महाभारततात्पर्यनिर्णय · भाग 221240
व्यावृत्य नेत्रे कुपितो महद् धनुर्विष्फार्य बाणै रजनीं चकार । 26.232 ।
सोऽक्षोहिणीं त् आं क्षणमात्रतः क्षरन् महाण्सरां स्तानपि राक्षसान् क्षयम् ।
निनाय पुत्रं च घटोत्कचस्य निष्ट्यं पुरा योऽञ्जनवर्मनामकः । 26.233 ।
निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण ।
विव्याध गाढं स तु विह्वलो ध्वजं समाण्स्रितश्चाऽशु ससञ्ज्ञकोऽभवत् । 26.234 ।
उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे ।
मुमोच तेनाभिहतः पपात विनष्टसञ्ज्ञः स्वरथे घटोत्कचः । 26.235 ।
विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः ।
द्रौणिश्च सेनां निशि तैः शरोत्तमैर्व्यद्रावयत् पाण्डवसोमकानाम् । 26.236 ।
सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाण्सु ।
विद्रावयामास स बाणवर्षैः प्रकम्पयामास महारथां स्तथा । 26.237 ।
च्च्च्ल्xxxइइ.तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः ।
घटोत्कचं प्राहिणोच्छक्तिमुग्रां तस्मिन् मोक्तुं पार्थरक्षार्थमेव । 26.238 ।
स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाण्स्च ये ।
द्रोणेन चैतान् समरे स एको निवारयामास ममर्द चाधिकम् । 26.239 ।
ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन् ।
न विव्यथे तत्र रणे स कर्णः स्ववीर्यमास्थाय महास्त्रवेत्ता । 26.240 ।
निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः ।
अलम्बलो नाम तदैव राक्षसः समागमद् भीमसुतं निहन्तुम् । 26.241 ।
युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितल् . एऽसिनाऽस्य ।
उत्कृत्य शीर्षं तु सुयोधनेऽक्षिपद् विषेदुरत्राखिलभूमिपालाः । 26.242 ।
अलायुधोऽथाऽगमदुग्रवीर्यो नराण्सनस्तं स घटोत्कचोऽभ्ययात् ।
युद्ध्वा मुहूर्तं स तु तेन भूमौ निपात्य तं यज्ञपशुं चकार । 26.243 ।
अथास्य शिर उद्धृत्य क्रोधाद् दुर्योधनोरसि ।
चिक्षेप तेन सम्भ्रान्ताः सर्वे दुर्योधनादयः । 26.244 ।
घटोत्कचबलख्यात्यै समर्थेनापि यो रणे ।
न हतो भीमसेनेन हतोऽस्मिन् भैमसेनिना । 26.245 ।
सर्वे सञ्चोदयामासुः कर्णं शक्तिविमोक्षणे ।
अस्मिन् हते हतं सर्वं किं नः पार्थः करिष्यति । 26.246 ।
एवं सञ्चोद्यमानः स धार्तराष्ट्रैः पुनः पुनः ।
हैडिम्बेनार्द्यमानैस्तु स्वयं च भृशपीडितः ।
आदत्त शक्तिं विपुलां पाकशासनसम्मताम् । 26.247 ।
त् आमम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय ।
चिक्षेप मृत्यो रसनोपमामलं प्रकाण्सयन्तीं प्रदिशो दिशश्च । 26.248 ।
च्च्च्ल्xxxइइइ.निर्भिण्णवक्षाः स तया पपात विचूर्णयञ्छत्रुबलं हतोऽपि ।
तस्मिन् हते जहृषुर्धार्तराष्ट्रा उच्चुक्रुशुर्दुधुवुश्चाम्बराणि । 26.249 ।
तदा ननर्त केशवः समाण्स्लिषच्च फल्गुनम् ।
ननाद शङ्खमाधमज्जहास चोरुनिस्वनः । 26.250 ।
तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः ।
हते सुतेऽग्रजेऽस्माकं वीरे किं नन्दसि प्रभो । 26.251 ।
तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन ।
त्वदर्थं निहिता ण्सक्तिर्विमुक्ताऽस्मिन् हि राक्षसे । 26.252 ।
ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत ।
कर्णं प्रति तमाहाथ कृष्णद्वैपायनः प्रभुः । 26.253 ।
ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः ।
तन्मा ण्सुचस्त्वं राजेन्द्र दिष्ट्या जीवति फल्गुनः ।
इत्युक्त्वा प्रययौ व्यासस्ततो युद्धमवर्तत । 26.254 ।
भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्च पाण्डवे ।
प्रदीपहस्ता अथ योधकाण्स्च सर्वेऽपि निद्रावशगा बभूवुः । 26.255 ।
दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाण्सः ।
इतीरिता आण्सिषः फल्गुनाय प्रयुज्य सर्वे सुषुपुर्यथास्थिताः । 26.256 ।
पुनश्च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः ।
तत्राऽयातः सात्यकिं सोमदत्तो भूरिश्च ताभ्यां युयुधे स एकः । 26.257 ।
हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत् ।
स सात्यकिं विरथीकृत्य बाणं वधाय तस्याऽशु मुमोच वीरः । 26.258 ।
चिच्छेद तं भीमसेनस्त्रिधैव तस्मै शतघ्नीं प्रजहार बाह्लिकः ।
तया हतो विह्वलितो वृकोदरो जघान तं गदया सोऽपतच्च । 26.259 ।
बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरस्सरम् ।
च्च्च्ल्xxxइव्.भीमं त्वयैव हन्तव्यो रणेऽहं प्रीतिमिच्छता ।
तदा यशश्च धर्मं च लोकं च प्राप्नुयामहम् । 26.260 ।
इत्युक्त आह तं भीमो नितरां व्यथितस्तदा ।
हन्यां नैवान्यथा युद्धे तत् ते शुश्रूषणं भवेत् ।
इति तेन हतस्तत्र भीमसेनेन बाह्लिकः । 26.261 ।
हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णदुर्योधनाद्याः ।
द्रौणिं पुरस्कृत्य गुरुं च पार्षतः सभ्रातृकः सात्यकिना समभ्ययात् । 26.262 ।
सं शप्तकैरेव पार्थो युयोध तद् युद्धमासीदति रौद्रमद्भुतम् ।
अक्षोहिणी तत्र भीमार्जुनाभ्यां निसूदिता रात्रियुद्धे समस्ता । 26.263 ।
ततः सूर्यश्चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार ।
स पाञ्चालानां रथवृन्दं प्रविश्य जघान हस्त्यश्वरथान् नरां श्च । 26.264 ।
विद्रावितास्तेन महारथाण्स्च नैवाविन्दञ्छर्म बाणान्धकारे ।
युवेव वृद्धोऽपि चचार युद्धे स उग्रधन्वा परमास्त्रवेत्ता । 26.265 ।
रथार्बुदं तेन हतं च तत्र ततः सहस्रं गुणितं नराणाम् ।
ततो दशां शो निहतो हयानां गजार्बुदं चैव रणोत्कटेन । 26.266 ।
तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये ।
ततो विजित्यैव गुरोः सुतादीन् धृष्टद्युम्नं भीमसेनो जुगोप । 26.267 ।
धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्चकार ।
निवारयामास गुरुः शरौघैर्धृष्टद्युम्नं सोऽपि तं सायकेन ।
विव्याध तेनाभिहतः स मूर्च्छामवाप विप्रो निषसाद चाऽशु । 26.268 ।
धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्याऽरुरुहे रथोत्तमम् ।
सञ्ज्ञामवाप्याथ गुरुः शरौघैः प्रादेशमात्रैर्व्यथयामास तं च । 26.269 ।
स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वं रथमारुरोह ।
सुसं रब्धौ तौ पुनरेव युद्धं सञ्चक्रतुर्वृष्टण्सराम्बुधारौ । 26.270 ।
च्च्च्ल्xxxव्.निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः ।
तेन सन्दाहयामास पाञ्चालान् सुबहून् रणे ।
पुरुजित् कुन्तिभोजश्च तेनान्ये च हतास्तदा । 26.271 ।
भीमोऽर्जुनः सात्यकिश्च पर्यायेण गुरोः सुतम् ।
दूरतो वारयामासुर्महत्या सेनया सह । 26.272 ।
कर्णदुर्योधनादीं श्च शल्यं भोजं कृपं तथा ।
भीमार्जुनौ शरौघेण वारयामासतू रणे । 26.273 ।
तत्र भीमो गजानीकं जयत्सेनं च मागधम् ।
जघान सुबहूं श्चैव मागधानां रथव्रजान् । 26.274 ।
अथ माल् . अवराजस्य त्वश्वत्थामाभिधं गजम् ।
भीमसेनहतं दृष्ट्वा वासुदेवप्रचोदितः ।
अण्स्वत्थामा हत इति प्राह राजा युधिष्ठिरः । 26.275 ।
अण्स्वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम् ।
पुरोक्तं धर्मजायैव तेन द्रोणो युधिष्ठिरम् । 26.276 ।
ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत् ।
उपां शु कुञ्जरश्चेति द्रोणोऽतो व्यथितोऽभवत् । 26.277 ।
तस्य भीमो रथेषां च गृहीत्वा न तवेदृशम् ।
योग्यं गुणवतो नित्यं परधर्मोपजीवनम् । 26.278 ।
इत्याह खस्था मुनयश्चालमेहीति तं तदा ।
ऊचुस्तदखिलं ज् ञात्वा द्रोणः शस्त्रमवासृजत् । 26.279 ।
स न्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम् ।
सर्वेश्वरं नित्यनिरस्तदोषं ध्यायन् मुक्त्वा देहमगात् स्वधाम ।
तं केशवः पाण्डवा गौतमश्च यान्तं स्वलोकं दद्दशुर्विहायसा । 26.280 ।
धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चाऽदाय तत्र ।
छित्वाऽसिना तस्य शिरः पुनश्च रथं स्वकीयं त्वरया समास्थितः ।
च्च्च्ल्xxxवि.दृष्ट्वा कृपस्तं सुभृशं भयार्दितः सम्प्राद्रवद् वाजिनमेकमास्थितः । 26.281 ।
सञ्छिन्ने द्रोणण्सिरसि गर्हयामास वासविः ।
युधिष्ठिरं च पाञ्चाल्यं सात्यकिश्चापि कोपितः । 26.282 ।
धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः ।
इति तं सात्यकिः क्रुद्धो गदापाणिः समभ्ययात् ।
आह्वयामास पाञ्चाल्यस्तं धृत् आसिरविस्मयः । 26.283 ।
तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः ।
शमयामास पार्थं च पाञ्चाल्यस्नेहयन्त्रितः । 26.284 ।
ते वासुदेवेन तदाऽनुशिक्षित् आः स्नेहं पुनः पूर्ववदापुरुत्तमम् ।
यत्ताण्स्च युद्धाय समुद्यताण्स्च तदाऽगमद् द्रौणिरप्यात्तधन्वा । 26.285 ।
आण्स्रुत्य तातं निहतं प्रतिज्ञां चकार निः शेषरिपुप्रमाथने ।
नारायणास्त्रं विससर्ज कोपात् तदा भीत् आ भीममृते समस्ताः । 26.286 ।
युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे ।
सभ्रातृकोऽहं द्रौणिवरास्त्रमग्नो भवेयमित्यत्र जगाद केशवः । 26.287 ।
नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्च धनञ्जयादिकाः ।
सर्वे न भीमस्तदमुष्य मूर्ध्नि पपात सोऽग्नाविव सं स्थितोऽग्निः । 26.288 ।
अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते ।
अवेष्टयद् वारुणेन पार्थोऽत्राऽत्मप्रपत्तये । 26.289 ।
न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम् ।
तथाऽपि स्नेहवशगो वेष्टयामास फल्गुनः । 26.290 ।
अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि ।
साधयन् सार्जुनः कृष्णो भीमस्य रथमारुहत् । 26.291 ।
वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा ।
सहितत्वात् केशवेन नरत्वादथ फल्गुनम् । 26.292 ।
च्च्च्ल्xxxविइ.तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते ।
भीम आच्छिन्नहेतौ च तदस्त्रं शान्तिमागमत् । 26.293 ।
शुद्धक्षत्रियधर्मेषु निरतत्वाद् वृकोदरः ।
वाहनादवतीर्यान्यैः प्रणतेऽपि निरायुधैः ।
सायुधः सरथोऽयुद्ध्यदविषह्यमपीश्वरैः । 26.294 ।
स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम् ।
अतः सोऽन्यानपि प्राह मा गमध्वमिति स्वयम् । 26.295 ।
नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया ।
समरे शत्रुणा मुक्तं तस्मात् तन्न चकार सः । 26.296 ।
अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम् ।
तस्माद् भीमं स्वरूपत्वान्नादहच्चाग्निमग्निवत् । 26.297 ।
मनसैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ तदा ।
क्षत्रधर्मानुसारेण न ननाम च बाह्यतः । 26.298 ।
वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु ।
साधयित्वाऽनन्तशक्तिः पुनरश्वानचोदयत् । 26.299 ।
पुनः प्रयोक्तुमस्त्रं तं धार्तराष्ट्रोऽभ्यचोदयत् ।
द्रौणिर्न शक्यमित्युक्त्वा धृष्टद्युम्नं समभ्ययात् । 26.300 ।
आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे ।
उभौ च तौ सायकाभ्यामविध्यन्निपेततुस्तौ च विमूर्च्छितौ रणे । 26.301 ।
भीमस्याभ्यागतस्याण्स्वान् द्रौणिर्व्यद्रावयद् रणे ।
सं स्थापयति तान् भीमे ददर्श द्रौणिमर्जुनः । 26.302 ।
ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रुक्षा वाचः श्रावयन् क्रुद्धरूपः ।
तत्राऽग्नेयं द्रौणिरमुञ्चदस्त्रं तेन व्याप्ता पृतना पाण्डवानाम् । 26.303 ।
च्च्च्ल्xxxविइइ.अक्षोहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार ।
जीवन्तमालोक्य सुरेन्द्रनन्दनं द्रौणिः कोपात् कार्मुकं चापहाय ।
ययौ तमागत्य जगाद कृष्णो वेदान्तकृत् पूर्णषाड्गुण्यदेहः । 26.304 ।
मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः ।
महच्च कार्यं पुनरस्ति दृष्टं तवाऽशु तच्च प्रतिपादयेति । 26.305 ।
तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम् ।
ययुस्तमन्वेव सुयोधनादयो दुःखानतास्ते शिबिराय भीत् आः । 26.306 ।
पार्थाण्स्च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः ।
तत्रापि रात्रावमितान् हरेर्गुणाननुस्मरन्तो मुमुदुः समेताः । 26.307 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
नॣअरायणास्त्रोपशमनं नॣअम षड्विं शोऽध्यायः
च्च्च्ल्xxxइx.(कर्णवधः )
अथ सप्तविं शोऽध्यायः
ओं । अथानुज्ञामुपादाय द्रौणेर्दुर्योधनो नृपः ।
कर्णं सेनापतिं चक्रे सोऽगाद् युद्धाय दं सितः । 27.1 ।
तत्राभवद् युद्धमतीव दारुणं पाण्डोः सुतानां धृतराष्ट्रजैर्गजे ।
तत्रोदयाद्रिप्रतिमे प्रदृश्यते भीमो यथोद्यन् सविताऽतिनिर्मलः । 27.2 ।
तं कालयन्तं नृपतीन् क्षेमधूर्तिरभ्यागमत् तस्य गजं जघान च ।
तं वीर्यमत्तं प्रतिलभ्य भीमो निनाय मृत्योः सदनाय शीघ्रम् । 27.3 ।
निहत्य तं मारुतिरभ्यकृन्तच्छिरां सि यूनां परपक्षपातिनाम् ।
विक्षोभयामास च शत्रुसैन्यं सिं हो यथैव श्वसृगालयूथम् । 27.4 ।
सङ्क्षोभ्यमाणं तदनीकमीक्ष्य द्रौणी रथेन प्रतिजग्मिवां स्तम् ।
तद् युद्धमासीदतिघोरमद्भुतं पुरा यथा नाऽस च कस्यचित् क्वचित् । 27.5 ।
दृष्ट्वैव तद् देवगन्धर्वविप्रा ऊचुर्नेदृग् दृष्टपूर्वं सुयुद्धम् ।
नचोत्तरं वाऽपि भविष्यतीदृक् कलां च सर्वाणि न षोडण्सीमियुः । 27.6 ।
नैतादृशी ज्ञानसम्पद् बलं वा द्वयं कुतो वायुमृते शिवं तथा ।
द्वयोः समाहार इह द्वयोरपि ज्ञानस्य बाह्वोश्च बलस्य सूर्जितः । 27.7 ।
इतीर्यमाणे विबुधैर्नरोत्तमौ दिशः समस्ता गगनं च पत्रिभिः ।
निरन्तरं चक्रतुरुत्तमोजसौ दृष्ट्वैव तद् भीतिमगुर्महारथाः । 27.8 ।
शरासने मारुतिना निराकृतो द्रौणिर्महास्त्राणि मुमोच तस्मिन् ।
त् आन्यस्त्रवर्यैर्बलवानविस्मयः सं शामयामास सुतोऽनिलस्य । 27.9 ।
पुनः शरैरेव परस्परं त् आवयुद्ध्यतां चित्रमलं च सुष्ठु ।
तदा तुभीमस्य शरैर्भृशार्तो द्रौणिः पपाताऽशु दृढं विचेतनः । 27.10 ।
भीमश्च विह्वलतनुः स तु किञ्चिदेव पूर्वं गते गुरुसुते प्रययौ क्षणेन ।
निर्धूतयुद्धश्रम आत्तधन्वा योद्धुं गजौघं प्रतिनादिताण्सः । 27.11 ।
च्च्च्xच्.तस्मिन् गजान् मर्दयति धार्तराष्ट्रो युधिष्ठिरम् ।
अगाद् युद्धाय तौ युद्धं राजानौ चक्रतुश्चिरम् । 27.12 ।
तत्र तं विरथं चक्रे सहसैव युधिष्ठिरः ।
स गदामाददे गुर्वीं तं भीमोऽभ्यपतद् गदी । 27.13 ।
दृष्ट्वा कृपस्तं स्वरथमारोप्यापययौ ततः ।
तदैव कर्णनकुलौ भृशं बाणैरयुद्ध्यताम् । 27.14 ।
नकुलं विरथं कृत्वा कर्णोऽथ प्रपलायितम् ।
अनुद्रुत्य च वेगेन कण्ठे धनुरवासृजत् । 27.15 ।
उक्त्वा च पुरुषा वाचः कुन्त्या वचनगौरवात् ।
न जघानैव नकुलं विसृज्य च ययौ परान् । 27.16 ।
विन्दानुविन्दावथ कैकयौ रणे समासदत् सात्यकिरुग्रविक्रमः ।
तयोरमुष्याभवदुग्रवैशसं प्रवर्षतोरुत्तमसायकान् बहून् । 27.17 ।
त् आभ्यां निरुद्धः सहसा जहार तत्रानुविन्दस्य शिरोऽथ विन्दः ।
युयोध शैनेयमथारथावुभौ परस्परं चक्रतुरुत्तमाहवे । 27.18 ।
ततश्च चर्मासिधरौ प्रचेरतुः श्येनौ यथाऽकाण्सतल् . ए कृतश्रमौ ।
निकृत्य चान्योन्यमुभौ च चर्मणी वरासिपाणी युगपत् समीयतुः । 27.19 ।
तत्रापहस्तेन शिरः सकुण्डलं जहार विन्दस्य मृधे स सात्यकिः ।
निहत्य तं बन्धुजनैः सुपूजितो जगाम शत्रूनपरान् प्रकम्पयन् । 27.20 ।
कृपमायान्तमीक्ष्यैव तपसां मां प्रपीडयेत् ।
इति मत्वा पार्षतस्तु भीमं शरणमेयिवान् । 27.21 ।
कर्णं समन्तात् प्रतिकालयन्तं वरूथिनीमिन्द्रसुतः समभ्ययात् ।
क्षणात् तमाजौ विरथं च चक्रे ततोऽपहारं स चकार चम्वाः । 27.22 ।
पराजितः सं यति सूर्यसूनुः सुतेन शक्रस्य स धार्तराष्ट्रम् ।
च्च्च्xचि.जगाद बाहुं प्रतिगृह्य पार्थो जिगाय मामन्यमनस्कमाजौ । 27.23 ।
कामं रथो मे धनुरप्यभेद्यं दत्तं भृगूणामधिपेन दिव्यम् ।
यन्ता नतादृङ् मम यादृशो हरिः शल्यो यदि स्यात् त्वदरिं निहन्याम् । 27.24 ।
इतीरिते सौत्यकृते स शल्यं प्रोवाच स क्रुद्ध इवाभवत् तदा ।
दुर्योधनो रथिनः सारथेस्तु व्यावर्णयन्नुत्तमतामशामयत् । 27.25 ।
बुद्ध्या बलेन ज्ञानेन धैर्याद्यैरपि योऽधिकः ।
रथिनः सारथिः स स्यादर्जुनस्य यथा हरिः ।
यथा ण्सिवस्य ब्रह्माऽभूद् दहतस्त्रिपुरं पुरा । 27.26 ।
इत्यादिवाक्यैः सं शान्त इव शल्योऽस्य सारथिः ।
बभूव तेन सहितः सेनां व्यूह्य रवेः सुतः । 27.27 ।
गच्छन् युद्धाय दर्पेण प्राह यो मेऽर्जुनं पुमान् ।
दर्शयेत् तस्य दास्यामि प्रीतो वित्तमनर्गल् . अम् । 27.28 ।
इति ब्रुवन्तं बहुशः प्राह शल्यः प्रहस्य च ।
निवातकवचा येन हता दग्धं च खाण्डवम् ।
को नाम तं जयेन्मर्त्यो दृष्टो वोऽपि स गोग्रहे । 27.29 ।
काकगोमायुधर्मा त्वं हं ससिं होपमं रणे ।
मा याहि पार्थं मा याहि हतोऽनेन यमक्षयम् । 27.30 ।
इत्युक्ते रविजो मद्रान् नितरां पर्यकुत्सयत् ।
शल्योऽपि सर्वदेशेषु नीचमध्योत्तमा नराः ।
सन्तीत्युक्त्वाऽस्य सारथ्यं चक्रे पार्थहितेप्सया । 27.31 ।
कर्णोऽथ शल्यनियतेन रथेन पार्थसेनामवाप्य विदुधाव शरैः समन्तात् ।
सं रक्षितो युधि सुयोधनगौतमाद्यैराचार्यजेन च महास्त्रविदां वरेण । 27.32 ।
तं भीमपार्षतशिनिप्रवराभिगुप्ता सा पाण्डवेयपृतनाऽभिववर्ष बाणैः ।
त् आं सूर्यसूनुरथ बाणवरैर्विदार्य सम्प्रार्दयच्छितशरैरपि धर्मसूनुम् । 27.33 ।
च्च्च्xचिइ.कृत्वा तमाण्सु विरथं धनुरस्य कण्ठे सज्यं निधाय परुषा गिर आह चोच्चैः ।
दृष्ट्वैव मारुतिरमुं भृशमातुतोद दुर्योधनं विरथकार्मुकमत्र कृत्वा । 27.34 ।
तं प्राणसं शयगतं नृपतिं निरीक्ष्य कर्णं जगाद युधि मद्रपतिः प्रदर्श्य ।
यस्यार्थ एव समरस्त्वमियं च सेनां तं त्वं यमस्य सदनं प्रयियासुमद्य ।
भीमेन पीडितममुं परिपाहि शीघ्रं किं ते युधिष्ठिरमिमं हि मुधाऽभिपीड्य । 27.35 ।
श्रुत्वाऽस्य वाक्यमतिहाय युधिष्ठिरं तं कर्णो ययौ नृपतिरक्षणतत्परोऽलम् ।
दृष्ट्वैव तं पवनसूनुरभि त्वियाय क्रोधाद् दिधक्षुरिव कर्णममेयधामा । 27.36 ।
राजावनाय शिनिपुङ्गवपार्षतौ च सन्दिश्य कर्णमभिगच्छत आस रूपम् ।
अन्ते कृत् आन्तनरसिं हतनोर्यथैव विष्णोर्हरं ग्रसत आत्तसमस्तविश्वम् ।
तद्वेगतः प्रतिचचाल धरा समस्ता विद्राविता च सकला प्रतिवीरसेना । 27.37 ।
वैकर्तनेन शरसञ्चयताडितः स बाणं च वज्रसदृशं प्रमुमोच तस्मिन् ।
तेनाऽहतो मृतकवत् स पपात कर्णो भीमः क्षुरं च जगृहेऽभिययौ च पद्भ्याम् । 27.38 ।
निन्दां हरेस्तु विदधाति परोक्षगोऽपि यस्तं प्रगृह्य करवाणि विजिं ह्वमेव ।
एवं हि वायुतनयस्य महाप्रतिज्ञा छेत्तुं स तेन रविजस्य ससार जिं ह्वाम् । 27.39 ।
आयान्तमन्तिकममुं प्रसमीक्ष्य शल्यो नेत्याह हेतुभिरहो न मृषा प्रतिज्ञा ।
कार्या त्वयैव पुरुहूतसुतस्य जिं ह्वां मा तेन पातय मरुत्सुत सूतसूनोः । 27.40 ।
इत्युक्त्वा प्रमुखात् तस्य रथेनैव तु मद्रराट्।
वैकर्तनमपोवाह सर्वलोकस्य पश्यतः । 27.41 ।
जित्वा सूर्यसुतं भीमः कौरवाणामनीकिनीम् ।
सर्वां विद्रावयामास द्रौणिदुर्योधनावृत् आम् । 27.42 ।
अक्षोहिणीत्रयं तेन तदा विलुल् . इतं क्षणात् ।
तदैव गुरुपुत्रोऽयात् पाण्डवानामनीकिनीम् । 27.43 ।
विमृद्य सकलां सेनां कृत्वा च विरथं नृपम् ।
धृष्टद्युम्नं यमौ चैव सात्यकिं द्रौपदीसुतान् ।
क्षणेन विरथीकृत्य सर्वां श्चक्रे निरायुधान् । 27.44 ।
च्च्च्xचिइइ.त् आन् भग्नदर्पान् रणतोऽपयातानन्वेव बाणावृतमन्तरिक्षम् ।
कुर्वन् ययौ धर्मराजस्तमाह किं नः स्वधर्मे निरतान् विहं सि । 27.45 ।
क्षत्रियान् परधर्मस्थो मा हिं सीरिति चोदितः ।
प्रहस्य तान् विहायैव ययौ यत्राच्युतार्जुनौ । 27.46 ।
सं शप्तकैस्तत्र सं युद्ध्यमानं समाह्वयामास सुरेशसूनुम् ।
स बाणयुक्तं भुजगेन्द्रकल्पमुन्नम्य बाहुं युधये सुशूरम् । 27.47 ।
पार्थः सं शप्तकगणैः सं सृष्टः समरार्थिभिः ।
आहूतो द्रौणिना चैव कार्यं कृष्णमपृच्छत ।
चोदयामास च हयान् कृष्णो द्रौणिरथं प्रति । 27.48 ।
उभौ च तावस्त्रविदां प्रधानौ महाबलौ सं यति जातदर्पौ ।
शरैः समस्ताः प्रदिशो दिशश्च द्रोणेन्द्रसूनू तिमिराः प्रचक्रतुः । 27.49 ।
द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः ।
शरानमोघान् सततं सृज् आनो बबन्ध पार्थं शरपञ्जरेण । 27.50 ।
तस्मिन् निबद्धे हरिरप्रमेयो विबोधयामास सुरेन्द्रसूनुम् ।
आलिङ्गनेनास्य ददौ बलं च स उत्थितोऽस्त्राण्यमुचन्महान्ति । 27.51 ।
निवार्य तान्यस्त्रवरैर्गुरोः सुतश्चिच्छेद च ज्यां युधि गाण्डिवस्य ।
ववर्ष पार्थं च शरैरथाऽन्या ज्याऽसीत् तया गाण्डिवं सोऽप्ययुङ्क्त । 27.52 ।
ततः शरेण कुपितः शितेन द्रौणिसारथेः ।
शिरो जहार कौन्तेयः सारथ्यं सोऽकरोत् स्वयम् । 27.53 ।
शरान् विसृजता तेन सारथ्यमपि कुर्वता ।
शरकूटेन पार्थः स पुनर्बद्धो द्विजन्मना । 27.54 ।
पुनरालिङ्ग्य कृष्णस्तमधाच्छत्रुविघातकम् ।
बलमस्मिं स्ततः पार्थः उत्तस्थौ शरचापभृत् ।
ववर्ष चशरान् भूयो द्रोणपुत्रेऽरिमर्दनः । 27.55 ।
च्च्च्xचिव्.पुनस्तस्य नुनोद ज्यां द्रौणिः सन्धाय तां पुनः ।
पार्थो द्रोणसुतस्याण्स्वरश्मीं श्चिच्छेद सायकैः । 27.56 ।
विरश्मयो हया द्रौणेः पुनः पार्थशराहताः ।
अपोहुर्दूरमेतस्मात् सोऽपि सं स्थाप्य तान् पुनः ।
चिन्तयामास नैतस्मादधिकं शक्यतेऽर्जुने । 27.57 ।
सारथित्वात् केशवस्य ध्वजस्थत्वाद्धनूमतः ।
गाण्डिवत्वात् कार्मुकस्य चेषुध्योरक्षयत्वतः । 27.58 ।
अवध्यत्वात् तथाऽश्वानामभेद्यत्वाद् रथस्य च ।
अतो योद्धुं समर्थोऽपि नाद्य यामि धनञ्जयम् । 27.59 ।
एवं स मत्वा प्रविवेश सेनां पाण्डोः सुतानामथ तं समभ्ययात् ।
पाण्ड्यस्तयोरास सुयुद्धमद्भुतं प्रवर्षतोः सायकपूगमुग्रम् । 27.60 ।
अष्टावष्टण्सतान्यूहुः शकटानि यदायुधम् ।
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप तत्र ह । 27.61 ।
अथ तं विरथं कृत्वा छित्वा कार्मुकमाहवे ।
सकुण्डलं शिरो द्रौणिर्जहार मकुटोज्ज्वलम् । 27.62 ।
अथ विद्रावयामास पृतनां पाण्डवीं शरैः ।
तदा जघान पार्थोऽपि दण्डधाराख्यमागधम् । 27.63 ।
विद्राप्यमाणां पृतनां निरीक्ष्य गुरोः सुतेनाभ्यगमत् त्वरावान् ।
धृष्टद्युम्नस्तं स ऊचे सुपापं हनिष्ये त्वामद्य युद्धे गुरुघ्नम् । 27.64 ।
इत्युक्तो दर्शयामास पार्षतः खड्गमुत्तमम् ।
अयं तव पितुर्हन्ता वदिष्यति तवोत्तरम् । 27.65 ।
इत्युक्त्वा धनुरादाय ववर्ष चशरान् बहून् ।
तयोः समभवद् युद्धं तुमुलं रोमहर्षणम् । 27.66 ।
च्च्च्xच्व्.तत्र पार्षतं द्रौणिः क्षणेन विरथायुधम् ।
कृत्वाऽन्ताय शरां स्तीक्ष्णान् मुमोच नच तस्य ते ।
त्वचं च चिच्छिदुर्द्रौणिः खड्गहस्तोऽभिजग्मिवान् । 27.67 ।
खड्गेन सास्त्रैः शस्त्रैरप्यनिर्भिण्णत्वचं तदा ।
मौर्व्या ममन्थ धनुषः पातयित्वा धरातल् . ए । 27.68 ।
आकृष्यमाणं पार्षतं दृष्ट्वा कृष्णप्रचोदितः ।
पार्थो भीमश्चोभयतः शरैरभिनिजघ्नतुः । 27.69 ।
स ताभ्यां वज्रसदृशैः शरैरभिहतो भृशम् ।
विसृज्य पार्षतं स्वीयमारुरोह रथं पुनः । 27.70 ।
जगाम च ततोऽन्यत्र पाञ्चाल्योऽपि रथं पुनः ।
आरुं ह्यान्यं स्वात्तधन्वा कृतवर्माणमभ्ययात् । 27.71 ।
तयोरासीत् सुतुमुलं युद्धमद्भुतदर्शनम् ।
तत्र नातिप्रयत्नेन पाञ्चाल्यो विरथायुधम् ।
चकार कृतवर्माणं तमपोवाह गौतमः । 27.72 ।
अथ दुर्योधनो राजा माद्रेयावभ्ययाद् रथी ।
त् आभ्यां तस्याभवद् घोरं युद्धमद्भुतदर्शनम् ।
तत्र नातिप्रयत्नेन तेन तौ विरथीकृतौ । 27.73 ।
स्वयं युधिष्ठिरो राजा तदा तं समवारयत् ।
व्यश्वसूतध्वजं चक्रे तं च दुर्योधनो रणे । 27.74 ।
अथाऽगतं सूर्यसुतं पुनश्च जगाम भीमो रभसो रथेन ।
दुर्योधनं चास्य समक्षमेव चकार वीरो विरथं क्षणेन । 27.75 ।
निवार्य कर्णं च शरैरमुष्य सूनोः सुषेणस्य शिरश्चकर्त ।
पपात भूमौ स पितुः समीपे यथा हतः सत्यसेनोऽमुनैव ।
यथैव कर्णावरजौ पुरैव निशायुद्धे कर्णपुरः प्रपातितौ । 27.76 ।
हतं तमीक्ष्यैव विकर्तनात्मजः क्रोधान्वितो भीमसेनं विहाय ।
च्च्च्xच्वि.ययौ प्रमृद्यैव चमूं युधिष्ठिरं रथेऽपरे स्वश्वयुते व्यवस्थितम् । 27.77 ।
न्यवारयेतां शिनिपौत्रपार्षतौ कृष्णासुताः सोमकसङ्घयुक्ताः ।
स तान् समस्तान् विरथान् विधाय युधिष्ठिरं प्राप युतं यमाभ्याम् । 27.78 ।
निहत्य सोऽश्वान् युधि धर्मसूनोर्निरायुधौ तौ च यमौ चकार ।
त् आनेकयानोपगतान् पुनश्च ममर्द बाणैश्च वचोभिरुग्रैः । 27.79 ।
तदैव मोक्षाय नृपस्य भीमो दुर्योधनं विरथं सं विधाय ।
विव्याध मर्मस्वतितीक्ष्णसायकैस्तं दर्शयामास रवेः सुताय । 27.80 ।
शल्यस्तदा धर्मसुतं विहाय कर्णो ययौ तत्र युधिष्ठिरोऽपि ।
गत्वा ण्सनैः शिबिरं तत्र शिश्ये कर्णो यदा राजगृध्नी जगाम । 27.81 ।
द्रौणिः कृपश्चात्र तदैव जग्मतुस्तदा भीमो द्रौणिकर्णौ जगाम ।
यदा भीमो द्रौणिकर्णौ जगाम कृपो नृपं रथमारोपयच्च । 27.82 ।
नृपं समादाय कृपेऽपयाते भीमार्दितौ द्रौणिकर्णौ शरौघैः ।
विहाय तं जग्मतुः सोमकानां चमूं शरौघैरभिपातयन्तौ । 27.83 ।
अथात्र राजानमचक्षमाणो धनञ्जयो वासुदेवप्रणुन्नः ।
अभ्याययौ पार्षतः स्वां तु सेनां कर्णाहतां वीक्ष्य कुरूनपीडयत् । 27.84 ।
न्यवारयत् समायान्तं कपिप्रवरकेतनम् ।
द्रौणिर्दुः शासनश्चैव धृष्टद्युम्नमवारयत् । 27.85 ।
उभावतिरथौ तौ तु शस्त्रास्त्रैरभ्यवर्षताम् ।
दुः शासनः पार्षतश्च कुर्वन्तौ बाणजं तमः । 27.86 ।
तत्र दुः शासनेनाऽजौ स्तम्भितो द्रुपदात्मजः ।
यतमानोऽपि निर्यत्नः कृतो युद्धे निरायुधः । 27.87 ।
तदाऽभवद् युद्धमतीव दारुणं द्रौणेस्तनूजेन तु वज्रपाणेः ।
तत्रापि बद्धः शरपञ्जरेण पार्थोऽपनुत्ताऽपि हि गाण्डिवज्या । 27.88 ।
च्च्च्xच्विइ.पार्थोऽथ कृष्णेधितबाहुवीर्यो निहत्य सूतं गुरुपुत्रकस्य ।
छित्वा चरश्मीं स्तुरगानमुष्य विद्रावयामास शरैः सुदूरम् । 27.89 ।
अतीत्य पुत्रं तु गुरोः समागते पार्थे कर्णो द्रावयामास सेनाम् ।
पाण्डोः सुतानां शरवर्षधारो दुर्योधनश्चानु ययौ तमेव । 27.90 ।
कर्णमायान्तमालोक्य द्रावयन्तं निजां चमूम् ।
धनुरन्यत् समादाय धृष्टद्युम्नो न्यवारयत् । 27.91 ।
तयोरासीन्महद् युद्धं चिरं सममविश्रमम् ।
तदैव सात्यकिर्वीरो दुर्योधनमवारयत् । 27.92 ।
निवारितः सात्यकिना रणे दुर्योधनो नृपः ।
निहत्य सात्यकेरश्वान् द्रौपदेश्चापमच्छिनत् । 27.93 ।
तदन्तरैव कर्णोऽपि पार्षताण्स्वानपातयत् ।
तयोर्विरथयोरेव भग्नं तत् पाण्डवं बलम् । 27.94 ।
बलं स्वकीयं बहुधा विभिन्नं समीक्ष्य भीमो मृगराजकेतुः ।
कृत्वा धराकम्पकमुग्रनादं रणेऽभ्ययात् कौरवराजसैन्यम् । 27.95 ।
नादेन बाणैश्च वृकोदरेण भग्नं तदा कौरवसैन्यमाण्सु ।
दिशो विदुद्राव सुयोधनोऽपि कृतो रणे तेन विवाहननायुधः । 27.96 ।
दृष्ट्वैव तत् पाण्डवानां च सेना समावृत्त् आ क्षिप्रमवार्यवेगा ।
तया पुनः कौरवाणां बलं तद् भग्नं दूराद् दूरतरं प्रदुद्रुवे । 27.97 ।
हन्यमानं दिशो यातं पाञ्चालैर्भीमसं श्रयात् ।
सुयोधनबलं दृष्ट्वा जज्वालाऽधिरथिः क्रुधा । 27.98 ।
सोऽमोघं रामदेवत्यमस्त्रं भार्गवसञ्ज्ञितम् ।
सर्वास्त्रनाण्सकं दिव्यमप्रतिद्वन्द्वमाददे । 27.99 ।
तच्च भीमपुरोगेषु सैन्येष्वमुचदुद्ब्लणम् ।
तदस्त्रं वर्जयामास भीमं रामप्रसादतः ।
च्च्च्xच्विइइ.अन्ये तु दुद्रुवुः केचिच्छिष्टाः प्रापुर्यमक्षयम् । 27.100 ।
नह्यस्त्रं द्रवमाणां स्तद्धन्ति तेन सपार्षताः ।
पाञ्चाला द्रौपदेयाण्स्च शैनेयाद्याण्स्च सर्वशः । 27.101 ।
पलायनेनोर्वरिता अर्जुनोऽप्यस्त्रमुद्यतम् ।
वीक्ष्य प्रत्यस्त्रहीनं तदप्राप्यैव रवेः सुतम् । 27.102 ।
वासुदेवमिदं प्राह वर्जयित्वैव सूतजम् ।
अन्यत्र यामि नैवास्मादस्त्राज्जीवनमन्यथा । 27.103 ।
इत्यूचिवां सं पार्थं तं कृष्णोऽप्राप्यैव सूतजम् ।
अन्येनैव पथा भीमं प्रापयामास विश्वकृत् । 27.104 ।
तत्रार्जुनोऽवदद् भीमं याहि द्रष्टुं युधिष्ठिरम् ।
प्रवृत्तिं विद्धि भूपस्य मां तु सं शप्तका युधे ।
आह्वयन्ति हतोच्छेषास्तानहं यामि तद् युधे । 27.105 ।
इत्यूचिवां सं तमुवाच भीमो ज् आनन् स्वबाह्वोर्बलमप्रमेयम् ।
सं शप्तकान् सूतजं कौरवां श्च योत्स्येऽहमेकस्त्वमुपैहि भूपम् । 27.106 ।
त्यक्त्वा रणं नाहमितो व्रजेयं न मां वदेत् कश्चन युद्धभीतम् ।
इति ब्रुवाणं तमनन्तशक्तिः प्रीतः कृष्णः प्रशशं साधिकेष्टम् । 27.107 ।
ययौ युधिष्ठिरं द्रष्टुं शिबिरं सार्जुनो हरिः ।
दृष्ट्वा तौ नृपतिः कर्णं हतं मत्वा ण्सशं स ह । 27.108 ।
अभिवाद्य हनिष्यामीत्युक्तः पार्थेन सा क्रुधा ।
भृशं विनिन्द्य बीभत्सुमाह कृष्णाय गाण्डिवम् ।
देहि पुत्रं स राधाया हनिष्यति न सं शयः । 27.109 ।
अथवा भीम एवैनं निवृत्ते त्वयि पातयेत् ।
त्वं तु कुन्त्या वृथा सूतः क्लीबो मिथ्याप्रतिश्रुतः । 27.110 ।
अहं हि सूतपुत्रेण क्लिष्टो मारुतितेजसा ।
च्च्च्xचिx.जीवामीत्यग्रजेनोक्त उद्बबर्हासिमुत्तमम् ।
वासुदेवस्तदाऽहेदं किमेतदिति सर्ववित् । 27.111 ।
तमाह गाण्डिवं दातुं यो वदेत् तद्वधो मया ।
प्रतिज्ञातस्ततो हन्मि नृपमित्याह तं हरिः । 27.112 ।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।
यत्सतां हितमत्यन्तं तत् सत्यमिति निश्चयः । 27.113 ।
धर्मस्य चरणं श्रेयो धर्मज्ञानं तु दुष्करम् ।
यः सतां धारको नित्यं स धर्म इति निश्चयः । 27.114 ।
कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्वचित् ।
तस्करेष्वभिधायैव निरयं प्रत्यपद्यत । 27.115 ।
कश्चिद् व्याधो मृगं हत्वा मातापितृनिमित्ततः ।
भक्षार्थमभ्यगात् स्वर्गमसुरोऽसौ मृगो यतः ।
उपद्रवाय लोकस्य तपश्चरति दुर्मतिः । 27.116 ।
तस्मात् सद्धारको धर्म इति कृत्वा विनिश्चयम् ।
मा नृपं जहि सत्यां त्वङ्कुरु वाचं ततः कुरु ।
इत्युक्तो बहुधाऽनिन्दत् क्रोधादेवार्जुनो भृशम् । 27.117 ।
त्वं नृशं सोऽकृतज्ञश्च निर्वीर्यः परुषं वदः ।
त्वत्तः सुखं नास्ति किञ्चिन्न मां गर्हितुमर्हसि । 27.118 ।
भीमो मां गर्हितुं योग्यो यो ह्यस्माकं सदा गतिः ।
यो युद्ध्यते सर्ववीरैरद्यापि त्वं तु निन्दकः । 27.119 ।
इत्याद्युक्त्वाऽत्मनाण्साय विकोशं चकृवानसिम् ।
पुनः कृष्णेन पुष्टः सन् स्वाभिप्रायमुवाच सः ।
तच्छ्रुत्वा गर्हयित्वैनं पुनराह जनार्दनः । 27.120 ।
मतिपूर्वं देहहानात् पापं महदवाप्यते ।
धर्मार्थकाममोक्षाणां साधनं देहतोऽस्ति यत् । 27.121 ।
च्द्.अतो मा त्यज देहं तु कुरु चाऽत्मप्रशं सनम् ।
वधो गुरूणां त्वङ्कारः स्वप्रशं सैव चात्मनः ।
इत्युक्तः स त्वहङ्काराच्छशं स स्वगुणानलम् । 27.122 ।
गुरुनिन्दाऽत्मपूजा च न धर्माय भवेत् क्वचित् ।
तथाऽप्यर्जुनहार्दं तत् सम्प्रकाण्स्य जनार्दनः । 27.123 ।
तस्य लज्जां समुत्पाद्य नाण्सयित्वा च तं मदम् ।
नाहं वेद परं धर्मं कृष्ण एव गतिर्मम । 27.124 ।
इति भावं समुत्पाद्य दोषान् नाण्सयितुं हरिः ।
कारयामास तत् सर्वमर्जुनेन जगत्पतिः । 27.125 ।
तत एवदविज्ञानात् कुपितो नृपतिर्भृशम् ।
आहास्तु राजा भीमस्त्वं युवा मां जहि च स्वयम् ।
वनं वा विफलो यामीत्युक्त्वोत्तस्थौ स्वतल्पतः । 27.126 ।
तं वासुदेवः प्रतिगृह्य हेतुमुक्त्वा सर्वं शमयामास नेता ।
पार्थश्च भूपस्य पपात पादयोः क्षमापयन् सोऽपि सुप्रीतिमाप । 27.127 ।
तौ भ्रातरौ वासुदेवप्रसादान्महापदो मुक्तिमाप्यातिहृष्टौ ।
भक्त्या समस्ताधिपतिं शशं सतुस्त्वया समः को नु हरे हितो नः । 27.128 ।
ततः प्रणम्य बीभत्सुरग्रजं परिरम्भितः ।
तेनाभिनन्दितः प्रीत्या चाऽशीर्भिः प्रययौ युधे । 27.129 ।
तं शङ्कितं कर्णजये स्विन्नगात्रं हरिस्तदा ।
सङ्कीर्त्य पूर्वकर्माणि नरावेशं विशेषतः ।
व्यञ्जयामास धैर्यं च तस्याऽसीत् तेन सुस्थिरम् । 27.130 ।
भीमस्तदा ण्सत्रुबलं समस्तं विद्रावयामास जघान चाऽजौ ।
वीरान् रणायाभिमुखान् स्वयन्त्रा कुर्वं श्च वार्ता रममाण एव। 27.131 ।
तदाऽसदत् तं शकुनिः ससैन्यो दुर्योधनस्यावरजैरुपेतः ।
च्दि.तं भीमसेनो विरथं निरायुधं विधाय बाणैर्भुवि च न्यपातयत् । 27.132 ।
न जघ्निवां स्तं सहदेवभागं प्रकल्पितं स्वेन तदाऽक्षगोष्ठ्याम् ।
तं मूर्च्छितं श्वासमात्रावशेषं दुर्योधनः स्वरथेनापनिन्ये । 27.133 ।
दुर्योधनस्यावरजा दशात्र प्रदुद्रुवुर्भीमसेनं विहाय ।
तदाऽर्जुनं वासुदेवं च दृष्ट्वा प्रीतः श्रुत्वा धर्मराजप्रवृत्तिम् । 27.134 ।
पुनश्च निघ्नन्तमरिप्रवीरान् विद्रावयन्तं च निजां वरूथिनीम् ।
ससार दुः शासन आत्तधन्वा भीमोऽपि तं सिं ह इवाभिपेतिवान् । 27.135 ।
तं रूक्षवाचो मुहुरर्पयन्तं विधाय भीमो विरथं क्षणेन ।
प्रगृह्य भूमौ विनिपात्य वक्षो विदारयामास गदाप्रहारतः । 27.136 ।
आक्रम्य कण्ठं च पदोदरेऽस्य निविश्य पश्यन् मुखमात्तरोषः ।
विकोशमाकाण्सनिभं विधाय महासिमस्योरसि सञ्चखान । 27.137 ।
कृत्वाऽस्य वक्षस्युरुसत्तटाकं पपौ निकामं तृषितोऽमृतोपमम् ।
तच्छोणित् आम्भो भ्रमदक्षमेनं सं स्मारयामास पुराकृत् आनि । 27.138 ।
वाक्सायकां श्चास्य पुरा समर्पितान् सं स्मारयामास पुनः पुनर्भृशम् ।
दन्तान्तरं न प्रविवेश तस्य रक्तं ह्यपेयं पुरुषस्य जानतः । 27.139 ।
तथाऽपि शत्रुप्रतिभीषणाय पपाविवाऽस्वाद्य पुनः पुनर्भृशम् ।
स्मरन् नृसिं हं भगवन्तमीश्वरं स मन्युसूक्तं च ददर्श भक्त्या । 27.140 ।
"यस्ते मन्यो" 81 इत्यतो नारसिं हं सोमं तस्मै चाऽर्पयच्छोणित् आख्यम् ।
युद्धाख्ययज्ञे सोमबुद्ध्याऽरिवक्ष इहेति साम्ना गदया विभिन्दन् । 27.141 ।
उवाच वाचं पुरुषप्रवीरः सत्यां प्रतिज्ञां लोकमध्ये विधाय ।
याः सपतयस्ता अपतयो हि जाता यासाऽपतिः सा सपतिश्च जाता । 27.142 ।
पश्यन्तु चित्रां परमस्य शक्तिं ये वै तिलाः षण्ढतिला बभूवुः ।
81 ऋग्वेद 10.83.1
च्दिइ.एनं गृहीतं च मया यदीह कश्चित् पुमान् मोचयतु स्ववीर्यात् । 27.143 ।
इति ब्रुवाणः पुनरेव रक्तं पपौ सुधां देववरो यथा दिवि ।
पुनश्च सप्राणममुं विसृज्य नदन् ननर्तारिबले निरायुधः । 27.144 ।
प्रत्यनृत्यन् येऽस्मान् पुनर्गौरिति गौरिति ।
त् आन् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति । 27.145 ।
इति ब्रुवन् नृत्यमानोऽरिमध्य आस्फोटयञ्छत्रुगणानजोहवीत् ।
शशाक च द्रष्टुममुं न कश्चिद् वैकर्तनद्रौणिसुयोधनादिषु । 27.146 ।
भयाच्च कर्णस्य पपात कार्मुकं निमीलयामास तदाऽक्षिणी च।
सम्बोधितो मद्रराजेन युद्धे स्थितः कथञ्चित् स तु पार्थभागः । 27.147 ।
द्रौणिर्विहायैनमपाजगाम दूरं तदा भीमसेनो जगाद ।
पीतः सोमो युद्धयज्ञे मयाऽद्य वध्यः पशुर्मे हरये सुयोधनः । 27.148 ।
इति ब्रुवन् मृतमुत्सृज्य शत्रुं दुर्योधनं चाऽशु रुषाऽभिदुद्रुवे ।
आयान्तमीक्ष्यैव तमुग्रपौरुषं दुद्राव भीतः स सुयोधनो भृशम् । 27.149 ।
बलद्वयं चापययौ विहाय भयाद् भीमं कृष्णपार्थौ विनैव ।
आयोधनं शून्यमभून्मुहूर्तं ननर्त भीमो व्याघ्रपदेन हर्षात् । 27.150 ।
सङ्कल्प्य शत्रून् गोवदेवाऽजिमध्ये शार्दूलवत् तच्चरितं निशाम्य ।
जहास कृष्णण्स्च धनञ्जयश्च शशं सतुश्चैनमतिप्रहृष्टौ । 27.151 ।
यदा सरङ्गः पवमानसूनुना ण्सून्यः कृतस्तत्र महूर्तमात्रात् ।
दुर्योधनस्यावरजाः शरौघैरवीवृषन् भीममुदारसत्त्वम् । 27.152 ।
त् आन् मारुतिर्बाणवरैर्निकृत्तशीर्षान् यमायानयदाण्सु वीरः ।
तस्मिन् दिने विं शतिधार्तराष्ट्र हतास्तदन्ये समरात् प्रदुद्रुवुः । 27.153 ।
कर्माण्यनन्यौपयिकानि भीमे कुर्वत्येवं भीतभीतेऽरिसऽ न्घे ।
निमीलिताक्षे च भयेन कर्णे कर्णात्मजो नकुलं प्रत्यधावत् । 27.154 ।
च्दिइइ.माद्रीसुतो वृषसेनं शरौघैरवारयत् तं विरथं चकार ।
कर्णात्मजः सोऽप्यसिचर्मपाणिस्तस्यानुगां स्त्रिसहस्रं जघान । 27.155 ।
कर्णात्मजस्तस्य सञ्छिद्य चर्म भीमार्जुनादीनपि बाणसङ्घैः ।
अवीवृषत् तस्य पार्थः शरेण ग्रीवाबाहूरून् युगपच्चकर्त । 27.156 ।
एकेन बाणेन सुते हते स्वे वैकर्तनो वासविमभ्यधावत् ।
तयोरभूद् द्वैरथयुद्धमद्भुतं सर्वास्त्रविद्वरयोरुग्ररूपम् । 27.157 ।
पक्षग्रहास्तत्र सुरासुरास्तयोरन्ये च जीवा गगनं समास्थिताः ।
महान् विवादोऽप्यभवत् तयोः कृते तदा गिरीशोऽवददब्जयोनिम् । 27.158 ।
सुरासुराणां भीमदुर्योधनौ द्वौ समाण्स्रयौ तत्प्रियौ कर्णपार्थौ ।
प्राणोपमौ तेन चैतत्कृते ते सुरासुराः कर्तुमिच्छन्ति युद्धम् ।
तदा विनाण्सो जगतां महान् स्यात् तेनानयोः सममेवास्तु युद्धम् । 27.159 ।
इतीरिते वासवः पद्मयोनिं जगाद कृष्णो यत्र जयश्च तत्र ।
कामो न कृष्णस्य मृषा भवेद्धि कामोऽस्य पार्थस्य जयं प्रदातुम् । 27.160 ।
इत्यूचिवान् वासवः फल्गुनस्य जयोऽस्तु कर्णस्य वधस्तथेति ।
उक्त्वाऽनमत् कञ्जभवस्तथेति प्राहासुरान् देवताण्स्चाऽबभाषे । 27.161 ।
न कर्णार्जुनयोरर्थे विरोधं कुरुत क्वचित् ।
भीमदुर्योधनार्थे वा पश्यन्त्वेव च सं युगम् ।
इत्युक्ते शान्तिमापन्ना ददृशुः सं युगं तयोः । 27.162 ।
ववर्षतुस्तौ च महास्त्रशस्त्रैर्भीमो रथस्थोऽवरजं जुगोप ।
शैनेयपाञ्चालमुखाण्स्च पार्थमावार्य तस्थुः प्रसभं नदन्तः । 27.163 ।
दुर्योधनो द्रौणिमुखाण्स्च कर्णं ररक्षुरावार्य तदाऽस युद्धम् ।
तत्रार्जुनं बाणवरैः स कर्णः समर्दयामास विशेषयन् रणे । 27.164 ।
तदा नदन् भीमसेनो जगाद गदां समादाय समात्तरोषः ।
अहं वैनं गदया पोथयामि त्वं वा जहीमं समुपात्तवीर्यः ।
कृष्णोऽपि तं बोधयामास सम्यङ् नरावेशं व्यञ्जयन् भूय एव । 27.165 ।
च्दिव्.समृद्धवीर्यः स तदा धनञ्जयः सुयोधनद्रौणिकृपान् सभोजान् ।
साकं च बाणैर्विरथां श्चकार विव्याध तानप्यरिहा सुपुङ्खैः । 27.166 ।
ते किञ्चिद् दूरतस्तस्थुः पश्यन्तो युद्धमुत्तमम् ।
अमानुषं तत् पार्थस्य दृष्ट्वा कर्म गुरोः सुतः ।
गृहीत्वा पाणिना पाणिं दुर्योधनमभाषत । 27.167 ।
दृष्टं हि भीमस्य बलं त्वयाऽद्य तथैव पार्थस्य यथा जिता वयम् ।
अलं विरोधेन समेत्य पाण्डवैः प्रशाधि राज्यं च मया समेतः । 27.168 ।
धनञ्जयस्तिष्ठति वारितो मया जनार्दनो नैव विरोधमिच्छति ।
वृकोदरस्तद्वचने स्थितः सदा युधिष्ठिरः शान्तमनास्तथा यमौ । 27.169 ।
हितार्थमेतत् तव वाक्यमीरितं गृहाण मे नैव भयादुदीरितम् ।
अहं ह्यवध्यो मम चैव मातुलो न शङ्कितुं मे वचनं त्वमर्हसि । 27.170 ।
इतीरितः प्राह सुयोधनस्तं दुः शासनस्याद्य पपौ हि शोणितम् ।
शार्दूलचेष्टामकरोच्च भीमो न मे कथञ्चित् तदनेन सन्धिः । 27.171 ।
इत्युक्तो द्रौणिरासीत् स तूष्णीं कर्णधनञ्जयौ ।
महास्त्रशस्त्रवर्षेण चक्रतुः खमनन्तरम् । 27.172 ।
आग्नेयवारुणैन्द्रादीन्येतान्यन्योन्यमृत्यवे ।
ब्रह्मास्त्रमप्युभौ तत्र प्रयुज्याऽनदतां रणे ।
अन्योन्यास्त्रप्रतीघातं कृत्वोभौ च विरेजतुः । 27.173 ।
क्रमेण वृद्धोरुबलेन तत्र सुरेन्द्रपुत्रेण विरोचनात्मजः ।
निराकृतो नागमयं शरोत्तमं ब्रह्मास्त्रयुक्तं विससर्ज वासवौ । 27.174 ।
तं वासुदेवो रथमानमय्य मोघं चकारार्जुनतः किरीटम् ।
चूर्णीकृतं तेन सुरेन्द्रसूनोर्दिव्यं ययौ बाणगतश्च नागः । 27.175 ।
नमिते वासुदेवेन रथे पञ्चाङ्गुलं भुवि ।
अपाङ्गदेशमुद्दिश्य मुक्ते नागे किरीटिनः । 27.176 ।
च्द्व्.भङ्क्त्वा किरीटं वियति गच्छति प्रभुणोदितः ।
बाणैस्तक्षकपुत्रं तं वासविः पूर्ववैरिणम् । 27.177 ।
हत्वा निपातयामास भूमौ कर्णस्य पश्यतः ।
ब्रह्मास्त्रस्यातिवेगित्वं प्राप्तं कर्णेन भार्गवात् । 27.178 ।
पुनश्च पार्थेन महास्त्रयुद्धं प्रकुर्वतः सूर्यसुतस्य चक्रम् ।
रथस्य भूमिर्ग्रसति स्म शापादस्त्राणि दिव्यानि च विस्मृतिं ययुः । 27.179 ।
उद्धर्तुकामो रथचक्रमेव पार्थं ययाचेऽवसरं प्रदातुम् ।
नेत्याह कृष्णोऽञ्जलिकं सुघोरं त्रिनेत्रदत्तं जगृहे च पार्थः । 27.180 ।
सत्येन धर्मेण च सन्नियोज्य मुमोच कर्णस्य वधाय बाणम् ।
चिच्छेद तेनैव च तस्य शीर्षं सन्धित्सतो बाणवरं सुघोरम् । 27.181 ।
अपराह्णेऽपराह्णस्य सूतजस्येन्द्रसूनुना ।
छिन्नमञ्जलिकेनाऽजौ सोत्सेधमपतच्छिरः । 27.182 ।
तस्मिन् हते दीनमुखः सुयोधनो ययौ समाहृत्य बलं सशल्यः ।
युधिष्ठिरः कर्णवधं निशम्य तदा समागत्य ददर्श तत्तनुम् । 27.183 ।
शशं स कृष्णं च धनञ्जयं च भीमं च येऽन्येऽपि युधि प्रवीराः ।
गत्वा चतेशिबिरं मोदमाना ऊषुः सकृष्णास्तदनुव्रताः सदा । 27.184 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
कर्णवधो नाम सप्तविं शोऽध्यायः
च्द्वि.(पाण्डवराज्यलाभः )
अथ अष्टाविं शोऽध्यायः
ओं । प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः ।
शल्यं सेनापतिं कृत्वा योद्धुं दुर्योधनोऽभ्ययात् । 28.1 ।
तमभ्ययुः पाण्डवाण्स्च हृष्टा युद्धाय दं सिताः ।
तत्राऽसीत् सुमहद् युद्धं पाण्डवानां परैः सह । 28.2 ।
अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः ।
पृष्ठे गाण्डीवधन्वाऽसीद् वासुदेवाभिरक्षितः । 28.3 ।
चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्च सात्यकिः ।
नृपस्य पार्श्वयोरास्तामग्रेऽन्येषां गुरोः सुतः । 28.4 ।
मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्च सुयोधनः ।
चक्ररक्षौ तु शल्यस्य शकुनिस्तत्सुतस्तथा ।
कृपश्च कृतवर्मा चपार्श्वयोः समवस्थितौ । 28.5 ।
तत्रभवन्महद् युद्धं भीमस्य द्रौणिना सह ।
राज्ञः शल्येन च तथा घोररूपं भयानकम् । 28.6 ।
तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः ।
विरथीकृतस्तथा धर्मसूनुः शल्येन तत्क्षणात् । 28.7 ।
आससाद तदा ण्सल्यं कपिप्रवरकेतनः ।
तयोरासीन्महद् युद्धमद्भुतं रोमहर्षणम् । 28.8 ।
रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात् ।
दुर्योधनश्च भीमस्य शरैरावारयद् दिशः । 28.9 ।
त् आवुभौ शरवर्षेण वारयामास मारुतिः ।
त् आभ्यां तस्याभवद् युद्धं सुघोरमतिमानुषम् । 28.10 ।
दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना ।
च्द्विइ.शिखण्ड्याद्यैर्मातुलैश्च सह सर्वान् न्यवारयन् । 28.11 ।
सहदेवस्तु शकुनिमुलूकं नकुलस्तदा ।
धृष्टद्युम्नश्च हार्दिक्यं सात्यकिः कृपमेव च ।
तेषां तदभवद् युद्धं चित्रं लघु च सुष्ठु य । 28.12 ।
शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः ।
सोऽपि विव्याध विशिखैः शल्यमाहवशोभिनम् ।
तयोः सुसममेवाऽसीच्चिरं देवासुरोपमम् । 28.13 ।
ततः शरं वज्रनिभं मद्रराजः समाददे ।
तेन विव्याध बीभत्सुं हृदये स मुमोह च । 28.14 ।
उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः ।
चिच्छेद कार्मुकं सङ्खे मद्रराजस्य धीमतः । 28.15 ।
सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने ।
सौरं याम्यं च पार्जन्यं त् आन्यैन्द्रेण जघान सः । 28.16 ।
पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः ।
शल्यो गदां समाविध्य चिक्षेपार्जुनवक्षसि ।
तदा मुमोह बीभत्सुस्तत उच्चुक्रुशुः परे । 28.17 ।
प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि ।
स विह्वलितसर्वाङ्गः शिश्रये ध्वजमुत्तमम् । 28.18 ।
समाण्स्वस्तः पुनर्बाणं यमदण्डनिभं रणे ।
मुमोच पार्थस्य स च निर्बिभेद स्तनान्तरम् । 28.19 ।
तेन विह्वलितः पार्थो ध्वजयष्टिं समाण्स्रितः ।
समाण्स्वस्तः प्रचिच्छेद मद्रराजस्य कार्मुकम् ।
छत्रं ध्वजं च तरसा सारथिं च न्यपातयत् । 28.20 ।
तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः ।
चतुर्भिश्चतुरो वाहाञ्छल्यस्य निजघान ह । 28.21 ।
च्द्विइइ.शल्योऽन्यं रथमास्थाय सर्वां स्ताञ्छरवृष्टिभिः ।
छादयामास राजानं विरथं च चकार ह । 28.22 ।
निहत्याण्स्वान् सात्यकेश्च धृष्टद्युम्नस्य चाभिभूः ।
चापे च्छित्त्वा च यमयोर्दध्मौ शङ्खं महास्वनम् । 28.23 ।
ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी ।
न्यवारयद् बाणवरैरनेकैश्चकार चैनं विरथं क्षणेन । 28.24 ।
आस्थाय चान्यं रथमापतन्तं पुनश्च शल्यं भृशमेव मर्मसु ।
निर्भिद्य बाणौर्विरथं चकार पुनस्तृतीयं च रथं रुरोज । 28.25 ।
आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य ।
मर्माणि बाणैर्नितरां पुनश्च स मुष्टिमुद्यम्य जगाम धर्मजम् । 28.26 ।
तं भीमभिन्नमर्माणं विवर्माणं निरायुधम् ।
श्वासमात्रावशिष्टं च मरणायैव केवलम् । 28.27 ।
आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः ।
हन्तुकामो रणे वीरममोघां शक्तिमाददे । 28.28 ।
दिव्यास्त्रैरपि सं योज्य तां तदा धर्मनन्दनः ।
सत्यधर्मफलैश्चैव चिक्षेपास्य हृदि त्वरन् । 28.29 ।
स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम् ।
सत्यधर्मरतः शल्य इन्द्रस्यातिथितामगात् । 28.30 ।
मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात् ।
सं शप्तकावशिष्टैस्तमनयन्मृत्यवेऽर्जुनः । 28.31 ।
दुर्योधनस्यावरजानवशिष्टान् वृकोदरः ।
सर्वान् जघान सेनां च निश्शेषमकरोद् रणे । 28.32 ।
उलूकं सहदेवोऽथ शकुनिं चातिपापिनम् ।
च्दिx.जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः । 28.33 ।
बहुशो विरथीकृत्य पीडयित्वा पुनः पुनः ।
द्रावयामासतुस्ते तु भीषित् आ विविशुर्वनम् । 28.34 ।
शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना ।
व्यासेन मोचितोऽथैकः पार्थान् दुर्योधनोऽभ्ययात् । 28.35 ।
तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च ।
चकार मूर्च्छाभिगतं युधिष्ठिरं यमावयत्नाद् विरथां श्चकार । 28.36 ।
तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात् ।
पुनश्च शैनेयशिखण्डिपार्षतान् यमौ नृपं च व्यदधान्निरायुधान् । 28.37 ।
गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः ।
स तेन च प्रासकरो रणेऽरिहा चचार शैनैयमताडयच्च । 28.38 ।
मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे ।
निषीदतुर्धर्मसुतं प्रयान्तं समीक्ष्य भीमोऽस्य जघान वाजिनम् । 28.39 ।
प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपययौ सुयोधनः ।
आदाय गुर्वीं च गदां प्रयातो द्वैपायनस्योरुसरो विवेश । 28.40 ।
एवमक्षोहिणीषट्कं भीमेन निहतं रणे ।
पञ्च पार्थेन निहता अर्द्धं कालिङ्गकानृते ।
एकादशाक्षोहिणीभ्यः शिष्टमन्यैर्निसूदितम् । 28.41 ।
अक्षोहिणीचतुष्कं च पार्थानां द्रौणिना हतम् ।
अन्यैरन्याः समस्तैश्च द्रोणकर्णमहाब्रताः ।
दुर्योधनो भौमसूनुः प्रायः सेनाहनः क्रमात् । 28.42 ।
जयं लब्ध्वा तदत्सूच्चैः पाण्डवेषु महात्मसु ।
दुर्योधनो जलस्तम्भं कृत्वा मन्त्रान् जजाप ह । 28.43 ।
मन्त्रा दुर्वाससा दत्ता मृतसञ्जीवनप्रदाः ।
च्द्x.जले स्थित्वा जपन् सप्तदिनैः सर्वान् मृत् आनपि ।
उद्धरेद् धार्तराष्ट्रोऽयं स्युरवध्याण्स्च ते पुनः । 28.44 ।
इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः ।
अन्वेषन्तः शुश्रुवुश्च व्याधेभ्यस्तं जले स्थितम् ।
अगच्छं श्च ततस्तत्र पुरस्कृत्य जनार्दनम् । 28.45 ।
तदा जलात् समुन्मज्ज्य त्रिभिर्द्रौणिपुरस्सरैः ।
मन्त्रयन्तं स्म ददृशुस्तान् दृष्ट्वा ते प्रदुद्रुवुः । 28.46 ।
दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया ।
युधिष्ठिरः सुपुरुषैर्वाक्यैरेनमथाऽह्वयत् । 28.47 ।
अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्वसं स्तदा दण्डहतो यथाऽहिः ।
उवाच शाठ्यात् तपसे वनाय यायां भवाञ्छासतु सर्वपृथ्वीम् । 28.48 ।
तमाह धर्मजो राजा यस्त्वं कृष्णे समागते ।
सूच्यग्रवेध्यां पृथिवीं दातुं नैच्छः कथं पुनः । 28.49 ।
घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि ।
दातुमिच्छसि सर्वां च पृथ्वीं नाद्य वयं पुनः । 28.50 ।
अहत्वा प्रतिगृह्णीं एहि युद्धे स्थिरो भव ।
न कुरूणां कुले जातस्त्वं यो भीतो ह्यपोऽविशः । 28.51 ।
इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा ।
जलस्तम्भात् समुत्तस्थौ श्वसन्नाण्सीविषो यथा । 28.52 ।
उवाच चैक एवाहमकिरीटो विवर्मकः ।
भवन्तो बहवो वर्मशिरस्त्राणयुता अपि । 28.53 ।
यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम् ।
सर्वैरेकेन वायुद्धं करिष्ये नच भीर्मम । 28.54 ।
इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते ।
च्द्xइ.वृणीष्व प्रतिवीरं च पञ्चानां यं त्वमिच्छसि । 28.55 ।
हत्वैकं त्वं भुङ्क्ष्व राज्यमन्ये याम वयं वनम् ।
हते वा त्वयि तेनैव भुञ्जीमश्चाखिलां भुवम् ।
आदत्स्व चाऽयुधं येन जेतुमिच्छसि शात्रवान् । 28.56 ।
इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः ।
भीमेन योत्स्ये गदया सदा हि मे प्रिया गदा नान्यदथाऽयुधं स्पृशे । 28.57 ।
श्रुत्वाऽस्य वाक्यं रभसो वृकोदरो गदां तदाऽध्यर्द्धभराधिकां मुदा ।
राज्ञो गदायाः परिगृह्य वीरः समुत्थितो युद्धमनाः समुन्नदन् । 28.58 ।
अथाऽह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया ।
नह्येष राजा गदया रणे चरन् शक्यो विजेतुं निखिलैः सुरासुरैः । 28.59 ।
स निश्चयाद् वश्चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित् ।
हन्तैनमाजौ नहि भीमतुल्यो बले क्वचिद् धार्तराष्ट्रः कृती च। 28.60 ।
ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः ।
नाभेरधस्ताद्धननं जना आहुर्गदामृधे । 28.61 ।
अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये ।
आपद्धर्मं दर्शयितुं किञ्चिद्व्याजेन सं युतः । 28.62 ।
भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम् ।
अव्याजेनापि शक्तोऽसौ बलं निस्सीममाह च । 28.63 ।
आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम् ।
नहि भीमोऽतिप्रयत्नं कुर्यादिति गुणो ह्ययम् । 28.64 ।
प्रतिज्ञापालनं धर्मो दुष्टेषु तु विशेषतः ।
इति धर्मरहस्यं तु वित्तः कृष्णवृकोदरौ । 28.65 ।
नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि ।
अनापद्यापदिव च दर्शयेतां जनस्य तु । 28.66 ।
च्द्xइइ.ततो भीमः सर्वलोकस्य धर्मं प्रकाण्सयन् वाक्यमिदं जगाद ।
ऊरू तवाहं हि यथाप्रतिज्ञं भेत्स्यामि नैवात्र विचारणीयम् । 28.67 ।
इत्युक्तवन्तं प्रससार चाऽजौ दुर्योधनस्तत्र बभूव युद्धम् ।
भीमस्तदाऽग्र्यप्रकृतिं विधित्सुर्मन्दः स आजौ व्यचरज्जनार्थे । 28.68 ।
दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः ।
बलभद्रोऽप्याजगाम तदा तौ प्रतिवारितुम् । 28.69 ।
वारितावपि तेनोभौ नैव युद्धं प्रमुञ्चताम् ।
ततो ददर्श तद् युद्धं मानितः कृष्णपूर्वकैः ।
तौ शिक्षाबलसं युक्तौ मण्डलानि विचेरतुः । 28.70 ।
ततो भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ ।
न्यधादुच्छ्रितसक्थीकस्तदा कृष्णाभ्यनुज्ञया ।
पृष्ठमूलेऽहनद् भीमो भिन्नसक्थिश्च सोऽपतत् । 28.71 ।
प्रतिज्ञापालनार्थाय नोभेर्नोपर्यधस्तदा ।
गदायुद्धस्य मर्यादां यशश्चाप्यभिरक्षितुम् । 28.72 ।
नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः ।
एवं प्रतिज्ञायुग्मार्थं भग्नं सक्थियुगं रणे । 28.73 ।
कृष्णं द्यूते निधेहीति यदवादीत् सुयोधनः ।
तत्प्रतिज्ञानुसारेण भीमो मूर्द्धानमक्रमीत् ।
"ऋषभाम् मा समानानां " 82
82 ऋग्वेद 10.166.1) इति सूक्तं ददर्श च । 28.74 ।
तेषां पुण्यॣअनि विद्याण्स्च समादायैव सर्वशः ।
तां श्चकार तमोगन्तॣऋन्स्तस्य मूर्ध्नि पदाऽक्रमन् । 28.75 ।
स्मारयामास कर्माणि यानि तस्य कृतानि च ।
कृष्णबन्धे कृतो मन्त्र इति मूर्ध्नि पदाऽहनत् । 28.76 ।
पुनः पुनश्च तद् वीक्ष्य चुक्रोध मुसलायुधः ।
च्द्xइइइ.इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
चुक्रोश नैव धर्मोऽयमित्यसावूर्ध्वबाहुकः । 28.77 ।
पुनः क्रोधाभिताम्राक्ष ॡअदाय मुसलं हलम् ।
अभिदुद्राव भीमं तं न चचाल वृकोदरः । 28.78 ।
अभये सं स्थिते भीमे रामं जग्राह केशवः ।
आह धर्मेण निहतो भीमेनायं सुयोधनः । 28.79 ।
न मण्डलेऽभिसारे वा नापसारे च नाभितः ।
अधो हन्याद् वञ्चयन्तमधो हत्वा न दुष्यति । 28.80 ।
कृता प्रतिज्ञॣअ च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वम् ।
सं श्रावयानेन तदेष धर्मतो जघान दुर्योधनमग्र्यकर्मा । 28.81 ।
वॣअसुदेववचः श्रुत्वा धर्मच्छलमिति ब्रुवन् ।
रौहिणेयो जगामाऽशु स्वपुरीमेव सानुगः । 28.82 ।
तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः ।
धर्मोऽयमथवाऽधर्म इति तं प्राह केशवः । 28.83 ।
न साक्षाद् धर्मतो वध्या ये तुपापतमा नराः ।
देवैर्हि वञ्चयित्वैव हताः पॣउर्वं सुरारयः ।
अतोऽयमप्यधर्मेण हतो नात्रास्ति दूषणम् । 28.84 ।
भीष्मद्रोणौ च कर्णण्स्च यदैवोपधिना हताः ।
को नु दुर्योधने पापे हते दोषः कथञ्चन । 28.85 ।
प्रतिज्ञॣअपालनायापि विभेदोरू वृकोदरः ।
धर्मतश्च प्रतिज्ञेयं कृता तेनानुरूपतः । 28.86 ।
लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन ।
ये भीमस्याप्रभावज्ञॣअ ॡअपद्धर्मं च मन्वते । 28.87 ।
अवध्यत्वे शिववर् आद् गदाण्सिक्षाबलादपि ।
जरासन्धोपमो यस्माद् धार्तराष्ट्रः सुविश्रुतः । 28.88 ।
तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन् ।
अपि सं शयिनं चक्रे धर्मराजं जगत्पतिः । 28.89 ।
भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकस्तु यः ।
भीमस्यैव भवेत् सम्यगिति बुद्ध्या परः प्रभुः । 28.90 ।
च्द्xइव्.स्वेनैव बलभद्राय जनाय च पुनः पुनः ।
श्रुत्वाऽप्युक्तं न तत्याज सं शयं धर्मजो यतः ।
ततोऽप्यसं शयं कृष्णो न चकार युधिष्ठिरम् । 28.91 ।
मुख्यं धर्मं हि भगवान् बलायाऽह जनाय च ।
धर्मेणैव हतो राजा धार्तराष्ट्रः सुयोधनः ।
इति यद् वक्ष्यति पुनर्निश्चयार्थेऽर्जुनाय च । 28.92 ।
पुनः पुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम् ।
जगाद कृष्णं स्फुरिताधरोष्ठः क्रोधात् सुपापो धृतराष्ट्रसूनुः ।
त्वयैव पापे निहिता हि पार्थाः पॣअपाधिकस्त्वं हि सदैक एव । 28.93 ।
इत्यूचिवां सं प्रजगाद कृष्णो न त्वत्समः पॣअपतमः कदाचित् ।
भीष्मॣअदिहत्याऽपि तवैव पापं यदन्वयुस्त्वामतिपापनिश्चयम् ।
पॣअपं च पापानुगतं च हत्वा कथञ्चनाप्यस्ति नचैव पापम् । 28.94 ।
न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि ।
गुणाधिकास्ते मदपाण्स्रयाच्च को नाम तेष्वण्वपि पापमाह । 28.95 ।
निसर्गतः पॣअपतमस्त्वमन्यान् धर्मस्थितान् पापपथे निधाय ।
स्वयं च पापे निरतः सदैव पापात् सुपापां गतिमेव यासि । 28.96 ।
इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः पॣअपकृतां प्रधानः ।
स्वन्तोत्तमो नाम क एव मत्तः को नाम दोषोऽस्ति मया कृतोऽत्र । 28.97 ।
इष्टं च यज्ञैश्चरितं च पूर्तैः पदं रिपूणां निहितं हि मूर्ध्नि ।
मृत्युश्च सङ्ग्रामशिरस्यवाप्तो रणोन्मुखेनैव मया किमन्यत् । 28.98 ।
इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः ।
दुःखिनो दुःखमाप्स्यन्ति पार्थास्ते कूटयोधिनः । 28.99 ।
चन्द्रसूर्यनिभैः शूरैर्धार्मिकैः सद्भिरुज्झिता ।
केवल् आ रत्नहीनेयं पॣअण्डवैर्भुज्यतां मही । 28.100 ।
इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात ।
तामेव बुद्धिं धृतराष्ट्रसूनोः कृत्वा दृढॣअं पॣअतयितुं तमोऽन्धे । 28.101 ।
सम्भावयत आत्मानं वॣअसुदेवं विनिन्दतः ।
तत्परां श्च कथं न स्यात् तमोऽन्ते च विशेषतः । 28.102 ।
यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात् ।
इति तत् कारयित्वेश आह मोघं तवाखिलम् । 28.103 ।
च्द्xव्.नृशं सस्य कृतघ्नस्य गुणवद्द्वेषिणः सदा ।
यदि धर्मफलं ध्वान्तं सूर्यवत् स्यात् प्रकाण्सकम् । 28.104 ।
वदन् पुनः पुनरिदं धर्मतो हत इत्यपि ।
ख्यापयामास भगवान् जने निजजनेष्टदः । 28.105 ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0