायः
ओं । कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय ।
धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम् । 14.1 ।
नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसं स्थम् ।
कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः । 14.2 ।
कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट ।
वेदान् सकृन्निगदितान् निखिलाण्स्च विद्याः सम्पूर्णसं विदपि दैवतशिक्षणाय । 14.3 ।
धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः ।
ज् ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च । 14.4 ।
गुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः ।
पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः । 14.5 ।
सर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुर्दुनितान्तम् ।
किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः । 14.6 ।
कृष्णाण्स्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे ।
वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याः । 14.7 ।
येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः ।
तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा ण्सश्वत् समृद्धजनसङ्कुलिता बभूव । 14.8 ।
रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः ।
कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशं सतुरतीव च दुःखितेऽस्मै । 14.9 ।
श्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः ।
ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप । 14.10 ।
क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः ।
शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै । 14.11 ।
च्ल्वि.अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः ।
एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे । 14.12 ।
शक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः ।
विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः । 14.13 ।
क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराण्सु वियोज्य पापाम् ।
मर्त्याण्सिनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य । 14.14 ।
राजा स्वमातृत उतो गदया चहीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य ।
अक्षोहिणीत्र्यधिकविं शयुतोऽतिवेलदर्पोद्धतः सपदि कृष्णपुरीं जगाम । 14.15 ।
सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ ।
त् आवूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम् । 14.16 ।
लोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् ।
ज् ञात्वा सुते नतु मया प्रतिपादिते हि कं सस्य वीर्यरहितेन हतस्त्वया सः । 14.17 ।
सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः ।
यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषये भव चक्षुषोऽतः । 14.18 ।
साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य ।
सत्यं तदित्युरु वचोऽर्थवदभ्युदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन । 14.19 ।
द्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण ।
रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः । 14.20 ।
तस्येच्छयैव पृथिवीमवतेरुराण्सु तस्याऽयुधानि सबलस्य सुभास्वराणि ।
शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः । 14.21 ।
आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य ।
शार्ङ्गं शरां श्च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन । 14.22 ।
रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः ।
च्ल्विइ.सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः । 14.23 ।
उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः ।
उद्वेलसागरवदाण्स्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः । 14.24 ।
तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात् ।
दृष्ट्वाऽग्रतो मगधराट्स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे । 14.25 ।
पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण ण्सत्रुपक्ष ।
त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिं हो हि सिं हमभियाति न वै सृगालम् । 14.26 ।
आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाण्सु तेन ।
छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः । 14.27 ।
अन्यच्छरासनवरं प्रतिगृह्य कोपसं रक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः ।
भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन । 14.28 ।
आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः ।
नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः । 14.29 ।
शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाण्स्वसूतम् ।
चक्रे निरायुधमसौ मगधेन्द्रमाण्सु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः । 14.30 ।
नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् ।
चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथां श्चकार । 14.31 ।
ये चापि हं सडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराण्स्च ।
सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहाऽसुरुर्व्याम् । 14.32 ।
छिन्नायुधध्वजपताकरथाण्स्वसूतवर्माण उग्रशरताडितभिन्नगात्राः ।
स्रस्ताम्बराभरणमूर्धजमाल्यदीना रक्तं वमन्त उरु दुद्रुवुराण्सु भीत् आः । 14.33 ।
शोच्यां दशामुपगतेषु नृपेषु सर्वेष्वस्तायुधेषु हरिणा युधि विद्रवत्सु ।
नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम् । 14.34 ।
च्ल्विइइ.आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य ।
चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम् । 14.35 ।
तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षण्सिलासमूहान् ।
दीर्घं नियुद्धमभवत् सममेतयोस्तद् वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम् । 14.36 ।
श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः ।
युद्ध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आण्स्वमोघम् । 14.37 ।
तेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः ।
तत्रैकलव्य उत कृष्णण्सरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम् । 14.38 ।
भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाण्स्वसृजदात्मसुतं मनोजम् ।
प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथाऽत्मरथं निनाय । 14.39 ।
युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् ।
अं शेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः । 14.40 ।
प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः सं हृत्य मागधबलं निखिलं शरौघैः ।
भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः । 14.41 ।
व्रील् . आनताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः ।
आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः । 14.42 ।
जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः ।
रामादिभिः सहित आण्सु पुरीं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः । 14.43 ।
वर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः ।
प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽस बहुकार्यपरा नयज्ञा । 14.44 ।
तत्काल एव नृपतिः सह माद्रवत्या पुं स्कोकिलाकुलितफुल्लवनं ददर्श ।
तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम । 14.45 ।
जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी ।
पूर्वं शचीरमणमिच्छत एव विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे । 14.46 ।
च्लिx.तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च ।
स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति यस्मात् । 14.47 ।
माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः ।
तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य तु पृथा स्वयमत्र चाऽगात् । 14.48 ।
पत्युः कल् . एवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमल् . ऐव माद्रीम् ।
धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आण्सु पार्थैः । 14.49 ।
तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र ।
आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते । 14.50 ।
ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः ।
सं वादमेव निजदोषमवेक्ष्य तस्याण्स्चक्रुः सदाऽवगतभागवतोच्चधर्माः । 14.51 ।
भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि ।
तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री । 14.52 ।
पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री ।
हुत्वाऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव । 14.53 ।
पाण्डुण्स्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः ।
लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते । 14.54 ।
पाण्डोः सुताण्स्च पृथया सहिता मुनीन्द्रैर्नारायणाण्स्रमत आण्सु पुरं स्वकीयम् ।
जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च । 14.55 ।
त् ऊष्णीं स्थिते तु नृपतौ तनुजे च नद्याः क्षत्तर्युताऽप्त उरुमोदमतीव पापाः ।
ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य । 14.56 ।
न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः ।
तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव । 14.57 ।
एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः ।
च्ल्x.शक्याण्स्च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षित् आ यत् । 14.58 ।
वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः ।
व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानगमदाण्सु च पाण्डुगेहम् । 14.59 ।
तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् ।
कुन्त्या सहैव जगृहुः सुभृशं तदाऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन । 14.60 ।
वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् ।
पुत्राण्स्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः । 14.61 ।
पक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः ।
पादप्रहारमुरुवृक्षतल् . ए प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त । 14.62 ।
युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान् निखिलान् कुमारान् ।
एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात् । 14.63 ।
सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् ।
सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां सुतारयति सारसुपूर्णपौं स्यः । 14.64 ।
द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ ।
तत्कारणान्यकुरुतां परमौ करां सि देवद्विषां सततविस्तृतसाधुपौं स्यौ । 14.65 ।
दृष्ट्वाऽमितान्यथ करां सि मरुत्सुतेन नित्यं कृत् आनि तनया निखिलाण्स्च राज्ञाम् ।
तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयं श्च । 14.66 ।
येये हि तत्र नरदेवसुताः सुरां शाः प्रीतिं परां पवनजे निखिला अकुर्वन् ।
त् आं स्तान् विहाय दितिजा नरदेववं शजाता विचार्य वधनिश्चयमस्य चक्रुः । 14.67 ।
अस्मिन् हते विनिहता अखिलाण्स्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः ।
छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगल् . ए च विदध्महेऽन्यान् । 14.68 ।
एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् ।
अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः । 14.69 ।
च्ल्xइ.एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् ।
शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः । 14.70 ।
सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये ।
ज् ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार । 14.71 ।
जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाण्सु विदधुर्हरिपादतोये ।
ज् ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः । 14.72 ।
दोषान् प्रकाण्सयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य ।
बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाण्सैर्विचिक्षिपुरुदे हरिपादजायाः । 14.73 ।
तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाण्सान् ।
उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः । 14.74 ।
तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ ।
शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात् सुपञ्जरगतान् प्रददुः स्वसूते । 14.75 ।
दुर्योधनेन पृथुमन्त्रबलोपहूतां स्तत्सारथिः फणिगणान् पवनात्मजस्य ।
सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाण्सु विदश्य नागाः । 14.76 ।
क्षिप्त्वा सुदूरमुरुनागवरानथाष्टौ तद्वं शजान् स विनिहत्य पिपीलिकावत् ।
जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात् । 14.77 ।
तत् तस्य नैजबलमप्रमयं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः ।
निश्वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽसन् । 14.78 ।
दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः ।
कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य । 14.79 ।
स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् ।
नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम् । 14.80 ।
नैसर्गिकप्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि ।
नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः । 14.81 ।
च्ल्xइइ.कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् ।
सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम् । 14.82 ।
तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाण्सम् ।
युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्त् आः । 14.83 ।
तेनाऽगृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः ।
रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्द्धजिनो निवृत्त् आः । 14.84 ।
एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् ।
कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः । 14.85 ।
एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य ।
रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः । 14.86 ।
व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः ।
राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम् । 14.87 ।
प्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम् ।
यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय । 14.88 ।
पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना ।
अन्यं वदन्ति च करूण्सनृपं तथाऽन्यमातृष्वसातनयमेव च दन्तवक्रम् । 14.89 ।
जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजैदथ भीष्मकस्य ।
यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः । 14.90 ।
भागेत एव तनयस्य स एव वह्नेर्नाम्ना ण्सुचेः स तु पिताऽस्य हि मित्रभागः ।
राह्वं शयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः । 14.91 ।
बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव ।
भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाण्स्च विजिता अमुनैवमेव । 14.92 ।
तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपां श्च समजैद् बलवानयत्नात् ।
च्ल्xइइइ.साल्वं च हं सडिभकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन । 14.93 ।
तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः ।
अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम् । 14.94 ।
कृष्णः सुयोधनमुखाक्रममाम्बिकेयं ज् आनन् स्वपुत्रवशवर्तिनमेव गत्वा ।
श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनाम पुरं परेशः । 14.95 ।
सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः ।
सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनः प्रसृतिं कुरूणाम् । 14.96 ।
ज् ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनां स्तनयेषु पाण्डोः ।
विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान् । 14.97 ।
पुत्रेषु पाण्डुतनयेषु चसाम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ ।
प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः । 14.98 ।
धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः ।
यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य । 14.99 ।
इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद ।
सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसं हृतिकृते स इहावतीर्णः । 14.100 ।
एतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः ।
इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम् । 14.101 ।
ज् ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् ।
तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ । 14.102 ।
प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम् ।
कुर्यादिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः । 14.103 ।
रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप ।
अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम् । 14.104 ।
च्ल्xइव्.कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय ।
दुःखं विनाण्सय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाऽशु याहि । 14.105 ।
मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृत् आं निहतोऽन्तरेव ।
नाहं मनुष्य इति कुत्रच वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि । 14.106 ।
पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय ।
मत्पादसं स्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु । 14.107 ।
पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपः कृशतराङ्गिरसो विरूपान् ।
तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम् । 14.108 ।
नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः ।
विज्ञाय चैनमुरुसं सृतितो विमुक्ता यान्त्यस्य पादयुगल् . अं मुनयो विरागाः । 14.109 ।
नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाण्सु यातम् ।
सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः । 14.110 ।
सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया ।
मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु । 14.111 ।
श्रुत्वोद्धवो निगदितं परमस्य पुं सो वृन्दावनं प्रति ययौ वचनैश्च तस्य ।
दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्चरणसन्निधिमेव विष्णोः । 14.112 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
उद्धवप्रतियानं नॣअम चतुर्दशोऽध्यायः
च्ल्xव्.(पाण्डवशास्त्राभ्यासः )
अथ पञ्चदशोऽध्यायः
ओं । एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम् ।
कृष्णादवाप्य वर्षत्रितयात् पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना । 15.1 ।
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता ।
या पिङ्गलाऽन्यभव आत्मनि सं स्थितं तं सं स्मृत्य कान्तमुरुगायमभूत् त्रिवक्रा । 15.2 ।
तं पञ्चरात्रविदमाप्य सुषारथिं स भीमो मुमोद पुनराप परात्मविद्याम् ।
व्यासात् परात्मत उवाच च फल्गुनादिदैवेषु सर्वविजयी परविद्ययैषः । 15.3 ।
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम् ।
क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा । 15.4 ।
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप ।
को नाम विष्ण्वनुपजीवक आस यस्य नित्याण्स्रयादभिहिताऽपि रमा सदा ण्स्रीः । 15.5 ।
व्यासादवाप परमात्मसतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नाः ।
ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षित् आर्थाः । 15.6 ।
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती ।
द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म । 15.7 ।
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम् ।
पीतक्षीरान् धार्तराष्ट्रान् स चैत्य मया पीतं क्षीरमित्याह नित्यम् । 15.8 ।
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवेत् ।
पुनः कदाचित् स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव । 15.9 ।
दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य ।
सम्प्रेरितः कृपया चाऽर्तरूपो द्रोणो ययावार्जयितुं तदा गाम् । 15.10 ।
प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः ।
दोषाय यस्मात् स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च । 15.11 ।
च्ल्xवि.दृष्ट्वैवैनं ज् आमदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे ।
हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात् सह पुत्रेण चेति । 15.12 ।
तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च ।
योग्या सुराणां कलिजा सुपापाः प्रायो यस्मात् कलिजाः सम्भवन्ति । 15.13 ।
न देवानामाण्सतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः ।
नाकारणात् सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम् । 15.14 ।
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित् ।
तस्मादुत्साद्याः सर्व एते सुरां शा एतेन साकं तनयेन वीराः । 15.15 ।
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा ।
अनन्तशक्तिः सकलेश्वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति । 15.16 ।
आत्मा विद्या ण्सस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण ।
उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः । 15.17 ।
सर्वेशिता सर्वपरः स्वतन्त्रस्त्वमेव कोऽन्यः सदृशस्तवेश ।
स्वाम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित् । 15.18 ।
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम् ।
विद्यैव देया भवता ततोऽज सर्वप्रकाण्सिन्यचला सुसूक्ष्मा । 15.19 ।
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः ।
अब्दद्विषट्केन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा । 15.20 ।
दानेऽर्द्धराज्यस्य हि तत्प्रतिज्ञां सं स्मृत्य पूर्वामुपयातं सखायम् ।
सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात् । 15.21 ।
न निर्धनो राजसखो भवेत यथेष्टतो गच्छ विप्रेति दैवात् ।
इतीरितस्याऽशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया । 15.22 ।
प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात् ।
च्ल्xविइ.पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा । 15.23 ।
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम् ।
हनिष्य इत्येव मतिं निधाय ययौ कुरूञ्छिष्यतां नेतुमेतान् । 15.24 ।
प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र ।
एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत् । 15.25 ।
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत् ।
कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेतं पवनात्मजोऽवदत् । 15.26 ।
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म ।
सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसं श्रयात् । 15.27 ।
तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम् ।
ज् आताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि । 15.28 ।
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम् ।
सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य । 15.29 ।
स चाऽश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम् ।
उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति । 15.30 ।
यथेष्टवित्ताण्सनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम् ।
तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु । 15.31 ।
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः ।
वक्तेति ते दुद्रुवुराण्सु भीष्मं द्रोणोऽयमित्येव स तां स्तदोचे । 15.32 ।
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः ।
भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात् । 15.33 ।
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः ।
द्रोणं ज् ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारां स्तत्र गत्वा स्वयं च । 15.34 ।
च्ल्xविइइ.द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति ।
तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत् प्रतिज्ञाम् । 15.35 ।
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत् ।
इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म । 15.36 ।
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा ।
भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्चेन्मम धर्मलाभः । 15.37 ।
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः ।
करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र । 15.38 ।
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृत् आ यदा विप्रवरस्ततः परम् ।
स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य । 15.39 ।
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशं साम् ।
रहस्यविद्याण्स्च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित् । 15.40 ।
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे ।
द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार । 15.41 ।
नैवातियत्नेन ददर्श लक्षं शुश्रूषायां पार्थमग्रे करोति ।
स्वबाहुवीर्याद् भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति । 15.42 ।
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम् ।
ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः । 15.43 ।
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृत् आनि ।
अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे । 15.44 ।
नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव ।
दौष्षन्तिमान्धातृमरुत्तपूर्वाण्स्चैतत्समानाः सुरदारवीर्याः । 15.45 ।
तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः ।
सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः । 15.46 ।
च्ल्xइx.कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम् ।
विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थमित्थं विचिन्त्य स ययौ भृगुपाण्स्रमाय । 15.47 ।
स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात् ।
ज् आनन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा । 15.48 ।
अस्त्रज्ञचूल् . आमणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः ।
एनं समाण्स्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः । 15.49 ।
ज् ञानं च भागवतमप्यपराण्स्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम् ।
अब्दैश्चतुर्भिरथ च न्यवसत् तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः । 15.50 ।
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः ।
सं सुप्तवत् सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य । 15.51 ।
तत्राऽस राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य ।
कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे । 15.52 ।
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तनत ओपरिगात्वचश्च ।
विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाऽह रामः । 15.53 ।
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति ।
तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे । 15.54 ।
ज् आत्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववं शजोऽहम् ।
अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः । 15.55 ।
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम् ।
सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः । 15.56 ।
अथाऽह रामस्तमसत्यवाचो न ते सकाण्से मम वासयोग्यता ।
तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून् । 15.57 ।
अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित् स्पर्धमानस्तु यासि ।
च्ल्xx.पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्घे । 15.58 ।
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम् ।
तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत् । 15.59 ।
ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः ।
अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी । 15.60 ।
श्रुत्वा रावं सारमेयस्य दूराच्छरैर्मुखं शब्दवेधी पुपूरे ।
स एकलव्यो व्रणमस्य नाकरोच्छ्वा पूरितास्यः पाण्डवानभ्ययात् सः । 15.61 ।
दृष्ट्वा चित्रं कुरवः पाण्डवाण्स्च द्रष्टुं कर्तारं मार्गयामासुरत्र ।
द्रोणाकृतिं मार्त्तिकीं पूजयन्तं ददृशुश्चैनं धनुरेवाभ्यसन्तम् । 15.62 ।
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः ।
दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या । 15.63 ।
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वरो मे मृषाऽसीत् ।
इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव । 15.64 ।
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै ।
ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन । 15.65 ।
पुनः कृपाल् . ऊरैवतपर्वते तं द्रोणः प्राप्याऽदादस्त्रवराणि तस्मै ।
एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च । 15.66 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
(पाण्डवशास्त्राभ्यासो नाम) पञ्चदशोऽध्यायः
च्ल्xxइ.(सृगॣअलवधः )
अथ षोडण्सोऽध्यायः
काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः ।
प्रायाद् यदूं स्तत्र नित्याव्ययातिबलैश्वर्योऽपीच्छयाऽगात् स कृष्णः । 16.1 ।
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहल् . ओपस्करैश्च ।
प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाण्सां रमेशः । 16.2 ।
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श ।
क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः । 16.3 ।
तदा दुग्धाब्धौ सं सृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम् ।
मुक्तस्थानादाप नारायणोऽजो बलिश्चाऽगात् तत्र सन्द्रष्टुमीशम् । 16.4 ।
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम् ।
सं सुप्तविच्छश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः । 16.5 ।
देवाण्स्च तद्भावविदोऽखिलाण्स्च निमीलिताक्षाः शयनेषु ण्सिश्यरे ।
तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः । 16.6 ।
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः ।
गत्वा पाताल् . अं युधि जित्वा बलिं च किरीटमादायाभ्ययाद् यत्र कृष्णः । 16.7 ।
तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् ।
स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ । 16.8 ।
किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात् ।
तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीद् युगपद् दुग्धवार्धौ । 16.9 ।
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः ।
तदाऽवतेरू रौहिणेयस्य चैवं भार्याऽप्यायाद् वारुणी नाम पूर्वा । 16.10 ।
सैवापरं रूपमास्थाय चाऽगाच्छ्रीरित्याख्यं सेन्दिरावेशमग्र्यम् ।
कान्तिश्चाऽगात् तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा । 16.11 ।
च्ल्xxइइ.त् आभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा ।
तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरी वारुणी तां पपौ सः । 16.12 ।
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः ।
गिरिं गोमन्तं परिवार्यादहत् तं दृष्ट्वा देवौ पुप्लुवतुर्बलाब्धौ । 16.13 ।
गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः ।
निष्पीडित् आज्जलधारोद्गताऽस्माद् वह्निं व्याप्तं शमयामास सर्वम् । 16.14 ।
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नातां देववरौ स्वशस्त्रैः ।
तत्र हं सो डिभकश्चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ । 16.15 ।
भौमात्मजो दन्तवक्रश्च रुग्मी सौभाधिपो मैन्दमैन्दानुजौ च ।
अन्ये च ये पार्थिवाः सर्व एव क्रोधात् कृष्णं परिवार्याभ्यवर्षन् । 16.16 ।
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताण्स्च ये शल्यबाह्लीकमुख्याः ।
ससोमदत्ताः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य ।
भयात् कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन । 16.17 ।
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः ।
कृत्वा वमच्छोणित् आनार्तरूपान् विद्रावयामास हरिर्यथा मृगान् । 16.18 ।
हत्वा सेनां विं शदक्षोहिणीं त् आं त्रिभिर्युक्तां रुग्मिणं नैव कृष्णः ।
रुग्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः । 16.19 ।
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः ।
विमोहितः प्राप्तसञ्ज्ञश्चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत् । 16.20 ।
तेनाऽहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन ।
अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीतो विष्णुना रामगेन । 16.21 ।
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम् ।
तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः । 16.22 ।
च्ल्xxइइइ.अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः ।
क्रुद्धो गृहीत्वा मौलिमस्याऽशु रामो वधायोद्यच्छन्मुसलं बाहुषाल् . ई । 16.23 ।
अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम् ।
वृथा नते बाहुबलं प्रयोज्यममोघं ते यद् बलं तद्वदस्त्रम् । 16.24 ।
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य ।
जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव । 16.25 ।
तेनाऽहतः स्रस्तसमस्तगात्रः पपात मूर्छाभिगतः स राजा ।
चिरात् सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद् भीतभीतः सलज्जः । 16.26 ।
ययौ शिष्टै राजभिः सं युतश्च पुरं जीवेत्येव कृष्णेन मुक्तः ।
पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः । 16.27 ।
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्द्धम् ।
पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात् । 16.28 ।
यामः पुरं करिवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0