भाषा

ENहिગુ
ग्रंथ पाठ

महाभारततात्पर्यनिर्णय · भाग 2140

रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात् । 3.19 ।
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः ।
त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम् । 3.20 ।
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा ण्स्रियमाप सृष्टये ।
सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये । 3.21 ।
xxxइव्.तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः ।
लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा । 3.22 ।
तस्मात् पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय ।
निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः । 3.23 ।
पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः ।
तस्मात् स एको विबुधप्रधान इत्याण्स्रिता देवगणास्तमेव ।
हरेर्विरिञ्चस्य च मध्यसं स्थितेस्तदन्यदेवाधिपतिः स मारुतः । 3.24 ।
ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याण्सु चकार सोऽब्जात् ।
तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः । 3.25 ।
अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ ।
गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः । 3.26 ।
चक्षुः श्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः ।
जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः । 3.27 ।
ततः सनाद्याण्स्च मरीचिमुख्या देवाण्स्च सर्वे क्रमशः प्रसूताः ।
ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत् । 3.28 ।
उक्तक्रमात् पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च ।
पूर्वस्तु पश्चात् पुनरेव जातो नाण्स्रेष्ठतामेति कथञ्चिदस्य ।
गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाऽभिभवं प्रयान्ति । 3.29 ।
लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रल् . अये श्रीसहायः ।
शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः । 3.30 ।
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।
अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते । 3.31 ।
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः ।
नित्याण्स्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः । 3.32 ।
xxxव्.यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् ।
एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम् । 3.33 ।
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य ।
तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याण्सु परं सुरेशम् । 3.34 ।
देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः ।
पुनस्तदन्यानधिकारयोग्यां स्तत्तद्गणानेव पदे नियुङ्क्ते । 3.35 ।
पुनश्च मारीचत एव देवा जाता आदित्यामसुराण्स्च दित्याम् ।
गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि । 3.36 ।
ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽशु हरिर्वराहः ।
भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम् । 3.37 ।
अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितल् . एऽभिजातौ ।

दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात् । 3.38 ।
हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे ।
धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः । 3.39 ।
अथो विधातुर्मुखतो विनिः सृत् आन् वेदान् हयास्यो जगृहेऽसुरेन्द्रः ।
निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनीं स्तां श्च ददौ विधातुः । 3.40 ।
मन्वन्तरप्रल् . अये मत्स्यरूपो विद्यामदान्मनवे देवदेवः ।
वैवस्वतायोत्तमसं विदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम् । 3.41 ।
अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडित् आ ब्रह्मवरात् सुरेशाः ।
हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशं सुरस्मै । 3.42 ।
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिं हरूपेण सआविरासीत् ।
हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत् । 3.43 ।
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् ।
xxxवि.वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा । 3.44 ।
वरादजेयत्वमवाप दैत्यराट्चतुर्मुखस्यैव बलिर्यदा तदा ।
अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसं स्तुतः । 3.45 ।
स वामनात्माऽसुरभूभृतोऽध्वरं जगाम "गां सन्नमयन् पदे पदे"62 ।
जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे । 3.46 ।
पितामहेनास्य पुरा हियाचितो बलेः कृते केशव आह यद् वचः ।
नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत । 3.47 ।
बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातल् . ए ।
तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम् । 3.48 ।
विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ ।
तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन । 3.49 ।
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव ।
निः सीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत् । 3.50 ।
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् ।
रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव । 3.51 ।
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू ।
परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः । 3.52 ।
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव ।
वरान्नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम् । 3.53 ।
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः ।
पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन् । 3.54 ।
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता ।
62 भा. पु. 8.17.20
xxxविइ.त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याण्स्चरमाण्स्च येऽन्ये । 3.55 ।
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः । 3.56 ।
सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।
त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम् । 3.57 ।

त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ ।
प्रभञ्जनावेशवशात् तवाऽज्ञया बलोद्धतावाण्सु जले व्यवर्धताम् । 3.58 ।
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् ।
स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः । 3.59 ।
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू ।
निष्पीड्य तावूरुतल् . ए कराभ्यां तन्मेदसैवाऽशु चकर्थ मेदिनीम् । 3.60 ।
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् ।
वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम् । 3.61 ।
इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः ।
इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः । 3.62 ।
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः ।
गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः । 3.63 ।
तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः ।
निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः । 3.64 ।
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः ।
स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः । 3.65 ।
सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् ।
य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत् । 3.66 ।
xxxविइइ.य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् ।
स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा । 3.67 ।
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः ।
बृहस्पतिस्तार उतो शची चशक्रस्य भार्यैव बभूव तारा । 3.68 ।
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः ।
ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः । 3.69 ।
स एव शच्या सह वानरोऽभूत् स्वसम्भवो देवगुरुर्बृहस्पतिः ।
अभूत् सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः । 3.70 ।
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु ।
आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात् । 3.71 ।
नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम् ।
प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च । 3.72 ।
पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता ण्स्रीरिति यां वदन्ति ।
सत्त्वात्मिका ण्सङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि । 3.73 ।
गदा तुवायुर्बलसं विदात्मा ण्सार्ङ्गश्च विद्येति रमैव खड्गः ।
दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः । 3.74 ।
एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः ।
तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा । 3.75 ।
त् आवेव जातौ भरतश्च नाम्ना ण्सत्रुघ्न इत्येव च रामतोऽनु ।
पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु । 3.76 ।
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः ।
उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः । 3.77 ।

सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः ।
इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत् । 3.78 ।
xxxइx.येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि ।
सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाण्स्च गुणप्रधानाः । 3.79 ।
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या ।
विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत् । 3.80 ।
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः ।
सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि । 3.81 ।
पाण्स्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः ।
नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत् । 3.82 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सर्गानुसर्गलयप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः
xल्.(रामावतारे अयोध्याप्रवेशः )
अथ चतुर्थोऽध्यायः
ओं । अथाभ्यवर्धं श्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।
नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् । 4.1 ।
निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।
विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् । 4.2 ।
तन्मातरः पौरजना अमात्या अन्तः पुरा वैषयिकाण्स्च सर्वे ।
अवेक्षमाणाः परमं पुमां सं स्वानन्दतृप्ता इव सम्बभूवुः । 4.3 ।
ततः सुवं शे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।
वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम । 4.4 ।
तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः ।
जगाम रामः सह लक्ष्मणेन सिद्धाण्स्रमं सिद्धजनाभिवन्द्यः । 4.5 ।
अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।
ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य । 4.6 ।
अथो जघानाऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् ।
ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् । 4.7 ।
शरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः ।
अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ । 4.8 ।
तदा विदेहेन सुतास्वयं वरो विघोषितो दिक्षु विदिक्षु सर्वशः ।
निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः । 4.9 ।
अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृत् आच्छिलीकृत् आम् ।
स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन । 4.10 ।
बलं स्वभक्तेरधिकं प्रकाण्सयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।
अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः । 4.11 ।
xलि.श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।
सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः । 4.12 ।
पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।

विदेहनारीनरवर्यसऽ न्घा यथा महापूरुषिकास्तदङ्घ्रिम् । 4.13 ।
तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।
समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाण्सम् । 4.14 ।
मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।
उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाण्स्विति । 4.15 ।
स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे।
शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृत् आ पुरस्तात् । 4.16 ।
तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।
स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् । 4.17 ।
न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।
कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः । 4.18 ।
अधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।
सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् । 4.19 ।
इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।
समेत्य भूपाण्स्च समीपमाण्सु प्रगृह्य तच्चालयितुं न शेकुः । 4.20 ।
सं स्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः ।
तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः । 4.21 ।
पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।
बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति । 4.22 ।
ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।
xलिइ.ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः । 4.23 ।
तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाण्स्वथाऽनयत् ।
समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् । 4.24 ।
विकृष्यमाणं तदनन्तराधसा परेण निः सीमबलेन लीलया ।
अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत् । 4.25 ।
स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।
विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा ण्सशी । 4.26 ।
तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।
शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा । 4.27 ।
अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।
उपेत्य मन्दं लल् . इतैः पदैस्तां तदं स आसज्य च पार्श्वतोऽभवत् । 4.28 ।
ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् ।
रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् । 4.29 ।
लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽशु पित्रे ।
विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः । 4.30 ।
अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।
स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाण्स्वेव स यत्र मैथिलः । 4.31 ।
स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।
पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः । 4.32 ।
तदा विमानावलिभिर्नभस्तल् . अं दिदृक्षतां सङ्कुलमास नाकिनाम् ।

सुरानका दुन्दभयोऽ विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः । 4.33 ।
विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।
तदा तुरामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तल् . अम् । 4.34 ।
xलिइइ.यथा पुरा सागरजास्वयं वरे सुमानसानामभवत् समागमः ।
तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृत् आं भुवि । 4.35 ।
प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।
यथा पुरा सागरजासमेतः सुरासुराणाममृत् आब्धिमन्थने । 4.36 ।
स्वलङ्कृत् आस्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।
मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः । 4.37 ।
प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।
ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव । 4.38 ।
महोत्सवं तं त्वनुभूय देवता नराण्स्च सर्वे प्रययुर्यथागतम् ।
पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः । 4.39 ।
तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।
विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् । 4.40 ।
अजानतां राघवमादिपूरुषं समागतं ज् ञापयितुं निदर्शनैः ।
समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः । 4.41 ।
न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।
सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽगतोऽस्म्यहम् । 4.42 ।
स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।
अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि । 4.43 ।
शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।
उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम् । 4.44 ।
तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।
रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः । 4.45 ।
ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।
यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत् । 4.46 ।
xलिव्.शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।
शिवस्तदा देवगणः समस्ताः शशं सुरुच्चैर्जगतो हरेर्बलम् । 4.47 ।
यदीरणेनैव विनैष ण्सङ्करः शशाक न प्रश्वसितुं च केवलम् ।
किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति । 4.48 ।
ततः प्रणम्याऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।
जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ । 4.49 ।
धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च ।
वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् । 4.50 ।
यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।
इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत् विष्णुबलं हराद् वरम् । 4.51 ।
प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।
चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च सं शयं नुदन् । 4.52 ।
प्रदर्शिते विष्णुबले समस्ततो हराच्च निः सङ्ख्यतया महाधिके ।

जगाद मेघौघगभीरया गिरा सराघवं भार्गव आदिपूरुषः । 4.53 ।
अलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा ।
विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः । 4.54 ।
पुराऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् ।
पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे । 4.55 ।
अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः ।
इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे । 4.56 ।
पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।
स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽशु बभूव भस्मसात् । 4.57 ।
इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।
xल्व्.तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम् । 4.58 ।
निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।
वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद । 4.59 ।
स चेष्टितं चैव निजाण्स्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।
विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा । 4.60 ।
ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाण्सयन् ।
द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम् । 4.61 ।
समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।
प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः । 4.62 ।
ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।
रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हिसीतया । 4.63 ।
यथा पुरा ण्स्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।
तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया । 4.64 ।
इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।
दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते । 4.65 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः
xल्वि.अथ पञ्चमोऽध्यायः
रामचरिते हनूमद्दर्शनम्
ओं । इत्थं विश्वेश्वरेऽस्मिन्नखिल जगदवस्थाप्य सीत् आसहाये
भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् ।
राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं
दध्रे तन्मन्थरायाः श्रुतिपथमगमद् भूमिगाया अलक्ष्म्याः । 5.1 ।
पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता
त् आं नेतुं तत् तमोऽन्धं कमलजनिरुवाचाऽशु रामाभिषेकम् ।
भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं
सेत्युक्ता मन्थराऽसीत् तदनु कृतवत्येव चैतत् कुकर्म । 5.2 ।
तद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं
रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश ।

सीत् आयुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः
सं स्थाप्याण्सेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान् । 5.3 ।
वृक्षान् पश्वादिकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य
प्रोत्थां गङ्गां स्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा ।
देवार्च्यस्यापि पुत्रादृषिगणसहितात् प्राप्य पूजां प्रयातः
शैलेशं चित्रकूटं कतिपयदिनान्यत्र मोदन्नुवास । 5.4 ।
एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद् वियोगाद्
रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः ।
आनीतौ तस्य कृत्वा ण्स्रुतिगणविहितप्रेतकार्याणि सद्यः
शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च । 5.5 ।
धिक् कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च
प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा ।
रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश
प्राप्याऽशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम् । 5.6 ।
इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः
सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् ।
xल्विइ.भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते
कर्तैतत् ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का । 5.7 ।
श्रुत्वैतद् रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा
रामोक्तस्यान्यथात्वे न तु पुरमभिवेक्ष्येऽहमित्येव तावत् ।
कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि
श्रीशस्यैवास्य कृत्वा ण्सिरसि परमकं पौरटं पादपीठम् । 5.8 ।
समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह
अथाऽजगामेन्द्रसुतोऽपि वायसो महासुरेणाऽत्मगतेन चोदितः । 5.9 ।
स आसुरावेशवशाद् रमास्तने यदा व्यधात् तुण्डमथाभिवीक्षितः ।
जनार्दनेनाऽशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः । 5.10 ।
स्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि ।
बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः । 5.11 ।
पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् ।
तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य । 5.12 ।
स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः ।
निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात् । 5.13 ।
ददुर्हि तस्मै विवरं बलार्थिनो यद् वायसास्तेन तदक्षिपातनम् ।
कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपि तु वायसाः सदा । 5.14 ।
भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् ।
त् आवत् तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम् । 5.15 ।
अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार ।
स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया । 5.16 ।
रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् ।
श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः । 5.17 ।

xल्विइइ.आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः ।
तेनाऽदरोपहृतसार्ध्यसपर्यया सप्रीतो ददौ निजपदं परमं रमेशः । 5.18 ।
धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताण्सनादौ ।
देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ परेशम् । 5.19 ।
रामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम् ।
प्राप्तं दशां सपदि तुम्बुरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम् । 5.20 ।
भङ्क्त्वाऽस्य बाहुयुगल् . अं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ ।
प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमं सकमितोऽपि सहानुजेन । 5.21 ।
प्रीतिं विधित्सुरगमद् भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च।
सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार । 5.22 ।
आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव ।
प्रादादगस्त्यमुनये तदवाप्य रामो रक्षन् ऋषीनवसदेव स दण्डकेषु । 5.23 ।
काले तदैव खरदूषणयोर्बलेन रक्षः स्वसा पतिनिमार्गणतत्पराऽसीत् ।
व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम् । 5.24 ।
साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती ।
रामं समेत्य भव मे पतिरित्यवोचद् भानुं यथा तम उपेत्य सुयोगकामम् । 5.25 ।
त् आं तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा ।
तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाण्सहेतोः । 5.26 ।
तत्प्रेरितान् सपदि भीमबलान् प्रयातां स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम् । 5.27 ।
दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य ।
रक्षः पतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम् । 5.28 ।
स त्वाण्सु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः ।
मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद् रघुपतेर्नितरां ददर्श । 5.29 ।
xलिx.तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् ।
शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि सं स्पर्शमस्य शरस्य पूर्वम् । 5.30 ।
इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् ।
तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाण्समाण्सु । 5.31 ।
स प्राप्य हैममृगतां बहुरत्नचित्रः सीत् आसमीप उरुधा विचचार शीघ्रम् ।
निर्दोषनित्यवरसं विदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽह । 5.32 ।
देवेममाण्सु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः ।
अन्वक् ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन् । 5.33 ।
तेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया सपापः ।
श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः । 5.34 ।
यां यां परेश उरुधैव करोति लील् आं त् आं त् आं करोत्यनु तथैव रमापि देवी ।
नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत् । 5.35 ।
क्वाज्ञानमापदपि मन्दकटाक्षमात्रसर्गस्थितिप्रल् . अयसं सृतिमोक्षहेतोः ।
देव्या हरेः किमु विडम्बनमात्रमेतद् विक्रीडतोः सुरनरादिवदेव तस्मात् । 5.36 ।
देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः ।
सृष्ट्वाऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम् । 5.37 ।

तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याण्स्च सन्निधियुतां व्यवहारसिद्ध्यै ।
आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः । 5.38 ।
मार्गे व्रजन्तमभियाय ततो हनूमान् सं वारितो रविसुतेन च जानमानः ।
दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद् वचनाद्धरेश्च । 5.39 ।
प्राप्यैव राक्षस उताऽत्मपुरीं स तत्र सीत् आकृतिं प्रतिनिधाय ररक्ष चाथ ।
रामोऽपि तत्तु विनिहत्य सुदुष्टरक्षः प्राप्याऽश्रमं स्वदयितां नहि पश्यतीव । 5.40 ।
अन्वेषमाण इव तं च ददर्श गृध्रं सीत् आरिरक्षिषुमथो रिपुणा विशस्तम् ।
ल्.मन्दात्मचेष्टममुनोक्तमरेश्च कर्म श्रुत्वा मृतं तमदहत् स्वगतिं तथाऽदात् । 5.41 ।
अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः ।
धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य । 5.42 ।
छित्वाऽस्य बाहुयुगल् . अं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम् ।
नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाण्सु च ततोऽपि तदर्चितोऽगात् । 5.43 ।
दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै ।
प्रादात् स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्र साऽभूत् । 5.44 ।
शापाद् वराप्सरसमेव हि तां विमुच्य शच्या कृत् आत् पतिपुरस्त्वतिदर्पहेतोः ।
गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम् । 5.45 ।
देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् ।
कस्मिन् न्वहं त्विति तथैव हि सोऽवतारे तस्मात् स मारुतिकृते रविजं ररक्ष । 5.46 ।
एवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य ।
पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम् । 5.47 ।
एवं सुराण्स्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् ।
सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद् रघुपतिः सह लक्ष्मणेन । 5.48 ।
यत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः ।
सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः । 5.49 ।
समागते तु राघवे प्लवङ्गमाः ससूर्यजाः ।
विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः । 5.50 ।
सं स्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः ।
साक्षाद् ब्रह्मपिताऽसावित्येनेनास्य पादयोः पेते । 5.51 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामचरिते हनूमद्दर्शनं नॣअम पञ्चमोऽध्यायः
लि.(समुद्रतरणनिश्चयः )
अथ षष्ठोऽध्यायः
ओं । उत्थाप्य चैनमरविन्ददलायताक्षण्स्चक्राङ्कितेन वरदेन कराम्बुजेन ।
कृत्वा च सं विदमनेन नुतोऽस्य चां सं प्रीत्याऽरुरोह स हसन् सह लक्ष्मणेन । 6.1 ।
आरोप्य चां सयुगल् . अं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् ।
सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण ण्साण्स्वतनिजार्तिहरेण ण्सीघ्रम् । 6.2 ।
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि ।
सीत् आनुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च । 6.3 ।
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव ।

सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वां विदार्य दितिजानहनद् रसास्थान् । 6.4 ।
शर्वप्रसादजबलाद् दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या ।
भीतेन वालिबलतः कथितः स्म सप्त सालान् प्रदर्श्य दितिजान् सुदृढां श्च वज्रात् । 6.5 ।
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः ।
विष्वक् स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः । 6.6 ।
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः ।
तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम सं शयमाण्सु भिन्धि । 6.7 ।
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतां स्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् ।
ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्त् आनेकेषुणा सपदि तान् प्रविभेद रामः । 6.8 ।
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते ।
रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृत् आः सपदि ते तरवो रवेण । 6.9 ।
भित्त्वा चतान् सगिरिकुं भगवत्प्रमुक्तः पाताल् . असप्तकमथात्र च ये त्ववध्याः ।
नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वां श्च तानदहदाण्सु शरः स एकः । 6.10 ।
नैतद् विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः ।
लोकस्य सप्रकृतिकस्य सरुद्रकाल कर्मादिकस्य तदपीदमनन्यसाध्यम् । 6.11 ।
लिइ.दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात् पुरमग्रजस्य ।
आण्स्रुत्य रावमनुजस्य बिलात् स चाऽगादभ्येनमाण्सु दयिताप्रतिवारितोऽपि । 6.12 ।
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आण्सु रघुपोऽपि हि धर्ममीक्षन् ।
नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ । 6.13 ।
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये ।
दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च । 6.14 ।
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च ।
एकस्य भङ्ग इति नैव झटित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने । 6.15 ।
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराण्स्वितीह ।
धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान । 6.16 ।
यः प्रेरकः सकलषेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः ।
तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनोः । 6.17 ।
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण ण्सरे च मुक्ते ।
श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाण्सु सन्नः । 6.18 ।
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः ।
योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च । 6.19 ।
कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव ।
तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्वितीह तमदृष्टतया जघान । 6.20 ।
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः ।
किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तैशचापमपि येन पुरा विभग्नम् । 6.21 ।
सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् ।
उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति । 6.22 ।
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् ।
लिइइ.रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ । 6.23 ।
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे ।

प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङ्घ्रिभक्तो हनुमानुवाच । 6.24 ।
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः ।
न चेत् स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि । 6.25 ।
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति ।
सम्मेल् . अनायाऽशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः । 6.26 ।
हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हिवानराः ।
समस्तशैलद्रुमषण्डसं स्थितान् हरीन् समादाय तदाऽभिजग्मुः । 6.27 ।
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः ।
जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाऽशु याहि । 6.28 ।
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् ।
प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते । 6.29 ।
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः ।
दृष्ट्वैव तं तेन सहैव तापनिर्भयाद् ययौ रामपदान्तिकं त्वरन् । 6.30 ।
हनूमतः साधुवचोभिराण्सु प्रसन्नचेतस्यधिपे कपीनाम् ।
समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः । 6.31 ।
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाण्स्लिषत् प्रभुः ।
स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवाऽदिशदाण्सु वानरान् । 6.32 ।
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे ।
न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य । 6.33 ।
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् ।
इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं त् आं युवराजयुक्तः । 6.34 ।
लिव्.समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः ।
समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाऽययुः । 6.35 ।
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् ।
गतः स कालो हरिराडुदीरितः समासदं श्चाथ बिलं महाद्भुतम् । 6.36 ।
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत् तार उवाच चाङ्गदम् ।
वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य । 6.37 ।
दुरासदोऽसावतिचण्डण्सासनो हनिष्यति त्वामपि किं मदादिकान् ।
अगम्यमेतद् बिलमाप्य तत् सुखं वसाम सर्वे किमसाविहाऽचरेत् । 6.38 ।
न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा ।
न चेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः । 6.39 ।
इतीरितं मातुलवाक्यमाण्सु स आददे वालिसुतोऽपि सादरम् ।
उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम् । 6.40 ।
राज्यार्थिना येन हि घातितोऽग्रजो हृत् आण्स्च दाराः सुनृशं सकेन ।
स नः कथं रक्षति शासनातिगान् निराण्स्रयान् दुर्बलकान् बले स्थितः । 6.41 ।
इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः ।
सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे । 6.42 ।
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् ।
साध्यं न चैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत । 6.43 ।
न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः ।

सन्मार्गतो नैव च राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम् । 6.44 ।
वचो ममैतद् यदि चाऽदरेण ग्राह्यं भवेद् वस्तदतिप्रियं मे ।
न चेद् बलादप्यनये प्रवृत्त् आन् प्रशास्य सन्मार्गगतान् करोमि । 6.45 ।
इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीत् आ धृतमूकभावाः ।
सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं महेन्द्रमासेदुरगाधबोधाः । 6.46 ।
ल्व्.निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः ।
दृढं निराण्साण्स्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः । 6.47 ।
प्रायोपविष्टाण्स्च कथा वदन्तो रामस्य सं सारविमुक्तिदातुः ।
जटायुषः पातनमूचुरेतत् सम्पातिनाम्नः श्रवणं जगाम । 6.48 ।
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः ।
जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत् । 6.49 ।
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः ।
भूत्वा पुनश्चापि मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक् । 6.50 ।
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् ।
स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः । 6.51 ।
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक् पृथक् ।
दशैव चाऽरभ्य दशोत्तरस्य क्रमात् पथो योजनतोऽतियाने । 6.52 ।
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः ।
गन्तुं यदाऽथाऽत्मबलं स जाम्बवान् जगाद तस्मात् पुनरष्टमां शम् । 6.53 ।
बलेर्यदा विष्णुरवाप लोकां स्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता ।
तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं ज् आनु ममाऽस मेरुतः । 6.54 ।
अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि ।
ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने । 6.55 ।
अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य ।
सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे । 6.56 ।
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः ।
भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित् । 6.57 ।
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निः सीमबलं प्रशं सयन् ।
ल्वि.त्वमेक एवात्र परं समर्थः कुरुष्व चैतत् परिपाहि वानरान् । 6.58 ।
इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय ।
अवर्धताऽशु प्रविचिन्त्य रामं सुपूर्णण्सक्तिं चरितोस्तदाज्ञाम् । 6.59 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः
ल्विइ.(हनूमत्प्रतियानम्)
अथ सप्तमोऽध्यायः
ओं । रामाय शाण्स्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय ।
नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः । 7.1 ।
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः ।
वृक्षाण्स्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः । 7.2 ।

स्यालो हरस्य गिरिपक्षविनाण्सकाले क्षिप्त्वाऽर्णवे स मरुतोर्वरितात्मपक्षः ।
हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः । 7.3 ।
नैवात्र विश्रमणमैच्छत निः श्रमोऽसौ निः सीमपौरुषगुणस्य कुतः श्रमोऽस्य ।
आण्स्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण । 7.4 ।
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः ।
आस्यं प्रविश्य सपदि प्रविनिः सृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन् । 7.5 ।
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या ।
तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिं हिकाख्यम् । 7.6 ।
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता ।
छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु । 7.7 ।
निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् ।
लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच । 7.8 ।
भूत्वा बिलाल् . असमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।
रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम् । 7.9 ।
मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातल् . ए ।
ददर्श शिं शपावृक्षमूलस्थितरमाकृतिम् । 7.10 ।
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।
तस्य चेष्टानुसारेण कृत्वा चेष्टाण्स्च सं विदः ।
ल्विइइ.त् आदृक्चेष्टासमेताया अङ्गुलीयमदात् ततः । 7.11 ।
सीत् आया यानि चैवाऽसन्नाकृतेस्तानि सर्वशः ।
भूषणानि द्विधा भूत्वा तान्येवाऽसं स्तथैव च । 7.12 ।
अथ चूल् . आमणिं दिव्यं दातुं रामाय सा ददौ ।
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।
द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च । 7.13 ।
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।
पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् । 7.14 ।
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।
आत्माविष्करणे चित्तं चक्रे मतिमतां वरः । 7.15 ।
अथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽशु वीरः ।
रजनिचरविनाण्सं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽरुरोह । 7.16 ।
अथाण्सृणोद् दशाननः कपीन्द्रचेष्टितं परम् ।
दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति । 7.17 ।
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।
समासदन् महाबलम् सुरान्तरात्मनोऽङ्गजम् । 7.18 ।
अण्सीतिकोटियूथपं पुरस्सराष्टकायुतम् ।
अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम् । 7.19 ।
समावृतस्तथाऽयुधैः स ताडितश्च तैर्भृशम् ।
चकार तान् समस्तशस्तल् . अप्रहारचूर्णित् आन् । 7.20 ।
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।
ममर्द सप्त पर्वतप्रभान् वराभिरक्षित् आन् । 7.21 ।

बलाग्रगामिनस्तथा सशर्ववाक्सुगर्वितान् ।
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् । 7.22 ।
लिx.अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।
कुमारमक्षमात्मनः समं सुतं न्ययोजयत् । 7.23 ।
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह।
शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् । 7.24 ।
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् ।
तृतीय एष चां शको बलस्य हीत्यचिन्तयत् । 7.25 ।
निधार्य एव रावणः स राघवस्य नान्यथा ।
यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते । 7.26 ।
अतस्तयोः समो मया तृतीय एष हन्यते ।
विचार्य चैवमाण्सु तं पदोः प्रगृह्य पुप्लुवे । 7.27 ।
स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् ।
अपोथयद् धरातल् . ए क्षणेन मारुती तनुः । 7.28 ।
विचूर्णिते धरातल् . ए निजे सुते स रावणः ।
निशम्य शोकतापितस्तदग्रजं समादिशत् । 7.29 ।
अथेन्द्रजिन्महाण्सरैर्वरास्त्रसम्प्रयोजितैः ।
ततक्ष वानरोत्तमं न चाण्सकद् विचालने । 7.30 ।
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुष्षहम् ।
स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः । 7.31 ।
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।
स माननीय एव मे ततोऽत्र मानयाम्यहम् । 7.32 ।
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।
इतीह लक्ष्यमेव मे स रावणण्स्च दृश्यते । 7.33 ।
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाण्सु ते ।
ल्x.बबन्धुरन्यपाण्सकैर्जगाम चास्त्रमस्य तत् । 7.34 ।
अथ प्रगृह्य तं कपिं समीपमानयं श्च ते ।
निशाचरेश्वरस्य तं स पृष्टवां श्च रावणः । 7.35 ।
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।
इतीरितः स चावदत् प्रणम्य राममीश्वरम् । 7.36 ।
अवैहि दूतमागतं दुरन्तविक्रमस्य माम् ।
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् । 7.37 ।
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।
सपुत्रमित्रबान्धवो विनाण्समाण्सु यास्यसि । 7.38 ।
न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।
विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः । 7.39 ।
प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।
सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः । 7.40 ।
इतीरिते वधोद्यतं न्यवारयद् विभीषणः ।
स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् । 7.41 ।

अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।
ददुर्ददाह नास्य तन्मरुत्सखो हुताण्सनः । 7.42 ।
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।
बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् । 7.43 ।
ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना ।
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा । 7.44 ।
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।
प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च । 7.45 ।
ल्xइ.स रावणं सपुत्रकं तृणोपमं विधाय च ।
तयोः प्रपश्यतोः पुरं विधाय भस्मसाद् ययौ । 7.46 ।
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् । 7.47 ।
रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः ।
चूल् . आमणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या । 7.48 ।
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिपरमस्य विलक्ष्य किञ्चित् ।
स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाण्स्लिषदमुं परमाभितुष्टः । 7.49 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते हनूमत्प्रतियानं नॣअम सप्तमोऽध्यायः
ल्xइइ.(हनूमति श्रीरामदयादानम्)
अथ अष्टमोऽध्यायः
ओं । श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः ।
आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात् । 8.1 ।
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविचिन्त्यशक्तिः ।
अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपाम्पतितः प्रतीतः । 8.2 ।
तत्राऽजगाम स विभीषणनामधेयो रक्षः पतेरवरजोऽप्यथ रावणेन ।
भक्तोऽधिकं रघुपताविति धर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम् । 8.3 ।
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः ।
सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः । 8.4 ।
अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः ।
भक्तश्च रामपदयोर्विनशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः । 8.5 ।
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् ।
सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे । 8.6 ।
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि ।
नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने । 8.7 ।
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराण्सिः ।
मत्वा तृणोपममशेषसदन्तकं तं रक्षः पतिं त्ववरजस्य ददौ स लङ्काम् । 8.8 ।
कल्पान्तमस्य निशिचारि पतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते ।
रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ । 8.9 ।
स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः ।

"सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्"64 । 8.10 ।
64 भा. पु. 9.8.95
ल्xइइइ."तं त्वां वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् ।
त्वं सत्त्वतः सुरगणान् रजसो" मनुष्यां स्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः
65 । 8.11 ।
"कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः " 66 । 8.12 ।
इत्युक्तवन्तममुमाण्स्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु ।
शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निः सङ्ख्यकेष्वमुचदाण्सु ददाह सर्वान् । 8.13 ।
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः ।
बद्धुं दिदेश सुरवर्धकिणोऽवतारं तज्जं नल् . अं हरिवरानपरां श्च सेतुम् । 8.14 ।
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।
सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लऽ न्कां विभीषणदृशाऽविशदाण्सु दग्धाम् । 8.15 ।
प्राप्तं निशाम्य परमं भुवनैकसारं निः सीमपौरुषमनन्तमसौ दशास्यः ।
त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः । 8.16 ।
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते ।
द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षः पतेः पुर उदारगुणः परेशः । 8.17 ।
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् ।
प्राच्यां प्रहस्तमदिशद् दिशि वज्रदं ष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात् । 8.18 ।
विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽशु ।
नीलं प्रहस्तनिधनाय च वज्रदं ष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथाऽदिदेश । 8.19 ।
मध्ये हरीश्वरमधिज्यधनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेव तां हि ।
उद्दिश्य सं स्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ । 8.20 ।
विद्रावितो हनुमतेन्द्रजिदाण्सु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् ।
नीलो विभीषण उभौ शिलया चशक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम् । 8.21 ।
65 भा. पु. 9.8.96
66 भा. पु. 9.8.97
ल्xइव्.नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् ।
तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदं ष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्गन् । 8.22 ।
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन ।
द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम् । 8.23 ।
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः ।
उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता । 8.24 ।
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः ।
रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन् । 8.25 ।
ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि ।
सुतौ सुप्रहृष्टौ रणायाभियातौ कपीं स्तान् बहिः सर्वशो यातयित्वा । 8.26 ।
स कुम्भो विधातुः सुतं त् आरनीलौ नल् . अं चाण्स्विपुत्रौ जिगायाङ्गदं च ।
सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याऽशु लोकं सुपापः । 8.27 ।
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य ।

ससार सूर्यात्मजमाण्सु भीतः स पुप्लुवे पश्चिमतो धनुः शतम् । 8.28 ।
तं भ्रामयत्याण्सु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्या ।
सुराण्स्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत् । 8.29 ।
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽशु पुरोऽस्य मारुतिः ।
प्रकाण्सबाह्वन्तर आह चैनं किमेभिरत्र प्रहराऽयुधं ते । 8.30 ।
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि ।
विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत् । 8.31 ।
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् ।
प्रगृह्य चात्मनोऽं सके निधाय जग्मिवान् द्रुतम् । 8.32 ।
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः ।
स्वमाण्सु मोचयं स्ततो न्यपातयद् धरातल् . ए । 8.33 ।
ल्xव्.चकार तं रणात्मके मखे रमेशदैवते ।
पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः । 8.34 ।
सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः ।
विद्युज्जिह्वः प्रमाथी चशुकसारणसं युताः । 8.35 ।
रावणप्रेरिताः सर्वान् मथन्तः कपिकुञ्जरान् ।
अवध्या ब्रह्मवरतो निहता रामसायकैः । 8.36 ।
युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ ।
त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया । 8.37 ।
नरान्तको रावणजो हयवर्योपरि स्थितः ।
अभीः ससार समरे प्रासोद्यतकरो हरीन् । 8.38 ।
तं दहन्तमनीकानि युवराजोऽङ्गदो बली ।
उत्पपात निरीक्ष्याऽशु समदर्शयदप्युरः । 8.39 ।
तस्योरसि प्रासवरं प्रजहार स राक्षसः ।
द्विधा समभवत् तत्तु वालिपुत्रस्य तेजसा । 8.40 ।
अथास्य हयमाण्स्वेव निजघान मुखे कपिः ।
पेततुश्चाक्षिणी तस्य स पपात ममार च । 8.41 ।
स खड्गवरमादाय प्रससार रणे कपिम् ।
आच्छिद्य खड्गमस्यैव निहतो वालिसूनुना । 8.42 ।
गन्धर्वकन्यकासूते निहते रावणात्मजे ।
आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः । 8.43 ।
तस्याऽपतत एवाऽशु शरवर्षप्रतापिताः ।
प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः । 8.44 ।
स शरं तरसाऽदाय रविपुत्रायुधोपमम् ।
ल्xवि.अङ्गदं प्रजहारोरस्यपतत् स मुमोह च । 8.45 ।
अथ तिग्मां शुतनयः शैलं प्रचलपादपम् ।
अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे । 8.46 ।
तमापतन्तमालक्ष्य दूराच्छरविदारितम् ।
सुरान्तकश्चकाराऽशु दधार च परं शरम् । 8.47 ।
स तमाकर्णमाकृष्य यमदण्डोपमं शरम् ।

अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह । 8.48 ।
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः ।
आह्वयामास युद्धाय केशवः कैटभं यथा । 8.49 ।
तमापतन्तमालोक्य रथं सहयसारथिम् ।
चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह । 8.50 ।
अथ खड्गं समादाय पुर आपततो रिपोः ।
हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे ।
शिरो ममर्द तरसा पवमानात्मजः पदा । 8.51 ।
वरदानादवध्यं तं निहत्य पवनात्मजः ।
समीडितः सुरवरैः प्लवगैर्वीक्षितो मुदा । 8.52 ।
विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः ।
भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याण्सिरसं व्यधात् । 8.53 ।
युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ ।
प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना । 8.54 ।
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्गन् ।
चचार कालानलसन्निकाण्सो गन्धर्विकायां जनितो दशास्यात् । 8.55 ।
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः ।
इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत् । 8.56 ।
ल्xविइ.तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् ।
निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः । 8.57 ।
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाण्सनितुल्यवेगान् ।
तमोमयं चक्रतुरन्तरिक्षं स्वशिक्षया क्षिप्रतमास्तबाणैः । 8.58 ।
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः ।
चिच्छेद बाहू ण्सिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः । 8.59 ।
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनः पुनः सोऽथ बभूव वीरः ।
उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम् । 8.60 ।
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः ।
रक्षः सुतस्याण्स्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम् । 8.61 ।
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य ।
मुमोच दग्धः सरथाण्स्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु । 8.62 ।
हतेषु पुत्रेषु सराक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् ।
सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः । 8.63 ।
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् ।
कपिप्रवीरां श्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु । 8.64 ।
इतीरितेऽनेन नियोजितः स जगाम वीरो मकराक्षनामा ।
विधूय सर्वां श्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम् । 8.65 ।
अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद् रणे ।
उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया । 8.66 ।
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य ।
इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान् । 8.67 ।

प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन ।
ल्xविइइ.शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ । 8.68 ।
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषित् आः ।
यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः । 8.69 ।
ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः ।
वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराण्सु ययौ रणाय । 8.70 ।
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् ।
दिशः प्रदुद्राव हरीन्द्रमुख्याः समार्दयन्नाण्सु निशाचरां स्तदा । 8.71 ।
गजो गवाक्षो गवयो वृषण्स्च सगन्धमादा धनदेन जाताः ।
प्राणादयः पञ्च मरुत्प्रवीराः स कत्थनो वित्तपतिश्च जघ्नुः । 8.72 ।
शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् ।
अथाण्स्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम् । 8.73 ।
गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाण्सु तेषु ।
एकैकमेभिर्विनिपातित् आस्ते ससार तं शक्रसुतात्मजोऽथ । 8.74 ।
शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण ।
दृढाहतः सोऽप्यगमद् धरातल् . अं रवेः सुतोऽथैनमभिप्रजग्मिवान् । 8.75 ।
तद्धस्तगं भूरुहमाण्सु बाणैर्दशाननः खण्डण्स एव कृत्वा ।
ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ । 8.76 ।
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य ।
तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात । 8.77 ।
स लब्धसञ्ज्ञः प्रशशं स मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् ।
कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः । 8.78 ।
अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः ।
गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ । 8.79 ।
ल्xइx.किञ्चित् प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम ।
इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा । 8.80 ।
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राण्स्वरथेषु तस्य ।
चचार मूर्धस्वपि चञ्चलोऽलं जल् . ईकृतस्तेन स रावणोऽपि । 8.81 ।
स क्षिप्रमादाय हुताण्सनास्त्रं मुमोच नीले रजनीचरेशः ।
स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ । 8.82 ।
ततो ययौ राघवमेव रावणो निवारयामास तमाण्सु लक्ष्मणः ।
ततक्षतुस्तावधिकौ धनुर्भृत् आं शरैः शरीरावरणावदारणैः । 8.83 ।
निवारितस्तेन स रावणो भृशं रुषाऽन्वितो बाणममोघमुग्रम् ।
स्वयम्भुदत्तं प्रविकृष्य चाऽशु ललाटमध्ये प्रमुमोच तस्य । 8.84 ।
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि ।
क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत् । 8.85 ।
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः ।
शेषं हरेरं शयुतं नचास्य स चालनायापि शशाक रावणः । 8.86 ।
बलात् स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा सवीरं प्रचकर्ष रावणः ।
चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः । 8.87 ।

मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc