महाभारततात्पर्यनिर्णय · भाग 6180
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहु ।
क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः । 10.31 ।
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे ।
कलिस्तु स ब्रह्मवरादजेयो ह्यृते भवन्तं पुरुषेषु सं स्थितः । 10.32 ।
तस्यार्द्धदेहात् समभूदलक्ष्मीस्तत्पुत्रका दोषगणाण्स्च सर्वशः ।
अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता । 10.33 ।
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः ।
इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय । 10.34 ।
चिव्.भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् ।
उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम् । 10.35 ।
कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाण्स्च ।
अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः । 10.36 ।
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार ।
कदागमां स्तस्य कुयुक्तिबाधान् नहि त्वदन्यश्चरितुं समर्थः । 10.37 ।
वेदाण्स्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य ।
तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक् । 10.38 ।
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य ।
सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य । 10.39 ।
ऋते भवन्तं नहि तं निहन्ता त्वमेक एवाखिलशक्तिपूर्णः ।
ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम् । 10.40 ।
इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः ।
प्रादुर्बभूवामृतभूरिल् . आयां विशुद्धविज्ञानघनस्वरूपः । 10.41 ।
वसिष्ठनामा कमल् . ओद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराण्सरः ।
तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ । 10.42 ।
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना ।
वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य । 10.43 ।
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् ।
जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुश्च दाण्साः । 10.44 ।
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् ।
पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः । 10.45 ।
कन्या तुसा दाण्सराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता ।
च्व्.नाम्ना च सा सत्यवतीति तस्यां तवाऽत्मजोऽहं भविताऽस्म्यजोऽपि । 10.46 ।
इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् ।
उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाऽशु विशुद्धचिद्घनः । 10.47 ।
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव ।
योषित्सु पुं सो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः । 10.48 ।
यथा नृसिं हाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः ।
आविर्भवद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा । 10.49 ।
स्त्रीपुम्प्रसऽ न्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् ।
अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम् । 10.50 ।
द्वीपे भगिन्याः स यमस्य विश्वकृत् प्रकाण्सते ज्ञानमरीचिमण्डलः ।
प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितसूर्यदीधितिः । 10.51 ।
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः ।
अनन्तशक्तिर्जगदीश्वरः समस्तदोषातिविदूरविग्रहः । 10.52 ।
शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः ।
रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तजूटं दधानः । 10.53 ।
विस्तीर्णवक्षाः कमल् . आयताक्षो बृहद्भुजः कम्बुसमानकण्ठः ।
समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तसन्मुखः । 10.54 ।
प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीत् आजिनमेखलोल्लसन् ।
दृशा महाज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत । 10.55 ।
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् ।
ज् ञानं तयोः सं स्मृतिमात्रतः सदा प्रत्यक्षभावं परमात्मनो ददौ । 10.56 ।
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः ।
उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽदिसृष्टौ । 10.57 ।
च्वि.सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार ।
तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराण्स्च तस्मात् । 10.58 ।
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् ।
वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम् । 10.59 ।
अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवान्मयैः शरैः ।
निकृत्तशीर्षो भगवन्मुखेरितैः सुराण्स्च सज्ज्ञानसुधारसं पपुः । 10.60 ।
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः ।
ततो मनुष्येषु च सत्सु सं स्थितो विनाण्स्य इत्येष हरिर्व्यचिन्तयत् । 10.61 ।
ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः ।
विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम् । 10.62 ।
येये च सन्तस्तमसाऽनुविष्टास्तां स्तान् सुवाक्यैस्तमसो विमुञ्चन् ।
चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः । 10.63 ।
भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम् ।
अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम् । 10.64 ।
लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा ।
तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः । 10.65 ।
उवाच तं भगवान् मुक्तिमस्मिं स्तव क्षणे दातुमहं समर्थः ।
तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात् । 10.66 ।
ज् ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते ।
त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी । 10.67 ।
एवं बहून् सं सृतिबन्धतः स व्यमोचयद् व्यासतनुर्जनार्दनः ।
बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि । 10.68 ।
अथास्य पुत्रत्वमवाप्तुमिच्छं श्चचार रुद्रः सुतपस्तदीयम् ।
ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन् । 10.69 ।
च्विइ.विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् ।
कामादिदोषां श्च मृषैव दर्शयेन्न तावता तेऽस्य हि सन्ति कुत्रचित् । 10.70 ।
ततस्त्वरण्योः स्म बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः ।
शुकी हि भूत्वाऽभ्यगमद् घृत् आची व्यासं विमथ्नन्तमुतारणी तम् । 10.71 ।
अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् ।
चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयं स्तत्त्वमार्गेष्वयोग्यान् । 10.72 ।
शुकं तमाण्सु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् ।
ज् ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम् । 10.73 ।
शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम् ।
ब्रह्माऽविशत् तमुत वैशपायनं शक्रश्च जैमिनिमथाऽविशद् विभुः । 10.74 ।
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराण्सु तान् मुनीन् ।
समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकां स्तान् विदधे हरिः पुनः । 10.75 ।
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् ।
वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च । 10.76 ।
चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि ।
सुमन्तुं भारतस्यापि वैशम्पायनमादिशत् ।
प्रवर्तने मानुषेषु गन्धर्वादिषु चाऽत्मजम् । 10.77 ।
नारदं पाठयित्वा च देवलोकप्रवृत्तये ।
आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम् । 10.78 ।
तं भारतपुराणानां महारामायणस्य च ।
पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथाऽदिशत् । 10.79 ।
तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः ।
स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः । 10.80 ।
च्विइइ.सनत्कुमारप्रमुखां श्चक्रे योगप्रवर्तकान् ।
भृग्वादीन् कर्मयोगस्य ज्ञानं दत्वाऽमलं शुभम् । 10.81 ।
जैमिनिं कर्ममीमां साकर्तारमकरोत् प्रभुः ।
देवमीमां सिकाद्यन्तः कृत्वा पैलमथाऽदिशत् ।
शेषं च मध्यकरणे पुराणान्यथ चाकरोत् । 10.82 ।
शैवान् पाण्सुपताच्चक्रे सं शयार्थं सुरद्विषाम् ।
वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये ।
ब्राह्मां श्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान् । 10.83 ।
एवं ज् ञानं पुनः प्रापुर्देवाण्स्च ऋषयस्तथा ।
सनत्कुमारप्रमुखा योगिनो मानुषास्तथा ।
कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सुराः । 10.84 ।
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः ।
निरस्य(निपीय)68 चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन् । 10.85 ।
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः ।
प्रकाण्सयं स्तेषु सदाऽत्मगुह्यं मुमोद मेरौ च तथा बदर्याम् । 10.86 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
व्यासावतारानुवर्णनं नॣअम दशमोऽध्यायः
68 प्राचीनकोशेष्वेव ऽनिरस्यऽ, ऽनिपीयऽ इति द्विविधोऽपि पाठो लिखितः ।
यत्र सन्निकृष्टोऽपि जनः समधिग्न विप्रकृष्टस्तत्र कथं निर्णेयात्?
- बन्नञ्जे गोविन्दाचार्यः
चिx.(भगवदवतारप्रतिज् ञॣअ)
अथ एकादशोऽध्यायः
ओं । शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः ।
तस्याऽस पत्नीयुगल् . अं सुताण्स्च पञ्चाभवन् विष्णुपदैकभक्ताः । 11.1 ।
"यदुं च तुर्वशुं चैव देवयानी व्यजायत ।
द्रुह्यं चानुं तथा पूरुं शर्मिष्ठा वार्षपर्वणी" 69 । 11.2 ।
यदोर्वं शे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् ।
विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान् ।
तस्यान्ववाये यदवो बभूवुर्विष्णुसं श्रयाः । 11.3 ।
पूरोर्वं शे तु भरतश्चक्रवर्ती हरिप्रियः ।
तद्वं शजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये । 11.4 ।
प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः ।
देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः । 11.5 ।
त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् ।
विष्णोः प्रसादात् स कृते युगे राजा भविष्यति । 11.6 ।
पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः ।
हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्परः । 11.7 ।
वायुना च समाविष्टो महाबलसमन्वितः ।
येनैव जायमानेन तरसा भूर्विदारिता । 11.8 ।
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः ।
रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चाऽत्मजः । 11.9 ।
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः ।
69 वि. पु. 4.10.6
च्x.रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः ।
विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः । 11.10 ।
शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा ।
भूरिश्रवा अतिबलस्तत्राऽसीत् परमास्त्रवित् । 11.11 ।
तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे ।
दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत् ।
बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः । 11.12 ।
भविष्यति मयाऽविष्टो यज्ञशील इति स्म ह ।
तेन भूरिश्रवा जातः सोमदत्तसुतो बली । 11.13 ।
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः ।
अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः । 11.14 ।
महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः ।
जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति । 11.15 ।
शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि ततश्च शन्तनुः ।
इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेः पदाण्स्रयः । 11.16 ।
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः ।
तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम् । 11.17 ।
अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः ।
उवाच भूमौ नृपतिर्भवाऽशु शप्तो यथा त्वं हि पुरा मयैव । 11.18 ।
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिः स शन्तनुः ।
अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूं श्च । 11.19 ।
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या ।
बभूव तस्याण्स्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी । 11.20 ।
तस्या जरामृतिविध्वं सहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् ।
च्xइ.जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी । 11.21 ।
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः ।
बबन्ध तां गामथ ताञ्छशाप वसिष्ठसं स्थः कमलोद्भवः प्रभुः । 11.22 ।
अधर्मवृत्त् आः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव ।
धर्माच्च्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमतो विमोक्ष्यथ । 11.23 ।
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता ।
अभर्तृका पुं स्त्वसमाण्स्रयेण पत्युर्मृतौ कारणत्वं व्रजेत । 11.24 ।
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत ।
स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः । 11.25 ।
मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः ।
इतीरितास्ते कमलोद्भवं तं ज् ञात्वा समुत्सृज्य च गां प्रणेमुः । 11.26 ।
न मानुषीं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमां श्च ।
महास्त्रवेत्ता भवदं शयुक्तस्तथा बलं नोऽखिलानामुपैतु । 11.27 ।
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसं स्थेन सुरापगां ययुः ।
ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम् । 11.28 ।
इतीरिता सा वरमाण्सु वव्रे तेभ्योऽप्यपापत्वमथ प्रियत्वम् ।
तेषां सदैवाऽत्मन एकमेषां दीर्घायुषं त् आन् सुषुवेऽथ शन्तनोः । 11.29 ।
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् ।
समाण्स्रिता कामिनीवत्त्वकामा तत्पुत्रभार्या भवितुं विडम्बात् । 11.30 ।
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि ।
भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः । 11.31 ।
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत् ।
अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित् । 11.32 ।
च्xइइ.यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य ।
तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः । 11.33 ।
तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः ।
कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः । 11.34 ।
ततस्तु सा ण्सन्तनुतोऽष्ट पुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् ।
गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हिमृषा चकार । 11.35 ।
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् ।
ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तदाऽस शन्तनोः । 11.36 ।
त् आं पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः ।
काऽसि त्वं हेतुना केन हं सि पुत्रान् नृशं सवत् । 11.37 ।
रूपं सुरवरस्त्रीणां तव तेन न पापकम् ।
भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि । 11.38 ।
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति ।
इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा । 11.39 ।
न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु ।
कारणादेव हि सुरा नृषु वासं प्रकुर्वते ।
कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः । 11.40 ।
अदृश्यत्वमसं स्पर्शो ह्यसम्भाषणमेव च ।
सुरैरपि नृज् आतैस्तु गुह्यधर्मो दिवौकसाम् । 11.41 ।
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् ।
नृज् आतं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम् । 11.42 ।
सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया ।
वधोद्योगान्निवृत्त् आ सा ददौ पुत्रं बृहस्पतौ । 11.43 ।
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् ।
च्xइइइ.सं वत्सराणामखिलां श्च वेदान् समभ्यसत् तद्वशगान्तरात्मा । 11.44 ।
ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे ।
रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्द्धवर्षम् । 11.45 ।
स पञ्चविं शत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम् ।
मात्रा समानीय तटे निजे तु सं स्थापितः प्रार्पयितुं स्वपित्रे । 11.46 ।
स तत्र बद्ध्वा ण्सरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव ।
व्रजन् मृगार्थी तृषितो विलोकयन् गङ्गामतोयामभवत् सुविस्मितः । 11.47 ।
स मार्गयामास ततोऽस्य हेतुज्ञप्त्यै तदा स्वं च ददर्श सूनुम् ।
क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु । 11.48 ।
मीमां समानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च ।
अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः । 11.49 ।
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले ।
तनूर्मदीये प्रणिधाय तत् त्वं त् आन् मा ण्सुचोऽनेन च मोदमानः । 11.50 ।
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् ।
राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम् । 11.51 ।
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः ।
रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम् । 11.52 ।
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् ।
पितुं समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः । 11.53 ।
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः ।
शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम् । 11.54 ।
शरद्वां स्तु तपः कुर्वन् ददर्श सहसोर्वशीम् ।
चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत् । 11.55 ।
च्xइव्.विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् ।
हरेः प्राप्तुं तथा तारा भार्या या हिबृहस्पतेः । 11.56 ।
त् आवुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् ।
निनाय नाम चक्रे च कृपाया विषयौ यतः ।
कृपः कृपीति स कृपस्तपो विष्णोण्स्चकार ह । 11.57 ।
तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः ।
प्रादादेष्यत्सप्तर्षित्वमायुः कल्पान्तमेव च ।
स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत् । 11.58 ।
पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् ।
मिथुनं पालयामास स कृपोऽस्त्राण्यवाप च । 11.59 ।
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् ।
तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः । 11.60 ।
यदा हिजातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् ।
स्नातुं घृत् आचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम् । 11.61 ।
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् ।
अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ । 11.62 ।
द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् ।
अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण । 11.63 ।
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार ।
तपो महत् तस्य तथा वराप्सरावलोकनात् स्कन्दितमाण्सु रेतः । 11.64 ।
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः ।
हहू तुनाम्ना स विरिञ्चगायको नाम्नाऽवहो यो मरुतां तदं शयुक् । 11.65 ।
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याण्स्च तथा समस्ताः ।
द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत् । 11.66 ।
च्xव्.पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः ।
द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी । 11.67 ।
सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः ।
उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव । 11.68 ।
तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः ।
मरुत्सु यो विवहो नाम तस्याप्यं शेन युक्तो निजधर्मवर्ती । 11.69 ।
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः ।
या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम् । 11.70 ।
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता ।
ज् आता पुनर्दाण्सगृहे विवर्द्धिता व्यासात्मना विष्णुरभूच्च यस्याम् । 11.71 ।
तद्दर्शनान्नृपतिर्जातहृच्छ्रयो वव्रे प्रदानाय च दाण्सराजम् ।
ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं त् आमथाऽयाद् गृहं स्वम् । 11.72 ।
तच्चिन्तया ग्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आण्स्वपृच्छत् ।
तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाण्सगृहं जगाम । 11.73 ।
स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् ।
तथैव मे सन्ततितो भयं ते व्यैतूर्ध्वरेताः सततं भवानि । 11.74 ।
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् ।
प्रसूनवृष्टिं स च दाण्सदत्तां काल् . ईं समादाय पितुः समर्पयत् । 11.75 ।
ज् ञात्वा तुतां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् ।
लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः । 11.76 ।
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् ।
ज् ञात्वाऽपि तां दाण्सगृहे विवर्द्धितां जग्राह सद्धर्मरतश्च शन्तनुः । 11.77 ।
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च ।
युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तयैवाब्दगणान् बहूं श्च । 11.78 ।
च्xवि.लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् ।
तयोश्च बाल्ये व्यधुनोच्छरीरं जीर्णेन देहेन हि किं ममेति । 11.79 ।
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः ।
तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना । 11.80 ।
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः ।
अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः । 11.81 ।
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् ।
राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम् । 11.82 ।
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् ।
चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे ।
विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत् । 11.83 ।
अथ काण्सिसुतास्तिस्रस्तदर्थं भीष्म आहरत् ।
अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम् । 11.84 ।
पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् ।
विजित्य तं साल्वराजं समेतान् क्षत्रियानपि । 11.85 ।
अम्बिकाम्बालिके तत्र सं वादं चक्रतुः शुभे ।
अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत । 11.86 ।
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि ।
उवाच तां स तत्याज साऽगमत् साल्वमेव च । 11.87 ।
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः ।
भीष्ममाप स नागृह्णात् प्रययौ साऽपि भार्गवम् । 11.88 ।
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः ।
भीष्माय तु यशो दातुं युयुधे तेन भार्गवः । 11.89 ।
च्xविइ.अनन्तशक्तिरपि स न भीष्मं निजघान ह ।
नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः । 11.90 ।
अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् ।
न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य । 11.91 ।
भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरां श्चैव रामः ।
जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य । 11.92 ।
"विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् ।
दर्शयन्नपि मोहाय नैव विष्णुस्तथा भवेत्" ।
एवमादिपुराणोत्थवाक्याद् रामः सदा जयी । 11.93 ।
यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् ।
उन्मुच्य भर्तृद्वेषोत्थात् पापात् तेनाऽश्वयोजयत् । 11.94 ।
अनन्तरं शिखण्डित्वात् तदा सा ण्साङ्करं तपः ।
भीष्मस्य निधनार्थाय पुं स्त्वार्थं च चकार ह । 11.95 ।
भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् ।
रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते । 11.96 ।
रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा ।
भीष्मस्य मृतिहेतुत्वं कालात् पुन्देहसम्भवम् । 11.97 ।
मालां च य इमां मालां गृह्णीयात् स हनिष्यति ।
भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ । 11.98 ।
त् आं न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः ।
द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ । 11.99 ।
एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः ।
चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव । 11.100 ।
भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि ।
च्xविइइ.नाम्ना ण्सिखण्डिनी तस्याः पुं वत् कर्माणि चाकरोत् । 11.101 ।
तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम् ।
उद्वाहयामास सा तां पुं वेषेणैव गूहिताम् ।
अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह । 11.102 ।
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् ।
स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम् ।
इति पाञ्चालराजाय निर्जगाम च सेनया । 11.103 ।
विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः ।
प्रेषयामास धिग् बुद्धिर्भिन्ना तेबालवाक्यतः ।
अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत् । 11.104 ।
अथ भार्यासमेतं तं पितरं चिन्तयाऽकुलम् ।
दृष्ट्वा ण्सिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु । 11.105 ।
इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः ।
स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः । 11.106 ।
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः ।
स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा ।
अं शेन पुं स्वभावार्थं पूर्वदेहे समास्थितः । 11.107 ।
पुं सां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत् ।
स्त्रीणां नैव हि पुं स्त्वं स्याद् बलवत्कारणैरपि । 11.108 ।
अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा ।
पश्चात् पुन्देहमपि सा प्रविवेशैव पुं युतम् । 11.109 ।
नास्या देहः पुं स्त्वमाप नच पुं साऽनधिष्ठिते ।
पुं देहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम् ।
गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ । 11.110 ।
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः ।
च्xइx.प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः । 11.111 ।
श्वो देहि मम देहं मे स्वं च देहं समाविश ।
इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः ।
उवासैव वने तस्मिन् धनदस्तत्र चाऽगमत् । 11.112 ।
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया ।
शशाप धनदो देवश्चिरमित्थं भवेति तम् । 11.113 ।
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता ।
तदा पुं स्त्वं पुनर्यासि चपलत्वादितीरितः । 11.114 ।
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः ।
कथयामासानुभूतं तौ भृशं मुदमापतुः । 11.115 ।
परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ ।
श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः । 11.116 ।
ययौ तेनैव देहेन पुं स्त्वमेव समाण्स्रिता ।
स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान् । 11.117 ।
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः ।
तत्याज देहं च स यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाण्सु कृष्णम् । 11.118 ।
आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः ।
समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री । 11.119 ।
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता ।
पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि । 11.120 ।
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः ।
इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाऽह जगद्गुरुर्वचः । 11.121 ।
ऋते रमां ज् आतु ममाङ्गयोगयोग्याऽङ्गना नैव सुरालयेऽपि ।
तथाऽपि ते वाक्यमहं करिष्ये सां वत्सरं सा चरतु व्रतं च । 11.122 ।
च्xx.सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् ।
इतीरिते राष्ट्रमुपैति नाण्समिति ब्रुवन्तीं पुनराह वाक्यम् । 11.123 ।
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये ।
सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः । 11.124 ।
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् ।
अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट्पवनावेशयुक्तः । 11.125 ।
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा ।
अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः । 11.126 ।
ज् ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् ।
अम्बालिकायामिति तत् तथाऽकरोद् भयात्तु सा पाण्डुरभून्मृषादृक् । 11.127 ।
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च ।
स चाऽस वीर्याधिक एव वायोरावेशतः सर्वशस्त्रास्त्रवेत्ता । 11.128 ।
तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् ।
विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम् । 11.129 ।
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा ।
कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः । 11.130 ।
इतीरिताऽप्यस्य हि मायया सा भीत् आ भुजिष्यां कुमतिर्न्ययोजयत् ।
सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे । 11.131 ।
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् ।
वसिष्ठसाम्यं समभीप्समानं प्राच्यावयन्निच्छया ण्सापमाप । 11.132 ।
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले ।
चोरैर्हृतेऽर्थेऽपितु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम् । 11.133 ।
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा ।
च्xxइ.अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात् । 11.134 ।
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः ।
महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः । 11.135 ।
ज् ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे ।
अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः । 11.136 ।
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् ।
विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः । 11.137 ।
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता ।
पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः । 11.138 ।
गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः ।
य उद्वहो नाम मरुत् तदं शयुक्तो वशी सञ्जयनामधेयः । 11.139 ।
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च ।
समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती । 11.140 ।
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा ।
ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः । 11.141 ।
शूरस्य पुत्री गुणण्सीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा ।
नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः । 11.142 ।
कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् ।
तत्राऽगमच्छङ्करां शोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति । 11.143 ।
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः ।
सुखं वसेत्योमिति तेन चोक्तः शुश्रूषणायाऽदिशदाण्सु कुन्तीम् । 11.144 ।
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि ।
यथा नशक्यते परैः शरीरवाङ्मनोनुगा । 11.145 ।
च्xxइइ.स वत्सरत्रयोदशं तया यथावदर्चितः ।
उपादिशत् परं मनुं समस्तदेववश्यदम् । 11.146 ।
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः ।
समाह्वयद् दिवाकरं स चाऽजगाम तत्क्षणात् । 11.147 ।
ततो न सा विसर्जितुं शशाक तं विना रतिम् ।
सुवाक्यप्रयत्नतोऽपि तामथाऽससाद भास्करः । 11.148 ।
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः ।
सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा । 11.149 ।
पुरा सवालिमारणप्रभूतदोषकारणात् ।
सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि । 11.150 ।
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि ।
अभूच्च दैत्यदूषित् आ मतिर्दिवाकरात्मनः । 11.151 ।
तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् ।
सुदर्शनीयकर्णतः स कर्णनामकोऽभवत् । 11.152 ।
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले ।
जनापवादभीतितस्तया यमस्वसुर्द्रुतम् । 11.153 ।
नदीप्रवाहतो गतं ददर्श सूतनन्दनः ।
तमग्रहीत् सरत्नकं चकार पुत्रकं निजम् । 11.154 ।
सूतेनाधिरथेन लाल् . इततनुस्तद्भार्यया राधया ।
सं वृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च।
बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस-न्नॣ
अम्नाऽसौ वसुषेणतामगमदस्याऽसीद्ध्यमा तद् वसु । 11.155 ।
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे ।
शूराच्छूद्र्यां ज् आतां विदुरोऽवहदारुणीं गुणाढ्यां च । 11.156 ।
च्xxइइइ.अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी ।
कन्यारत्नं चेच्छं श्चक्रे ब्राह्मं तपो वरं चाऽप । 11.157 ।
प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः ।
सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः । 11.158 ।
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः ।
शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी । 11.159 ।
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै ।
शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित् । 11.160 ।
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः ।
अपीपलद् धर्मसमाण्स्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः । 11.161 ।
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव सं स्थाप्य पाण्डुं युवराजमेव ।
चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः । 11.162 ।
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः ।
अथाऽम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुण्स्च महाधनौघैः । 11.163 ।
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः ।
स्वमातरं स्वाण्स्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु । 11.164 ।
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया चसा ययौ ।
परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च। 11.165 ।
माता चसा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती ।
व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः । 11.166 ।
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ ।
यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र । 11.167 ।
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम ।
पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम् । 11.168 ।
च्xxइव्.गृहाण्स्रमेणैव वने निवासं कुर्वन् स भोगान् बुभुजे तपश्च ।
चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन् । 11.169 ।
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् ।
विद्ध्वा ण्सापं प्राप तस्मात् स्त्रिया युङ् मरिष्यसीत्येव बभूव चाऽर्तः । 11.170 ।
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव ।
त् आभ्यां समेतः शतशृङ्गपर्वते नारायणस्याऽश्रममध्यगे पुरः । 11.171 ।
तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाण्स्रयः ।
तत्सङ्गपूतद्युसरिद्वराम्भः सदावगाहातिपवित्रिताङ्गः । 11.172 ।
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा ।
भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या ।
ईयुर्देवादिदेवं शरणमजमुरुं पूर्णषाड्गुण्यमूर्तिं
क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम् । 11.173 ।
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण ।
स्तुत्वा धराऽसुरवराक्रमणात् परेश खिन्ना यतो हि विमुखास्तव तेऽतिपापाः । 11.174 ।
दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश ।
पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः । 11.175 ।
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाण्स्वरथद्विपद्भिः ।
अक्षोहिणी शतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम् ।
तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम् । 11.176 ।
तेषां रथाण्स्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः ।
नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराण्सु परस्परं ते । 11.177 ।
जघ्नुर्गिरीन्द्रतल् . अमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् ।
तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निसूदित उतौघबलैः शतां शः । 11.178 ।
अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः ।
च्xxव्.ससार मायाविदसं ह्यमायो वरादुमेशस्य सुरान् विमोहयन् । 11.179 ।
मायासहस्रेण सुराः समर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः ।
त् आन् वीक्ष्य वज्री परमां तु विद्यां स्वयम्भुदत्तां प्रयुयोज वैष्णवीम् । 11.180 ।
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसं ह्यया ।
माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्द्रमुखाण्स्च मोचिताः । 11.181 ।
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा ।
सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम् । 11.182 ।
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषित् आः ।
त् आन् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान् । 11.183 ।
वरादजेयेन विधातुरेव सुरोत्तमां स्तेन शरैर्निपातितान् ।
निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः । 11.184 ।
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् ।
विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः । 11.185 ।
अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा ।
सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक् । 11.186 ।
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव ।
हन्तव्य इत्यस्मरदाण्सु हि त्वां तदाऽविरासीस्त्वमनन्तपौरुषः । 11.187 ।
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् ।
चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाऽशु यमाय पापम् । 11.188 ।
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताण्स्चतुर्थम् ।
जघान वायुः पुनरेव जातास्ते भूतल् . ए धर्मबलोपपन्नाः । 11.189 ।
राज्ञां महावं शसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा ।
शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हिकाचन स्यात् । 11.190 ।
च्xxवि.त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् ।
दैत्येश्वराणां च तमोऽन्धमेव त्वयैव क्लृप्तं ननु सत्यकाम । 11.191 ।
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा ।
सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्च्यावयितुं च शीघ्रम् । 11.192 ।
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः ।
तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश । 11.193 ।
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि ।
स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः । 11.194 ।
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया ।
गन्धर्विजेन द्रमिल् . एन नाम्ना कं सो जितो येन वराच्छचीपतिः । 11.195 ।
जित्वा जलेशं च हृत् आनि येन रत्नानि यक्षाण्स्च जिताः शिवस्य ।
कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन । 11.196 ।
स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव ।
सर्वैरजेयो बलमुत्तमं ततो ज्ञात्वैव कं सस्य मुदा सुते ददौ । 11.197 ।
निवारयामास न कं समुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् ।
तुल्यः पृथिव्यां विवरेषु वा क्वचिद् वशे बलाद् यो नृपतीश्च चक्रे । 11.198 ।
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हं सो डिभकश्च जातौ ।
वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे । 11.199 ।
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे ।
अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया । 11.200 ।
व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य ।
श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश । 11.201 ।
रामात्मना ये निहताण्स्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य ।
समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः । 11.202 ।
च्xxविइ.ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् ।
योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ । 11.203 ।
नितान्तमुत्पाद्य भवद्विरोधं तथाच वायौ बहुभिः प्रकारैः ।
सर्वेषु देवेषु चपातनीयास्तमस्यथान्धे कलिपूर्वकासुराः । 11.204 ।
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ ।
महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ । 11.205 ।
यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ ।
यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश । 11.206 ।
आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश ।
स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः । 11.207 ।
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् ।
विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन । 11.208 ।
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः ।
इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी । 11.209 ।
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना ।
यदा सभीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत् । 11.210 ।
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि ।
अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे । 11.211 ।
यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना प्रथितोऽपि बाणः ।
स कीचको नाम बभूव रुद्रवरादवध्यः स तमः प्रवेश्यः । 11.212 ।
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव ।
त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम् । 11.213 ।
त्वमेव नित्योदितपूर्णण्सक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः ।
च्xxविइइ.त्वमेव नित्योदितपूर्णसत्सुखस्त्वाद्दृङ् नकश्चित् कुत एव तेऽधिकः । 11.214 ।
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृत् आकृतिः ।
उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः । 11.215 ।
स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा ।
प्रादुर्भविष्ये भवतो हि भक्त्या वशस्त्विवाहं स्ववशोऽपि चेच्छया । 11.216 ।
ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः ।
जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः । 11.217 ।
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृत् आसु तासु ।
श्रुत्वा जलेशात् स मया तुशप्तः क्षत्रेषु गोजीवनको भवेति । 11.218 ।
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि ।
तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी । 11.219 ।
तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः ।
स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः । 11.220 ।
तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या ।
नम्ना यशोदा सच ण्सूरतातसुतस्य वैश्याप्रभवोऽथ गोपः । 11.221 ।
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ ।
त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज । 11.222 ।
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः ।
सर्वे भवन्तो भवताऽशु मानुषे कार्यानुसारेण यथानुरूपतः । 11.223 ।
अथावतीर्णाः सकलाण्स्च देवता यथायथैवाऽह हरिस्तथातथा ।
वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात् । 11.224 ।
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः ।
तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः । 11.225 ।
च्xxइx.महासुरस्यां शयुतः स एव रुद्रावेशाद् बलवानस्त्रवां श्च ।
शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम् । 11.226 ।
अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् ।
कृष्णः पक्षो युयुधानाभिधेयो गुरुत्मतोऽं शेन युतो बभूव । 11.227 ।
यः सं वहो नाम मरुत् तदं शश्चक्रस्य विष्णोण्स्च बभूव तस्मिन् ।
यदुष्वभूद्धृदिको भोजवं शे सितः पक्षस्तस्य सुतो बभूव । 11.228 ।
स पाञ्चजन्यां शयुतो मरुत्सु तथाऽं शयुक्तः प्रवहस्य वीरः ।
नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः । 11.229 ।
ये पाण्डवानामभवन् सहाया देवाण्स्च देवानुचराः समस्ताः ।
अन्ये तु सर्वेऽप्यसुरा हि मध्यमा येमानुषास्ते चलबुद्धिप्रवृत्तयः । 11.230 ।
लि ङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता ।
अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः । 11.231 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
भगवदवतारप्रतिज् ञॣअ नाम एकादशोऽध्यायः
च्xxx.(पाण्डवोत्पत्तिः )
अथ द्वादशोऽध्यायः
ओं । बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः ।
स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी । 12.1 ।
अन्याण्स्च याः काण्स्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् ।
चकार तस्माद्धि पितृष्वसा सा स्वसा च कं सस्य बभूव देवकी । 12.2 ।
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं मङ्गल् . अं कं स एव ।
सं यापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम् । 12.3 ।
विनाऽपराधं न ततो गरीयसो न मातुलो वध्यतामेति विष्णोः ।
लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः । 12.4 ।
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणाम् ।
पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ । 12.5 ।
षट्कन्यकाण्स्चावरजा गृहीत् आस्तेनैव ताभिश्च मुमोद शूरजः ।
बाह्लीकपुत्री च पुरा गृहीत् आ पुराऽस्य भार्या सुरभिस्तु रोहिणी । 12.6 ।
राज्ञश्च काण्सिप्रभवस्य कन्यां स पुत्रिकापुत्रकधर्मतोऽवहत् ।
कन्यां तथा करवीरेश्वरस्य धर्मेण तेनैव दितिं दनुं पुरा । 12.7 ।
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः ।
ज् आतः पुनः शूरजात् काण्सिजायां नान्यो मत्तो विष्णुरस्तीति वादी । 12.8 ।
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्वरस्य ।
सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते । 12.9 ।
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम् ।
अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः । 12.10 ।
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य ।
विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद् यथायोग्यतया बभूवुः । 12.11 ।
च्xxxइ.मरीचिजाः षण्मुनयो बभूवुस्ते देवकं प्राहसन् कार्ष्यहेतोः ।
तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः । 12.12 ।
धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातल् . ए सम्भवध्वम् ।
तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः । 12.13 ।
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् ।
क्रमात् समावेशयदाण्सु देवकीगर्भाण्सये तान् न्यहनच्च कं सः । 12.14 ।
तदा मुनीन्द्रसं युतः सदो विधातुरुत्तमम् ।
स पाण्डुराप्तुमैच्छत न्यवारयं श्च ते तदा । 12.15 ।
यधर्थमेव जायते पुमान् हि तस्य सोऽकृतेः ।
शुभां गतिं नतु व्रजेद् ध्रुवं ततो न्यवारयन् । 12.16 ।
प्रधानदेवताजने नियोक्तुमात्मनः प्रियाम् ।
बभूव पाण्डुरेष तद् विना न तस्य सद्गतिः । 12.17 ।
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः ।
यथैव धर्मभूषणो जगाम सन्ध्यकासुतः । 12.18 ।
तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः ।
विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः । 12.19 ।
तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रदूषितं च तत् ।
विचार्य तु प्रियामिदं जगाद वासुदेवधीः । 12.20 ।
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि ।
सुतं विना न नो गतिं शुभां वदन्ति साधवः । 12.21 ।
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च ।
ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः । 12.22 ।
न ते सुरानृते समः सुरेषु केचिदेव च ।
च्xxxइइ.अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया । 12.23 ।
वरं समाण्स्रिता पतिं व्रजेत या ततोऽधमम् ।
न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति । 12.24 ।
कृते पुरा सुरास्तथा सुराङ्गनाण्स्च केवलम् ।
निमित्ततोऽपि ताः क्वचिन्न तान् विहाय मेनिरे । 12.25 ।
मनोवचः शरीरतो यतो हि ताः पतिव्रताः ।
अनादिकालतोऽभवं स्ततः सभर्तृकाः सदा । 12.26 ।
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि ।
कृत् आन्तमाप्य चाप्सरः स्त्रियो बभूवुरूर्जिताः । 12.27 ।
अनावृत् आण्स्च तास्तथा यथेष्टभर्तृकाः सदा ।
अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम् । 12.28 ।
सुरस्त्रियोऽतिकारणैर्यदाऽन्यथा स्थितास्तदा ।
दुरन्वयात् सुदुः सहा विपत् ततो भविष्यति । 12.29 ।
अयुक्तमुक्तवां स्ततो भवां स्तथाऽपि ते वचः ।
अलङ्घ्यमेव मे ततो वदस्व पुत्रदं सुरम् । 12.30 ।
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः ।
नृपोऽभिरक्षित् आ भवेत् तदाह्वयाऽशु तं विभुम् । 12.31 ।
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः ।
इतीरिते तया यमः समाहुतोऽगमद् द्रुतम् । 12.32 ।
ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम् ।
युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम् । 12.33 ।
यमे सुते तु कुन्तितः प्रजात एव सौबली ।
अदं ह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च । 12.34 ।
च्xxxइइइ.स्वगर्भपातने कृते तया जगाम केशवः ।
पराण्सरात्मजो न्यधाद् घटेषु तान् विभागशः । 12.35 ।
शतात्मना विभेदिताः शतं सुयोधनादयः ।
बभूवुरन्वहं ततः शतोत्तरा च दुः शल् . आ । 12.36 ।
स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः ।
पराण्सरात्मजः प्रभुर्विचित्रवीर्यजोद्भवम् । 12.37 ।
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक् ।
प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत् । 12.38 ।
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः ।
वसुन्धरातल् . ओद्भवोन्मुखं श्रुतं दितेः सुतैः । 12.39 ।
ततस्तु ते त्रिलोचनं तपोबलादतोषयन् ।
वृतश्च देवकण्टको ह्यवध्य एव सर्वतः । 12.40 ।
वरादुमापतेस्ततः कलिः स देवकण्टकः ।
बभूव वज्रकाययुक् सुयोधनो महाबलः । 12.41 ।
अवध्य एव सर्वतः सुयोधने समुत्थिते ।
घृत् आभिपूर्णकुम्भतः स इन्द्रजित् समुत्थितः । 12.42 ।
स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः ।
स वै विकर्ण उच्यते ततः खरोऽभवद् बली । 12.43 ।
स चित्रसेननामकस्तथाऽपरे च राक्षसाः ।
बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः । 12.44 ।
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन् ।
मृषेति नामतो हि या बभूव दुः शल् . आऽसुरी । 12.45 ।
कुहूप्रवेशसं युता ययाऽर्जुनेर्वधाय हि ।
तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी । 12.46 ।
च्xxxइव्.तयोदितो हि सैन्धवो बभूव कारणं वधे ।
स कालकेयदानवस्तदर्थमास भूतल् . ए । 12.47 ।
तथाऽस निरृथाभिधोऽनुजः स निरृतेरभूत् ।
स नासिकामरुद्युतो युयुत्सुनामकः कृती । 12.48 ।
स चाऽम्बिकेयवीर्यजः सुयोधनादनन्तरः ।
बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः । 12.49 ।
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः ।
रक्ष्योऽन्यथा नाण्समुपैति तस्माद् बलद्वयाढ्यं प्रसुवाऽशु पुत्रम् । 12.50 ।
यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः ।
वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते । 12.51 ।
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः ।
अतश्च ते श्वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तत् प्रभुम् । 12.52 ।
इतीरिते पृथयाऽहूतवायुसं स्पर्शमात्रादभवद् बलद्वये ।
समो जगत्यस्ति न यस्य कश्चिद् भक्तौ च विष्णोर्भगवद्वशः सुतः । 12.53 ।
स वायुरेवाभवदत्र भीमनामा भृत् आ माः सकला हि यस्मिन् ।
स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ । 12.54 ।
तज्जन्ममात्रेण धरा विदारिता ण्सार्दूलभीत् आज्जननीकराद् यदा ।
पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा । 12.55 ।
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसं युताः ।
नृपाण्स्च तत्पक्षभवाः समस्तास्तदा भीत् आ असुरा राक्षसाण्स्च । 12.56 ।
अवर्द्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्द्धयन् ।
तदैव शेषो हरिणोदितोऽविशद् गर्भं सुताया अपि देवकस्य । 12.57 ।
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाण्सु ।
च्xxxव्.नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम् । 12.58 ।
स नामतो बलदेवो बलाढ्यो बभूव तस्यानु जनार्दनः प्रभुः ।
आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामिह देवकस्य । 12.59 ।
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा ।
अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्चित् क्वच स ह्यजो हरिः । 12.60 ।
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा ।
जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः । 12.61 ।
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव ।
देवीमुवासात्र च सप्त मासान् सार्धां स्ततश्चाऽविरभूदजोऽपि । 12.62 ।
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिं हरूपः ।
तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः । 12.63 ।
पितृक्रमं मोहनार्थं समेति न तावता ण्सुक्लतो रक्ततश्च ।
ज् आतोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः । 12.64 ।
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयं श्च ।
पीत् आम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे सुखार्णवः । 12.65 ।
स कञ्चयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा चजगाद शूरजम् ।
नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः । 12.66 ।
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा ण्स्रीरनु नन्दपत्न्याम् ।
ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान् निशीथे । 12.67 ।
सं स्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ ।
हत्वा स्वसुर्गर्भषट्कं क्रमेण मत्वाऽष्टमं तत्र जगाम कं सः । 12.68 ।
गर्भं देवक्यां सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं त् आं ततः सः ।
मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातल् . ए च। 12.69 ।
च्xxxवि.सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा ।
ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया । 12.70 ।
उवाच चाऽर्या तव मृत्युरत्र क्वचित् प्रजातो हि वृथैव पाप ।
अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम् । 12.71 ।
उक्त्वेति कं सं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा ।
नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम् । 12.72 ।
श्रुत्वा तयोक्तं तु तदैव कं सः पश्चात्तापाद् वसुदेवं सभार्यम् ।
प्रसादयामास पुनः पुनश्च विहाय कोपं च तमूचतुस्तौ ।
सुखस्य दुःखस्य च राजसिं ह नान्यः कर्ता वासुदेवादिति स्म । 12.73 ।
आनीय कं सोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम् ।
श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि । 12.74 ।
तथेति तां स्तत्र नियुज्य कं सो गृहं स्वकीयं प्रविवेश पापः ।
चेरुश्च ते बालवधे सदोद्यता हिं साविहाराः सततं स्वभावतः । 12.75 ।
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम् ।
कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम् । 12.76 ।
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम् ।
महोत्सवात् पूर्णमनाण्स्च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तदा गाः । 12.77 ।
सुवर्णरत्नाम्बरभूषणानां बहूनि गोजीविगणाधिनाथः ।
प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन् । 12.78 ।
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कं सस्य गृहं स नन्दः ।
पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निस्सृतः प्राप कृष्णाम् । 12.79 ।
सहाऽगता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः ।
निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र । 12.80 ।
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम् ।
च्xxxविइ.राज्ञेऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम् । 12.81 ।
याह्युत्पाताः सन्ति तत्रेत्युदीरितो जगाम शीघ्रं यमुनां स नन्दः ।
रात्रावेवाऽगच्छमाने तु नन्दे कं सस्य धात्री तुजगाम गोष्ठम् । 12.82 ।
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च ।
विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे । 12.83 ।
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ।
जग्राह मात्रा तुयशोदया तया निद्रायुजा प्रेक्ष्यमाणा ण्सुभेव । 12.84 ।
तन्मायया धर्षित् आ निद्रया च न्यवारयन्नैव हि नन्दजाया ।
तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाऽशु जनार्दनः प्रभुः । 12.85 ।
मृत् आ स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम् ।
तदाऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वा च सर्वेऽप्यभवन् सुविस्मिताः । 12.86 ।
सा ताटका चोर्वशिसम्प्रविष्टा कृष्णावध्यानान्निरयं जगाम ।
सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन । 12.87 ।
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य ।
कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे । 12.88 ।
यदाऽप देवश्चतुरः स मासां स्तदोपनिष्क्रामणमस्य चाऽसीत् ।
जन्मर्क्षमस्मिन् दिन एव चाऽसीत् प्रातः किञ्चित् तत्र महोत्सवोऽभवत् । 12.89 ।
तदा ण्सयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम् ।
अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः । 12.90 ।
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात ।
ममार चाऽशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्च । 12.91 ।
ससम्भ्रमात् तं प्रतिगृह्य शङ्क्या कृष्णं यशोदा द्विजवर्यसूक्तिभिः ।
सा स्नापयामास नदीतटात् तदा समागता नन्दवचोऽभितर्जिता । 12.92 ।
च्xxxविइइ.हत्वा तु तं कं सभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता ।
एवं गोपान् प्रीणयन् बालकेल् . ईविनोदतो न्यवसत् तत्र देवः । 12.93 ।
विवर्द्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0