भाषा

ENहिગુ
ग्रंथ पाठ

महाभारततात्पर्यनिर्णय · भाग 201220

च्च्च्xल्विइ.पुनश्च कुन्तीगृहमेत्य कृष्णस्तयोद्योगं धर्मसुतस्य शिष्टम् ।
श्रुत्वा ययौ सूर्यजमात्मयाने निधाय तस्यावददात्मजन्म । 24.76 ।
आयाहि पाण्डूनिति तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः ।
सं स्थाप्य तं भगवान् द्रौणये च रहोऽवदन्मित्रभावं पृथाजैः । 24.77 ।
यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः ।
ययौ कुरून् पूर्वमेवोद्विसृज्य पृथासुतानां स सकाण्समीशः । 24.78 ।
सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि ।
तेनाप्युक्ता वासविना विनाऽहं हन्यां सुतां स्ते न कथञ्चनेति । 24.79 ।
ततो ययुः कौरवाः पाण्डवाण्स्च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः ।
चक्रुश्च ते शिबिराण्यत्र सर्वे शुभे देशे पाण्डवाः कृष्णबुद्ध्या । 24.80 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
युद्धोद्योगो नाम चतुर्विं शोऽध्यायः
च्च्च्xल्विइइ.(भीष्मपातः )
अथ पञ्चविं शोऽध्यायः
ओं । ते सेने समरारम्भे समेते सागरोपमे ।
भीमभीष्ममुखे वीक्ष्य प्राह वासविरच्युतम् । 25.1 ।
"सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत" 77 । इत्युक्तः स तथा चक्रे पार्थः पश्यं श्च
बान्धवान् ।
विससर्ज धनुः पापाण्सङ्की तत्राऽह माधवः । 25.2 ।
स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनम् ।
क्षत्रियस्य तमुत्सृज्य निन्दितो यात्यधो ध्रुवम् । 25.3 ।
"यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः " 78 । 25.4 ।
नच शोकस्त्वया कार्यो बन्धूनां निधनेक्षया ।
देहस्य सर्वथा नाण्सादनाण्साच्चेतनस्य च । 25.5 ।
सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः ।
प्रकाण्सनियमौ चैव ब्रह्मेशादिक्षरस्य च ।
अक्षरप्रकृतेः सन्तो मत्त एव नचान्यतः । 25.6 ।
न मे कुतश्चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः ।
अतः समाधिकाभावान्मम मद्वशमेव च । 25.7 ।
ज् ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम् ।
अस्वातन्त्र्यान्निवृत्तौ च मामनुस्मर युद्ध्य च । 25.8 ।
"ये तु सर्वाणि कर्माणि मयि सं न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते । 25.9 ।
तेषामहं समुद्धर्ता मृत्युसं सारसागरात् ।
77 भ. गी. 1.21
78 भ. गी. 18.46
च्च्च्xलिx.भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्" 79 । 25.10 ।
"मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः " 80 । 25.11 ।
सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः ।
अस्पृष्टाखिलदोषैकनित्यसत्तनुरव्ययः ।
इत्युक्तो वासविः प्राह व्याप्तं ते दर्शयेश मे । 25.12 ।
अथ दिव्यदृशं तस्य दत्वा व्याप्तं निजं वपुः ।
देशतः कालतश्चैव पूर्णं सर्वगुणैः सदा ।
दर्शयामास भगवान् यावत्यर्जुनयोग्यता । 25.13 ।
तत्प्रार्थितः पुनः कृष्णस्तद् रूपं लोकमानतः ।
पूर्ववद् दर्शयामास पुनश्चैनमशिक्षयत् । 25.14 ।
ज् ञानज्ञेयप्रकृत्यादि ज्ञापयन् पुरुषोत्तमः ।
तेनानुशिष्टः पार्थस्तु सशरं धनुराददे । 25.15 ।
अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात् ।
समितिं धार्तराष्ट्राणां ते तं सर्वेऽभ्यवारयन् ।
ससृजुः शरवृष्टिं च भीमसेनस्य मूर्द्धनि । 25.16 ।
क्षिप्रं नैव प्रहर्तव्यं ज् ञातिषु प्रहरत्स्वपि ।
इत्येवाप्रहरत्यस्मिन् शत्रुभिः शरविक्षते । 25.17 ।
अमुचन् धार्तराष्ट्रेषु ण्सस्त्रवृष्टिं दुरासदाम् ।
सौभद्रप्रमुखा वीराः सर्वे पाण्डुसुतात्मजाः । 25.18 ।
अपीडयं स्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः ।
ररक्ष तान् वायुसुतो विसृजञ्छरसञ्चयान् । 25.19 ।
तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः ।
79 भ. गी. 12.6-7
80 भ. गी. 9.4
च्च्च्ल्.भग्नास्तानथ गाङ्गेयो दिव्यास्त्रविदधारयत् । 25.20 ।
अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम् ।
द्रोणपार्षतयोश्चैव शैनेयकृतवर्मणोः । 25.21 ।
दुः शासनेन वीरस्य माद्रेयस्य यवीयसः ।
नकुलस्य विकर्णस्य कार्ष्णेयैर्दुर्मुखादिनाम् । 25.22 ।
वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः ।
जिता विनैव शैनेयं सोऽजयद्धृदिकात्मजम् । 25.23 ।
अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा ।
विद्राप्यमाणं स्वबलं स्थापयामास मारुतिः । 25.24 ।
द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा ।
केवलं बाहुवीर्येण व्यजयद् भीमविक्रमः ।
हत्वोत्तरं मद्रराजो व्यद्रावयदनीकिनीम् । 25.25 ।
अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम् ।
ससौमदत्तिं सौभद्रसहायोऽर्जुन आसदत् । 25.26 ।
सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः ।
द्रावयामास पाञ्चालान् पश्यतः सव्यसाचिनः । 25.27 ।
तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम् ।

दृष्ट्वा युधिष्ठिरो राजा क्रुद्धः सेनामपाहरत् । 25.28 ।
रात्रौ युधिष्ठिरश्चिन्तामाप्य पार्थं व्यगर्हयत् ।
स कृष्णाद्यैः सान्त्वितश्च पुनर्युद्धाय निर्ययौ । 25.29 ।
एवं भीष्मो दशाहानि सेनापत्यं चकार ह ।
कृत्वाऽपि पाण्डवैर्युद्धं तत् कर्तुमकृतोपमम् । 25.30 ।
कर्णोऽर्द्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः ।
यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते । 25.31 ।
च्च्च्लि.कर्णेऽयुतरथानां स नित्यशो वधमाहवे ।
प्रतिजज्ञेऽकरोत् तच्च पुनश्चास्त्रविदां वरः । 25.32 ।
सुसमर्थावपि वधे तस्य भीमधनञ्जयौ ।
स्नेहेन यन्त्रितौ तस्य गौरवाच्चान्ववर्तताम् । 25.33 ।
बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च ।
त् आन्यम्बरे विमानस्था ब्रह्मरुद्रपुरस्सराः ।
अपश्यन् देवताः सर्वा गन्धर्वाप्सरसोऽसुराः । 25.34 ।
धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्याऽपगासुतम् ।
चक्रे युद्धानि सुबहून्यजेयः शत्रुभी रणे । 25.35 ।
तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम् ।
दृष्ट्वा चक्रं तथोद्यम्य बाहुं भीष्माय जग्मिवान् । 25.36 ।
तेन स्तुतो गृहीतश्च फल्गुनेन प्रणम्य च ।
प्रार्थितो रथमारूढः पुनः शङ्खमपूरयत् । 25.37 ।
ततो भीष्मोऽर्जुनश्चैव शस्त्रास्त्रैरभ्यवर्षताम् ।
अयत्नेन जितश्चैव फल्गुनेनाऽपगासुतः । 25.38 ।
अयुतानि बहून्याजौ रथानां निजघान च ।
जिताः सेनापहारं च चक्रुर्भीष्ममुखास्ततः । 25.39 ।
कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी ।
कृत्वा विद्राप्य तानश्वान् भित्वा व्यूहं विवेश ह । 25.40 ।
पुनः सं स्थापितरथौ विजित्यायत्नतो बली ।
यतमानौ महेष्वासौ धार्तराष्ट्रान् जघान ह ।
पञ्चविं शद्धतास्तत्र धार्तराष्ट्रा महाबलाः । 25.41 ।
भगदत्तद्रौणिकृपशल्यदुर्योधनादयः ।
सर्वे जिता द्राविताण्स्च सेना च बहुला हता । 25.42 ।
च्च्च्लिइ.विरथो व्यायुधश्चैव दृढवेधविमूर्च्छितः ।
कृतो दुर्योधनः सर्वराज्ञां भीमेन पश्यताम् । 25.43 ।
ततोऽपहारं सैन्यस्य जिताण्स्चक्रुश्च कौरवाः ।
दुर्योधनो निशायां च ययौ यत्र नदीसुतः ।
पीडितो भीमबाणैश्च क्षरद्गात्रो ननाम तम् । 25.44 ।
उवाच हेतुना केन वयं क्षीयाम सर्वदा ।
पाण्डवाण्स्च जयं नित्यं लब्ध्वा हर्षमवाप्नुवन् । 25.45 ।
तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः ।
विशेषतः केशवेन पालितास्तत्प्रियाः सदा । 25.46 ।

मानसोत्तरशैले हि पुरा ब्रह्मपुरस्सराः ।
स्थिता देवास्तदाऽपश्यद् ब्रह्मैको हरिमम्बरे । 25.47 ।
स्तुत्वा सम्पूज्य भूमेः स भारावतरणाय तम् ।
प्रार्थयामास तेनोक्तं देवानामवदद् विभुः । 25.48 ।
अयं नारायणो देवः पुर्णानन्तगुणार्णवः ।
आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतल् . ए ।
स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः । 25.49 ।
एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः ।
अभवन् पाण्डवाद्यास्ते सेन्द्राः सहमरुद्गणाः । 25.50 ।
स च नारायणो देवो देवकीनन्दनोऽभवत् ।
तेनैते पालिताः पार्था अजेया देवसर्गिणः ।
तस्मात् तैः सन्धिमन्विच्छ यदीच्छस्यपराभवम् । 25.51 ।
इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ ।
प्रातर्निर्यातयामास सेनां युद्धाय दुर्मतिः । 25.52 ।
दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः ।
च्च्च्लिइइ.भीष्ममग्रे निधायैव ययौ युद्धाय दं सितः । 25.53 ।
तत्राऽसीद् युद्धमतुलं भीमभीष्मानुयायिनाम् ।
पाण्डवानां कुरूणां च शूराणामनिवर्तिनाम् । 25.54 ।
धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन् ।
सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वानहनच्च सेनाम् । 25.55 ।
ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणाऽसदत् पार्षतं च ।
तं भीमसेनः सूतहीनं विधाय व्यद्रावयच्छत्रुगणाञ्छरौघैः । 25.56 ।
अथाऽसदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च ।
ववर्षतुः शरवर्षैरथोग्रैस्तत्राकरोद् विरथं द्रौपदिस्तम् । 25.57 ।
तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद ।
तं भीमसेनो विरथायुधं च कृत्वा बाणेनाहनज्जत्रुदेशे । 25.58 ।
विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाण्सु स्वरथे निधाय ।
कृपो ययौ मारुतिर्धार्तराष्ट्रीं व्यद्रावयत् पृतनां बाणपूगैः । 25.59 ।
अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः ।
रथान् रणे पञ्चविं शत्सहस्रान् निनाय वैवस्वतसादनाय । 25.60 ।
तमन्वयाद् युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम् ।
तमभ्ययात् सौमदत्तिस्तयोश्च सुयुद्धमासीदतिभैरवास्त्रम् । 25.61 ।
पुत्रान् दशास्याऽशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाण्से ।
समर्पयामास शरीरदारणैः शरैरुभौ तौ विरथौ च चक्रतुः । 25.62 ।
अथासिपाणिं युयुधानमाण्सु महासिहस्तेन च सौमदत्तिना ।
आसादितं वीक्ष्य रथं स्वकीयमारोपयामास सुतोऽनिलस्य । 25.63 ।
सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात् ।
अपाद्रवद् वासविर्भीष्ममाजौ समाससादाऽशु महेन्द्रकल्पः । 25.64 ।
च्च्च्लिव्.उभौ च तावस्त्रविदां प्रबर्हौ शरैर्महाण्सीविषसन्निकाण्सैः ।
ततक्षतुर्नाकसदां समक्षं महाबलौ सं यति जातदर्पौ । 25.65 ।

स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन ।
सेनामपाहृत्य ययौ निशायामासादितायामथ पाण्डवाण्स्च । 25.66 ।
ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते ।
सेने तदा सारथिहीनमाण्सु भीष्मं कृत्वा मारुतिरभ्यगात् परान् ।
निपातितास्तेन रथेभवाजिनः प्रदुद्रुवुश्चावशिष्टाः समस्ताः । 25.67 ।
दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरस्सरेषु ।
महागजस्थो भगदत्त आगादायन् बाणं भीमसेनेऽमुचच्च । 25.68 ।
तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य ।
घटोत्कचोऽभ्यद्रवदाण्सु वीरः स्वमायया हस्तिचतुष्टयस्थः । 25.69 ।
स वैष्णवास्त्रं भगदत्तसं स्थं विज्ञाय विष्णोर्वरतो विशेषतः ।
अमोघमन्यत्र हरेर्मरुत्सुतः पुत्रे याते न स्वयमभ्यधावत् । 25.70 ।
अनुग्रहादभ्यधिकादवध्यं ज् आनन्नपि स्वं वासुदेवस्य नित्यम् ।
तद्भक्तिवैशेष्यत एव तस्य सत्यं वाक्यं कर्तुमरिं नचायात् ।
यदा स्वपुत्रेण जितो भवेत् स किम्वात्मनेत्येव तदा प्रवेत्तुम् । 25.71 ।
स विस्मृत् आस्त्रस्तु यदा भवेत् तदा भीमो भगदत्तं प्रयाति ।
ऋते भीमं वाऽर्जुनं नास्त्रमेष प्रमुञ्चतीत्येव हि वेद भीमः । 25.72 ।
चतुर्गजात्मोपरिगात्मकश्च घटोत्कचः सुप्रतीकं च तं च ।
नानाप्रहारैर्वितुदं श्चकार सन्दिग्धजीवौ जगतां समक्षम् । 25.73 ।
गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा ।
महाकायं भीमममुष्य पृष्ठगोपं च वाय्वात्मजमत्रसन् भृशम् ।
ते भीतभीत् आः पृतनापहारं कृत्वाऽपजग्मुः शिबिराय शीघ्रम् । 25.74 ।
दिने परे चैव पुनः समेताः परस्परं पाण्डवकौरवास्ते ।
तत्राऽसदन्नागसुतासमुद्भवः पार्थात्मजः शाकुनेयान् षल् . एकः । 25.75 ।
च्च्च्ल्व्.तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम् ।
शिरां सि वीरो बलवानिरावान् भयं दधद् धार्तराष्ट्रेषु चोग्रम् । 25.76 ।
दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम् ।
जह्यार्जुनिं क्षिप्रमिति स्म तच्च समासदन्नागसुतातनूजम् । 25.77 ।
तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम् ।
ससादिनोऽश्वान् स तु राक्षसोऽसृजत् ते पार्थपुत्रस्य च सादिनोऽहनन् ।
ततस्त्वनन्ताकृतिमाप्तमार्जुनिं सुपर्णरूपोऽहनदाण्सु राक्षसः । 25.78 ।
हतं निशम्याऽर्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः ।
चचाल भूर्नानदतोऽस्य रावतः ससागरागेन्द्रनगा भृशं तदा । 25.79 ।
अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत् ।
पराद्रवन् धार्तराष्ट्रस्य सेनाः सर्वास्तमाराथ सुयोधनो नृपः । 25.80 ।
स भीमपुत्रस्य जघान मन्त्रिणो महाबलां श्चतुरोऽन्यां स्तथैव ।
हतावशेषेषु च विद्रवत्सु घटोत्कचोऽभ्याहनदाण्सु तं नृपम् । 25.81 ।
स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे ।
दृढाहतस्तेन तदा वलीयसा घटोत्कचः प्रव्यथितेन्द्रियो भृशम् ।
तस्थौ कथञ्चिद् भुवि पात्यमानः पुनः शरानप्यसृजत् सुयोधने । 25.82 ।
चिरप्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतमौ रणाजिरे ।

द्रोणादयो वीक्ष्य रिरक्षिषन्तः सुयोधनं प्रापुरमित्रसाहाः । 25.83 ।
स द्रोणण्सल्यौ गुरुपुत्रगौतमौ भूरिश्रवः कृतवर्मादिकां श्च ।
ववर्ष बाणैर्गगनं समाण्स्रितो घटोत्कचः स्थूलतमै सुवेगैः । 25.84 ।
तमेकग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान् ।
द्रोणोऽत्र भीमप्रहितैः शरोत्तमैः सुपीडितः प्राप्तमूर्च्छः पपात । 25.85 ।
द्रौणिं कृपाद्यान् ससुयोधनां श्च चकार भीमो विरथान् क्षणेन ।
निवार्यमाणां स्तु वृकोदरेण घटोत्कचस्तान् प्रववर्ष सायकैः । 25.86 ।
च्च्च्ल्वि.तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः ।
भूमौ च भीमेन शरौघपीडित् आः पेतुर्नेदुः प्राद्रवं श्चातिभीत् आः । 25.87 ।
सर्वां श्च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः ।
घटोत्कचश्चानदतां महास्वनौ नादेन लोकानभिपूरयन्तौ । 25.88 ।
दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूमिं स भीष्मम् ।
जयोपायं भैमसेनेरपृच्छत् स्वस्यैव स प्राह न तं व्रजेति । 25.89 ।
प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः ।
स प्राप्य हैडिम्बमयोधयद् बली सचार्दयामास सकुञ्जरं तम् । 25.90 ।
तेनार्दितः प्राहिणोच्छूलमस्मै वियत्यभिप्लुत्य तदा घटोत्कचः ।
प्रगृह्य शूलं प्रबभञ्ज जानुमारोप्य देवा जहृषुस्तदीक्ष्य । 25.91 ।
तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे ।
स प्राहिणोद् भीमसेनाय वीरो गजं तमस्तम्भयदाण्सु सायकैः । 25.92 ।
सं स्तम्भिते बाणवरैस्तु नागे भीमस्याण्स्वान् सायकैरार्दयत् सः ।
सोऽभ्यर्दिताण्स्वोऽथ गदां प्रगृह्य हन्तुं नृपं तं सगजं समासदत् । 25.93 ।
स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्च ।
कृष्णेनास्त्रं वैष्णवं तद् गृहीतुं सहार्जुनेनापययौ सुभीतः । 25.94 ।
तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते ।
भीष्मः सेनामपहृत्यापयातो दुर्योधनस्तं निशि चोपजग्मिवान् । 25.95 ।
सं श्रावितः क्रूरवचः स तेन चक्रे सत्यं मृत्युभयं विहाय ।
शक्त्या हनिष्यामि परानिति स्म चक्रे च तत् कर्म तथा परेद्युः । 25.96 ।
तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताण्स्चेदिपाञ्चालमत्स्याः ।
पराद्रवन् भीष्मबाणोरुभीत् आः सिं हार्दिताः क्षुद्रमृगा इवाऽर्ताः । 25.97 ।
सं स्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम् ।
च्च्च्ल्विइ.विजित्य तं केशवभागिनेयो ययौ भीष्मं धार्तराष्ट्रोऽमुमार । 25.98 ।
तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम् ।
समं चिरं तत्र धनुश्चकर्त ध्वजं च राजा सहसाऽभिमन्योः । 25.99 ।
अथैनमुग्रैश्च शरैर्ववर्ष सूतं च तस्याऽशु जघान वीरः ।
तदाऽसदद् भीमसेनो नृपं तं जघान चाण्स्वान् धृतराष्ट्रजस्य । 25.100 ।
द्रोणो द्रौणिर्भगदत्तः कृपश्च सचित्रसेना अभ्ययुर्भीमसेनम् ।
सर्वां श्च तान् विमुखीकृत्य भीमः स चित्रसेनाय गदां समाददे । 25.101 ।
त् आमुद्यतां वीक्ष्य पराद्रवं स्ते स चित्रसेनश्च रथादवप्लुतः ।
सञ्चूर्णितो गदया तद्रथश्च तज्जीवनेनोद्धृषित् आण्स्च कौरवाः । 25.102 ।
भीष्मस्तु पाञ्चालकरूण्सचेदिष्वहन् सहस्राणि चतुर्दशोग्रः ।

रथप्रबर्हानतितिग्मतेजा विद्रावयामास परानवीनिव । 25.103 ।
विद्राप्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः ।
सेनां समाहृत्य ययौ निशागमे सम्पूज्यमानो धृतराष्ट्रपुत्रैः । 25.104 ।
द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च ।
विद्राप्य सेनामपि पाण्डवानां ययौ नदीजेन सहैव हृष्टः । 25.105 ।
भीमार्जुनावपि शत्रून् निहत्य विद्राप्य सर्वां श्च युधि प्रवीरान् ।
युधिष्ठिरेणापहृते स्वसैन्ये भीतेन भीष्माच्छिबिरं प्रजग्मतुः । 25.106 ।
युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव ।
प्रष्टुं ययौ निशि कृष्णोऽनुजाण्स्च तस्यान्वयुस्तं स पितामहो यत् । 25.107 ।
भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं तदैच्छताम् ।
पूज्यो यतो भीष्म उदारकर्मा कृष्णोऽप्ययात् तेन हि पाण्डवार्थे । 25.108 ।
प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम् ।
कृत्वा परेद्युर्युधये विनिर्गता भिष्मं पुरस्कृत्य तथा परेऽपि । 25.109 ।
च्च्च्ल्विइइ.शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुः शासन आस चाग्रे ।
अन्ये च सर्वे जुगुपुर्भीष्ममेव न्यवारयन् भीमसेनादयस्तान् । 25.110 ।
भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ ।
तं वज्रकल्पैरतुदद् वृष्णिवीरः शरैः स मायामसृजत् तदोग्राम् । 25.111 ।
अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम् ।
तस्मिन् गते युयुधानो रथेन ययौ भीष्मं पार्थमन्वेव धन्वी । 25.112 ।
द्रोणो द्रौणिर्धार्तराष्ट्रश्च राजा भूरिश्रवा भगदत्तः कृपश्च ।
शल्यो बाह्लीकः कृतवर्मा सुशर्मा सर्वाण्स्च सेना वारिता वायुजेन । 25.113 ।
स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा ।
न्यवारयत् फल्गुनं रोद्धुकामं पार्थश्च देवव्रतमाससाद । 25.114 ।
युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम् ।
न्यवारयच्छकुनिः सादिनां च युतोऽयुतेनैव वराण्स्वगेन । 25.115 ।
त् आन् सादिनोऽश्वां श्च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते ।
प्रापुर्भीष्मं द्रौपदेयाण्स्च सर्वे तथा विराटद्रुपदौ कुन्तिभोजः । 25.116 ।
धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः ।
हताण्स्वसूतं सगणं द्रावयित्वा समासदद् भीष्ममेवाऽशु वीरः । 25.117 ।
गुप्तोऽथ पार्थेन रणे ण्सिखण्डी भीष्मं समासाद्य शरैरताडयत् ।
भीष्मः स्त्रीत्वं तस्य जानन् न तस्मै मुमोच बाणान् स तु तं तुतोद । 25.118 ।
शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः ।
नात्येतुमेनमशकच्छिखण्डी दुः शासनः पार्थमवारयत् तदा । 25.119 ।
स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम् ।
भीष्मं पार्थः सायकाण्स्चास्य तस्मिन् ससज्जिरे पर्वतेष्वप्यसक्ताः । 25.120 ।
अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ ।
समं तदासीन्महदद्भुतं च दिवौकसां पश्यतां भूभृत् आं च । 25.121 ।
च्च्च्लिx.तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयां श्चेकितानम् ।
भूरिः शलः सोमदत्तो विकर्णः सकेकया वारयामासुरुच्चैः । 25.122 ।
जित्वैव तां स्तेऽभिययुश्च भीष्मं ततोऽर्जुनोऽतीत्य दुः शासनं च ।

भीष्मं शरैरार्च्छदरिप्रमाथिभिः शिखण्डिनं धार्तराष्ट्राद् विमुच्य । 25.123 ।
स तैः समस्तैर्बहुशस्त्रपूगैर्भृशं मर्मस्वर्दितश्चापमुक्तैः ।
शरैः समस्तान् विरथां श्चकार शैनैयपाञ्चाल्ययुधिष्ठिराद्यान् । 25.124 ।
स चेदिपाञ्चालकरूण्समुख्यान् रथोत्तमान् पञ्चविं शत्सहस्रान् ।
सम्प्रेषयामास यमाय बाणैर्युगान्तकालेऽग्निरिव प्रवृद्धः । 25.125 ।
निरीक्ष्य तं सूर्यमिवाऽतपन्तं सञ्चोदितो वासुदेवेन पार्थः ।
चिच्छेद तत्कार्मुकं लोकवीरो रणेऽर्द्धचन्द्रेण सचान्यदाददे । 25.126 ।
चिच्छेद तच्चैवमष्टौ धनूं षि शक्तिं च चर्मासिवरं पराणि च।
धनूं षि दत्तानि नृभिर्नृपस्य सर्वाणि चिच्छेद स पाकशासनिः । 25.127 ।
ततः शरैः सूर्यकरप्रकाण्सैर्विव्याध सर्वे च युधिष्ठिराद्याः ।
तैरर्दितो न्यपतद् भूतेल् . ए सप्राणान् दधारापि तथोत्तरायणात् । 25.128 ।
निपातितेऽस्मिन् मारुतिद्रोणमुख्यान् विद्राप्य तत्राऽगमदाण्सु तेऽपि ।
तदायुधानि प्रणिधाय वीराः पार्थाः परे चैनमुपासदन् स्म । 25.129 ।
प्रणम्यतं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे ।
परे दिने सर्व एवोपतस्थुर्भीष्मं यदूनाम्पतिना सहैव । 25.130 ।
स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः ।
तदाऽपि तृट्परीत् आत्मा योग्यं पेयमयाचत । 25.131 ।
धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय वासविः ।
वारुणास्त्रेण भित्त्वा सभूमिं वारि सुगन्धि च ।
ऊर्ध्वधारमदादास्ये तर्पितोऽनेन सोऽवदत् । 25.132 ।
च्च्च्ल्x.यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः ।
यादृग् बाह्वोर्बलं भीमे सं युगेषु पुनः पुनः । 25.133 ।
यादृशं चैव माहात्म्यमनन्तमजरं हरेः ।
विज्ञातं सर्वलोकस्य सभायां दृष्टमेव च । 25.134 ।
उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः ।
यथोचितविभक्तां च भुङ्ग्ध्वं भूपाः सदा भुवम् ।
इत्युक्तः प्रययौ तूष्णीं धार्तराष्ट्रः स्वकं गृहम् । 25.135 ।
व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता ।
श्रुत्वा तदा पर्यतप्यत् पाण्डवाः कृष्णदेवताः ।
मुमुदुः शिबिरं प्राप्य सर्वे कृष्णानुमोदिताः । 25.136 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
भीष्मपातो नाम पञ्चविं शोऽध्यायः
च्च्च्ल्xइ.(नारायणास्त्रोपशमनम्)
अथ षड्विं शोऽध्यायः
ओं । अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम् ।
रामस्य विश्वाधिपतेः सुशिष्यं चक्रे चमूपं धृतराष्ट्रपुत्रः । 26.1 ।
कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा ।
तस्मिन् स्थितेऽनात्तधनुस्तदैव रथं समास्थाय गुरुं समन्वयात् । 26.2 ।
द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे ।

ज् ञात्वा यत्ताः पाण्डवास्तं समीयुर्युद्धाय तत्राभवदुग्रयुद्धम् । 26.3 ।
पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिस्सृतैः ।
तमाससादाऽशु वृकोदरो नदं स्तमासदन् द्रौणिकृपौ च मद्रराट्। 26.4 ।
स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान् ।
ववार तं मद्रपतिस्तयोरभूद् रणो महां स्तत्र गदां समाददे ।
शल्योऽथ भीमोऽभिययौ गदाधरस्तमेतयोरत्र बभूव सङ्गरः । 26.5 ।
उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम् ।
विचेरतुश्चित्रतमं प्रपश्यतां मनोहरं त् आवभिनर्दमानौ ।
गदाप्रपाताङ्कितवज्रगात्रौ ददर्श लोकोऽखिल एव तौ रणे । 26.6 ।
गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट्।
भीमोऽपि कोपात् प्रचलत्पदः क्षितौ निधाय जानुं सहसोत्थितः क्षणात् । 26.7 ।
विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम् ।
रथं समारोप्य जनस्य पश्यतः पुरश्च भीमस्य कृपोऽपजग्मिवान् । 26.8 ।
विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः ।
व्यद्रावयद् बाणगणैः परेषामनीकिनीं द्रोणसमक्षमेव । 26.9 ।
विद्रावयत्याण्सु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन् ।
द्रोणोऽभिपेदे नृपतिं गृहीतुं तमाससादाऽशु धनञ्जयो रथी । 26.10 ।
च्च्च्ल्xइइ.स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः ।
निहत्य नागाण्स्वनरान् प्रवर्तयन्नदृश्यताऽश्वेव च शोणित् आपगाः । 26.11 ।
निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽपदः ।
चमूं च भीमार्जुनबाणभग्नां द्रोणोऽपहृत्यापययौ निशागमे । 26.12 ।
स धार्तराष्ट्रेण युधिष्ठिराग्रहात् सं श्रावितः क्रूरवचो निशायाम् ।
जगाद दूरं समराद् विनीयतां पार्थस्ततो धर्मसुतं ग्रहीष्ये । 26.13 ।
ततः सुशर्मा सहितो महारथैः सं शप्तकैर्दूरतरं प्रणेतुम् ।
युद्धाय भीमानुजमाण्सु क्लृप्तो दुर्योधनेनोमिति सोऽप्यवादीत् । 26.14 ।
समाह्वयामासुरथार्जुनं ते प्रातर्हुताण्सस्य दिशं रणाय ।
अयोधयत् तान् स च तत्र गत्वा भीमो गजानीकमथात्र चावधीत् । 26.15 ।
निहन्यमानेषु गजेषु सर्वशो विद्राप्यमाणेष्वखिलेषु राजसु ।
प्राग्ज्योतिषो धार्तराष्ट्रार्थितस्तं समासदत् सुप्रतीकेन धन्वी । 26.16 ।
विभीषित् आः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः ।
सौभद्रमुख्याण्स्च गजं तमभ्ययुश्चिक्षेप तेषां स रथानथाम्बरे । 26.17 ।
शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव ।
स्थितेषु भीमे च विभीषित् आण्स्वान् सं यम्य युद्ध्यत्यपि कृष्ण ऐक्षत् । 26.18 ।
सङ्क्लेशितो वैष्णवास्त्रं प्रमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम् ।
याम्यार्जुनेनैव तदस्त्रमात्मनः स्वीकर्तुमन्येन वरादधार्यम् । 26.19 ।
इति स्म सञ्चिन्त्य सहार्जुनेन तत्राऽययावथ पार्थं त्रिगर्ताः ।
न्यवारयं स्त्वाष्ट्रमस्त्रं स तेषु व्यवासृजन्मोहनायाऽशु वीरः । 26.20 ।
तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म ।
जघ्नुस्तदा वासविस्तान् विसृज्य प्राग्ज्योतिषं हन्तुमिहाभ्यगाद् द्रुतम् । 26.21 ।
विसृज्य भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम् ।

प्रचोदयामास रथाय तस्य चक्रेऽपसव्यं हरिरेनमाण्सु । 26.22 ।
च्च्च्ल्xइइइ.मनोजवेनैव रथे परेण सम्भ्राम्यमाणे नतु तं गजः सः ।
प्राप्तुं शशाकाथ शरैः सुतीक्ष्णैरभ्यर्द्दयामास नृपं स वासविः । 26.23 ।
अस्त्रैश्च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ ।
अथो चकर्तास्य धनुः स पार्थः स वैष्णवास्त्रं च तदाऽङ्कुशेऽकरोत् । 26.24 ।
तस्मिन्नस्त्रे तेन तदा प्रमुक्ते दधार तद् वासुदेवोऽमितौजाः ।
तदं सदेशस्य तु वैजयन्ती बभूव मालाऽखिललोकभर्तुः । 26.25 ।
दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति ।
ऊचे तमाहाऽशु जगन्निवासो मयाऽखिलं धार्यते सर्वदैव । 26.26 ।
न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय ।
स्थितोऽस्मि मोक्षप्रल् . अयस्थितीनां सृष्टेण्स्च कर्ता क्रमशः स्वमूर्तिभिः ।
स वासुदेवादिचतुः स्वरूपः स्थितोऽनिरुद्धो हृदि चाखिलस्य । 26.27 ।
स एव च क्रोडतनुः पराऽहं भूमिप्रियार्थं नरकाय चादाम् ।
अस्त्रं मदीयं वरमस्य चादामवध्यतां यावदस्त्रं ससूनोः । 26.28 ।
अस्त्रस्य चान्यो नतु कश्चिदस्ति योऽवध्य एतस्य कुतश्च मत्तः ।
इति स्म तेनैव मया धृतं तदस्त्रं तदेनं जहि चास्त्रहीनम् । 26.29 ।
इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच ।
प्राग्ज्योतिषस्यापरमुत्तमं शरं गजेन्द्रकुम्भस्थल आण्स्वमज्जयत् । 26.30 ।
उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाऽशु ।
निहत्य तौ वासविरुग्रपौरुषो मुमोद साधु स्वजनाभिपूजितः । 26.31 ।
अथाचलं वृषकं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः ।
विव्याध मायामसृजत् स तां च विज्ञानास्त्रेणाऽशु नाण्साय चक्रे । 26.32 ।
स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्चमूं त् आम् ।
विद्रावयामास तदा गुरोः सुतो माहिष्मतीपतिमाजौ जघान । 26.33 ।
च्च्च्ल्xइव्.तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च ।
भीमार्जुनाभ्यां हन्यमानां चमूं त् आं दृष्ट्वा द्रोणः क्षिप्रमपाजहार । 26.34 ।
प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः ।
दुर्योधनोऽश्रावयद् दीनवाक्यान्यत्र द्रोणं सोऽपि नृपं जगाद । 26.35 ।
पार्थे गते श्वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम् ।
इति प्रतिज्ञां स विधाय भूयः प्रातर्ययौ युद्धमाकाङ्क्षमाणः । 26.36 ।
पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं ह्यजप्त्वा ।
पार्थाण्स्च तं प्रापुरृतेऽर्जुनेन सं शप्तकैर्युयुधे सोऽपि वीरः । 26.37 ।
पार्था व्यूहं तु तं प्राप्य नाण्सकन् भेत्तुमुद्यताः ।
ज् आनं श्च प्रतिभायोगात् काम्यं नैवाजपन्मनुम् । 26.38 ।
भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत् ।
भिन्धि व्यूहमिमं त् आत वयं त्वामनुयामहे । 26.39 ।
स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं त् आम् ।
अन्वेव तं वायुसुतादयश्च विविक्षवः सैन्धवेनैव रुद्धाः । 26.40 ।
वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु ।
विष्णोरभीष्टं वधमार्जुनेस्तदा विज्ञाय शक्तोऽपि नचात्यवर्तत । 26.41 ।

जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु ।
प्रविश्य वीरः स धनञ्जयात्मजो विलोल् . अयामास परोरुसेनाम् । 26.42 ।
स द्रोणदुर्योधनकर्णण्सल्यैर्द्रोण्यग्रणीभिः कृतवर्मयुक्तैः ।
रुद्धश्चचारारिबलेष्वभीतः शिरां सि कृन्तं स्तदनुब्रतानाम् । 26.43 ।
स लक्षणं राजसुतं प्रसह्य पितुः समीपेऽनयदाण्सु मृत्यवे ।
बृहद्बलं चोत्तमवीर्यकर्मा वरं रथानामयुतं च पत्रिभिः । 26.44 ।
द्रोणादयस्तं हरिकोपभीत् आः प्रत्यक्षतो हन्तुमशक्नुवन्तः ।
सम्मन्त्र्य कर्णं पुरतो निधाय चक्रुर्विचापाण्स्वरथं क्षणेन । 26.45 ।
च्च्च्ल्xव्.कर्णो धनुस्तस्य कृपश्च सारथी द्रोणो हयानाण्सु विधम्य सायकैः ।
सचर्मखड्गं रथचक्रमस्य प्रणुद्य हस्तस्थितमेव तस्थुः । 26.46 ।
भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाऽशु गदायुधं गदी ।
दौः शासनिस्तौ युगपच्च मम्रतुर्गदाभिघातेन मिथोऽतिपौरुषौ । 26.47 ।
तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः ।
विजित्य सर्वानपि सैन्धवादीन् युधिष्ठिरस्यानुमते न्यषीदत् । 26.48 ।
व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत् ।
विजित्य सं शप्तकपूगमुग्रो निशागमे वासविराप साच्युतः । 26.49 ।
निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः ।
जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत् तं गिरिशान्तिकं हरिः । 26.50 ।
स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान् ।
अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति । 26.51 ।
ज् ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा ।
प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुद्बणम् ।
चक्रे तदर्थमेवास्य रक्षां चक्रे तदात्मिकाम् । 26.52 ।
सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः ।
योजयित्वा रथं प्रातः सार्जुनो युद्धमभ्ययात् । 26.53 ।
श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम् ।
त्रातास्म्यहं सर्वथेति प्रतिज्ञां कृत्वा द्रोणो व्यूहमभेद्यमातनोत् । 26.54 ।
स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः ।
पृष्ठे कर्णद्रौणिकृपैः सशल्यैर्जयद्रथं गुप्तमधात् परैश्च । 26.55 ।
अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः केशवेनाव्ययेन ।
विजित्य दुर्मर्षणमग्रतोऽभ्ययाद् द्रोणं सुधन्वा गुरुमुग्रपौरुषः । 26.56 ।
च्च्च्ल्xवि.प्रदक्षिणीकृत्य तमाण्स्वगात् ततः कालात्ययं त्वेव विशङ्कमानः ।
रथं मनोवेगमथानयद्धरिर्यथा ण्सराः पेतुरमुष्य पृष्ठतः । 26.57 ।
विजित्य हार्दिक्यमथाप्रयत्नः स इन्द्रसूनुः प्रविवेश तद् बलम् ।
विलोल् . अयामास च सायकोत्तमैर्यथा गजेन्द्रो नल् . इनीं बलोद्धतः । 26.58 ।
स उच्चकाण्सेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः ।
चकर्त चोग्रो द्विषतां शिरां सि शरैः शरीरान्तकरैः समन्ततः । 26.59 ।
दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ ।
शराभ्यां प्रेषयामास यमाय विजयो युधि । 26.60 ।
सुदक्षिणं च काम्बोजं निहत्याम्बष्ठमेव च ।

श्रुतायुधं नदीज् आतं वरुणादाससाद ह ।
यस्यादाद् वरुणो दिव्याममोघां महतीं गदाम् । 26.61 ।
स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात् ।
चकार पार्थस्य रथमारुह्यारिधराय ताम् । 26.62 ।
गदां चिक्षेप सा तस्य वारुणेः शिर एव तु ।
बिभेद शतधा ण्सीर्णमस्तिष्कः सोऽपतद् भुवि । 26.63 ।
अयुद्ध्यन्तं स्वगदया यदि ताडयसि स्वयम् ।
तया विशीर्णमस्तिष्को मरिष्यसि न सं शयः ।
अमोघा चान्यथा सेयं गदा तव भविष्यति । 26.64 ।
इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे ।
अयुद्ध्यति गदाक्षेपात् तया ण्सीर्णण्सिरा अभूत् । 26.65 ।
हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुल् . इते च सैन्ये ।
दुर्योधनो द्रोणमुपेत्य दीनमुवाच हा पार्थ उपेक्षितस्त्वया । 26.66 ।
इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः ।
जगाद येनैव बलेन पार्थैर्विरुद्ध्यसे तेन हि याहि फल्गुनम् । 26.67 ।
च्च्च्ल्xविइ.इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थः ।
जगाम पार्थं तमवारयच्च शरैरनेकैरनलप्रकाण्सैः । 26.68 ।
विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदम् ।
चक्रुस्ततो वासविर्दिव्यमस्त्रं तद्वर्मभेदाय समाददे रुषा । 26.69 ।
सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाण्स्वान् ।
हत्वा तल् . एऽविद्ध्यदथैनमुग्रैर्द्रौणिः शरैः पार्थमवारयद् युधि । 26.70 ।
स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः ।
बभूव युद्धं तदतुल्यमद्भुतं जयद्रथार्थेऽद्भुतवीर्यकर्मणाम् । 26.71 ।
पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाण्सु ।
स तद्रथानीकमुदग्रवेगैः शरैर्विधूय न्यहनच्च वीरान् । 26.72 ।
स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम् ।
प्रपातयन् वीरशिरां सि बाणैर्युधिष्ठिरं चाऽसददुग्रवीर्यः । 26.73 ।
नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराण्सु वीर्यवान् ।
निवारितस्तेन शिरः शरेण चकर्त पाञ्चालसुतस्य विप्रः । 26.74 ।
निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समार्दयत् ।
स शक्तिस्तेन विधाय सङ्गरं निरायुधो व्यश्वरथः कृतः क्षणात् । 26.75 ।
स ऊर्ध्वबाहुर्भुवि सं स्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः ।
माद्रीसुतस्यावरजस्य यानमारुह्य वेगादपजग्मिवां स्ततः । 26.76 ।
द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काण्सिराजः सशैव्यः ।
समासदन् केकयाण्स्चैव पञ्च समार्दयन् बाणगणैश्च सर्वशः । 26.77 ।
स तान् क्रमेणैव निकृत्तकन्धराञ्छरोत्तमैरत्र विधाय विप्रः ।
निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः । 26.78 ।
विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम् ।
प्रायो रणे मारुतसूनुनैव हतप्रवीरा मृदिताः पराद्रवन् । 26.79 ।
च्च्च्ल्xविइइ.अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम् ।

स पीडितस्तेन शरैः सुतेजनैः क्षणाददृश्यत्वमवाप मायया । 26.80 ।
सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः ।
अस्त्रज्ञतामात्मनिकेशवाज्ञया सन्दर्शयन्नागतधर्मसङ्कटः । 26.81 ।
त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः ।
ते बाणवर्यास्तददृश्यवेधिनो रक्षो विदार्याऽविविशुर्धरातल् . अम् । 26.82 ।
तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम् ।
ततस्तु भीमो द्विषतां वरूथिनीं विद्रावयामास शरैः सुमुक्तैः । 26.83 ।
तदैव कृष्णातनयाः समेता जघ्नुः शलं सं यति सौमदत्तिम् ।
अलम्बुसं प्राप तदा घटोत्कचः परस्परं तौ रथिनावयुद्ध्यताम् । 26.84 ।
घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध सं स्थितः ।
ततस्तु तं भीमसुतो निगृह्य निपात्य भूमौ प्रददौ प्रहारम् । 26.85 ।
पदा ण्सिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम् ।
तस्मिन् हते भैमसेनिः कुरूणां व्यद्रावयद् रथवृन्दं समन्तात् । 26.86 ।
तदाऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन् ।
ददौ वरं तस्य हि पूर्वमच्युतः प्रीतः स्तुत्या सर्वजयं मुहूर्ते । 26.87 ।
स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च ।
विव्याध बाणेन स वासुदेववरं विजानन् न तदा समभ्ययात् । 26.88 ।
विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः ।
निहत्य बाणैरतुदत् स यानमन्यत् समास्थाय ततोऽपजग्मिवान् । 26.89 ।
तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति ।
कर्णादिभिर्द्रौणिमुखै रिपूणां बलप्रहाणाय परः परेभ्यः । 26.90 ।
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः ।
च्च्च्ल्xइx.जगद् विरिञ्चेशसुरेन्द्रपूर्वकं प्रकम्पयामास युगात्यये यथा । 26.91 ।
गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदेत्य ।
शैनेयमूचे परसैन्यमग्ने पार्थे स्वयं युद्ध्यति केशवः स्म । 26.92 ।
न श्रूयते गाण्डीवस्याद्य घोषः सं श्रूयते पाञ्चजन्यस्य घोषः ।
तद् याहि जानीहि तमद्य पार्थं यदि स्म जीवत्यसहाय एषः । 26.93 ।
इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाण्सिषण्स्च ।
जयाय तेभ्यः प्रतिगृह्य सेनामुखं ययौ भीमसेनानुयातः । 26.94 ।
भीमस्तु सेनामुखमाण्सु भित्त्वा प्रावेशयद् युयुधानं चमूं त् आम् ।
स युद्ध्यमानो गुरुणाऽभ्युपेक्षितः सूतं निहत्य द्रावयामास चाण्स्वान् । 26.95 ।
बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राण्सीर्भिः कृष्णवरादपि स्म ।
बलस्य वृद्धिर्हि पुराऽस्य दत्ता कृष्णेन तुष्टेन दिने हि तस्मिन् । 26.96 ।
ततो विवृद्धोरुबलात् स सात्यकिः सं स्थाप्य भीमं प्रययौ रथेन ।
तं बाणवर्षैः पृतनां समन्तान्निघ्नन्तमाजौ हृदिकात्मजोऽभ्ययात् । 26.97 ।
तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः ।
विजित्य तं सात्यकिरुग्रधन्वा ययावतीत्यैव शिरां सि यूनाम् ।
कृन्तन् शरैस्तं जलसन्ध आगमद् रणे गजस्कन्धगतोऽभियोद्धुम् । 26.98 ।
निवारयन्तं तमसं ह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः ।
विलोल् . अयामास बलं कुरूणां निघ्नन् गजस्यन्दनवाजिपत्तिनः । 26.99 ।

स पार्वतीयां श्च शिलाप्रवर्षिणो निहत्य विद्राप्य च सर्वसैनिकान् ।
समासदत् केशवफल्गुनौ च बली तमाराऽशु च यूपकेतुः । 26.100 ।
तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषणम् ।
परस्परं तौ तुरगान् निहत्य निपात्य सूतौ धनुषी निकृत्य ।
समीयतुश्चर्ममहासिधारिणौ विचित्रमार्गान् युधि सञ्चरन्तौ । 26.101 ।
स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य ।
च्च्च्ल्xx.पदाऽस्य वक्षस्यधिरुह्य खड्गमुदग्रहीदाण्सु शिरोऽपहर्तुम् । 26.102 ।
तद् वासुदेवस्तु निरीक्ष्य विश्वतश्चक्षुर्जगादाऽशु धनञ्जयं रणे ।
त्रायस्व शैनेयमिति स्म सोऽपि भल्लेन चिच्छेद भुजं परस्य । 26.103 ।
स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ ।
प्रायोपविष्टः शरसं स्तरे हरिं द्ध्यायन् विनिन्दन्नसुरप्रवेशात् । 26.104 ।
गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम् ।
शैनेय उत्थाय निवार्यमाणः कृष्णार्जुनाद्यैरहरच्छिरोऽस्य । 26.105 ।
तदा स्वकीयं रथमेतदर्थं क्लृप्तं ददौ सात्यकये ससूतम् ।
कृष्णोऽथ पार्थस्य हयास्तृषाऽर्दितास्तदाऽसृजद् वारुणास्त्रं स पार्थः । 26.106 ।
तेनैव तीर्थं परमं चकार तथाऽश्वशालामपि बाणरूपाम् ।
ततो विमुच्यात्र हयानपाययद्धरिस्तदा वासविरार्दयत् परान् । 26.107 ।
युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः ।
प्रचोदिते तेन रथे स्थितः पुनस्तथैव बीभत्सुररीनयोधयत् । 26.108 ।
शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्च चिन्ताकुलितो बभूव ह ।
जगाद भीमं च न गाण्डिवध्वनिः सं श्रूयते पाञ्चजन्यस्य रावः । 26.109 ।
मया नियुक्तश्च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये ।
तत् पाहि पार्थं युयुधानमेव च त्वं भीम गत्वा यदि जीवतस्तौ । 26.110 ।
इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम् ।
ब्रह्मेशानावपि जेतुं समर्थौ किं द्रौणिकर्णादिधनुर्भृतोऽत्र । 26.111 ।
अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्चैव हरेः प्रसादात् ।
रक्ष्यस्त्वमेवात्र मतो ममाद्य द्रोणो ह्ययं यतते त्वां गृहीतुम् । 26.112 ।
इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे ।
धृष्टद्युम्ने चास्त्रविदां वरिष्ठे द्रोणो वशं नेतुमिह प्रभुः क्वचित् । 26.113 ।
च्च्च्ल्xxइ.यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याण्सु च पार्थसात्यकी ।
रक्षस्व सञ्ज्ञामपि सिं हनादात् कुरुष्व मे पार्थशैनेयदृष्टौ । 26.114 ।
तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामिति तेन भीमः ।
उक्तस्तु हैडिम्बममुष्य रक्षणे व्यधाच्च सेनापतिमेव सम्यक् । 26.115 ।
स चाऽह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ ।
न जीवमाने मयि धर्षितुं क्षमो द्रोणो नृपं मृत्युरहं च तस्य । 26.116 ।
इति ब्रुवाणे प्रणिधाय भीमः पुनः पुनस्तं नृपतिं गदाधरः ।
ययौ परानीकमधिज्यधन्वा निरन्तरं प्रवपन् बाणपूगान् । 26.117 ।
न्यवारयत् तं शरवर्षधारो द्रोणो वचश्चेदमुवाच भीमम् ।
शिष्यस्नेहाद् वासविः सात्यकिश्च मया प्रमुक्तो भृशमानतौ मयि । 26.118 ।
स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा ।

दास्ये न ते मार्गमहं कथञ्चित् पश्यास्त्रवीर्यं मम दिव्यमद्भुतम् । 26.119 ।
इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः ।
उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित् । 26.120 ।
अमार्दवे पश्य च यादृशं बलं ममेति तस्याऽशु विचूर्णितो रथः ।
गदाभिपातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः । 26.121 ।
द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातल् . ए ।
तदैव दुर्योधनयापितं रथं परं समास्थाय शरान् ववर्ष ह। 26.122 ।
शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः ।
शिरो निधायाऽशु पुरो वृषो यथा तमभ्ययादेव रथादवप्लुतः । 26.123 ।
मनोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात् ।
शक्तोऽप्यहं त्वां न निहन्मि गौरवादित्येव सुज्ञापयितुं तदस्य । 26.124 ।
सुवाजिसूतः स रथः क्षितौ पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः ।
तदा विशोकोऽस्य रथं समानयत् तमारुहद् भीम उदारविक्रमः । 26.125 ।
च्च्च्ल्xxइइ.द्रोणोऽपि दुर्योधनदत्तमन्यं रथं समास्थाय युधिष्ठिरं ययौ ।
गृहीतुकामं नृपतिं प्रयान्तं न्यवारयत् सं यति वाहिनीपतिः । 26.126 ।
विदारितां द्रोणण्सरैः स्वसेनां सं स्थाप्य भूयो द्रुपदात्मजः शरैः ।
द्रोणं निवार्यैव चमूं परेषां विद्रावयामास च तस्य पश्यतः । 26.127 ।
तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः ।
अत्यद्भुतं सन्ततबाणवर्षमनारतं सुचिरं निर्विशेषम् । 26.128 ।
ततः प्रायाद् भीमसेनोऽमितौजा मृद्गञ्छरैः कौरवराजसेनाम् ।
विन्दानुविन्दप्रमुखा धार्तराष्ट्रास्तमासेदुर्द्वादश वीरमुख्याः ।
विद्धः शरैस्तैर्बहुभिर्वृकोदरः शिरां सि तेषां युगपच्चकर्त । 26.129 ।
हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरमित्रो जयश्च ।
वृन्दारकः पौरवश्चेत्यमात्याः समासेदुर्धार्तराष्ट्रस्य भीमम् । 26.130 ।
स तैः पृषत्कैरवकीर्यमाणः शितान् विपाठान् युगपत् समाददे ।
जहार तैरेव शिरां सि तेषां हतेषु तेष्वेव परे प्रदुद्रुवुः । 26.131 ।
स सिं हवत् क्षुद्रमृगान् समन्ततो विद्राप्य शत्रून् हृदिकात्मजं रणे ।
अभ्यागमत् तेन निवारितः शरैः क्षणेन चक्रे विरथाण्स्वसूतम् ।
स गाढविद्धस्तु वृकोदरेण रणं विसृज्यापययौ क्षणेन । 26.132 ।
विजित्य हार्दिक्यमथाऽशु भीमो विद्रावयामास वरूथिनीं त् आम् ।
सम्प्रेषयन् सर्वनराण्स्वकुञ्जरान् यमाय यातो हरिपार्थपार्श्वम् । 26.133 ।
दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्च ।
सञ्ज्ञां नृपस्य स ददावपि सिं हनादान् श्रुत्वा परां मुदमवाप स चाग्र्यबुद्धिः । 26.134 ।
भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके ।
भीतेषु सर्वनृपतिष्वमुमाप तूर्णं कर्णो विकर्णमुखरा अपि धार्तराष्ट्राः । 26.135 ।
हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं च विदधे रथमर्कसूनोः ।
घोरैः शरैः पुनरपि स्म समर्द्यमानः कर्णोऽपयानमकरोद् द्रुतमेव भीमात् । 26.136 ।
च्च्च्ल्xxइइइ.आण्स्वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः ।
त् आं श्चैव तत्र विनिहत्य तथैव कर्णो व्यश्वायुधः कृत उतापययौ क्षणेन । 26.137 ।
विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः ।

कर्णस्य पश्यतो भीमबाणकृत्तशिरोधराः । 26.138 ।
निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतल् . ए ।
त्रयोविं शतिरेवात्र कर्णसाहाय्यकाङ्क्षिणः । 26.139 ।
एकवीं शतिवारं च व्यश्वसूतरथध्वजः ।
गाढमभ्यर्द्दितस्तीक्ष्णैः शरैर्भीमेन सं युगे । 26.140 ।
प्राणसं शयमापन्नः सर्वलोकस्य पश्यतः ।
रणं त्यक्त्वा प्रदुद्राव रुदन् दुःखात् पुनः पुनः । 26.141 ।
द्वाविं शतिमयुद्धे तु रामदत्तं सुभास्वरम् ।
अभेद्यं रथमारुह्य विजयं धनुरेव च । 26.142 ।
तद्दत्तमेव सङ्गृह्य तूणी चाक्षयसायकौ ।
आससाद रणे भीमं कर्णो वैकर्तनो वृषा । 26.143 ।
सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम् ।
आकाण्समाच्छादयतोः शरौघैः परस्परं चैव सुरक्तनेत्रयोः । 26.144 ।
ततो भीमो महाबाहुः सहजाभ्यां च सं युतम् ।
त्वां तु कुण्डलवर्मभ्यां शक्नुयां हन्तुमञ्जसा । 26.145 ।
इति ज्ञापयितुं तस्य कुण्डले कवचं तथा ।
शरैरुत्कृत्य समरे पातयामास भूतल् . ए । 26.146 ।
एवं त् आन्यपकृष्याहं हन्यां त्वामिति वेदयन् ।
पुनश्च बहुभिस्तीक्ष्णैः शरैरेनं समार्दयत् । 26.147 ।
ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः ।
च्च्च्ल्xxइव्.अमुष्य रामेण नच स्पृधाऽयं कर्णो मया युद्ध्यति कृच्छ्रगो ह्ययम् । 26.148 ।
तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचोऽपहाय ।
मया तुमान्यं वचनं हरेः सदा तस्माद् दास्ये विवरं त्वद्य शत्रोः । 26.149 ।
एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत् ।
रश्मीन् हयानां च ततो रथं स तत्याज नैजं बलमेव वेदयन् । 26.150 ।
न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव स ख्यापयितुं वृकोदरः ।
खमुत्पपातोत्तमवीर्यतेजा रथं च कर्णस्य समास्थितः क्षणात् । 26.151 ।
भीतस्तु कर्णो रथकूबरे तदा व्यलीयतातः स वृकोदरो रथात् ।
अवप्लुतो ज्ञापयितुं स्वशक्तिं निरायुधत्वेऽप्यरिनिग्रहादौ । 26.152 ।
नैच्छद् गृहीतुं विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम् ।
द्रोणस्य यद्वत् पूर्वमतीव शक्तोऽप्यमानयद् रामवचोऽस्य भक्त्या । 26.153 ।
सत्यां कर्तुं वासवेश्च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम् ।
दातुं रन्ध्रं सूर्यजस्य प्रयातः शरक्षेपार्थं दुरमतिष्ठदत्र । 26.154 ।
ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन् ।
शरैरविध्यत् स च तानवारयद् गजैर्मृतैस्तां श्च चकर्त कर्णः । 26.155 ।
व्यसून् गजान् प्रक्षिपन्तं समेत्य सं स्पृश्य चापेन वचश्च दुष्टम् ।
सं श्रावयामास सुयोधनस्य प्रीत्यै प्रजानन्नपि तस्य वीर्यम् । 26.156 ।
सं श्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः ।
स वर्महीनः पार्थबाणाभितप्तो व्यपागमद् भीम आपाऽत्मयानम् । 26.157 ।
कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान् ।

हन्यामिति प्राह यतः स कुन्त्यै यद्यप्यवध्यः स तयाऽपि भीमः । 26.158 ।
नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्चिरस्थितम् ।
किं तस्य शक्तिः प्रकरोति वासवी तथाऽन्यदप्यस्त्रशस्त्रं महच्च । 26.159 ।
च्च्च्ल्xxव्.भीमः कर्णरथं प्राप्तः शक्तिं नाऽदातुमैच्छत ।
अभिप्रायं केशवस्य जानन् हैडिम्बमृत्यवे ।
ततः कर्णोऽन्यमास्थाय रथमर्जुनमभ्ययात् । 26.160 ।
दिव्यं रथं धनुश्चैव कृष्णबुद्ध्योऽर्जुनो हरेत् ।
इति भीतस्तु तां शक्तिमादायार्जुनमृत्यवे ।
युद्धायायाद् रथं चापं शक्तिं चैकत्र नाकरोत् । 26.161 ।
एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः ।
बिभेति सर्वदा नीतेः कृष्णस्यामिततेजसः । 26.162 ।
निश्चितो मरणायैव मृतिकाले तु तं रथम् ।
आरुह्यागाद्धि पूर्वं तु न कालं मन्यते मृतेः । 26.163 ।
शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः सं स्थाप्य पार्थमपि सात्यकिमेव योद्धुम् ।
दत्त्वा स्वकीयरथमेव विरोचनस्य पुत्रेण सोऽदिशदमुष्य बलं प्रदाय । 26.164 ।
शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः ।
सं स्पर्धयैव युयुधे विरथं चकार तेनैव सात्यकिरमुं हरियानसं स्थः । 26.165 ।
न केशवरथे कश्चित् स्थितो याति पराजयम् ।
अतश्च सात्यकिर्नाप कर्णेनात्र पराजयम् । 26.166 ।
शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत् ।
इत्युक्तं ज् आमदग्न्येन धनुर्विद्यापुराकृत् आ । 26.167 ।
तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम् ।
अविरुद्धं च धर्मस्य कार्यं रामस्य तुष्टिदम् । 26.168 ।
अनुपद्रवं च लोकस्येत्यतो भीमो व्रतं त्विदम् ।
चकार तूबरेत्युक्ते हन्यामिति रहः प्रभुः । 26.169 ।
अनुपद्रवाय लोकस्य सुव्यञ्जच्श्मश्रुमण्डलः ।
सुश्मश्रुं मां न कश्चिद्धि तथा ब्रूयादिति स्फुटम् ।
तदर्जुनो विजानाति स्नेहाद् भीमोदितं रहः । 26.170 ।
च्च्च्ल्xxवि.अर्जुनस्यापि गाण्डीवं देहीत्युक्तो निहन्म्यहम् ।
इति तच्च विजानाति भीम एको नचापरः ।
गाण्डीवस्याऽगमं पूर्वं ज् आनात्येव हि नारदात् । 26.171 ।
प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने रहः ।
दुर्योधनस्तु शुश्राव तां च कर्णाय सोऽब्रवीत् । 26.172 ।
अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम् ।
उक्तः प्रकोपनायैव तस्मादर्जुनमब्रवीत् । 26.173 ।
ज् आनासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा ।
तत्र हन्तव्यतां प्राप्तो मम वैकर्तनोऽत्रहि । 26.174 ।
प्रतिज्ञातो वधश्चास्य त्वयाऽपि मदनुज्ञया ।
अतस्त्वया मया वाऽयं हन्तव्यः सूतनन्दनः । 26.175 ।
इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि ।

त्वदीयोऽहं यतस्तेन मत्कृतं त्वत्कृतं भवेत् । 26.176 ।
न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान् ।
अतो मयैव हन्तव्य इत्युक्त्वा कर्णमब्रवीत् । 26.177 ।
रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः ।
यच्चाभिमन्युर्युष्माभिरेकः सम्भूय पातितः । 26.178 ।
अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः ।
इत्युक्तोऽन्यरथं प्राप्य कर्ण आवीज्जयद्रथम् । 26.179 ।
द्रौणिकर्णाभिगुप्तं तं नाण्सकद्धन्तुमर्जुनः ।
तत्र वेगं परं चक्रे द्रौणिः पार्थनिवारणे । 26.180 ।
नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः ।
तयोरासीच्चिरं युद्धं चित्रं लघु च सुष्ठु च । 26.181 ।
च्च्च्ल्xxविइ.तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे ।
अजिते द्रोणतनये त्वहते च जयद्रथे ।
अर्जुनस्य जयाकाङ्क्षी ससर्ज तम ऊर्जितम् । 26.182 ।
तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः ।
विशश्रमुः सैन्धवश्चार्जुनस्य हतप्रतिज्ञस्य मुखं समैक्षत । 26.183 ।
तदा हरेराज्ञया ण्सक्रसूनुश्चकर्त बाणेन जयद्रथस्य ।
अग्निं विविक्षन्निव दर्शितः शिरस्तदा वचः प्राह जनार्दनस्तम् । 26.184 ।
नैतच्छिरः पातय भूतल् . ए त्वमितीरितः पाण्सुपतास्त्रतेजसा ।
दधार बाणैरनुपुङ्खपुङ्खैः पुनस्तमूचे गरुडध्वजो वचः । 26.185 ।
इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम् ।
शिरो निकृत्तं भुवि पातयेद् यस्तवास्य भूयाच्च शिरः सहस्रधा । 26.186 ।
इति स्म वध्यः स पिताऽपि तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य ।
अङ्के व्यधात् तच्छिर आण्सु वासविः स सम्भ्रमात् तद् भुवि च न्यपातयत् । 26.187 ।
ततोऽभवत् तस्य शिरः सहस्रधा हरिश्च चक्रे तमसो लयं पुनः ।
तदैव सूर्ये सकलैश्च दृष्टे हाहेति वादः सुमहानथाऽसीत् । 26.188 ।
भीमस्तदा ण्सल्यसुयोधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम् ।
कुर्वन् साहाय्यं फल्गुनस्यैव तुष्टो बभूव शैनेय उतो हते रिपौ । 26.189 ।
अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः ।
भीमस्य नादं सहपाञ्चजन्यघोषं श्रुत्वा निहतं सिन्धुराजम् ।
ज् ञात्वा राजा धर्मसुतो मुमोद दुर्योधनश्चाऽस सुदुःखितस्तदा । 26.190 ।
ततो द्रौणिमुखां सेनां सर्वां भीमोऽभ्यवर्तत ।
पार्थः कर्णमुखाञ्छिष्टान् ततोऽभज्यत तद् बलम् । 26.191 ।
शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः ।
ततस्तं देशमापुस्ते यत्र भीमधनञ्जयौ । 26.192 ।
च्च्च्ल्xxविइइ.तत एकीकृत् आः सर्वे पाण्डवाः सहसोमकाः ।
परान् विद्रावयामासुस्ते भीत् आः प्राद्रवन् दिशः । 26.193 ।
विद्राप्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः ।
जयद्रथवधाच्चैव कुपितोऽभ्यद्रवत् परान् । 26.194 ।
स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च ।

धृष्टद्युम्नं सात्यकिं द्रौपदेयान् सर्वानेकः शरवर्षैर्ववर्ष । 26.195 ।
ते विव्यधुस्तं बहुभिः शिलीमुखैः स ताननादृत्य चकर्त बाणैः ।
धनूं षि चित्राणि महारथानां चकार सङ्खे विरथौ यमौ च । 26.196 ।
आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः ।
अचिन्तयित्वैव शरान्स एको न्यवारयत् तानखिलां श्च बाणैः । 26.197 ।
तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः ।
दृष्ट्वा सर्वे जुगुपुः स्वात्तचापा अनारतं बाणगणान् सृजन्तः । 26.198 ।
सुयोधनः कर्णमाह जहि भीममिमं युधि ।
स आह नैष ण्सक्यो हि जेतुं देवैः सवासवैः । 26.199 ।
दैवाज्जीवाम्यहं राजन् युद्ध्यनेनातिपीडितः ।
अतो घटामहे शक्त्या जयो दैवे समाहितः । 26.200 ।
दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया ।
पार्थेन निहतो भीमसात्यकिभ्यां च मे बलम् । 26.201 ।
प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया ।
इत्युक्तः कुपितो द्रोणः प्रतिज्ञामकरोत् ततः । 26.202 ।
इतः परं नैव रणाद् रात्रावहनि वा क्वचित् ।
गच्छेयं नच मोक्ष्यामि वर्म बद्धं कथश्चन । 26.203 ।
मत्पुत्रश्च त्वया वाच्यः पाञ्चालान् नैव शेषयेः ।
सदौहित्रानितीत्युक्त्वा विजगाहे निशागमे । 26.204 ।
च्च्च्ल्xxइx.चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाण्सु च ।
द्रौणिदुर्योधनौ तत्र विरथीकृत्य मारुतिः ।
द्रावयामास तत् सैन्यं पश्यतां सर्वभूभृत् आम् । 26.205 ।
अक्षोहिण्यस्तु सप्तैव सेनयोरुभयोरपि ।
हतास्तासां च भीमेन तिस्रो द्वे फल्गुनेन च । 26.206 ।
सौभद्रसात्यकिमुखैस्तन्मध्ये षोडण्सां शकः ।
हैडिम्बपार्षतमुखैस्त्रयाच्च दशमां शकः । 26.207 ।
भीष्मद्रोणद्रौणिभिश्च द्वे समं निहते तदा ।
तदन्यैर्मिल् . इतैः सर्वैस्तच्चतुर्थां श एव च । 26.208 ।
ततो रात्रौ पञ्चभिश्च पार्थाः षड्भिश्च कौरवाः ।
अक्षोहिणीभिः सं व्यूह्य युद्धं चक्रुः सुदारुणम् ।
भीमं सेनां द्रावयन्तं पुनः कर्णः समासदत् । 26.209 ।
स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च ।
दुर्योधनस्यावरजौ निष्पिपेष पदा क्षणात् ।
रथाण्स्वध्वजसूतैश्च सह तौ न व्यदृश्यताम् । 26.210 ।
निरायुधोऽहमिति मां त्वमात्थ पुरुषं वचः ।
निरायुधः पदैवाहं त्वां हन्तुमशकं तदा । 26.211 ।
इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि ।
पदा पिपेष कालिङ्गं मुष्टिनैव जघान ह । 26.212 ।
मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे ।
तस्मान्मया रक्षितस्त्वमिति ज्ञापयितुं प्रभुः ।

साण्स्वसूतध्वजरथः कालिङ्गो मुष्टिचूर्णितः । 26.213 ।
केतुमां श्च पिता तस्य शक्रदेवः श्रुतायुधः ।
अक्षोहिण्या सेनया च सह भीमेन पातिताः ।
खड्गयुद्धे पुरा भीष्मे सेनापत्यं प्रकुर्वति । 26.214 ।
च्च्च्ल्xxx.कर्णानुजान् ध्रुवाद्यां श्च बहून् जघ्ने स वै निशि ।
सञ्ज्ञां भीमकृत् आं ज् ञात्वा ण्सक्तिं चिक्षेप चापराम् ।
कर्णः शक्तिर्मया दिव्या न मुक्ता तेन जीवसि । 26.215 ।
इति ज्ञापयितुं त् आं तु ज्ञात्वा भीमः क्षणात् तदा ।
खमुत्पत्य गृहीत्वा च कर्णे चिक्षेप सत्वरः । 26.216 ।
यदि त्वया तदा मुक्ता ण्सक्तिस्त्वां सा हनिष्यति ।
इति ज्ञापयितुं सा च कर्णरक्षणकाङ्क्षिणा । 26.217 ।
मुक्ता दक्षभुजे साऽथ विदार्य धरणीं तथा ।
भित्त्वा विवेश कर्णस्य दर्शयन्ती निदर्शनम् । 26.218 ।
ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत् ।
कर्णस्य पुरतः शत्रून् द्रावयामास सर्वतः । 26.219 ।
तं कर्णो वारयामास शरैः सन्नतपर्वभिः ।
भीमः कर्णरथायैव गदां चिक्षेप वेगतः । 26.220 ।
स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत् ।
तेनास्त्रेण प्रतिहता सा गदा भीममाब्रजत् । 26.221 ।
भीमो गदां समादाय कर्णस्य रथमारुहत् ।
तया सञ्चूर्णयामास कर्णस्य रथकूबरम् । 26.222 ।
एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि ।
एवं निदर्शयित्वैव पुनः स्वं रथमाब्रजत् । 26.223 ।
पुनः कर्णपुरः सेनां जघान बहुशो रणे ।
कर्णस्तु तं परित्यज्य सहदेवमुपाद्रवत् । 26.224 ।
स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च ।
कुत्सयामास बहुशः स तु निर्वेदमागमत् । 26.225 ।
च्च्च्ल्xxxइ.न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन् ।
तं विजित्य रणे कर्णो जघ्ने पार्थवरूथिनीम् । 26.226 ।
ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः ।
सा हन्यमाना रणकोविदेन न शं लेभे मृत्युनाऽर्ता प्रजेव । 26.227 ।
दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे ।
द्रौणिस्तमाहाऽलमलं न वत्स पुत्रस्तातं योधयस्वाद्य मां त्वम् । 26.228 ।
इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसं श्रयात् ।
अरिश्च मेऽसीति तमाह यद्यरिं मां मन्यसे तद्वदहं करोमि ते । 26.229 ।
इत्यूचिवाञ्छक्रधनुः प्रकाण्सं विष्फार्य चापं प्रकिरञ्छरौघान् ।
अभ्यागमद् राक्षसमुग्रवेगः स्वसेनया सोऽपि तमभ्यवर्तत । 26.230 ।
स रक्षसां लक्षसमावृतो बली नृभिश्च वीरैर्बहुभिः सुशिक्षितैः ।
अक्षोहिणीमात्रबलेन राक्षसः सङ्क्षोभयामास गुरोः सुतं शरैः । 26.231 ।
स तेन बाणैर्बहुभिः प्रपीडितो विभिन्नगात्रः क्षतजाप्लुताङ्गः ।

मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc