महाभारततात्पर्यनिर्णय · भाग 101120
श्रुत्वा वाक्यं तस्य युद्धे जितस्य भीत्या युक्तस्याऽत्मना तद्युतोऽगात् । 16.29 ।
गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमां श्चाऽस राजा ।
पुरप्राप्तां स्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात् । 16.30 ।
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम् ।
योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाऽशु जहार कृष्णः । 16.31 ।
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य ।
स शक्रदेवं माणिभद्रः पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन । 16.32 ।
च्ल्xxइव्.नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं युद्धं दर्शयित्वैव गुप्त्यै ।
स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य स पूजितोऽवसत् । 16.33 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सृगॣअलवधो नाम षोडण्सोऽध्यायः
च्ल्xxव्.(हं सडिभकवधः )
अथ सप्तदशोऽध्यायः
ओं । गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् ।
रमैव रुग्मिणीति योद्यतां स्वयम्बराय ताम् । 17.1 ।
स रुग्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम् ।
हरेः प्रदातुमुद्यतां न्यवारयद्धरिप्रियाम् । 17.2 ।
प्रघोषिते स्वयम्बरेऽथ तेन मागधादयः ।
समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः । 17.3 ।
तदा जगाम केशवो जवेन कुण्डिनं पुरम् ।
स्मृतोऽथ तेन पक्षिराट्समाजगाम केशवम् । 17.4 ।
पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः ।
यदेदृशं पतत्रिणो बलं हरेः किमुच्यते । 17.5 ।
किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन् ।
अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः ।
किलैष पक्षिवाहनो यतश्च नान्यथा भवेत् । 17.6 ।
जिता वयं च सर्वशोऽमुनैकलेन सं युगे ।
अनेकशो न सङ्गतैर्जितः कदाचिदेष हि। 17.7 ।
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् ।
अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम् । 17.8 ।
किमस्य तूच्यते बलं वयं तृणोपमाः कृत् आः ।
समस्तशो मृधेमृधे हि येन चाक्षतेन हा । 17.9 ।
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे ।
इति ब्रुवन्नवाङ् मुखं नृपश्चकार विच्छवि । 17.10 ।
अथाऽह चेदिभूपतिः सदन्तवक्रको वचः ।
च्ल्xxवि.पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा । 17.11 ।
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः ।
हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा । 17.12 ।
तथाऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता ।
अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा । 17.13 ।
न कारणं न विद्महे न सं शयः परो हरिः ।
व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम् । 17.14 ।
इदं हि नः शुभप्रदं नचान्यथा ण्सुभं क्वचित् ।
इतीरितो जरासुतो ददर्श तौ दहन्निव । 17.15 ।
अथ प्रहस्य सौभराड्वचो जगाद मागधम् ।
विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च । 17.16 ।
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः ।
प्रजात एष यादवो वयं च दानवेश्वराः । 17.17 ।
स्वधर्म एष नः सदा दृढप्रतीपता हरौ ।
स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम् । 17.18 ।
शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः ।
इतीरितः स मागधो जगाद साधुसाध्विति । 17.19 ।
तथैव रुग्मिपूर्वकाः करूण्सचेदिपौ च तौ ।
विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम् । 17.20 ।
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि ।
गुरोः प्रसादमाप्नुतां करूण्सचेदिभूभृतौ । 17.21 ।
पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः ।
ध्रुवं समागतो हरिर्लभेत रुग्मिणीमिमाम् । 17.22 ।
च्ल्xxविइ.अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुग्मिणी ।
मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी । 17.23 ।
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् ।
समस्तयोषित् आं वरा व्रजेत रुग्मिणी ध्रुवम् । 17.24 ।
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा ।
न शक्नुमो निवारितुं शरैरमुं कथञ्चन । 17.25 ।
अतः स्वयम्बरे यथा नसङ्गमो हरेर्भवेत् ।
तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम् । 17.26 ।
अतो न देयमस्य नः सुभूभुजां समागमे ।
क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः । 17.27 ।
नचाऽस्यति क्षितौ क्वचिद् विमानितः पुरो हि नः ।
वरासनस्थभूभुजां स मानितो हि दैवतैः । 17.28 ।
स दर्पमानसं युतः क्रुधा प्रयास्यति ध्रुवम् ।
पुरीं स्वकां ततौ वयं विधेम च स्वयम्बरम् । 17.29 ।
इति स्म सर्वभूभृत् आं विनिश्चयं सकैशिकः ।
क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम् । 17.30 ।
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च ।
महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम् । 17.31 ।
अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः ।
जरासुतादिकान् पुमानुवाच चार्थवद् वचः । 17.32 ।
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः ।
सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः । 17.33 ।
समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि ।
वराभिषेकमीशितुः कुरुध्वमाण्स्वसं शयम् । 17.34 ।
च्ल्xxविइइ.अतोऽन्यथा ण्सिरस्यहं निपातयामि वोऽशनिम् ।
इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ । 17.35 ।
तदीरितं निशम्य ते पुनः सुतप्तचेतसः ।
बभूवुरूचिरे वचः सुगर्वितो हि वासवः । 17.36 ।
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः ।
उताद्य कृष्णसं श्रयाद् दृढं विभीषयत्यसौ । 17.37 ।
अदृश्य एव देवराड्यदि स्म वज्रमुत्सृजेत् ।
भवेम पीडित् आ वयं वरादमृत्यवोऽपि हि । 17.38 ।
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः ।
उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति । 17.39 ।
अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः ।
न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम् । 17.40 ।
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् ।
सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक् । 17.41 ।
तथैव कृष्णसं श्रयात् स नः शचीपतिर्नयेत् ।
इति स्म निश्चिता नृपानयातयन्त शौरये । 17.42 ।
समस्तशो जरासुतादिभिः कृतेऽभिषेचने ।
अतीव भग्नमानकान् नचानुयाति कश्चन । 17.43 ।
समाण्स्रयं च केशवं तदैव जीवनार्थिनः ।
प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः । 17.44 ।
इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान् ।
सरुग्मिचेदिसाल्वपो न यातु मागधो हरिम् । 17.45 ।
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् ।
च्ल्xxइx.तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात् । 17.46 ।
अतः शचीपतिर्निजं वरासनं हरेरदात् ।
विवेश तत्र केशवो नभस्तल् . आवतारिते । 17.47 ।
करे प्रगृह्य केशवो न्यवेशयत् सहाऽसने ।
पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः । 17.48 ।
अथाखिला नरेश्वरा मुनीन्द्रसं युता हरिम् ।
सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम् । 17.49 ।
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः ।
समस्तदेवगायकैः प्रगीत आस केशवः । 17.50 ।
अथाऽह भीष्मकं प्रभुः स्वयं वरः किल त्वया ।
अभीप्सितः सुताकृते शुभाय ते भवेन्न सः । 17.51 ।
इयं रमा तवाऽत्मजा बभूव तां हरेर्नच ।
ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः । 17.52 ।
हिताय चैतदीरितं तवान्यथा न चिन्तय ।
न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः । 17.53 ।
उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः ।
स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम् । 17.54 ।
अनन्ततेज आततं विसङ्ख्यरूपसं युतम् ।
विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम् । 17.55 ।
ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् ।
प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम् । 17.56 ।
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् ।
स्वरुग्मिणीतनोरपि व्यदर्शयच्च देवताः । 17.57 ।
च्ल्xxx.तदद्भुतं समीक्ष्य तु प्रभीत आण्सु भीष्मकः ।
पपात पादयोर्विभोः करोमि तत् तथेति च । 17.58 ।
पुनश्च विश्वरूपतां पिधाय पद्मलोचनः ।
जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम् । 17.59 ।
अपाम्पतिश्च मैथिलः स्वयं वरङ्कृत् आवपि ।
हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः । 17.60 ।
स्वयं वरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः ।
न दोष आस भीष्मको न केशवार्थमैच्छत । 17.61 ।
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे ।
वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः । 17.62 ।
यशश्च धर्ममुत्तमं विधित्सता वृकोदरे ।
न केशवेन सूदितो जरासुतो हि मन्यते । 17.63 ।
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् ।
अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम् । 17.64 ।
मृधेमृधे जितोऽपि सन् दृढाण्सया पुनः पुनः ।
समीहते युधे शिवं नचावमन्यते क्वचित् । 17.65 ।
अतः पुनश्च भूमिपानुवाच बार्हद्रथः ।
धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा । 17.66 ।
अभूपतेर्नचाऽसनं प्रदेयमित्युदाहृतम् ।
अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः । 17.67 ।
अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत् ।
समस्तराजराजतामवाप नोऽप्यनिच्छताम् । 17.68 ।
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् ।
यथा चभीष्मकात्मजामवाप्नुयाच्च चेदिराट्। 17.69 ।
च्ल्xxxइ.अयं हि दत्तपुत्रको म औरसाद् विशिष्यते ।
अतो निवेश्य एष मे सुरूपिणी च रुग्मिणी । 17.70 ।
शिवागमेषु ण्सिष्यकाः सरुग्मिसाल्वपौण्ड्रकाः ।
ममाखिला नृपास्ततः कुरुध्वमेतदेव मे । 17.71 ।
इतीरिते तु सौभराड्जगाद रुग्मिसं विदा ।
स्वयं वरो निवर्तितः स्वसारमेष दास्यति । 17.72 ।
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् ।
प्रदातुकाममात्मजं वयोगतस्तथाऽबलः । 17.73 ।
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् ।
ततोऽस्य पूर्वमेव नो ह्यभावता कृत् आ ण्सुभा । 17.74 ।
उपाय एष चिन्तितो मयाऽत्र मागधेश्वर ।
मुनिं हि गर्गनामकं ह्यमुष्य साल आक्षिपत् । 17.75 ।
यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च ।
परेण वृष्णयोऽहसं श्चुकोप गर्ग एषु ह। 17.76 ।
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् ।
अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाण्सकः । 17.77 ।
यतो हि कृष्णसं श्रयाद् बतापहासिता वयम् ।
इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत् । 17.78 ।
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् ।
वरं ततोऽभिपेदिवान् सुतं हरेरभावदम् । 17.79 ।
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः ।
व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ । 17.80 ।
तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया ।
च्ल्xxxइइ.प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा । 17.81 ।
स यावनेन भूभृत् आ हि गोपिकाभिरर्चितः ।
अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम् । 17.82 ।
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च ।
ददौ विमोहितः क्रुधा किमेतदीश वैरिणः । 17.83 ।
स आण्स्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत् ।
हरेश्च तापमेयिवान् जगर्ह चाऽत्मशेमुषीम् । 17.84 ।
जगाम चारणं हरिं प्रपाहि मां सुपापिनम् ।
इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः । 17.85 ।
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा ।
भवादृशा हिदानवाः स्थिराः शिवार्चने सदा । 17.86 ।
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् ।
सदैव कालकाङ्क्षणात् स यावनाभिषेचितः । 17.87 ।
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे ।
प्रभूतसेनया युतो बलोद्धतश्च सर्वदा । 17.88 ।
तमेष यामि शासनात् तवोपनीय सत्वरम् ।
विकृष्णकं क्षितेस्तल् . अं विधाय सं रमाम हा । 17.89 ।
ततश्च रुग्मिणीं वयं प्रदापयाम चेदिपे ।
विनाण्स्य देवपक्षिणो यथेष्टमास्म सर्वदा । 17.90 ।
इतीरितो जरासुतो बभूव दुर्मना भृशम् ।
किरीटमण्डितं शिरश्चकार चाऽश्ववाग् भृशम् । 17.91 ।
करं करेण पीडयन् निशाम्य चाऽत्मनो भुजौ ।
जगाद कार्यसिद्धये कथं प्रयाचये परम् । 17.92 ।
च्ल्xxxइइइ.सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाण्स्रयाः ।
समस्तभूतल् . ए नृपाः स चाहमेष मागधः । 17.93 ।
कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम् ।
गिरीशपादसं श्रयः प्रभुः समस्तभूभृत् आम् । 17.94 ।
इतीरितः स सौभराड्जगाद वाक्यमुत्तरम् ।
भवानपि स्म मुह्यते किमस्मदादयः प्रभो । 17.95 ।
स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत् ।
स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः । 17.96 ।
अपि स्म ते बलाण्स्रयप्रवृत्तयोऽस्मदादयः ।
पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम् । 17.97 ।
कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः ।
विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः । 17.98 ।
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् ।
तदन्यशत्रुपीडनात् त्वमेव तस्य रक्षकः । 17.99 ।
तवाखिलैरजेयता ण्सिवप्रसादतोऽस्ति हि ।
विशेषतो हरेर्जये वरादयं विमार्ग्यते । 17.100 ।
इतीरितेऽप्यतृप्तवत् स्थिते तु बार्हद्रथे ।
जगाम सौभमास्थितः स सौभराट्च यावनम् । 17.101 ।
स कालयावनोऽथ तं जरासुतान्तिकागतम् ।
निशम्य भक्तिपूर्वकं प्रणम्य चाऽर्चयद् द्रुतम् । 17.102 ।
जरासुतो हि दैवतं समस्तकेशवद्विषाम् ।
इति प्रणम्य तां दिशं तदीयमाण्स्वपूजयत् । 17.103 ।
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया ।
अक्षोहिणीकया युतः स्वसेनया निराक्रमत् । 17.104 ।
च्ल्xxxइव्.तदश्वमूत्रविष्ठया बभूव नामत शकृत् ।
नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम् । 17.105 ।
पुनः पुनर्नदीभवं निशाम्य देशसङ्क्षयम् ।
तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः । 17.106 ।
हरिश्च वैनतेययुग् विचार्य रामसं युतः ।
सदाऽतिपूर्णसं विदप्यजोऽथ लीलयाऽस्मरत् । 17.107 ।
युयुत्सुरेष यावनः समीपमागतोऽद्य नः ।
युयुत्सतामनेन नो जरासुतोऽभियास्यति । 17.108 ।
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपितः ।
पुरा जयाण्सया हि नौ यदून् न जघ्निवानसौ । 17.109 ।
निराण्सकोऽद्य यादवानपि स्म पीडयिष्यति ।
अतः समुद्रमध्यगापुरीविधानमद्य मे ।
प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम् । 17.110 ।
उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवर्धकिम् ।
स भौवनः समागतः कुशस्थलीं विनिर्ममे । 17.111 ।
निरम्बुके तु सागरे जनार्दनाज्ञया कृते ।
महोदकस्य मध्यतश्चकार तां पुरीं शुभाम् ।
द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम् । 17.112 ।
चकार लावणोदकं जनार्दनोऽमृतोपमम् ।
सभां सुधर्मनामकां ददौ समीरणोऽस्य च । 17.113 ।
शतक्रतोः सभां तु तां प्रदाय केशवाय सः ।
निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम् । 17.114 ।
समस्तदेवतागणाः स्वकीयमर्पयन् हरौ ।
विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः । 17.115 ।
च्ल्xxxव्.समस्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् ।
विधाय बाहुयोधकः स यावनं समभ्ययात् । 17.116 ।
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् ।
व्यवासयन्निजान् जनान् स लीलयैव केवलम् । 17.117 ।
अनाद्यनन्तकालकं समस्तलोकमण्डलम् ।
यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम् । 17.118 ।
निरायुधं च मामयं वराच्छिवस्य न क्षमः ।
समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत् । 17.119 ।
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् ।
निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति । 17.120 ।
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च ।
बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् । 17.121 ।
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।
उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम् । 17.122 ।
स बाहुनैव केशवो विजित्य यावनं प्रभुः ।
निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम् । 17.123 ।
सहास्त्रशस्त्रसञ्चयान् सृजन्तमाण्सु यावनम् ।
न्यपातयद् रथोत्तमात् तल् . एन केशवोऽरिहा । 17.124 ।
विवाहनं निरायुधं विधाय बाहुना क्षणात् ।
विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः । 17.125 ।
पुरा हि यौवनाण्स्वजे वरप्रदाः सुरेश्वराः ।
ययाचिरे जनार्दनं वरं वरप्रदेश्वरम् । 17.126 ।
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् ।
च्ल्xxxवि.अरिं भविष्ययावनं दहत्वयं तवेश्वर । 17.127 ।
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः ।
ऋतं विधातुमभ्ययात् स यौवनाण्स्वजान्तिकम् । 17.128 ।
ससञ्ज्ञकोऽथ यावनो धरातल् . आत् समुत्थितः ।
निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात् क्रुधा । 17.129 ।
हरिर्गुहां नृपस्य तु प्रविश्य सं व्यवस्थितः ।
स यावनः पदाऽहनन्नृपं स तं ददर्श ह । 17.130 ।
स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात् ।
स एव विष्णुरव्ययो ददाह तं हि वह्निवत् । 17.131 ।
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा ।
हरेर्वरान्निहत्य स प्रपेद आण्स्विमं वरम् । 17.132 ।
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् ।
स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा । 17.133 ।
अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् ।
स यौवनाण्स्वजो नृपो न देवतोषणं वृथा । 17.134 ।
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् ।
हरेरनुज्ञया तपश्चचार मुक्तिमाप च । 17.135 ।
ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् ।
समस्तभूपसं वृतं जिगाय बाहुनेश्वरः । 17.136 ।
तल् . एन मुष्टिभिस्तथा महीरुहैश्च चूर्णित् आः ।
निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत् । 17.137 ।
ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः ।
स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम् । 17.138 ।
च्ल्xxxविइ.ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः ।
जिगीषवोऽथ रुग्मिणीं विधाय चेदिपे हरिम् । 17.139 ।
समस्तराजमण्डले विनिश्चयादुपागते ।
सभीष्मके च रुग्मिणि प्रदातुमुद्यते मुदा । 17.140 ।
समस्तलोकयोषित् आं वरा विदर्भनन्दना ।
द्विजोत्तमं हरेः पदोः सकाण्समाण्स्वयातयत् । 17.141 ।
निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात् ।
तमन्वयाद्धलायुधः समस्तयादवैः सह । 17.142 ।
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् ।
सुयत्तमात्तकार्मुकं बभूव कन्यकावने । 17.143 ।
पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम् ।
रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृत् आम् । 17.144 ।
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः ।
विधाय तान् निरायुधान् जगाम केशवः शनैः । 17.145 ।
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् ।
न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः । 17.146 ।
तदा सितः शिरोरुहो हरेर्हलायुधस्थितः ।
प्रकाण्समाविशद् बलं विजेतुमत्र मागधम् । 17.147 ।
स तस्य मागधो रणे गदानिपातचूर्णितः ।
पपात भूतल् . ए बलो विजित्य तं ययौ पुरीम् । 17.148 ।
वरोरुवेषसं वृतोऽथ चेदिराट्समभ्ययात् ।
तमाससार सात्यकिर्नदन् मृगाधिपो यथा । 17.149 ।
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ ।
क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू । 17.150 ।
च्ल्xxxविइइ.समानभावमक्षमी शिनेः सुतात्मजः शरम् ।
अथोद्बबर्ह तत्क्षणाद् बलान्मुमोच वक्षसि । 17.151 ।
स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः ।
विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः । 17.152 ।
अथापरे च यादवा विजित्य तद्बलं ययुः ।
पुरैव रुग्मिपूर्वकाः प्रजग्मुरच्युतं प्रति । 17.153 ।
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः ।
हरिं ववर्ष सायकैः स सिं हवन्न्यवर्तत । 17.154 ।
अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः ।
अवाहनायुधं व्यधान्निषादपं शरैः क्षणात् । 17.155 ।
शरं शरीरनाण्सकं समाददानमीश्वरम् ।
स एकलव्य आण्सु तं विहाय दुद्रुवे भयात् । 17.156 ।
धनुर्भृत् आं वरे गते रणं विहाय भूभृतः ।
करूण्सराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात् । 17.157 ।
अथाऽससाद केशवं रुषा स भीष्मकात्मजः ।
शराम्बुधार आण्सु तं विवाहनं व्यधाद्धरिः । 17.158 ।
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः ।
रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः । 17.159 ।
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् ।
प्रियावचः प्रपालयन् जघान नैनमच्युतः । 17.160 ।
निबद्ध्य पञ्चचूल् . इनं विधाय तं व्यसर्जयत् ।
जगज्जनित्रयोरिदं विडम्बनं रमेशयोः । 17.161 ।
सदैकमानसावपि स्वधर्मशासकौ नृणाम् ।
च्ल्xxxइx.रमा हरिश्च तत्र तौ विजह्रतुर्हि रुग्मिणा । 17.162 ।
अथाऽससाद सौभराढरिं शराम्बुवर्षणः ।
हरिः शरं यमोपमं मुमोच तस्य वक्षसि । 17.163 ।
शरेण तेन पीडितः पपात मन्दचेष्टितः ।
चिरात्तसञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया । 17.164 ।
समस्तराजसन्निधावयादवीं महीमहम् ।
करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्चरम् । 17.165 ।
अथो विवेश केशवः पुरीं कुशस्थलीं विभुः ।
प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः । 17.166 ।
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि ।
स वारुणीसमाह्वयामवाप रैवतीं विभुः । 17.167 ।
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् ।
पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात् । 17.168 ।
स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम् ।
निशम्य नाविदद् गतं युगोरुकालपर्ययम् । 17.169 ।
नरानयोग्यगीतिका विमोहयेत् ततो नृपः ।
सुमूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत । 17.170 ।
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत ।
सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ । 17.171 ।
स रैवतो बलाय तां प्रदाय गन्धमादनम् ।
गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम् । 17.172 ।
बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः ।
हलेन चाऽज्ञया समां चकार सत्यवाञ्छितः । 17.173 ।
च्xच्.तया रतः सुतावुभौ शठोल्मुकाभिधावधात् ।
पुराऽर्यमां शकौ सुरावुदारचेष्टितो बलः । 17.174 ।
जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् ।
महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम् । 17.175 ।
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः ।
प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम् । 17.176 ।
मुनीन्द्रदेवगायनादयोऽपि यादवैः सह ।
विचेरुरुत्तमोत्सवे रमारमेशयोगिनि । 17.177 ।
सुरां शकाण्स्च ये नृपाः समाहुता महोत्सवे ।
सपाण्डवाः समाययुर्हरिं रमासमायुतम् । 17.178 ।
समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ ।
समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः । 17.179 ।
तया रमन् जनार्दनो वियोगशून्यया सदा ।
अधत्त पुत्रमुत्तमं मनोभवं पुरातनम् । 17.180 ।
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसं युतः ।
ततस्तदाह्वयोऽभवत् स रुग्मिणीसुतो बली । 17.181 ।
पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह ।
प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि । 17.182 ।
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।
अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना । 17.183 ।
तमग्रसज्जलेचरः स दाण्सहस्तमागतः ।
कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः । 17.184 ।
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।
न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् । 17.185 ।
च्xचि.अनङ्गतामुपागते पुरा हरेण साऽङ्गजे ।
वशं विरिञ्चशापतो जगाम शम्बरस्य हि । 17.186 ।
पुरा हिपञ्चभर्तृकां निशम्य कञ्जजोदिताम् ।
जहास पार्षतात्मजां शशाप तां ततस्त्वजः । 17.187 ।
भवासुरेण दूषितेति सा ततो हि मायया ।
पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम् । 17.188 ।
गृहेऽपि साऽसुरे स्थिता निजस्वरूपतोऽसुरम् ।
न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षित् आ । 17.189 ।
रसायनैः कुमारकं व्यवर्द्धयद् रतिः पतिम् ।
स पूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः । 17.190 ।
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् ।
उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति । 17.191 ।
जगाद साऽखिलं पतौ तदस्य जन्म चाऽगतिम् ।
ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः । 17.192 ।
ददौ च मन्त्रमुत्तमं समस्तमायिनाण्सकम् ।
भृगूत्थरामदैवतं रतिर्हरेः सुताय सा । 17.193 ।
ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः ।
स शम्बरं स चैत्य तं युयोध शक्तितो बली । 17.194 ।
स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः ।
यदा न योद्धुमाण्सकद्धरेः सुतं न दृश्यते । 17.195 ।
सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन् ।
सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः । 17.196 ।
स विद्यया विनाण्सितोरुमाय आण्सु शम्बरः ।
च्xचिइ.निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात् । 17.197 ।
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् ।
समास्थितः स्वभार्यया समं कुशस्थलीं ययौ । 17.198 ।
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः ।
रमारमेशयोः सुतं जगाद तं स्म नारदः । 17.199 ।
स रुग्मिणीजनार्दनादिभिः सरामयादवैः ।
पितामहेन चाऽदरात् सुलाल् . इतोऽवसत् सुखम् । 17.200 ।
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले ।
स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः । 17.201 ।
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् ।
प्रकाण्सयन् रमापतिर्ययाच ईश्वरो मणिम् । 17.202 ।
स तं न दत्तवां स्ततोऽनुजो निबद्ध्य तं मणिम् ।
वनं गतः प्रसेनको मृगाधिपेन पातितः । 17.203 ।
तदा स सत्रजिद्धरिं शशं स सोदरान्तकम् ।
उपां शु वर्त्मना ततो हरिः सयादवो ययौ । 17.204 ।
वने स सिं हसूदितं पदैः प्रदर्श्य वृष्णिनाम् ।
प्रसेनमृक्षपातितं स सिं हमप्यदर्शयत् । 17.205 ।
ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् ।
विवेश तत्र सं युगं बभूव तेन चेशितुः । 17.206 ।
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः ।
चकार चोग्रमन्ततः प्रकाण्सयन् स्वमस्य हि । 17.207 ।
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः ।
जगाम चेतसा रघूत्तमं निजं पतिं गतिम् । 17.208 ।
च्xचिइइ.स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे ।
समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवेत् । 17.209 ।
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् ।
मणिं च तं नुनाव स प्रपन्न आण्सु पादयोः । 17.210 ।
विधाय चक्रदारितं सुजीर्णदेहमस्य सः ।
युवानमाण्सु केशवश्चकार वेदनां विना । 17.211 ।
विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः ।
प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात् । 17.212 ।
गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् ।
प्रतीक्ष्य यादवास्तु ये गता गृहं तदाऽहृषुः । 17.213 ।
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् ।
ददौ च सत्रजित्करे स विच्छविर्बभूव ह । 17.214 ।
स दुर्यशो रमापतावनूच्य मिथ्यया तपन् ।
स्वपापहानकाङ्क्षया ददौ सुतां जनार्दने । 17.215 ।
मणिं च तं प्रदाय तं ननाम ह क्षमापयन् ।
मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया । 17.216 ।
रमैव सा हिभूरिति द्वितीयमूर्तिरुत्तमा ।
बभूव सत्रजित्सुता समस्तलोकसुन्दरी । 17.217 ।
ततो हि सा च रुग्मिणी प्रिये प्रियासु तेऽधिकम् ।
जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः । 17.218 ।
अथाऽप साम्बनामकं सुतं च रोहिणी हरेः ।
चतुर्मुखां शसं युतं कुमारमेव षण्मुखम् । 17.219 ।
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् ।
अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः । 17.220 ।
च्xचिव्.जनार्दनः स नामतो रमेशपादसं श्रयः ।
स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत् । 17.221 ।
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पापकम् ।
यतः सुपापदूतकस्ततो हि तादृशं वचः । 17.222 ।
न तेऽस्त्यगोचरं क्वचित् तथाऽपि चाऽज्ञया वदे ।
वदेति चोदितोऽमुना द्विजो जगाद माधवम् । 17.223 ।
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाण्स्रयौ ।
शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ । 17.224 ।
अजेयवध्यतां च तौ शिवाद् वरं समापतुः ।
जरासुतस्य शिष्यकौ तपोबलेन केवलम् । 17.225 ।
महोदरं च कुण्डधारिणं च भूतकावुभौ ।
तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः । 17.226 ।
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ ।
अजेयतामवापतुर्नचान्यथाऽमरावपि । 17.227 ।
अजेयतामवध्यतामवाप्य तावुभौ शिवात् ।
पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ । 17.228 ।
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति ।
नृपां स्तु देवपक्षिणो विजित्य कर्तुमिच्छतः । 17.229 ।
स्वयं हि राजसूयितां जरासुतो न मन्यते ।
यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः । 17.230 ।
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा ।
समिच्छतोऽद्य तं क्रतुं भवन्तमूचतुश्च तौ । 17.231 ।
समुद्रसं श्रयो भवान् बहून् प्रगृह्य लावणान् ।
च्xच्व्.सुभारकानुपैहि नाविति क्षमस्व मे वचः । 17.232 ।
इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः ।
हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः । 17.233 ।
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ ।
समेत्य वां वरायुधैः करं ददान्यसं शयम् । 17.234 ।
उपैतमाण्सु सं युगार्थिनौ च पुष्करं प्रति ।
इतीरितः शिनेः सुतो जगाम विप्रसं युतः । 17.235 ।
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली ।
विधाय तौ तृणोपमौ गिरा जगाम केशवम् । 17.236 ।
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् ।
सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम् । 17.237 ।
दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् ।
विपाटित् आत्मकौपिनादिसर्वमात्रकोऽभवत् । 17.238 ।
वरात् स्वसम्भवादसौ न शापशक्तिमानभूत् ।
ततः समस्तभञ्जनोरुशक्तिमाप केशवम् । 17.239 ।
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः ।
ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः । 17.240 ।
तमत्रिजं हरात्मकं यतो हि वेद मागधः ।
ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ । 17.241 ।
हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते ।
समीयतुश्च तावुभावथात्र हं सडीभकौ । 17.242 ।
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ ।
समागतौ च भूतकौ शिवस्य यौ पुरस्सरौ । 17.243 ।
च्xच्वि.विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् ।
अवध्यतामजेयतामवाप्य बाधते सुरान् । 17.244 ।
स चाभवत् तयोः सखा सहायकाम्ययाऽगमत् ।
हिडिम्बराक्षसोऽपि यः पुराऽप शङ्कराद् वरम् । 17.245 ।
न जीयसे न वध्यसे कुतश्चनेति तोषित् आत् ।
स चैतयोः सखाऽभवत् समाजगाम तत्र च । 17.246 ।
अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह ।
विचक्रगं षडात्मकं तथैकमेव राक्षसम् । 17.247 ।
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ ।
समीयतुर्युधे हरिं हरिश्च तौ ससार ह । 17.248 ।
अथ द्वयोर्द्वयोरभूद् रणो भयानको महान् ।
हरिर्विचक्रमेयिवान् बलश्च हं समुद्धतम् । 17.249 ।
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी ।
गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः । 17.250 ।
पुरा स चण्डको गणो हरेर्निवेदिताण्सनः ।
समाह्वयद् रणाय वै तयोः स तातमेव हि । 17.251 ।
अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा ।
त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ । 17.252 ।
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् ।
विवाहनं निरायुधं क्षणाच्चकार सायकैः । 17.253 ।
पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा ।
शिरो जहार देवता विनेदुरत्र हर्षित् आः । 17.254 ।
प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः ।
ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम् । 17.255 ।
च्xच्विइ.समस्तयादवान् रणे विधूय तौ जनार्दनम् ।
उपेत्य चां सगौ हरेरदं शतां सुकर्णकौ । 17.256 ।
स तौ भुजप्रवेगतो विधूय शङ्करालये ।
न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते । 17.257 ।
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् ।
सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन् । 17.258 ।
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली ।
प्रगृह्य तावभाषत प्रयातमाण्सु मे मुखम् । 17.259 ।
तदा गदावरायुधः सहैव हं सभूभृत् आ ।
प्रयुद्ध्यमान आययौ विहाय तं हलायुधः । 17.260 ।
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः ।
उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा । 17.261 ।
उभौ हि बाहुषाल् . इनावयुद्ध्यतां च मुष्टिभिः ।
चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः । 17.262 ।
अथैनमुद्धृतं बलाद् बलः स दूरमाक्षिपत् ।
पपात पादयोजने स नाऽजगाम तं पुनः । 17.263 ।
विहाय सैनिकां श्च तौ नृपौ ययौ वनाय सः ।
निहत्य तस्य राक्षसान् हलायुधो ननाद ह । 17.264 ।
गदस्तु साल्वभूभृत् आ वयोगतेन योधयन् ।
विवाहनं निरायुधं चकार सोऽप्यपाद्रवत् । 17.265 ।
सुतेन तस्य कन्यसा युयोध सात्यकी रथी ।
वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ । 17.266 ।
चिरं प्रयुद्ध्य सात्यकिः स हं सकन्यसा बली ।
च्xच्विइइ.शतं सपञ्चकं रणे चकर्त तस्य धन्वनाम् । 17.267 ।
स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः ।
स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः । 17.268 ।
द्विषोडण्सप्रभेदकं वरासियुद्धमश्रमौ ।
प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम् । 17.269 ।
परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम् ।
ततो विहाय सङ्गरं गतौ निरर्थकं त्विति । 17.270 ।
ततः स हं ससं युतो जगाम योद्धुमच्युतम् ।
क्षणेन तौ निरायुधौ चकार केशवः शरैः । 17.271 ।
हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् ।
क्षणेन केशवेन तद्भयादपेयतुश्च तौ । 17.272 ।
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे ।
उवास तां निशां प्रभुः सयादवोऽमितप्रभः । 17.273 ।
परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ ।
यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः । 17.274 ।
स रौहिणेयसं युतः समन्वितश्च सेनया ।
स्वशिष्टसेनया वृतौ पलायिनाववारयत् । 17.275 ।
निवृत्य तौ स्वसेनया ण्सरोत्तमैर्ववर्षतुः ।
सुकोपितौ समस्तशो यदूनवार्यपौरुषौ । 17.276 ।
अथाऽससाद हं सको हलायुधं महाधनुः ।
अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान् । 17.277 ।
स सात्यकिं निरायुधं विवाहनं विवर्मकम् ।
व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः । 17.278 ।
च्xचिx.विधूय सैनिकां श्च स प्रगृह्य चापमाततम् ।
हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः । 17.279 ।
तमाण्सु केशवोऽरिहा समस्तसाधनोज्झितम् ।
क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम् । 17.280 ।
हलायुधो निरायुधं विधाय हं समोजसा ।
विकृष्टचाप आगतं ददर्श तस्य चानुजम् । 17.281 ।
स हं स आण्सु कार्मुकं पुनः प्रगृह्य तं बलम् ।
यदाऽससाद केशवो न्यवारयत् तमोजसा । 17.282 ।
शिनेः सुतात्मजोऽप्यसौ विहाय हं सकानुजम् ।
रथान्तरं समास्थितो जगाम तातमस्य च । 17.283 ।
वयोगतः पिता तयोर्युयोध तेन वृष्णिना ।
शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः । 17.284 ।
स सात्यकिर्दृढाहतो जगाम मोहमाण्सु च ।
सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्द्धचन्द्रकम् । 17.285 ।
स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् ।
यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ । 17.286 ।
नदं श्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः ।
बलोऽपि हं सकानुजं युयोध सेनया युतम् । 17.287 ।
हरिस्तु हं समुल्बणैः शरैः समर्दयन् बलम् ।
जघान तस्य सर्वशो न कश्चिदत्र शेषितः । 17.288 ।
स एक एव केशवं महास्त्रमुक् ससार ह ।
निवार्य तानि सर्वशो हरिर्निजास्त्रमाददे । 17.289 ।
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् ।
गतः पराद्रवद् भयात् पपात यामुनोदके । 17.290 ।
च्च्.वरास्त्रपाणिरीश्वरः पदाऽहनच्छिरस्यमुम् ।
स मूर्छितो मुखेऽपतन्महाभुजङ्गमस्य ह । 17.291 ।
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् ।
तथा सुदुःखसं युतो वसन् मनोः परं म्रियेत् । 17.292 ।
ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात् ।
तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत् । 17.293 ।
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् ।
अपश्यमान आत्मनो व्यपाटयच्च काकुदम् । 17.294 ।
विहाय देहमुल्बणं तमोऽवतार्य चाग्रजम् ।
प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम् । 17.295 ।
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः ।
समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः । 17.296 ।
स्वकीयपादपल्लवाण्स्रयं जनं प्रहर्षयन् ।
उवास नित्यसत्सुखार्णवो रमापतिर्गृहे । 17.297 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
हं सडिभकवधो नाम सप्तदशोऽध्यायः
च्चि.(भीमार्जुनदिग्विजयः )
अथ अष्टादशोऽध्यायः
ओं । यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे ।
द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः । 18.1 ।
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् ।
नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा । 18.2 ।
नहि भागवतो धर्मो देवताभ्युपयाचनम् ।
ज् ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित् । 18.3 ।
नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् ।
शुद्धे भागवते धर्मे निरतो यद् वृकोदरः । 18.4 ।
न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान् ।
न हरिश्चार्थितस्तेन कदाचित् कामलिप्सया । 18.5 ।
भिक्षामटं श्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् ।
नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः । 18.6 ।
न प्रतीपं हरेः क्वापि स करोति कथञ्चन ।
अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी ।
नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत् । 18.7 ।
नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् ।
न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित् । 18.8 ।
सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच ।
परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च । 18.9 ।
प्रतीपकारिणो हन्ति विष्णोर्वैनानजीघनत् ।
न सं शयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत् । 18.10 ।
विद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् ।
च्चिइ.अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन । 18.11 ।
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशातयत् ।
अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन । 18.12 ।
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते ।
सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः ।
अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति । 18.13 ।
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् ।
मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः । 18.14 ।
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन ।
आज्ञयैवास्त्रदेवां श्च प्रेरयामास नार्थनात् । 18.15 ।
अन्वेनमेव तद्धर्मे कृष्णैका सं स्थिता सदा ।
धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत् । 18.16 ।
नाण्सपद् धार्तराष्ट्रां श्च महापद्यपि सा ततः ।
न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत् । 18.17 ।
अन्ये भागवतत्वेऽपि खिन्नधर्माः क्वचित्क्वचित् ।
स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत् । 18.18 ।
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे ।
प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याण्स्च सर्वशः । 18.19 ।
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा ।
ज् ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम् । 18.20 ।
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् ।
मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम् । 18.21 ।
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु ।
कौरवेयसभामध्ये नावतारमरोचयत् । 18.22 ।
च्चिइइ.नकुलः करदानाय प्रेषयामास केशवे ।
अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात् । 18.23 ।
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् ।
भीष्मस्तु भार्गवं राममवमेने युयोध च । 18.24 ।
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः ।
देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित् । 18.25 ।
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् ।
जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा । 18.26 ।
तस्मादेको वायुरेव धर्मे भागवते स्थिरः ।
लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम् । 18.27 ।
सर्वमेतच्च कथितं तत्रतत्रामितात्मना ।
व्यासेनैव पुराणेषु भारते च स्वसं विदा । 18.28 ।
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः ।
बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत् । 18.29 ।
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुल् . ओदनैः ।
सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान् । 18.30 ।
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् ।
सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम् । 18.31 ।
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् ।
द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम् । 18.32 ।
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् ।
अविध्यन्माण्सके पादे पक्षिणः पक्ष्म एव च ।
एवमादीनि चित्राणि बहून्येष व्यदर्शयत् । 18.33 ।
च्चिव्.तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् ।
दर्शयन्नधिकः पार्थादभूद् राजन्यसं सदि । 18.34 ।
कुन्ती निजं सुतं ज् ञात्वा लज्जया नावदच्च तम् ।
पार्थोऽसहं स्तं युद्धायैवाऽह्वयामास सं सदि । 18.35 ।
रणायाक्षत्रियाह्वानं ज् आनन् धर्मप्रतीपकम् ।
भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम् । 18.36 ।
अक्षत्रसं स्कारयुतो जातोऽपि क्षत्रिये कुले ।
न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः । 18.37 ।
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः ।
अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया ।
धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत् । 18.38 ।
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता ।
सर्वराजसदोमध्ये ववन्दे तं वृषा तदा ।
तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः । 18.39 ।
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् ।
समादाय गदे गुर्वी सं रम्भादभ्युदीयतुः । 18.40 ।
देवासुरमनुष्यादि जगदेतच्चराचरम् ।
सर्वं तदा द्विधा भूतं भीमदुर्योधनाण्स्रयात् । 18.41 ।
देवा देवानुकूलाण्स्च भीममेव समाण्स्रिताः ।
असुरा आसुराण्स्चैव दुर्योधनसमाण्स्रयाः ।
द्विधाभूता मानुषाण्स्च देवासुरविभेदतः । 18.42 ।
जय भीम महाबाहो जय दुर्योधनेति च ।
हुङ्कारां श्चैव भिट्कारां श्चक्रुर्देवासुरा अपि । 18.43 ।
दृष्ट्वा जगत् सुसं रब्धं द्रोणोऽथ द्विजसत्तमः ।
नेदं जगद् विनश्येत भीमदुर्योधनाण्स्रयात् ।
च्च्व्.इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ । 18.44 ।
स्वकीयायां स्वकीयायां योग्यतायां नतु क्वचित् ।
युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् ।
द्रोणाज्ञया वारितौ तौ ययतुः स्वं स्वमालयम् । 18.45 ।
सुरासुरान् सुसं रब्धान् कालेन द्रक्ष्यथेति च ।
ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम् । 18.46 ।
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ ।
पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम् । 18.47 ।
पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः ।
वैपरीत्येन तस्याऽसीद् दुर्योधनविनिश्चयः ।
तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि । 18.48 ।
तथोत्कर्षे फल्गुनस्य यशसो विजयस्य च ।
उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा । 18.49 ।
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः ।
आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः ।
सुराः सुग्रीवपक्षस्थाः पूर्वमासं स्तथैव हि । 18.50 ।
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः ।
आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत् । 18.51 ।
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः ।
आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ । 18.52 ।
अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान् ।
बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते । 18.53 ।
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि ।
ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति । 18.54 ।
च्च्वि.अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् ।
गर्व एष कुमाराणामनिवार्यो द्विजोत्तम ।
गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत् । 18.55 ।
निवृत्तेष्वकृत् आर्थेषु वयं बद्ध्वा रिपुं तव ।
आनयाम न सन्देह इति तस्थौ ससोदरः । 18.56 ।
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः ।
ययुरात्तप्रहरणाः पाञ्चालान्तः पुरं द्रुतम् । 18.57 ।
कुमारान् ग्रहणेप्सूं स्तानुपयातानुदीक्ष्य सः ।
अक्षोहिणीत्रितययुऽ न् निस्सृतो द्रुपदो गृहात् । 18.58 ।
ते शरैरभिवर्षन्तः परिवार्य कुमारकान् ।
अर्दयामासुरुद्द्वृत्त् आन् स्त्रियो बालाण्स्च सर्वशः । 18.59 ।
हर्म्यसं स्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि ।
अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान् । 18.60 ।
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् ।
आ योजनात् पुरमुप न त्वा जेष्यति कश्चन । 18.61 ।
इति तेन वरेणैव सुखसं वर्द्धिताण्स्च ते ।
भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः । 18.62 ।
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः ।
भीमार्जुनेति वाण्सन्तो ययुर्यत्र स्म पाण्डवाः । 18.63 ।
त् आन् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः ।
आरुरोह रथं वीरः पुर आत्तशरासनः । 18.64 ।
तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः ।
युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः । 18.65 ।
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् ।
च्च्विइ.दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च । 18.66 ।
द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया ।
चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ । 18.67 ।
धात्रर्यमावेशयुतौ विश्वावसुपरावसू ।
सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत् ।
स मित्रां शयुतो वीरश्चित्रसेनो महारथः । 18.68 ।
अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् ।
जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः ।
त्वष्टुरावेशसं युक्तः स शरानभ्यवर्षत । 18.69 ।
त् आवुभौ विरथौ कृत्वा विचापौ च विवर्मकौ ।
भीमो जघान तां सेनां सवाजिरथकुञ्जराम् । 18.70 ।
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ ।
अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ । 18.71 ।
हस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः ।
गुर्वर्थामर्जुनस्योर्वी प्रतिज्ञां कर्तुमप्यृत् आम् ।
मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत् । 18.72 ।
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् ।
पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात् ।
सिं हो मृगमिवाऽदाय स्वरथे चाभिपेतिवान् । 18.73 ।
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् ।
जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः । 18.74 ।
अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् ।
तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम् । 18.75 ।
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् ।
सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः । 18.76 ।
च्च्विइइ.सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः ।
नेष्याम एनमेवातो गुरोर्वचनगौरवात् । 18.77 ।
स्नेहपाण्सं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् ।
ततः सेनां विहायैव भीमो बीभत्सुमन्वयात् । 18.78 ।
मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् ।
द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ । 18.79 ।
पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति ह ।
अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम् । 18.80 ।
अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव ।
नह्यराज्ञा भवेत् सख्यं तवेतीदं कृतं मया । 18.81 ।
न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः ।
शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता । 18.82 ।
अतः सख्यार्थमेवाद्य त्वद्राज्यार्द्धो हृतो मया ।
गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् ।
नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे । 18.83 ।
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः ।
ययौ शिष्यैर्नागपुरं न्यवसत् सुखमत्र च ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0