भाषा

ENहिગુ
ग्रंथ पाठ

महाभारततात्पर्यनिर्णय · भाग 120

ओं श्रीमद् आनन्दतीर्थभगवत्पादाचार्य-विरचितः
श्री महाभारततात्पर्यनिर्णयः
अथ प्रथमोऽध्यायः
(सर्वशास्त्रतात्पर्यनिर्णयः )
ओं । नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय ।
ज् ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते । 1.1 ।
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः ।
सं शान्तसं विदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे । 1.2 ।
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य ।
भूत्यै निजाण्स्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते । 1.3 ।
दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान् ।
ध्यानं गतान् सृतिगतां श्च सुषुप्तिसं स्थान् ब्रह्मादिकान् कलिपरान् मनुजां स्तथैक्षत् । 1.4 ।
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृत् आं विहृतिं ममेच्छन् ।
सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः । 1.5 ।
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता ।
तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् । 1.6 ।
सङ्कर्षणण्स्च स बभूव पुनः सुनित्यः सं हारकारणवपुस्तदनुज्ञयैव ।
देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी । 1.7 ।
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी चशान्तिरभवच्छरदां सहस्रम् ।
स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमां श्चरमात्मनेऽदात् । 1.8 ।
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य ।
चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेण्समुखान् समग्रान् । 1.9 ।
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च ।
इ.एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् । 1.10 ।
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा । 1.11 ।
कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य ।
नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः । 1.12 ।
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः ।
यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् । 1.13 ।
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ ।
वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषां ऋष्यादयः क्रमश ऊनगुणाः शतां शाः । 1.14 ।
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा ।
तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमां सः । 1.15 ।
त् आभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः ।
शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न। 1.16 ।
तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः ।
शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः । 1.17 ।
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च सं सृतिपरा असुरास्तमोगाः ।
एवं सदैव नियमः क्वचिदन्यथा नयावन्न पूर्तिरुत सं सृतिगाः समस्ताः । 1.18 ।

पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसऽ न्घाः ।
आनन्त्यमेव गणण्सोऽस्ति यतो हि तेषां इत्थं ततः सकलकालगता प्रवृत्तिः । 1.19 ।
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः ।
पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व । 1.20 ।
साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य ।
प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य । 1.21 ।
इइ.अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः ।
अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव । 1.22 ।
ऽनारायणस्य न समः ऽ ऽपुरुषोत्तमोऽहं
जीवाक्षरे ह्यतिगतोऽस्मिऽ ततो "ऽन्यदार्तम्"1 ।
"मुक्तोऽपसृप्य"2 ऽइह नास्ति कुतश्च कश्चित्ऽ
"नानेव"3 ऽधर्मपृथगात्मदृगेत्यधो हिऽ । 1.23 ।
"आभास एव"4 ऽपृथगीशत एष जीवोऽ
ऽमुक्तस्य नास्ति जगतो विषये तु शक्तिः ऽ ।
ऽमात्रापरोऽसि न तु तेऽश्नुवते महित्वं ऽ
ऽषाड्गुण्यविग्रहऽ ऽसुपूर्णगुणैकदेहः ऽ । 1.24 ।
ऽमाहात्म्यदेहऽ ऽसृतिमुक्तिगतेऽ ऽशिवश्च ब्रह्मा
च तद्गुणगतौ न कथञ्चनेशौऽ ।
ऽन श्रीः कुतस्तदपरेऽ ऽऽस्य सुखस्य मात्रा-मण्
स्नन्ति मुक्तसुगणाण्स्च शतावरेणऽ । 1.25 ।
"आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।
विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ" । 1.26 । 5
ऽयस्मिन् परेऽन्येऽप्यजजीवकोशाऽ
ऽनाहं परायुर्न मरीचिमुख्याः ऽ ।
ऽजानन्ति यद्गुणगणान् न रमादयोऽपि
नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः ऽ । 1.27 ।
ऽनैवैक एव पुरुषः पुरुषोत्तमोऽसा-वेकह्
. कुतः स पुरुषोऽ ऽयत एव जात्या ।
अर्थात् श्रुतेश्च गुणतो निजरूपतश्च
नित्यान्य एव कथमस्मि स इत्यपि स्यात्ऽ । 1.28 ।
1 बृ. उ. 5.5.1
2 ब्र. सू. 1.3.2
3 क. उ. 4.11
4 ब्र. सू. 2.3.50
5 "ॡअभासक" इत्यादि श्रुतिवचनमेव । न स्ववचनम् - भा. प्र.
इइइ.ऽसर्वोत्तमो हरिरिदं तु तदाज्ञयैव
चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।
पूर्णाव्ययागणितनित्यगुणार्णवोऽसौऽ
इत्येव वेदवचनानि परोक्तयश्च । 1.29 ।
"ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् ।

मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् । 1.30 ।
अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा ।
एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन । 1.31 ।
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः ।
प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः । 1.32 ।
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् ।
अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन । 1.33 ।
मोहार्थान्यन्यशास्त्राणि कृत् आन्येवाऽज्ञया हरेः ।
अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः । 1.34 ।
यस्मात् कृत् आनि तानीह विष्णुनोक्तैः शिवादिभिः ।
एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते । 1.35 ।
विष्ण्वाधिक्यविरोधीनि यानि वेदवचां स्यपि ।
त् आनि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः । 1.36 ।
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः ।
तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् । 1.37 ।
अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा । 1.38 ।
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् ।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् । 1.39 ।
इव्.न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ ।
सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः । 1.40 ।
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः ।
यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् । 1.41 ।
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना ।
व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः । 1.42 ।
यथार्थवचनानां च मोहार्थानां च सं शयम् ।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् । 1.43 ।
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।
सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता । 1.44 ।
अभेदः सर्वरूपेषु जीवभेदः सदैव च ।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा । 1.45 ।
त् आरतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा ।
तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् । 1.46 ।
तस्माद् ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु" ।
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् । 1.47 ।
"एष मोहं सृज् आम्याण्सु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । 1.48 ।
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु" । 1.49 ।
इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।

"अमोहाय गुणा विष्णोराकारश्चिच्छरीरता । 1.50 ।
निर्दोषत्वं त् आरतम्यं मुक्तानामपि चोच्यते ।
एतद्विरुद्धं यत् सर्वं तन्मोहाय इति निर्णयः " । 1.51 ।
व्.स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।
शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् । 1.52 ।
"परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि । 1.53 ।
ज् ञानं विना तुया मुक्तिः साम्यं च मम विष्णुना ।
तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः । 1.54 ।
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा"6 । 1.55 ।
उक्तं पाद्मपुराणे चशैव एव शिवेन तु ।
यदुक्तं हरिणा पूर्वं उमायै प्राह तद्धरः । 1.56 ।
"त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा ।
द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु । 1.57 ।
स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु ।
मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा"7 । 1.58 ।
न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।
क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः । 1.59।
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।
वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा । 1.60 ।
"अस्य देवस्य मील् . हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्"8 । 1.61 ।
6 पद्म पु. 6.71.114-116 ।
7 पद्म पु. 6.71.106-107
8 ऋग्वेद 7.40.5
वि."स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीमम् उपहत्नुमुग्रम्"9 ।
"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्"10 । 1.62 ।
"एको नारायण आसीन्न ब्रह्मा न चशङ्करः " ।
"वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः " । 1.63 ।
"यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"11 । 1.64 ।
"यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"12 । 1.65 ।
"प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्"13 ।
"सत्यमेनं अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः " 14 । 1.66 ।
"यच्चिकेत सत्यमित् तन् न मोघं वसु स्पार्हमुत जेतोऽत दाता"15 ।
"सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये"16 । 1.67 ।
"सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।
सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् । 1.68 ।

असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।
जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः । 1.69 ।
जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।
जडेण्सयोर्जडानां च जडजीवभिदा तथा । 1.70 ।
पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।
9 ऋग्वेद 2.33.11
10 ऋग्वेद 10.125.5
11 मु. उ. 3.1.3
12 तै. उ. 2.1
13 ऋग्वेद 2.15.1
14 ऋग्वेद 4.17.5
15 ऋग्वेद 10.55.6
16 ऋग्वेद 8.3.4
विइ.मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा । 1.71 ।
क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः ।
आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः । 1.72 ।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।
एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः । 1.73 ।
मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणित् आ गुणैः ।
ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा" । 1.74 ।
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।
त् आत्पर्यं महदत्रेत्युक्तं "यो माम्"17 इति स्वयं तेन । 1.75 ।
"भूम्नो ज्यायस्त्वम्"18 इति ह्युक्तं सूत्रेषु निर्णयात् तेन । 19
तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन । 1.76 ।
"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्"20 । 1.77 ।
"विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।
मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । 1.78 ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।
सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे । 1.79 ।
त् आरतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।
एतद्विना न कस्यापि विमुक्तिः स्यात् कथञ्चन । 1.80 ।
17 भ. गी. 15.19
18 ब्र. सू. 3.3.59
19 "इति" शब्दः प्रकारवचनः । अनेन प्रकारेण "जन्माद्यस्य यतः " (ब्र. सू. 1.1.2),
"द्युम्भ्वाद्यायतनं स्वशब्दात्" (ब्र. सू. 1.3.1), "अक्षरमम्बरान्धृतेः " (ब्र. सू. 1.3.10),
"सर्वोपेता च तद्दर्शनाद्" (ब्र. सू. 2.1.31) इत्यादि सूत्रेषु उक्तं , इति भावः ।
अतः "सूत्रेषु" इति बहुवचनम् -भा. प्र.
20 क. उ. 1.2.23, मु. उ. 3.2.3

विइइ.पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च ।
निर्दोषत्वं गुणाद्रेकं ज् ञात्वा मुक्तिर्नचान्यथा । 1.81 ।
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।
तदावेशां स्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा । 1.82 ।
सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा । 1.83 ।
वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् ।
ज् ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् । 1.84 ।
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा । 1.85 ।
त्रिविधा जीवसऽ न्घास्तु देवमानुषदानवाः ।
तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा । 1.86 ।
मध्यमा मानुषा येतु सृतियोग्याः सदैव हि ।
अधमा निरयायैव दानवास्तु तमोलयाः । 1.87 ।
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।
देवानां निरयो नास्ति तमश्चापि कथञ्चन । 1.88 ।
नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् ।
मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते । 1.89 ।
असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् ।
यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् । 1.90 ।
तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।
स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा । 1.91 ।
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।
इx.आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः । 1.92 ।
यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः ।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः । 1.93 ।
तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।
एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः । 1.94 ।
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।
तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् । 1.95 ।
अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः ।
तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि । 1.96 ।
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।
द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन । 1.97 ।
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।
सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति । 1.98 ।
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये" ।
भविष्यत्पर्ववचनमित्येतदखिलं परम् । 1.99 ।
"ण्सृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यं अतिनेनीयमानः ।

एधमानद्विल् . उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । 1.100 ।
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति"21 । 1.101 ।
"तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते"22 ।
21 ऋग्वेद 6.47.16-17
22 तै. आ. 3.12.17
x."तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"23 । 1.102 ।
"यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाण्सन्ते महात्मनः " 24 । 1.103 ।
"भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।
मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी । 1.104 ।
ज् ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते" ।
इत्यादि वेदवचनं साधनप्रविधायकम् । 1.105 ।
"निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे ।
सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते" । 1.106 ।
"धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।
पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे" । 1.107 ।
"भक्त्या त्वनन्यया ण्सक्य अहमेवं विधोऽर्जुन ।
ज् ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप"25 । 1.108 ।
"अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् । 1.109 ।
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।
पतितानां तमस्यन्धे निः शेषसुखवर्जिते । 1.110 ।
जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा ।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च । 1.111 ।
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः । 1.112 ।
23 श्वे. उ. 3.8
24 श्वे. उ. 6.23
25 भ. गी. 11.54
xइ.एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।
अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा । 1.113 ।
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।
सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति । 1.114 ।
यथा ण्सौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।
सुखज्ञानादिकं रूपं एवं भक्तेर्न चान्यथा । 1.115 ।
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।
स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् । 1.116 ।
ब्रह्मादीनां च मुक्तानां त् आरतम्ये तु कारणम् ।
त् आरतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत् । 1.117 ।

मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ ।
दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न सं शयः । 1.118 ।
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृत् आः ।
किञ्चिद्भक्तियुता नित्यं उत्तमास्तेन मोक्षिणः । 1.119 ।
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः " ।
इत्यादीनि च वाक्यानि पुराणेषु पृथक् पृथक् । 1.120 ।
"षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपादश्चतुर्हस्तो द्वात्रिं शल्लक्षणैर्युतः ।
असं शयः सं शयच्छिद् गुरुरुक्तो मनीषिभिः । 1.121 ।
तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।
अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः । 1.122 ।
क्रमाल्लक्षणहीनाण्स्च लक्षणालक्षणैः समाः ।
मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः । 1.123 ।
xइइ.सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः ।
शिष्याय सत्यं भवति तत्सर्वं नात्र सं शयः । 1.124 ।
अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।
नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ ।
न तत् सत्यं भवेत् तस्माद् अर्चनीयो गुरुः सदा । 1.125 ।
स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित् ।
मर्यादार्थं तेऽपि पूज्या न तु यद्वत् परो गुरुः " ।
इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् । 1.126 ।
"यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् ।
रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् । 1.127 ।
यान्ति पूर्वाण्युत्तराणि नश्लेषं यान्ति कानिचित् ।
मोक्षण्स्च नियतस्तस्मात् स्वयोग्यहरिदर्शने" । 1.128 ।
भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा । 26
श्रुतिश्च तत्परा तद्वत् "तद्यथा"27 इत्यवदत् स्फुटम् । 1.129 ।
"मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् । 1.130 ।
उत्तरोत्तरवश्याण्स्च मुक्ता रुद्रपुरस्सराः ।
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः ।
स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन । 1.131 ।
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।
कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः । 1.132 ।
26 ऽएतत्सूत्रगम्ऽ इत्यस्य एतत् प्रमेयं सूत्रगम् ।
"तदधिगम उत्तरपूर्वाघयोरश्लेषविनाण्सौ तद्व्यपदेशाद्"
(ब्र. सू. 4.1.13) इति सूत्रगतम्, इत्यर्थः -भा. प्र.
27 छा. उ. 4.14.3
xइइइ.तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।
ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः । 1.133 ।

मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा ।
आण्स्रयस्तस्य भगवान् सदा नारायणः प्रभुः " । 1.134 ।
इति ऋग्यजुः सामाथर्वपञ्चरात्रेतिहासतः ।
पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः । 1.135 ।
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।
आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा । 1.136 ।
त् आत्पर्यं शास्त्राणां सर्वेषां उत्तमं मया प्रोक्तम् ।
प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ । 1.137 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः
xइव्.अथ द्वितीयोऽध्यायः
(वाक्योद्धारः )
ओं । जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् ।
निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः । 2.1 ।
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः ।
श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते । 2.2 ।
क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि ।
कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा । 2.3 ।
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः ।
उत्सन्नाः प्रायशः सर्वे कोट्यं शोऽपि न वर्तते । 2.4 ।
ग्रन्थोऽप्येवं विलुल् . इतः किम्वर्थो देवदुर्गमः ।
कलावेवं व्याकुलिते निर्णयाय प्रचोदितः । 2.5 ।
हरिणा निर्णयान् वच्मि विजानं स्तत्प्रसादतः ।
शास्त्रान्तराणि सञ्जानन् वेदां श्चास्य प्रसादतः । 2.6 ।
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।
यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः । 2.7 ।
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया ।
सङ्क्षेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः ।
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् । 2.8 ।
"भारतं सर्ववेदाण्स्च तुलामारोपिताः पुरा ।
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ।
व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्" । 2.9 ।
"महत्वाद् भारवत्वाच्च महाभारतमुच्यते ।
xव्.निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते"28 । 2.10 ।
"निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते ।
कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाण्सितम् । 2.11 ।
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः ।
सर्वेषां ज् ञानदो विष्णुर्यशोदातेति चोदितः । 2.12 ।
यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् ।

ज् ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम् । 2.13 ।
ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः ।
प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात् । 2.14 ।
भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः ।
मागधादिवधादेव दुर्योधनवधादपि । 2.15 ।
यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः ।
अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा । 2.16 ।
बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा ।
अन्यावेशनिमित्तं चेद्बलमन्यात्मकं हि तत् । 2.17 ।
देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा ।
स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन । 2.18 ।
तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च ।
बलं हि क्षत्रिये व्यक्तं ज् ञायते स्थूलदृष्टिभिः । 2.19 ।
ज् ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः ।
तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे । 2.20 ।
देवेष्वेव न चान्येषु वासुदेवप्रतीपतः ।
28 महा. 1.1.209 *
xवि.क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः ।
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च । 2.21 ।
अन्यत्र ब्राह्मणानां तु प्रमाणं ज् ञानमेव हि ।
क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता । 2.22 ।
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः ।
दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः । 2.23 ।
मत्स्यकूर्मवराहाण्स्च सिं हवामनभार्गवाः ।
राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा । 2.24 ।
कपिलो दत्त ऋषभौ शिं शुमारो रुचेः सुतः ।
नारायणो हरिः कृष्णस्तापसो मनुरेव च । 2.25 ।
महिदासस्तथा हं सः स्त्रीरूपो हयशीर्षवान् ।
तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः । 2.26 ।
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन ।
न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित् । 2.27 ।
श्रीब्रह्मरुद्रशेषाण्स्च वीन्द्रेन्द्रौ काम एव च ।
कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः । 2.28 ।
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा ।
मनुपुत्राण्स्च ऋषयो नारदः पर्वतस्तथा । 2.29 ।
कश्यपः सनकाद्याण्स्च वह्न्याद्याण्स्चैव देवताः ।
भरतः कार्तवीर्यश्च वैन्याद्याण्स्चक्रवर्तिनः । 2.30 ।
गयश्च लक्ष्मणाद्याण्स्च त्रयो रोहिणिनन्दनः ।
प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः । 2.31 ।
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः ।

वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः । 2.32 ।
xविइ.तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः ।
अन्तरङ्गं हनूमां श्च भीमस्तत्कार्यसाधकौ । 2.33 ।
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा ।
वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः । 2.34 ।
यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः ।
रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत् । 2.35 ।
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः ।
यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः । 2.36 ।
तच्च नैसर्गिकं रूपं द्वात्रिं शल्लक्षणैर्युतम् ।
नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन । 2.37 ।
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति ।
न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन । 2.38 ।
तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा ।
सत्यभामेत्यादिरूपा ण्स्रीः सर्वपरमा मता । 2.39 ।
ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा ।
भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः । 2.40 ।
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु ।
द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा । 2.41 ।
बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः ।
नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे । 2.42 ।
रामवज्जाम्बवत्याद्याः षट्ततो रेवती तथा ।
लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ ।
शत्रुघ्नस्तु ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः । 2.43 ।
xविइइ.रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा ।
तैः पूरितं तत् कृष्णाय बीभत्स्वाद्यैः समन्ततः । 2.44 ।
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् ।
कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् ।
विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः । 2.45 ।
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः ।
नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् ।
अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः । 2.46 ।
पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः ।
प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम् । 2.47 ।
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमास्यया ।
तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित् ।
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्" । 2.48 ।
इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् ।
मार्कण्डेयेऽपि कथितं भारतस्य प्रशं सनम् । 2.49 ।
"देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः ।

आयुधानां यथा वज्रमोषधीनां यथा यवाः ।
तथैव सर्वशास्त्राणां महाभारतमुत्तमम्" । 2.50 ।
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशं सनम् । 29
"कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्"30 । 2.51 ।
एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् ।
उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः । 2.52 ।
29 "कृष्णद्वैपायनं व्यासम्" इति श्लोकः न केवलं वॣअयुप्रोक्तेऽस्ति ।
किन्तु भारतेऽप्यस्तीति ज् ञेयम् -भा. प्र.
30 पद्म पु. 1.1.43-44; विष्णु पु. 3.4-5; महा. 12.334.9 ।
xइx.भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु।
तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः । 2.53 ।
"नारायणं सुरगुरुं जगदेकनाथं
भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं
वन्दे भवघ्नममरासुरसिद्धवन्द्यम्" । 2.54। 31
ज् ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः ।
भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसं स्थः । 2.55 ।
निर्दोषकः सृतिविहीन उदारपूर्णसं विद्गुणः प्रथमकृत् सकलात्मशक्तिः ।
मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे । 2.56 ।
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता ।
इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव । 2.57 ।
"कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः ।
कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः " । 2.58 ।
सृष्टा ब्रह्मादयो देवा निहता येन दानवाः ।
तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे । 2.59 ।
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् ।
उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम् । 2.60 ।
अथ च दैत्यहतिस्तमसि स्थिरा नियतसं स्थितिरेव न चान्यथा ।
तनुविभागकृतिः सकलेष्वियं नहि विशेषकृत् आ सुरदैत्यगा । 2.61 ।
31 ऽक्वचिदन्तरितानपिऽ इति वचनात्, इदमाद्यपद्यमसहमानाः केचिदादौ न लिखन्ति ।
केरल् . अदेशस्य पुरातनपुस्तकेषु अद्यापि दृश्यते । कथमन्यथा लोकाचार्यो व्यासः
लक्षपरिमितं ग्रन्थं कुर्वन् ग्रन्थादौ लोकशिक्षणाय मङ्गल् . अपद्यं न रचयेत्?
यतोऽल्पीयसि ग्रन्थे भागवते हरिवं शादौ च "सत्यं परं धीमहि" इति,
"सोऽनादिर्वासुदेवः शमयतु दुरितं जन्मजन्मार्जितम्" इति च लोकशिक्षणार्थं
मङ्गल् . अमकरोत् । अतो अस्मिन्महाग्रन्थे सकलशिष्टानां गुरुर्व्यासः मङ्गल् . अमाचरेदेवेति
ज्ञेयम् । -भा. प्र.
xx.तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् ।
प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा । 2.62 ।
"नमो भगवते तस्मै व्यासायामिततेजसे ।

यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् । 2.63 ।
वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः ।
प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम् । 2.64 ।
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्" । 2.65 ।
आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः ।
तस्मात् समस्ता हरिसद्गुणानां निर्णीतये भारतगा कथैषा । 2.66 ।
"सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्" । 2.67 ।
"आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा" । 2.68 ।
"स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः " । 2.69 ।
"को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः ।
तद्विधश्चापरो नास्ति तस्मात् तं वेद सः स्वयम् । 2.70 ।
को हि तं वेदितुं शक्तो नारायणमनामयम् ।
ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात् । 2.71 ।
अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव । 2.72 ।
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
xxइ.परमात् परमेतस्माद् विश्वरूपान्न विद्यते । 2.73 ।
वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः ।
नायं दशरथाज्जातो न चापि जमदग्नितः । 2.74 ।
ज् आयते नैव कुत्रापि म्रियते कुत एव तु ।
न वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् ।
कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः । 2.75 ।
ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः ।
कर्माणि कुरुते नित्यं कीनाण्स इव दुर्बलः । 2.76 ।
नाऽत्मानं वेद मुग्धोऽयं दुःखी सीत् आं च मार्गते ।
बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी । 2.77 ।
मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः ।
अजानन् पृच्छति स्मान्यां स्तनुं त्यक्त्वा दिवं गतः । 2.78 ।
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् ।
अविद्यमानमेवेशः कुहकं तद् विदुः सुराः । 2.79 ।
प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः ।
निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु । 2.80 ।
दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् ।
यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः " । 2.81 ।
"ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते"32 । 2.82 ।

"अहं कृत्स्नस्य जगतः प्रभवः प्रल् . अयस्तथा ।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय"33 । 2.83 ।
32 भ. गी. 7.2
33 भ. गी. 7.6-7
xxइइ."अवजानन्ति मां मूढा मानुषीं तनुमाण्स्रितम्"34 ।
"मोघाण्सा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः " 35 । 2.84 ।
"महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाण्स्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्"36 । 2.85 ।
"पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव"37 । 2.86 ।
"परं भूयः प्रवक्ष्यामि ज् ञानानां ज् ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः " 38 । 2.87 ।
"ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत"39 । 2.88 ।
"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । 2.89 ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । 2.90 ।
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । 2.91 ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत । 2.92 ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
34 भ. गी. 9.11
35 भ. गी. 9.12
36 भ. गी. 9.13
37 भ. गी. 11.43
38 भ. गी. 14.1
39 भ. गी. 14.3
xxइइइ.एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत"40 । 2.93 ।
"द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु" 41 । 2.94 ।
"असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्"42 ।
"ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी" 43 । 2.95 ।
"मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः " 44 ।
"तानहं द्विषतः क्रूरान् सं सारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु"45 । 2.96 ।
"आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्"46 । 2.97 ।

"सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्"47 । 2.98 ।
"सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्"48 । 2.99 ।
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे"49 । 2.100 ।
"पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते"50 । 2.101 ।
40 भ. गी. 15.16-20
41 भ. गी. 16.6
42 भ. गी. 16.8
43 भ. गी. 16.14
44 भ. गी. 16.18
45 भ. गी. 16.19
46 भ. गी. 16.20
47 भ. गी. 18.20
48 भ. गी. 18.64
49 भ. गी. 18.65
50 महा. 12.337.63 *
xxइव्."ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाण्सुपतादिषु ।
यथायोगं यथान्यायं निष्ठा नारायणः परः " 51 । 2.102 ।
"पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते"52 । 2.103 ।
(जनमेजय उवाच)
"बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषण्स्रेष्ठस्तं भवान् वक्तुमर्हति"53 । 2.104 ।
वैशम्पायन उवाच -
"नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्"54 । 2.105 ।
"आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते ।
तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्" । 2.106 ।
"अहं ब्रह्मा चाऽद्य ईशः प्रजानां
तस्माज्जातस्त्वं च मत्तः प्रसूतः ।
मत्तो जगत् स्थावरं जङ्गमं च
सर्वे वेदा सरहस्याण्स्च पुत्र" । 2.107 ।
तथैव भीमवचनं धर्मजं प्रत्युदीरितम् ।
"ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणां शकः ।
नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा । 2.108 ।
51 महा. 12.337.64 *

52 महा. 12.337.67 *
53 महा. 12.338.1 *
54 महा. 12.338.2-3 *
xxव्.स एष भगवान् कृष्णो नैव केवलमानुषः ।
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः " । 2.109 ।
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति ।
"रुद्रं समाण्स्रिता देवा रुद्रो ब्रह्माणमाण्स्रितः ।
ब्रह्मा मामाण्स्रितो नित्यं नाहं किञ्चिदुपाण्स्रितः । 2.110 ।
यथा"श्रितानि ज्योतीं षि ज्योतिः श्रेष्ठं दिवाकरम् ।
एवं मुक्तगणाः सर्वे वासुदेवमुपाण्स्रिताः " । 2.111 ।
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् ।
"वासुदेवस्य महिमा भारते निर्णयोदितः । 2.112 ।
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः ।
तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम् । 2.113 ।
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः ।
उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना । 2.114 ।
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता ।
समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि । 2.115 ।
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते ।
आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम् । 2.116 ।
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् ।
तस्माद् विष्णोर्हि महिमा भारतोक्तो यथार्थतः । 2.117 ।
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः ।
प्रथमो हनुमान् नाम द्वितीयो भीम एव च ।
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः । 2.118 ।
त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया ।
एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती । 2.119 ।
xxवि.शं रूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते ।
सैव च द्रौपदी नाम काल् . ई चन्द्रेति चोच्यते । 2.120 ।
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः ।
प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च । 2.121 ।
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू ।
इन्द्रे नरां शसम्पत्त्या पार्थोऽपीषत् तदात्मकः । 2.122 ।
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु।
चरितं वैष्णवानां तद् विष्णूद्रेकाय कथ्यते" । 2.123 ।
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् ।
"मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।
कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीत् आकृत् आनि व्यसनानीश्वरस्य । 2.124 ।
न वै स आत्माऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्"55 । 2.125 ।

यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति ।
स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसऽ न्गिनामिति रतिं प्रथयं श्चचार । 2.126 ।
"क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान् ।
नमत्यर्चयति स्तौति वरानर्थयतेऽपि च । 2.127 ।
लि ङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् ।
सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा ।
सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः " । 2.128 ।
तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि ।
नान्यदित्येष ण्सास्त्राणां निर्णयः समुदाहृतः ।
55 भा. पु. 5.19.5-6
xxविइ.भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि । 2.129 ।
"मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे ।
तथोपरिचराद्यन्ये भारतं परिचक्षते"56 । 2.130।
"सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते ।
प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते । 2.131 ।
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ ।
सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः । 2.132 ।
नारायणस्य नामानि सर्वाणि वचनानि तु ।
तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः । 2.133 ।
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः ।
योगः प्राणो बलं चैव वृकोदर इति स्मृतः । 2.134 ।
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः ।
सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती । 2.135 ।
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः ।
विपरीतं तु यज्ज्ञानं दुः शासन इतीरितः । 2.136 ।
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे ।
धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः । 2.137 ।
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः ।
पाण्डवेयाण्स्च पुण्यानि तेषां विष्णुर्नियोजकः । 2.138 ।
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते ।
दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि । 2.139 ।
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः ।
56 महा. 1.1.50 *
xxविइइ.तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः " । 2.140 ।
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते ।
वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते । 2.141 ।
"वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः ।
न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन" । 2.142 ।
"ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे ।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव" । 2.143 ।

"बल् . इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीम् उपह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः । 2.144 ।
पृक्षो वपुः पितुमान् नित्य आण्सये द्वितीयम् आ सप्तशिवासु मातृषु ।
तृतीयम् अस्य वृष्भस्य दोहसे दशप्रमतिं जनयन्त योषणः । 2.145 ।
निर्यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यद् ईम् अनु प्रदिवो मध्व आधवे गुहासन्तम् मातरिश्वा मथायति । 2.146 ।
प्र यत् पितुः परमान् नीयते पर्या पृक्षुधो वीरुधो दं सु रोहति ।
उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा ण्सुचिः । 2.147 ।
आद् इन् मातृराविशद् यास्वा ण्सुचिर् अहिं स्यमान उर्विया विवावृधे ।
अनुयत् पूर्वा अरुहत् सनाजुवो नि नव्यशीष्ववरासु धावते"57 । 2.148 ।
"अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः " । 2.149 ।
"बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।
बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः " । 2.150 ।
"वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
57 ऋग्वेद 1.141.1-5
xxइx.अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः " । 2.151 ।
"तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे ।
वेगे च लाघवे चैव प्रलापस्य च वर्जने । 2.152 ।
भीमसेनसमो नास्ति सेनयोरुभयोरपि ।
पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च" । 2.153 ।
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् ।
"धर्मश्चार्थश्च कामश्च मोक्षण्स्चैव यशो ध्रुवम् ।
त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत" । 2.154 ।
विराटपर्वगं चापि वचो दुर्योधनस्य हि । 58
"वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये ।
सत्त्वे बाहुबले धैर्ये प्राणे ण्सारीरसम्भवे । 2.155 ।
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ।
चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः । 2.156 ।
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।
अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः " । 2.157 ।
वचनं वासुदेवस्य तथोद्योगगतं परम् ।
"यत् किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम् । 2.158 ।
यादृशे च कुले जातः सर्वराजाभिपूजिते ।
58 "वीराणां शास्त्रविदुषाम्", "नास्ति नारायणसमम्" इत्यादि महाभारताद्युक्तानि
भगवत्पादैरुदाहृतानि मुद्रितपुस्तकेषु अनुपलभ्यत्वेऽपि प्राचीनकोशेषु
प्रायशः दृष्यन्ते ।
xxx.यादृशानि च कर्माणि भीम त्वमसि तादृशः " 59 । 2.159।

"अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन वोढव्या वोढव्य इतरो जनः " 60 ।
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च । 2.160 ।
"यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः ।
माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ । 2.161 ।
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् ।
चतुर्मुखाभां श्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ" । 2.162 ।
"यस्याधिको बले नास्ति भीमसेनमृते क्वचित् ।
न विज्ञाने न च ज्ञान एष रामः स लाङ्गली" । 2.163 ।
"यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित् ।
अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः " । 2.164 ।
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् ।
"अनुज्ञातो रौहिणेयात् त्वया चैवापराजित ।
सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना । 2.165 ।
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् ।
वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते" । 2.166 ।
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् ।
"अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम् ।
अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन" । 2.167 ।
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् ।
59 महा. 5.75.3-4 *
60 महा. 5.75.18 *
xxxइ."द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ ।
भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च" । 2.168 ।
"अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः ।
गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः " । 2.169 ।
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते ।
कानिचिद् दर्शितान्यत्र दिण्मात्रप्रतिपत्तये । 2.170 ।
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः ।
अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् । 2.171 ।
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् ।
श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव । 2.172 ।
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसं सृतिदुस्तरार्णात् ।
यत्पादपद्ममकरन्दजुषो हिपार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् । 2.173 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
वॣअक्योद्धारो नाम द्वितीयोऽध्यायः
xxxइइ.(सर्गानुसर्ग-लय-प्रादुर्भावनिर्णयः )
अथ तृतीयोऽध्यायः
ओं । जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली ।

स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः । 3.1 ।
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः ।
स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः । 3.2 ।
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः ।
सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः । 3.3 ।
"नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये"61 । 3.4।
जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः ।
वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता । 3.5 ।
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः ।
एकः स भगवानुक्तः साधकेशो नरोत्तमः । 3.6 ।
उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् ।
सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः ।
कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हिभारते । 3.7 ।
सर्वस्य निर्णयसुवाक्यसमुद्धृती तुस्वाध्याययोर्हरिपदस्मरणेन कृत्वा ।
आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य । 3.8 ।
व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽर ।
रूपेण पूर्वेण सवासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः । 3.9 ।
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसं विदात्मा ।
वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि । 3.10 ।
61 महा. आदि. 1.1 *
xxxइइइ.सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे ।
प्रजज्ञतुर्यमल् . ए तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री । 3.11 ।
श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुं सैव च सूत्रनाम्ना ।
हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णण्स्च तयोः सहैव । 3.12 ।
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् ।
तौ वाहनं शयनं चैव विष्णोः काला जयाद्याण्स्च तत प्रसूताः । 3.13 ।
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः ।
नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः । 3.14 ।
व्यूहात् तृतीयात् पुनरेव विष्णोर्देवां श्चतुर्वर्णगतान् समस्तान् ।
सङ्गृह्य बीज् आत्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम् । 3.15 ।
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी ।
तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम् । 3.16 ।
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् ।
दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम् । 3.17 ।
पुं सः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः ।
ज् आताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् ।
शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाण्स्च जाताः । 3.18 ।
पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् ।
सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि ।

मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc