भाषा

ENहिગુ
ग्रंथ पाठ

महाभारततात्पर्यनिर्णय · भाग 4160

सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाताल् . अगिरीन्द्रसागरा ।
धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम् । 8.88 ।
प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः ।
समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान् । 8.89 ।
स मुष्टिमावर्त्य च वज्रकल्पं जघान तेनैव च रावणं रुषा ।
प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात । 8.90 ।
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः ।
जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः । 8.91 ।
ल्xx.स रामसं स्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे ।
बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचस्वरश्मिभिः । 8.92 ।
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च ।
सुलब्धसञ्ज्ञं रजनीचरेशं जगाद सज्जीभव रावणेति । 8.93 ।
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आण्सु रामम् ।
अभ्येत्य सर्वाण्स्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता । 8.94 ।
रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितल् . ए स्थितः स्यात् ।
इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम् । 8.95 ।
प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् ।
धनूं षि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलिम् । 8.96 ।
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि ।
समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम् । 8.97 ।
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः ।
हतावशेषैरथ कुम्भकर्णप्रबोधनायाऽशु मतिं चकार । 8.98 ।
सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः ।
तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत् । 8.99 ।
शैलोपमानस्य च मां सराण्सीन् विधाय भक्षानपि शोणितह्रदान् ।
सुतृप्तमेनं परमादरेण समाह्वयामास सभातल् . आय । 8.100 ।
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि ।
रणे नरेणैव च रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य । 8.101 ।
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः ।
अमोघवीर्येण हिराघवेण त्वया विरोधश्चरितो बताद्य । 8.102 ।
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम ।
ल्xxइ.इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया । 8.103 ।
चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान् ।
समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय । 8.104 ।
प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् ।
कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाण्सु । 8.105 ।
शतवलिपनसाख्यौ तत्र वस्वं शभूतौ पवनगणवरां शौ श्वेतसम्पातिनौ च ।
निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः । 8.106 ।
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष ।
नल् . अमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च । 8.107 ।

अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः ।
निजघ्निरे निशाचरं सवृक्षण्सैलसानुभिः । 8.108 ।
विचूर्णित् आण्स्च राक्षसास्तनौ निशाचरस्य ते ।
बभूव काचन व्यथा नचास्य बाहुषाल् . इनः । 8.109 ।
अथापरं महाचलं प्रगृह्य भास्करात्मजः ।
मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः । 8.110 ।
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा ।
स जाम्बवन्तमाण्सु तौ निपेततुस्तल् . आहतौ । 8.111 ।
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली ।
जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः । 8.112 ।
यदैनमेष बाधते तदा विमोचयाम्यहम् ।
यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम् । 8.113 ।
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः ।
पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः । 8.114 ।
ल्xxइइ.तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिं स्तेन सिक्तः कपीशः ।
विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददं श । 8.115 ।
कराभ्यामथ कर्णौ च नासिकां दशनैरपि ।
सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः । 8.116 ।
तल् . एन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि ।
समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः । 8.117 ।
अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः ।
प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः । 8.118 ।
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे ।
जगर्ज तेनाभिहतो हनूमानचिन्तयं स्तत् प्रजहार चैनम् । 8.119 ।
तल् . एन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः ।
पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः । 8.120 ।
विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः ।
असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाण्सयन् । 8.121 ।
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत ।
दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरा ततश्च । 8.122 ।
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन ।
उक्तं ममैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः । 8.123 ।
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः ।
स कुम्भकर्णोऽखिलवानरां स्तु प्रभक्षयन् राममुपाजगाम । 8.124 ।
ते भक्षित् आस्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् ।
स्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवाऽरुरुहुर्यथा गिरिम् । 8.125 ।
स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः ।
प्रभक्षयन् स्वानपरां श्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन् । 8.126 ।
ल्xxइइइ.न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः ।
जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाऽशु । 8.127 ।

अथो समादाय धनुः सुघोरं शरां श्च वज्राण्सनितुल्यवेगान् ।
प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत् । 8.128 ।
यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः ।
अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच । 8.129 ।
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा ण्सराभ्याम् ।
अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आण्सु । 8.130 ।
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य ।
सुराण्स्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्ध्नि । 8.131 ।
योजनानां त्रिलक्षं हि कुम्भकर्णो व्यवर्धत ।
पूर्वं पश्चात् सञ्चुकोच लङ्कायामुषितुं स्वयम् । 8.132 ।
स तु स्वभावमापन्नो म्रियमाणो व्यवर्धत ।
तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा । 8.133 ।
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताण्स्च सर्वशः ।
हतावशिष्टास्त्वरिताः प्रदुद्रुवुभ्रातुर्वधं चोचुरुपेत्य रावणम् । 8.134 ।
स दुःखतप्तो निपपात मूर्छितो निराण्सकश्चाभवदात्मजीविते ।
तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय माचिरम् । 8.135 ।
मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः ।
स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम् । 8.136 ।
स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम् ।
स नागपाण्सैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसऽ न्घान् । 8.137 ।
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वां स्त्रिदशां स्तदैव ।
ल्xxइव्.ममापि सेवा भवते प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम् । 8.138 ।
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् ।
आदास्य एवात्र यथा यशः स्याद् धर्मश्च कर्तव्यकृदेव च स्याः । 8.139 ।
वरेण ण्सर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् ।
उरङ्गपाण्सेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व । 8.140 ।
अहं समर्थोऽपि स लक्ष्मणण्स्च तथा हनूमान् न विमोचयामः ।
तव प्रियार्थं गरुडैष एव कृतस्तवाऽदेश इमं कुरुष्व । 8.141 ।
तदेतदुक्तं हि पुराऽत्मना यत् ततो हि रामो न मुमोच कञ्चन ।
न लक्ष्मणो नैव च मारुतात्मजः स चैव जानाति हि देवगुह्यम् । 8.142 ।
अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाण्सम् ।
ननन्द चासौ पिशिताण्सनेश्वरः शशं स पुत्रं च कृत् आत्मकार्यम् । 8.143 ।
स पक्षिराजोऽथ हरेर्निदेशं स्मरं स्त्वरावानिह चाऽजगाम ।
तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः । 8.144 ।
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः ।
कपिप्रवीराण्स्च तरूञ्छिलाण्स्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः । 8.145 ।
श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः ।
बन्धादमुष्मात् प्रतिनिस्सृत् आस्ते किमत्र कार्यं त्विति चिन्तयानः । 8.146 ।
पुनश्च हुत्वा स हुताण्समेव रथं समारुह्य ययावदर्शनम् ।
ववर्ष चास्त्राणि महान्त्यजस्रं वरादुमेशस्य तथाऽब्जजस्य । 8.147 ।

पुनश्च तस्यास्त्रनिपीडित् आस्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः ।
स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित् । 8.148 ।
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात् ।
ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च । 8.149 ।
ल्xxव्.स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् ।
आण्स्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः । 8.150 ।
ऊचे पुनर्जीवति किं हनूमान् जीवाः स्म सर्वेऽपि हि जीवमाने ।
तस्मिन् हते निहताण्स्चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः । 8.151 ।
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् ।
योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञितः ।
गिरिस्तस्मात् समाहार्यं त्वयौषधचतुष्टयम् । 8.152 ।
मृतसञ्जीवनी मुख्या सन्धानकरणी परा ।
सवर्णकरणी चैव विशल्यकरणीति च । 8.153 ।
इत्युक्तः स क्षणेनैव प्रापतद् गन्धमादनम् ।
अवाप चाम्बरचरो राममुक्तः शरो यथा । 8.154 ।
अन्तर्हिताण्स्चौषधीस्तु तदा विज्ञाय मारुतिः ।
उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम् । 8.155 ।
स तं समुत्पाट्य गिरिं करेण प्रतोल् . अयित्वा बलदेवसूनुः ।
समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे । 8.156 ।
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः ।
तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात् । 8.157 ।
अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे ।
पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता । 8.158 ।
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः ।
पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् सं स्थित एव तत्र च । 8.159 ।
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् ।
पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः । 8.160 ।
पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश ।
ल्xxवि.स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान् । 8.161 ।
वराण्स्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् ।
अथाऽह रामस्य मनोऽनुसारतः पुराऽस्त्रमेवानुसरन् स लक्ष्मणः । 8.162 ।
पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया ण्सक्रजितं सबान्धवम् ।
इतीरिते तेन स चाऽह राघवो भयाददृश्ये न विमोक्तुमर्हसि । 8.163 ।
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण ।
अदृश्यमप्याण्सु निहन्मि सन्तं रसातल् . एऽथापि हि सत्यलोके । 8.164 ।
इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाण्साय पुरा प्रभुः स्वयम् ।
सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ । 8.165 ।
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् ।
विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराण्सु । 8.166 ।
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् ।

विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये । 8.167 ।
निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः ।
उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशं समाना रघुवीरमुच्चैः । 8.168 ।
सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः ।
स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम् । 8.169 ।
विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः ।
कृत् आग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः । 8.170 ।
न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात् पुनः ।
सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः । 8.171 ।
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन ।
सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय । 8.172 ।
ल्xxविइ.स जुह्वतस्तस्य चकार विघ्नं प्लवǣ न्गमैः सोऽथ युयुत्सया रथम् ।
समास्थितः कार्मुकबाणपाणिः प्रयुद्ययौ लक्ष्मणमाण्सु गर्जन् । 8.173 ।
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः ।
दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः । 8.174 ।
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् ।
शिरः शरेणाऽशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः । 8.175 ।
निपातितेऽस्मिन् नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः ।
हतावशिष्टास्तु दशाननाय शशं सुरत्याप्तसुतप्रणाण्सम् । 8.176 ।
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् ।
सं स्थापयामास मतिं पुनश्च मरिष्य इत्येव विनिश्चितार्थः । 8.177 ।
मरणाभिमुखः शीघ्रं रावणो रणकर्मणे ।
सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम् । 8.178 ।
त्रिं शत् सहस्राणि महौघकानामक्षोहिणीनां सहषट्सहस्रम् ।
श्रमेण सं योजयताऽशु रामं सज्जो भवामीति दिदेश रावणः । 8.179 ।
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् ।
प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपी ञ्छीघ्रतमं जगाम । 8.180 ।
आगच्छमानं तदपारमेयं बलं सुघोरं प्रल् . अयार्णवोपमम् ।
भयात् समुद्विग्नविषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः । 8.181 ।
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातल् . एऽल्पेऽपि निवासशक्तिः ।
अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाण्सकन् । 8.182 ।
प्रगृह्य रामोऽथ धनुः शरां श्च समन्ततस्तानवधीच्छरौघैः ।
स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजहार सर्वशः । 8.183 ।
क्षणेन सर्वां श्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः ।
अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः । 8.184 ।
ल्xxविइइ.अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन सं वृतः ।
विमानमारुह्य च पुष्पकं त्वरन् शरीरनाण्साय महायुधोद्धतः । 8.185 ।
विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च ।
ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम् । 8.186 ।
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः ।

प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोदरो रुषा । 8.187 ।
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः ।
प्रदुद्रुवुर्वानरवीरसऽ न्घास्तमाससादाऽशु सुतोऽथ वालिनः । 8.188 ।
वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात ।
इतीरयन्नग्रत एष पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली । 8.189 ।
अथो शरानाण्सु विमुञ्चमानं शिरः परामृश्य निपात्य भूतल् . ए ।
ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः । 8.190 ।
अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः ।
प्रसं ह्य चाऽच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः । 8.191 ।
निगृह्य केशेषु निपात्य भूतल् . ए चकर्त वामां सत ओदरं परम् ।
यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः । 8.192 ।
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः ।
यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः । 8.193 ।
त् आभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाण्सकदत्र वीरः ।
हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे । 8.194 ।
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन ।
निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि । 8.195 ।
ततः स सर्वां श्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः ।
ल्xxइx.जगाम रामाभिमुखस्तदैनं रुरोध रामावरजं शरौघैः । 8.196 ।
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन ।
मयाद्गृहीत् आं च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे । 8.197 ।
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः ।
मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षः पतिवक्षसि द्रुतम् । 8.198 ।
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाण्सु ।
तदन्तरेण प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम् । 8.199 ।
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः ।
प्रभुः समानेतुमथो वरौषधीः स चाऽनिनायाऽशु गिरिं पुनस्तम् । 8.200 ।
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् ।
शशं स चाण्स्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन् । 8.201 ।
प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः ।
अर्धलक्षे योजनानां यत्रासौ पूर्वसं स्थितः । 8.202 ।
तद्बाहुवेगात् सं श्लेष प्राप पूर्ववदेव सः ।
मृत् आण्स्च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः । 8.203 ।
रामाज्ञयैव रक्षां सि हरयोऽब्धाववाक्षिपन् ।
नोज्जीवितास्ततस्ते तु वानरा निरुजोऽभवन् । 8.204 ।
छिन्नप्ररोहिणण्स्चैव विशल्याः पूर्ववर्णिनः ।
औषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन् । 8.205 ।
अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् ।
प्रवर्षमाणो रघुवं शनाथं तमात्तधन्वाऽभिययौ च रामः । 8.206 ।
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः ।

सहायुधं मातलिसङ्गृहीतं समारुरोहाऽशु स लक्ष्मणाग्रजः । 8.207 ।
ल्xxx.आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाण्सु ।
अभ्युद्ययौ दशशतां शुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन् । 8.208 ।
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे ।
रामस्तु तानि विनिहत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत् । 8.209 ।
कृत्त् आनि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद ।
बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाण्सु महाविमानात् । 8.210 ।
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा ण्सिवेन सहितः सह लोकपालैः ।
अभ्येत्य पादयुगल् . अं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम । 8.211 ।
अथैनमस्तौत् पितरं कृत् आञ्जलिर्गुणाभिरामं जगतः पितामहः ।
जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम् । 8.212 ।
त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः ।
गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्चाऽदिविनाण्सवर्जिताः । 8.213 ।
नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा ।
त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाण्स्च ये । 8.214 ।
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः ।
गच्छन्ति चाऽयन्ति च सन्ततास्त्त्वत् तद्वन्मदाद्याः शिवपूर्वकाण्स्च ये । 8.215 ।
ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव ।
वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः । 8.216 ।
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् ।
अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते । 8.217 ।
इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय ।
वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मेहि । 8.218 ।
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे ।
विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः । 8.219 ।
ल्xxxइ.अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः ।
उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु । 8.220 ।
अथेन्द्रमुख्याण्स्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम् ।
तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्म । 8.221 ।
सीत् आकृतिं त् आमथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके ।
कैलासतस्तां पुनरेव चाऽगतां सीत् आमगृह्णाद्धुतभुक्समर्पिताम् । 8.222 ।
ज् आनन् गिरीशालयगां स सीत् आं समग्रहीत् पावकसम्प्रदत्ताम् ।
मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य । 8.223 ।
अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडित् आः ।
त् आरापिता तान् निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः । 8.224 ।
तदा मृत् आन् राघव आनिनाय यमक्षयाद् देवगणां श्च सर्वशः ।
समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ । 8.225 ।
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः ।
पुरीं जगामाऽशु निजामयोध्यां पुरो हनूमन्तमथ न्ययोजयत् । 8.226 ।
ददर्श चासौ भरतं हुताण्सनं प्रवेष्टुकामं जगदीश्वरस्य ।

अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशं स मारुतिः । 8.227 ।
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः ।
शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः । 8.228 ।
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः ।
शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः । 8.229 ।
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः ।
यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः । 8.230 ।
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् ।
ल्xxxइइ.एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम् । 8.231 ।
मुक्तिप्रदानात् प्रतिकर्तृत् आ मे सर्वस्य चाथो भवतां भवेत् ।
हनूमतो न प्रतिकर्तृत् आ स्यात् स्वभावभक्तस्य निरौपधं मे । 8.232 ।
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्य
स्वाभाव्याधिक्यतेजः सुमतिदमशमेष्वस्य तुल्यो न कश्चित् ।
शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रां शतुल्या
अस्येत्यस्मान्मदैशं पदमहममुना सार्धमेवोपभोक्ष्ये । 8.233 ।
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् ।
कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम् । 8.234 ।
दत्तो वरो न मनुजान् प्रति वानरां श्च धात्राऽस्य तेन विजितो युधि वालिनैषः ।
अब्जोद्भवस्य वरमाण्स्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम् । 8.235 ।
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु ।
तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या । 8.236 ।
पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना ।
महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः । 8.237 ।
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् ।
ज् ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम् । 8.238 ।
अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः ।
अमुष्य हेतोस्तु पुरा हि वायुना ण्सिवेन्द्रपूर्वा अपि काष्ठवत् कृत् आः । 8.239 ।
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म ।
मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम् । 8.240 ।
भोगाण्स्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति ।
मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम । 8.241 ।
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव ।
ल्xxxइइइ.इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः । 8.242 ।
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते । 8.243 ।
त्वमेव साक्षात् परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः ।
त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः । 8.244 ।
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः ।
गुणां स्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः । 8.245 ।
यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः ।

स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात् । 8.246 ।
प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा ।
अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः । 8.247 ।
इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् ।
समाण्स्लिषच्चैनमथाऽर्द्रया धिया यथोचितं सर्वजनानपूजयत् । 8.248 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते (हनूमति श्रीरामदयादानं नॣअम) अष्टमोऽध्यायः
ल्xxxइव्.(रामस्वधामप्रवेशः )
अथ नवमोऽध्यायः
ओं । अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु ।
इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम् । 9.1 ।
न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति ।
नहीदृशः कश्चिदनुग्रहः क्वचित् तदेव मे देहि ततः सदैव । 9.2 ।
इतीरितस्तस्य तदेव दत्त्वा दृढं समाण्स्लिष्य च राघवः प्रभुः ।
स यौवराज्यं भरते निधाय जुगोप लोकानखिलान् सधर्मकान् । 9.3 ।
प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ ।
जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित् । 9.4 ।
गुणैश्च सर्वैरुदिताण्स्च सर्वे यथायथा योग्यतयोच्चनीचाः ।
समस्तरोगादिभिरुज्झिताण्स्च सर्वे सहस्रायुष ऊर्जिता धनैः । 9.5 ।
सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः ।
समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाण्स्च सदा महोत्सवाः । 9.6 ।
सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् ।
समस्तरत्नोद्भरिता चपृथ्वी यथेष्टधान्या बहुदुग्धगोमती । 9.7 ।
समस्तगन्धाण्स्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र ।
शब्दाण्स्च सर्वे श्रवणातिहारिणः स्पर्शाण्स्च सर्वे स्पर्शेन्द्रियप्रियाः । 9.8 ।
न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहीनश्च बभूव कश्चन ।
नाधर्मशीलो न च कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च । 9.9 ।
स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमां सो विधुरा बभूवुः ।
नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः । 9.10 ।
यथेष्टमाल्याभरणानुलेपना यथेष्टपानाण्सनवाससोऽखिलाः ।
बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे । 9.11 ।
ल्xxxव्.स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः ।
नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः । 9.12 ।
तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीत् आभिधा त्वरमयत् स्वरतं सुरेशम् ।
नित्यावियोगिपरमोच्चनिजस्वभावा सौन्दर्यविभ्रमसुलक्षणपूर्वभावा । 9.13 ।
रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः ।
पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु । 9.14 ।
गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः ।
तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः । 9.15 ।

एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः ।
आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः । 9.16 ।
देव्यां स चाजनयदिन्द्रहुताण्सनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ ।
शत्रुघ्नतो लवणमुद्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः । 9.17 ।
कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् ।
सं शिक्षयन्नयजदुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाण्स्च यत्र । 9.18 ।
अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् ।
उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम् । 9.19 ।
जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः ।
बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया ।
तपश्चचार दुर्बुद्धिरिच्छन् माहेश्वरं पदम् । 9.20 ।
अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः ।
श्वेतदत्तां तथा मालामगस्त्यादाप राघवः । 9.21 ।
अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् ।
कुर्वन् स्वमां सैर्धात्रोक्तो मालां रामार्थमर्पयत् ।
अगस्त्याय न साक्षात्तु रामे दद्यादयं नृपः । 9.22 ।
ल्xxxवि.क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम् ।
क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति । 9.23 ।
व्यवधानतस्ततो रामे दद्याच्छवेत इति प्रभुः ।
मत्वा ब्रह्माऽदिशन्मालां प्रदातुं कुम्भयोनये । 9.24 ।
त् आमगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः ।
इत्यवेत्य जगृहे जनार्दनस्तेन सं स्तुत उपागमत् पुरम् । 9.25 ।
अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा ।
ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेक्ष्य चोचिरे । 9.26 ।
भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण ।
इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः । 9.27 ।
यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् ।
त् आवदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत् । 9.28 ।
इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ ।
साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन् । 9.29 ।
त् आननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् ।
मैथिलस्य तनया व्यचालयन्मायया स्वतनुवा स्वमार्गतः । 9.30 ।
आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् ।
राघवं निशिचराहृत् आं पुनर्जानकीं जगृह इत्यनेकशः । 9.31 ।
ब्रह्मवाक्यमृतमेव कारयन् पातयं स्तमसि चान्ध आसुरान् ।
नित्यमेव सहितोऽपि सीतया सोऽज्ञसाक्षिकमभूद् वियुक्तवत् । 9.32 ।
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् ।
तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता । 9.33 ।
गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम् ।
ल्xxxविइ.तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित् । 9.34 ।

नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम् ।
ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः । 9.35 ।
निजाधिक्यस्य विज्ञप्त्यै क्वचिद् वायुस्तदाज्ञया ।
हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः । 9.36 ।
नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी ।
अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा ।
एकदेशेन सत्यं तु योग्येष्वपि कदाचन । 9.37 ।
न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित् ।
एतदर्थोऽवतारश्च विष्णोर्भवति सर्वदा । 9.38 ।
प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः ।
रेमे रामेणावियुक्ता भास्करेण प्रभा यथा । 9.39 ।
एवं रमालाल् . इतपादपल्लवः पुनः स यज्ञैश्च यजन् स्वमेव ।
वराण्स्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन् । 9.40 ।
रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा ।
भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः । 9.41 ।
एवं विधान्यगणित् आनि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः ।
शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च । 9.42 ।
तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः ।
वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशं सुः । 9.43 ।
आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चैव ।
रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे । 9.44 ।
एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः ।
वैशेष्यमात्मभवनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा । 9.45 ।
ल्xxxविइइ.पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् ।
सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम् । 9.46 ।
यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव ।
तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन् । 9.47 ।
ओं इत्युवाच भगवां स्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य ।
दुर्वासनामयुगिहाऽगमदाण्सु राम मां भोजय क्षुधितमित्यसकृद् ब्रुवाणा । 9.48 ।
सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् ।
अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः । 9.49 ।
तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः ।
एवम्प्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान् नतु कश्चिदन्यः । 9.50 ।
कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तु रामः स कृष्णतनुवा स्वबलाज्जिगाय ।
तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः । 9.51 ।
एकान्ते तु यदा रामश्चक्रे रुद्रेण सं विदम् ।
द्वारपालं स कृतवां स्तदा लक्ष्मणमेव सः । 9.52 ।
यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन् ।
तदन्तराऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः । 9.53 ।
दुर्वाससः प्रतिज्ञा तुरामं प्राप्यैव भज्यताम् ।

अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम् । 9.54 ।
राघवो घ्नन्नपि तु मां करोत्येव दयां मयि ।
इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा । 9.55 ।
स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः ।
इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत् । 9.56 ।
अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् ।
ल्xxxइx.याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम् । 9.57 ।
इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं
ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः ।
आसीच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली
पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च । 9.58 ।
अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः ।
समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्वितिसः । 9.59 ।
श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् ।
रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन् । 9.60 ।
सं स्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः ।
सं स्थाप्य वालितनयं कपिराज्य आण्सु सूर्यात्मजोऽपि रघुवीरसमीपमायात् । 9.61 ।
अथाऽह वायुनन्दनं स राघवः समाण्स्लिषन् ।
तवाहमक्षगोचरः सदा भवामि नान्यथा । 9.62 ।
त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम् ।
तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम् । 9.63 ।
दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि ।
जघन्थ न प्रियाय मे तथैव जीव कल्पकम् । 9.64 ।
पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा ।
यथेष्टतो गमिष्यसि स्वदेहसं युतोऽपि सन् । 9.65 ।
यथेष्टभोगसं युतः सुरेशगायकादिभिः ।
समीड्यमानसद्यशा रमस्व मत्पुरः सदा । 9.66 ।
तवेप्सितं न किञ्चन क्वचित् कुतश्चिदेव वा ।
मृषा भवेत् प्रियश्च मे पुनः पुनर्भविष्यसि । 9.67 ।
इतीरितो मरुत्सुतो जगाद विश्वनायकम् ।
xच्.विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम् । 9.68 ।
सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा ।
समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा । 9.69 ।
नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् ।
समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः । 9.70 ।
इतीरिते तथेति तं जगाद पुष्करेक्षणः ।
जगाम धाम चाऽत्मनस्तृणादिना सहैव सः । 9.71 ।
खगा मृगास्तृणादयः पिपीलिकाण्स्च गर्दभाः ।
तदाऽसुरुत्तमा यतो नृवानरास्तु किं पुनः । 9.72 ।
सदैव रामभावनाः सदा सुतत्त्ववेदिनः ।

यतोऽभवं स्ततस्तु ते ययुः पदं हरेस्तदा । 9.73 ।
स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् ।
अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः । 9.74 ।
सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः ।
सुनीलकुन्तल् . आवृत् आमितेन्दुकान्तसन्मुखः । 9.75 ।
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः ।
सुहासविद्रुमाधरः समस्तवेदवाग्रसः । 9.76 ।
दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः ।
सुपीवरोन्नतोरुसज्जगद्भरां सयुग्मकः । 9.77 ।
सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः ।
जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे । 9.78 ।
स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः ।
शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे । 9.79 ।
xचि.स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् ।
शरेण येन चाकरोत् पुरीं च माधुराभिधाम् । 9.80 ।
समस्तसारसम्भवं शरं दधार तं करे ।
स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम् । 9.81 ।
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः ।
महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः । 9.82 ।
अनर्घरत्नमालया वनाख्यया चमालया ।
विलासिविस्तृतोरसा बभार च श्रियं प्रभुः । 9.83 ।
स भूतिवत्सभूषणस्तनूदरे वलित्रयी ।
उदारमध्यभूषणोल्लसत्तटित्प्रभाम्बरः । 9.84 ।
करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः ।
क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः । 9.85 ।
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् ।
असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः । 9.86 ।
ज् ञानं नेत्राब्जयुग्मान्मुखवरकमलात् सर्ववेदार्थसारां
स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः ।
सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः
प्रायाद् देवाधिदेवः स्वपदमभिमुखश्चोत्तराण्सां विशोकाम् । 9.87 ।
दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं
सीत् आ सैवाखिलाक्ष्णां विषयमुपगता ण्स्रीरिति ह्रीरथैका ।
द्वेधा भूत्वा दधार व्यजनमुभयतः पूर्णचन्द्रां शुगौरं
प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषित् आ भूषणैः स्वैः । 9.88 ।
साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणे
नाऽयात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा ।
अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाण्स्च सोङ्कारकाः
पश्चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम् । 9.89 ।
xचिइ.तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः ।

रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः । 9.90 ।
गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वै
र्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः ।
सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः
प्रायाच्छेषगरुत्मदादिकनिजैः सं सेवितः स्वं पदम् । 9.91 ।
ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः ।
आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवं स्तदा । 9.92 ।
अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् ।
त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि । 9.93 ।
मातॣऋणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः ।
अनर्हायास्त्वयाऽज्ञप्ता कैकेय्या अपि सद्गतिः ।
सूत्वा तु भरतं नैषा गच्छेत निरयानिति । 9.94 ।
तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् ।
निकृतिर्नाम सा क्षिप्ता मया तमसि शाण्स्वते । 9.95 ।
कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित् ।
पश्चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत् । 9.96 ।
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी ।
सीत् आर्थं येऽप्यनिन्दं स्त्वां तेऽपि याता महत् तमः । 9.97 ।
प्रायशो राक्षसाण्स्चैव त्वयि कृष्णत्वमागते ।
शेषा यास्यन्ति तच्छेषा अष्टाविं शे कलौ युगे ।
गते चतुस्सहस्राब्दे तमोगास्त्रिशतोत्तरे । 9.98 ।
अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः ।
त्वया सहाऽगतास्तेषां विधेहि स्थानमुत्तमम् । 9.99 ।
xचिइइ.अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर ।
यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाऽशु नः । 9.100 ।
इत्युदीरितमाकर्ण्य शतानन्देन राघवः ।
जगाद भावगम्भीरसुस्मिताधरपल्लवः । 9.101 ।
जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव ।
गुर्वादेशानुसारेण मयाऽदिष्टा च सद्गतिः । 9.102 ।
अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया ।
हृदि स्थितं च जानासि त्वमेवैकः सदा मम । 9.103 ।
इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः ।
पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् ।
वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः । 9.104 ।
ते जरामृतिहीनाण्स्च सर्वदुःखविवर्जिताः ।
सं सारमुक्ता न्यवसं स्तत्र नित्यसुखाधिकाः । 9.105 ।
ये तु देवा इहोद्भूता नृवानरशरीरिणः ।
ते सर्वे स्वां शितामापुस्तन्मैन्दविविदावृते । 9.106 ।
असुरावेशतस्तौ तु न राममनुजग्मतुः ।
पीत् आमृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा । 9.107 ।

तयोश्च तपसा तुष्टण्स्चक्रे तावजरामरौ ।
पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने ।
प्रसं ह्यापिबतां देवैर्देवां शत्वादुपेक्षितौ । 9.108 ।
पीत् आमृतेषु देवेषु युद्ध्यमानेषु दानवैः ।
तैर्दत्तमात्महस्ते ते रक्षायै पीतमाण्सु तत् ।
तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम् । 9.109 ।
अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् ।
रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः । 9.110 ।
xचिव्.विभीषणण्स्च धर्मात्मा राघवाज्ञापुरस्कृतः ।
सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान् । 9.111 ।
रामाज्ञया जाम्बवां श्च न्यवसत् पृथिवीतल् . ए ।
उत्पत्त्यर्थं ज् आम्बवत्यास्तदर्थं सुतपश्चरन् । 9.112 ।
अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये ।
द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये । 9.113 ।
तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः ।
अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन् । 9.114 ।
ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः ।
क्रमादनुव्रज्य तु राघवस्य शिरस्यथाऽज्ञां प्रणिधाय निर्ययुः । 9.115 ।
स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याण्स्च विरिञ्चपूर्वकाः ।
मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे । 9.116 ।
समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा ण्स्रोत्रपुटेन सम्भरन् ।
वदं श्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास । 9.117 ।
रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण ।
रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम् । 9.118 ।
इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् ।
वेदां श्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत् । 9.119 ।
रामोऽपि सार्द्धं पवमानात्मजेन स सीतया लक्ष्मणपूर्वकैश्च ।
तथा गरुत्मत्प्रमुखैश्च पार्षदैः सं सेव्यमानो न्यवसत् पयोब्धौ । 9.120 ।
कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते ।
पृथक् च सं व्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः । 9.121 ।
इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च ।
xच्व्.भारताच्चैव वेदेभ्यो महारामायणादपि । 9.122 ।
परस्परविरोधस्य हानान्निर्णीय तत्त्वतः ।
युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः । 9.123 ।
बहुकल्पानुसारेण मयेयं सत्कथोदिता ।
नैकग्रन्थाण्स्रयात् तस्मान्नाऽशङ्क्याऽत्र विरुद्धता । 9.124 ।
क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता ।
उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया । 9.125 ।
एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता ।
सर्वकल्पसमश्चायं पारावर्यक्रमः सदा । 9.126 ।

पुं व्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित् ।
कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान् ।
शतं दुर्योधनादीं स्ते दर्शयिष्य इति प्रभुः । 9.127 ।
भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः ।
विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः ।
उच्यन्ते बहवश्चान्ये पुं व्यत्याससमाण्स्रयात् । 9.128 ।
विस्तारे कृष्णनिहता बलभद्रहता इति ।
उच्यन्ते च क्वचित् कालव्यत्यासोऽपि क्वचिद् भवेत् । 9.129 ।
यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ ।
इति वाक्येषु बहुषु ज्ञायते निर्णयादपि ।
अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः । 9.130 ।
व्यत्यासास्त्वेवमाद्याण्स्च प्रातिलोम्यादयस्तथा ।
दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते ।
ज् ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा । 9.131 ।
तस्माद् विनिर्णयग्रन्थानाण्स्रित्यैव च लक्षणम् ।
बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः । 9.132 ।
xच्वि.उक्तं लक्षणण्सास्त्रे च कृष्णद्वैपायनोदिते ।
"त्रिभाषा योन जानाति रीतीनां शतमेव च । 9.133 ।
व्यत्यासादीन् सप्त भेदान् वेदाद्यर्थं तथा वदेत् ।
स याति निरयं घोरमन्यथाज्ञानसम्भवम्" । 9.134 ।
इत्यन्येषु चशास्त्रेषु तत्रतत्रोदितं बहु ।
"व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।
उक्षणः सुधुरः साधु सप्त भेदाः प्रकीर्तिताः " । 9.135 ।
इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः । 67
67 "व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।
उक्षणः सुधुरः साधुः सप्तभेदाः प्रकीर्तिताः । (9.135.1)।
श्रद्दधानाय शिष्यॣअय पृच्छते मे सुताय च ।
विधिवद्वद हे (भो) तात व्यत्यासाद्यर्थनिर्णयम् । (9.135.2 ।
शृणु नारद वक्ष्यॣअमि यावत्ते मतिगोचरम् ।
व्यत्यासादिप्रभेदानां सङ्कोचादर्थनिर्णयम् । (9.135.3)।
एष्वेकैकप्रभेदस्तु पृथग्भिन्नः सहस्रधा ।
तल्लक्षणं तदर्थां श्च तदुदाहरणानि च । (9.135.4)।
मॣउलरामायणे प्रोक्तं पञ्चरात्रागमेषु च।
विस्तराद् व्यासरूपेण हरिणैवामितात्मना । (9.135.5)।
ते सर्वेऽनन्तवेदार्थनिर्णयायैव कीर्तिताः ।
ततः कलिबलान्मर्त्याः मन्दायुर्मतिशालिनः । (9.135.6)।
दृष्ट्वॣअ वेदान् विभज्यैव तदर्थज्ञॣअपनाय च ।
कृत्वा लक्षणण्सास्त्रं च तस्मिन्नपि च ईरिताः । (9.135.7)।
व्यत्यासेनैव सङ्कोचात् स्वोक्तवादार्थनिर्णयः ।
यॣअवद्भिः स्यात् प्रभेदानां प्रभेदैस्ते च नोऽखिलाः । (9.135.8)।

इदानीं तत्समालोड्य निश्चित्यैव प्रवच्मि च ।
भारतस्य पुराणानां यॣअवद्भिः स्याद्विनिर्णयः ।
xच्विइ.तत्र भेदान् तदर्थां श्च शृणुष्वैकाग्रमानसः । (9.135.9)।
व्यत्यासो व्यत्ययः प्रोक्तः पुं व्यत्यासस्तदादिमः ।
यथाऽरण्ये पर्वणि तु केशवः प्राह पार्षतीम् । (9.135.10)।
सान्त्वयन् धार्तराष्ट्रां श्च शतमर्जुनसायकैः ।
मृतान् सन्दर्शयिष्येऽहं इति पुं व्यत्ययः स्मृतः । (9.135.11)।
हरिवं शे हरिः कृष्णो गोपगोजनसं वृतः ।
चिक्रीडे जाह्नवीतीरे व्यत्यासो दैशिकः स्मृतः । (9.135.12)।
मॣअर्कण्डेये तथा पूर्वं रामः कृतयुगेऽहनत् ।
दशकण्ठं कथेत्यादौ व्यत्यासः कॣअलिकः स्मृतः । (9.135.13)।
हिं साकर्मरतत्वात्तु हिं सार इति केसरीम् ।
व्यत्यासः सिं ह इत्यादावक्षरव्यत्ययः स्मृतः । (9.135.14)।
क्वचिद्रामो दाण्सरथिर्हत्वा कं समपीपलत् ।
मधुरां पुरमित्यादौ कथाव्यत्यय ईरितः । (9.135.15)।
विपरीतक्रमं यत्र प्रतिलोमं तदीरितम् ।
तद्भावः प्रातिलोम्यं च तत्प्रभेदः क्वचिद्भवेत् । (9.135.16)।
विधिप्राणौ तयोर्भार्ये गुरुत्मच्छेषण्सङ्कराः ।
षण्महिष्य हरेस्तद्वत् सौपर्णी वारुणी उमा । (9.135.17)।
इन्द्रकामौ तयोः पत्न्यौ क्रमाच्छतगुणाधिकाः ।
इत्याग्नेयपुराणोक्तं तारतम्यप्रकाण्सनम् ।
इत्यादावर्थनिर्वाहः प्रातिलोम्यप्रभेदतः । (9.135.18)।
कलिश्च द्वापरस्त्रेता कृतं पुण्यं पुरा युगाः ।
क्रमादित्यादिषु प्रातिलोम्यादुक्तो विनिर्णयः । (9.135.19)।
वत्सो गोस्तनमक्षीरं यदाऽदौ पिबति स्फुटम् ।
तदा गोमूत्रोदयः स्यात् क्षीरस्याधिक्यसिद्धये । (9.135.20)।
यदा गोपो दुहत्येनां तदा मूत्रो न विद्यते ।
पश्चात् पिबति वत्से तु पुनर्मूत्रोदयो भवेत् । (9.135.21)।
एवं क्वचित् कथासु स्यादादावन्ते च सङ्गतिः ।
मध्ये सङ्गतिविच्छेदः कथान्तरसमागमः । (9.135.22)।
xच्विइइ.अनुसारेण तेषां तु निर्णयः क्रियते मया ।
एवमादिषु विज्ञेयो गोमूत्रीभेदतः क्रमात् ।
यथाऽरण्ये पाण्डवानां कथासङ्गतिसम्मताः । (9.135.23)।
तान् विहायैव तन्मध्ये हरिश्चन्द्रस्य भूभृतः ।
नल् . अस्य राघवस्यापि गोमूत्रीभेदतः क्रमात् । (9.135.24)।
एवं सर्वपुराणेषु मध्ये चित्रकथाः स्मृताः ।
आद्यन्तयोः सङ्गतिश्च गोमूत्रीभेदतः स्मृताः । (9.135.25)।
प्रघसः सर्वशास्त्रार्थविरुद्धार्थानुवर्णनम् ।
क्वचिन्मोहायासुराणां पुराणेषु तथोच्यते ।
तादृशानां तु वाक्यानां ग्राह्योऽर्थस्त्वविरोधतः । (9.135.26)।

मॣउर्खं दृष्ट्वॣअ सुतं तातो विषं भुङ्क्ष्वेति वक्ष्यति ।
तच्छ्रुत्वा तद्विरुद्धार्थमाचरन्न तथाऽचरेत् । (9.135.27)।
एवं सर्वस्य जगतः पिता गुरुरुदारधीः ।
व्यासोऽन्यथा क्वचिद्भक्ति हिताय स्वजनाय च ।
तथा जगत्सत्यं च मिथ्याभूतं निरीश्वरम् । (9.135.28)।
अप्रतिष्ठमज्ञेयं हरेर्जीवैरभिन्नताम् ।
नीचतामवरेभ्यश्च देवेभ्यश्च जरामृतॣ ऌ । (9.135.29)।
जन्मादिदोषसम्पर्कः निर्गुणत्वमपूर्णता ।
असर्वज्ञत्वमज्ञत्वमभेदो जडजीवयोः । (9.135.30)।
जडयोर्जीवयोर्वाऽपि जडसर्वेशयोरपि ।
अनधीनं जगद्विष्णोरस्वातन्त्र्यं हरेस्तथा । (9.135.31)।
स्वतन्त्रता चजीवस्य सर्वज्ञत्वमदुःखिता ।
विष्णोः प्राकृतदेहादिः स्वावतारविपर्ययः ।
इत्यादौ प्रघसाद्भेदात् ग्राह्योऽर्थस्त्वविरोधतः । (9.135.32)।
प्रामाण्यमेकदेशस्यान्यस्यैवाप्रमाणता ।
यत्र तत्रोक्षणाद् भेदात् ग्राह्योऽर्थो न चापरः । (9.135.33)।
उक्तं रामायणे गङ्गापार्वत्यौ हिमवत्सुते ।
रुद्रस्य वल्लभेऽतस्तं गङ्गाधरमुमापतिम् । (9.135.34)।
प्राहुस्तत्रेतरद्ग्राह्यं पॣउर्वं त्याज्यं सतां मते ।
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् । (9.135.35)।
xचिx.कॣअकविष्टासमुद्भूतं पञ्च पूतानि भारत ।
इत्यादौ उक्षणाद् भेदात् तत्त्वं निश्चीयते बुधैः । (9.135.36)।
क्रमं च व्युत्क्रमं त्यक्त्वा यत्र बोधः क्रमोद्गमः ।
तत्रैव सुधुराद्भेदाद् ग्राह्योऽर्थो बहुसम्मतः । (9.135.37)।
रूपं शब्दश्च गं धश्च स्पर्शश्चापि तथा रसः ।
व्योमादिपञ्चभूतानां गुणा ह्येते विशेषतः । (9.135.38)।
इत्युक्तं पञ्चरात्रे तु भेदाण्स्च सुधुरात् तथा ।
तत्र नोक्तप्रकारेण ग्राह्योऽर्थस्तु यथाक्रमम् । (9.135.39)।
कल्पभेदात् कथाभेदो यत्रोक्तस्सत्कथासु च ।
तत्रोभयं ग्राह्यमेव दुष्यॣअं शो नैव वर्तते । (9.135.40)।
तत्र साधुप्रभेदेन सङ्ग्राह्यस्तत्त्वनिर्णयः ।
उक्तं भागवते षष्ठस्कन्धे व्यासेन तत्त्वतः । (9.135.41)।
इन्द्रो हत्वाऽकरोत् त्वाष्ट्रं विश्वरूपं द्विजोत्तमम् ।
ब्रह्महत्यापीडितस्तु ब्रह्माणं शरणं ययौ । (9.135.42)।
चतुर्मुखश्चतुर्धा तं विभज्य प्राक्षिपन्महान् ।
भूमौ वारिषु वृक्षेषु नारी ऋतुषु क्रमात् । (9.135.43)।
उषरं दॣउषितं भूमौ फेनं दुष्टं जलेषु च।
स्रव्यं दॣउष्यं च वृक्षादौ ह्यङ्गना ऋतुदूषिता ।
हत्यामुक्तः शचीनाथः पुनः स्वर्गमपीपलत् । (9.135.44)।
श्रीभविष्यत्पुराणे तु इत्यर्थो व्यासचोदितः ।

वृत्रहत्यां विभज्याथ क्षिप्तवान् स चतुर्मुखः । (9.135.45)।
वह्नौ प्रथमजातासु ज्वालासु च नदीषु च।
पर्वताग्रेषु विप्रेन्द्र नारीऋतुषु तां क्रमात् । (9.135.46)।
इत्यादौ साधुभेदेन कीर्तितं कल्पभेदतः ।
तत्रोभयं ग्राह्यमेव सप्तभेदाः प्रकीर्तिताः । (9.135.47)।
इदं रहस्यं परमं गुह्यं यच्छ्रुतं श्रीहरेर्मुखात् ।
तत्ते समासतः प्रोक्तं ज्ञॣअत्वा मुक्तिं गमिष्यसि ।
तदुक्तमविविच्यैव मुक्तिः कस्यापि नो भवेत् । (9.135.48)।
इति व्यत्यासादिसप्तभेदप्रतिपादकपुराणवाक्यसङ्ग्रहः " ।
च्.तस्मान्निर्णयशास्त्रत्वाद् ग्राह्यमेतद् बुभूषुभिः । 9.136 ।
इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा ।
पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत् । 9.137 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामस्वधामप्रवेशो नाम नवमोऽध्यायः
मम सङ्ग्रहे (श्रीजयतीर्थसं स्कृतहस्तलिखितग्रन्थालये),
उत्तरादिमठीय ग्रन्थसङ्ग्रहे च वर्तन्ते -व्यासनकेरे प्रभञ्जनाचार्यः
चि.(व्यासावतारानुवर्णनम्)
अथ दशमोऽध्यायः
ओं । द्वापरेऽथ युगे प्राप्ते त्वष्टाविं शतिमे पुनः ।
स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः । 10.1 ।
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः ।
तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम् । 10.2 ।
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने ।
अनाद्यविज्ञानतमोनिहन्त्रे परामृत् आनन्दपदप्रदायिने । 10.3 ।
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आण्सु हि श्रिया ।
शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्म । 10.4 ।
त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम् ।
वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः । 10.5 ।
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदं सके ।
उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत् । 10.6 ।
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदं सतः ।
व्यचूर्णयत् तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो । 10.7 ।
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य ।
अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः । 10.8 ।
कृतश्च कद्र्वास्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट्।
ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयो घृत् आधिकम् । 10.9 ।
नैच्छन्त पुच्छं दितिजा अमङ्गल् . अं तदित्यथाग्रं जगृहुर्विषोल्बणम् ।
श्रान्ताण्स्च तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाण्स्रयाः । 10.10 ।
अथातिभारादविशत् सुकाञ्चनो गिरिः स पाताल् . अमथ त्वमेव ।

तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव । 10.11 ।
चिइ.उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः ।
ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम् । 10.12 ।
श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः ।
तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे । 10.13 ।
कलेः स्वरूपं तदतीव दुष्षहं वराद् विधातुः सकलैश्च दुः स्पृशम् ।
करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः । 10.14 ।
स तत् पिबत् कण्ठगतेन तेन निपातितो मूर्च्छित आण्सु रुद्रः ।
हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गल् . अस्तदाऽसीत् । 10.15 ।
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे ।
स्वयं च निर्मथ्य बलोपपन्नं पपौ स वायुस्तदु चास्य जीर्णम् । 10.16 ।
अत्यल्पपानाच्च बभूव शूला ण्सिवस्य शीर्ष्णण्स्च करावशिष्टम् ।
अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः ।
कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः । 10.17 ।
अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः ।
उच्चैः श्रवा नाम तुरङ्गमोऽथ करी तथैरावतनामधेयः । 10.18 ।
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् ।
तथाऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च । 10.19 ।
तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम् ।
अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा । 10.20 ।
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण ।
प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः । 10.21 ।
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः ।
मुक्तं त्वया ण्सक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयता वधाय । 10.22 ।
चिइइ.ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् ।
श्यामं नितम्बार्पितरत्नमेखलं ज् आम्बूनदाभाम्बरभृत् सुमध्यमम् । 10.23 ।
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् ।
समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः । 10.24 ।
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे ।
समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया । 10.25 ।
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् ।
यद्यत् कृतं मे भवतां यदीह सं वाद एवोद्विभजे सुधामिमाम् । 10.26 ।
यथेष्टतोऽहं विभजामि सर्वथा नविश्वसध्वं मयि केनचित् क्वचित् ।
इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन् । 10.27 ।
ततश्च सं स्थाप्य पृथक् सुरासुरां स्तवातिरूपोच्चलितान् सुरेतरान् ।
सर्वान् भवद्दर्शिन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः । 10.28 ।
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् ।
क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन । 10.29 ।
तेनामृत् आर्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः ।
स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार । 10.30 ।

मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc