महाभारततात्पर्यनिर्णय · भाग 181200
इत्युक्तोऽसौ दूत एत्याऽह तस्मै स चाभ्यागाद् योद्धुकामो हरिश्च । 22.200 ।
तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम् ।
श्रीवत्सार्थे दग्धवक्षस्थलं च दृष्ट्वा कृष्णः प्राहसत् पापबुद्धिम् । 22.201 ।
ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव ।
चकर्त तत्कन्धरं तस्य चानु मातामहस्याच्छिनत् सायकेन । 22.202 ।
अपातयच्चाऽशु शिरः स तेन काण्सीश्वरस्येश्वरो वारणास्याम् ।
स च ब्रह्माहं वासुदेवोऽस्मि नित्यमिति ज्ञानादगमत् तत् तमोऽन्धम् । 22.203 ।
साहाय्यकृच्चास्य च काण्सिराजो यथैव किर्मीरहिडिम्बसाल्वाः ।
अन्ये च दैत्या अपतं स्तमोऽन्धे तथैव सोऽप्यपतत् पापबुद्धिः । 22.204 ।
निहत्य तौ केशवो रौग्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः ।
स चैकलव्यो रामजितः शिवाय चक्रे तपोऽजेयतां चाऽप तस्मात् । 22.205 ।
स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाऽससाद ।
तस्यास्त्रशस्त्राणि निवार्य केशवश्चक्रेण चक्रे तमपास्तकन्धरम् ।
स चाऽप पापस्तम एव घोरं कृष्णद्वेषान्नित्यदुःखात्मकं तत् । 22.206 ।
च्च्च्xइइइ.एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काण्सिनृपे च पापे ।
काण्सीशपुत्रस्तु सुदक्षिणाख्यस्तपोऽचरच्छङ्करायोरुभक्त्या । 22.207 ।
प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः ।
कृत्यामस्मै दक्षिणाग्नौ शिवोऽपि दैत्यावेशादददादावृत् आत्मा । 22.208।
स दक्षिणाग्निश्चासुरावेशयुक्तः सम्पूजितः काण्सिराजात्मजेन ।
वरादुमेशस्य विवृद्धशक्तिर्ययौ कृष्णो यत्र सम्पूर्णण्सक्तिः । 22.209 ।
कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः ।
ज् आज्वल्यमानं तदमोघवीर्यं व्यद्रावयद् वह्निमिमं सुदूरम् । 22.210 ।
कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्चक्रविद्रावितोऽथ ।
सहानुबन्धं च सुदक्षिणं तं भस्मीचकाराऽशु सपुत्रभार्याम् । 22.211 ।
दग्ध्वा पुरीं वारणसीं सुदर्शनः पुनः पार्श्वं वासुदेवस्य चाऽगात् ।
सुदक्षिणोऽसौ तम एव जग्मिवान् कृष्णद्वेषात् सानुबन्धः सुपापः । 22.212 ।
कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः क्वचिदाह स्म भैष्मीम् ।
विडम्बयन् गृहिणामेव चेष्टा नित्याविरोधोऽपि तया विदोषया । 22.213 ।
त्वया नकार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव ।
समाहृत् आऽसीति सा चावियोगं सदा कृष्णेनाऽत्मनोऽप्येव वेत्त्री । 22.214 ।
स्त्रिया भेतव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवाऽस देवी ।
त् आं सान्त्वयामास गृहस्थधर्मं विज्ञापयन् देवदेवोऽप्यदुःखाम् । 22.215 ।
एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः ।
प्रायाद् दृष्ट्वा तत्र नन्दं यशोदां तत्पूजितः कृष्णवार्तां च पृष्टः । 22.216 ।
मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च ।
मत्तोऽयमित्येव नदीमनागतां चकर्ष रामो लाङ्गलेनाग्र्यवीर्यः । 22.217 ।
पुनस्तया प्रणतः सं स्तुतश्च व्यसर्जयत् तामथ नन्दगोपम् ।
आपृच्छ्य जगाद द्वारकां केशवाय न्यवेदयन्नन्दगोपादिभक्तिम् । 22.218 ।
च्च्च्xइव्.तदैव मैन्दो विविदश्च भौमे हते सखायौ दानवावेशयुक्तौ ।
आनर्तराष्ट्रं वासुदेवप्रतीपौ व्यनाण्सयेतां वासुदेवोऽथ चोचे । 22.219 ।
रामाय सोऽदाद् वरमब्जनाभो वध्यावेतौ भवतां तेऽप्यवध्यौ ।
वराद् विरिञ्चस्य तथाऽमृत् आण्सनादुभौ च मैन्दो विविदो व्रजेति । 22.220 ।
गत्वा स मैन्दं प्रथमं जघान क्रोधात् युद्धायाऽगतं रैवताग्रे ।
दिने परस्मिन् विविदं जघान शिला वर्षन्तं मुसलेनाग्र्यकर्मा ।
तयोराविष्टौ तावसुरौ तमोऽन्धं प्राप्तौ च तावश्विनौ स्वं च लोकम् । 22.221 ।
दुर्योधनस्याऽस पुत्री रतिर्या पूर्वं नाम्ना लक्षणा कान्तरूपा ।
स्वयम्बरस्थां त् आं बलादेव साम्बो जग्राह सा चैनमासानुरक्ता । 22.222 ।
बलाद् गृहीत् आं वीक्ष्य तां कर्णमुख्या दुर्योधनाद्या युयुधुः क्रोधदीप्ताः ।
कृच्छ्रेण तं विरथीकृत्य चैकं सर्वे समेता जगृहुर्धार्तराष्ट्राः ।
कर्णेन भूरिश्रवसा चसार्द्धं बाह्वोर्बलादेव दुर्योधनस्य । 22.223 ।
श्रुत्वैव तद् वृष्णयः सर्व एव समुद्यमं चक्रिरे कौरवेषु ।
निवार्य तान् बलभद्रः स्वयं ययौ सहोद्धवः कौरवेयाञ्छमार्थी । 22.224 ।
पुरस्य बाह्योपवने स्थितः स प्रास्थापयच्चोद्धवं कौरवार्थे ।
आगत्य सर्वे कुरवोऽस्य पूजां चक्रुः स चाऽहोग्रसेनस्य चाऽज्ञाम् । 22.225 ।
आज्ञापयद् वो नृपतिः स्म यन्नः कुमारकः प्रगृहीतो भवद्भिः ।
एकः समेतैर्बहुभिर्बान्धवार्थं क्षान्तं तन्नो मुञ्चताऽश्वेव साम्बम् । 22.226 ।
आज्ञापयामास व उग्रसेन इत्युक्तमेव तु निशम्य कुरुप्रवीराः ।
सं श्राव्य दुष्टवचनानि बलं पुरं स्वं क्रोधात् समाविविशुरत्र चुकोप रामः । 22.227 ।
स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले ।
निपातयन् निवारितः प्रणम्य सर्वकौरवैः । 22.228 ।
सभार्यमाण्सु पुत्रकं सुयोधनाभिपूजितम् ।
सपारिबर्हमाप्य च प्रजग्मिवान् स्वकां पुरम् । 22.229 ।
च्च्च्xव्.इत्यादिकर्माणि महान्ति रामस्याऽसञ्छेषस्याच्युतावेशिनोऽलम् ।
यस्याच्युतावेशविशेषकालं ज् ञात्वा भीमोऽप्यस्य नोदेति युद्धे । 22.230 ।
क्रीडायुद्धे बहुशो रौहिणेये व्यक्तिं विष्णोर्भीमसेनो विदित्वा ।
त् आत्कालिकीं क्रीडमानोऽपि तेन नैवोद्यमं कुरुते विष्णुभक्त्या । 22.231 ।
तदा जयी प्रभवत्येष रामो नातिव्यक्तस्तत्र यदा जनार्दनः ।
तदा भीमो विजयी स्यात् सदैव विष्णोः केशावेशवान् यत् स रामः । 22.232 ।
एतादृशेनैव रामेण युक्ते कृष्णे द्वार्वत्यां निवसत्यब्जनाभे ।
स्वप्नेऽनिरुद्धेन रता कदाचिद् बाणात्मजोषा चित्रलेखामुवाच । 22.233 ।
तमानयेत्यथ सा चित्रवस्त्रे प्रदर्श्य लोकान् समदर्शयत् तम् ।
पौत्रं विदित्वा वचनाच्च तस्याः कृष्णस्य तं चाऽनयत् तत्र रात्रौ । 22.234 ।
अनिरुद्धं गुणोदारमानीतं चित्रलेखया ।
प्राप्य रेमे बाणसुता दिवसान् सुबहूनपि । 22.235 ।
गूढं कन्यागृहे तं तु ज्ञात्वा कन्याभिरक्षिणः ।
ऊचुर्बाणायादिशच्च किङ्करान् ग्रहणेऽस्य सः । 22.236 ।
आगताननिरुद्धस्तान् परिघेण महाबलः ।
निहत्य द्रावयामास स्वयमायात् ततोऽसुरः ।
स तु युद्ध्वाऽतिकृच्छ्रेण नागास्त्रेण बबन्ध तम् । 22.237 ।
अथ कृष्णः समारुह्य गरुडं रामसं युतः ।
प्रद्युम्नेन च तत्रागात् प्रथमं तत्र वह्निभिः । 22.238 ।
युद्ध्वैवाङ्गिरसा चैव क्षणाद् विद्राप्य तान् हरिः ।
विद्राप्य सर्वप्रमथानाससाद ज्वरं ततः । 22.239 ।
तेन भस्मप्रहारेण ज्वरितं रोहिणीसुतम् ।
आण्स्लिष्य विज्वरं चक्रे वासुदेवो जगत्प्रभुः । 22.240 ।
च्च्च्xवि.स्वयं विक्रीड्य तेनाथ कञ्चित् कालं जनार्दनः ।
निष्पिष्य मुष्टिभिश्चान्यं ससर्ज ज्वरमच्युतः । 22.241 ।
स्वयं जित्वाऽपि गिरिशभृत्यं नालमिति प्रभुः ।
स्वभृत्येनैव जेतव्य इत्यन्यं ससृजे तदा । 22.242 ।
ज्वरेण वैष्णवेनासौ सुभृशं पीडितस्तदा ।
ग्रासार्थमुपनीतश्च जगाम शरणं हरिम् ।
तेन स्तुतः स भगवान् मोचयामास तं विभुः । 22.243 ।
क्रीडार्थमत्यल्पजनेष्वपि प्रभुः कथञ्चिदेव व्यजयद् व्यथां विना ।
इत्यादि मोहाय स दर्शयत्यजो नित्यस्वतन्त्रस्य कुतो व्यथादयः । 22.244 ।
यदा ज्वराद्या अखिलाः प्रविद्रुतास्तदा स्वयं प्राप हरिं गिरीशः ।
तयोरभूद् युद्धमथैनमच्युतो विजृम्भयामास ह जृम्भणास्त्रतः । 22.245 ।
विजृम्भिते शङ्करे निष्प्रयत्ने स्थाणूपमे सं स्थिते कञ्जजातः ।
दैत्यावेशाद् वासुदेवानभिज्ञं सम्बोधयामास सदुक्तिभिर्विभुः । 22.246 ।
प्रगृह्य शर्वं च विवेश विष्णोः स तूदरं दर्शयामास तत्र ।
शिवस्य रूपं स्तम्भितं बिल्वनाम्नि वने गिरीशेन च यत् तपः कृतम् । 22.247 ।
शैवं पदं प्राप्तुमेवाच्युताच्च तच्चावदत् कञ्जजः शङ्करस्य ।
अपेतमोहोऽथ वृषध्वजो हरिं तुष्टाव बाणोऽभिससार केशवम् ।
तस्याच्युतो बाहुसहस्रमच्छिनत् पुनश्चारिं जगृहे तच्छिरोऽर्थे । 22.248 ।
तदा ण्सिवेन प्रणतो बाणरक्षणकाम्यया ।
कृत्वा स्वभक्तं बाणं तं ररक्ष द्विभुजीकृतम् ।
मोचयित्वाऽनिरुद्धं च ययौ बाणेन पूजितः । 22.249 ।
एवमग्नीनऽ न्गिरसं ज्वरं स्कन्दमुमापतिम् ।
बाणं चायत्नतो जित्वा प्रायाद् द्वारवतीं पुनः । 22.250 ।
येनायत्नेन विजितः सर्वलोकहरो हरः ।
किं ज्वरादिजयो विष्णोस्तस्यानन्तस्य कथ्यते । 22.251 ।
च्च्च्xविइ.ईदृशानन्तसङ्ख्यानां शिवानां ब्रह्मणामपि ।
रमाया अपि यद्वीक्षां विना न चलितुं बलम् । 22.252 ।
नच ज्ञानादयो भावा नचास्तित्वमपि क्वचित् ।
अनन्तशक्तेः कृष्णस्य न चित्रः शूलिनो जयः । 22.253 ।
चित्रलेखासमेतोषान्वितपौत्रसमन्वितः ।
सरामः ससुतो वीन्द्रमारुह्य द्वारकां गतः ।
रेमे तत्र चिरं कृष्णो नित्यानन्दो निजेच्छया । 22.254 ।
एवं विधान्यगणित् आनि यदूत्तमस्य कर्माण्यगण्यमहिमस्य महोत्सवस्य ।
नित्यं रमाकमलजन्मगिरीशशक्रसूर्यादिभिः परिनुतानि विमुक्तिदानि । 22.255 ।
एवं वसत्यमितपौरुषवीर्यसारे नारायणे स्वपुरि शक्रधनञ्जयोक्तः ।
सम्प्राप्य लोमशमुनिः सकलानि तीर्थान्याप्तुं स पाण्डुतनयेषु सहाय आसीत् । 22.256 ।
पृथ्वीं प्रदक्षिणत एत्य समस्ततीर्थस्नानं यथाक्रमत एव विधाय पार्थाः ।
सम्पूज्य तेषु निखिलेषु हरिं सुभक्त्या कृष्णे समर्पयितुमापुरथ प्रभासम् ।
सम्भावनाय सकलैर्यदुभिः समेतस्तेषां च रामसहितो हरिराजगाम । 22.257 ।
पार्थैः सम्पूजितस्तत्र कृष्णो यदुगणैः सह ।
पार्थान् सम्पूजयामासुर्वृष्णयश्चाऽज्ञया हरेः । 22.258 ।
तत्र भीमं तपोवेषं दृष्ट्वाऽतिस्नेहकारणात् ।
दुर्योधनं निन्दयति रामे सात्यकिरब्रवीत् । 22.259 ।
सर्वे वयं निहत्याद्य सकर्णान् धृतराष्ट्रज् आन् ।
अभिमन्युं स्थापयामो राज्ये यावत् त्रयोदशम् । 22.260 ।
सं वत्सरं समाप्यैव पुरं यास्यन्ति पाण्डवाः ।
ततो युधिष्ठिरो राजा राज्यं शासतु पूर्ववत् । 22.261 ।
एवं वदत्येव शिनिप्रवीरे जनार्दनः पार्थमुखान्युदीक्ष्य ।
उवाच शैनेय न पाण्डुपुत्राः परेण सं साधितराज्यकामाः । 22.262 ।
च्च्च्xविइइ.स्वबाहुवीर्येण निहत्य शत्रूनाप्स्यन्ति राज्यं त इतीरितेऽमुना ।
तथेति पार्था अवदं स्ततस्ते कृष्णं पुरस्कृत्य ययुर्दशार्हाः । 22.263 ।
क्रमेण पार्था अपि शैशिरं गिरिं समासदं स्तत्र कृष्णां सुदुर्गे ।
विषज्जन्तीमीक्ष्य तैः सम्स्मृतोऽथ हैडिम्ब आयात् सहितो निशाचरैः । 22.264 ।
उवाह कृष्णां स तु तस्य भृत्या ऊहुः पार्थां स्ते बदर्याण्स्रमं च ।
प्राप्यात्र नारायणपूजया कृतस्वकीयकार्या ययुरुत्तरां दिशम् । 22.265 ।
अतीत्य शर्वश्वशुरं गिरिं ते सुवर्णकूटं निषधं गिरिं च ।
मेरोः प्राच्यां गन्धमादे गिरौ च प्रापुर्बदर्याण्स्रममुत्तमं भुवि । 22.266 ।
तस्मिन् मुनीन्द्रैरभिपूज्यमाना नारायणं पूजयन्तः सदैव ।
चक्रुस्तपो ज्ञानसमाधियुक्तं सत्तत्त्वविद्यां प्रतिपादयन्तः । 22.267 ।
एवं बदर्यां विहरत्सु तेषु क्वचिद् रहः कृष्णया वायुसूनौ ।
स्थिते गरुत्मानुरगं जहार महाह्रदाद् वासुदेवासनाग्र्यः । 22.268 ।
तत्पक्षवातेन विचालिते तु तस्मिन् गिरौ कमलं हैममग्र्यम् ।
पपात कृष्णाभीमयोः सन्निधाने उद्यद्भानोर्मण्डलाभं सुगन्धम् । 22.269 ।
दृष्ट्वाऽतिगन्धं वरहेमकञ्जं कुतूहलाद् द्रौपदी भीमसेनम् ।
बहून्ययाचत् तादृशान्यानुभावमविषह्यं ज् आनती देवदैत्यैः । 22.270 ।
तयाऽर्थितः सगदस्तुङ्गमेनं गिरिं वेगादारुहद् वायुसूनुः ।
प्रशस्यमानः सुरसिद्धसङ्घैः मृत्नन् दैत्यान् सिं हशार्दूलरूपान् । 22.271 ।
आसेदिवां स्तत्र हनूमदाख्यं निजं रूपं प्रोद्यदादित्यभासम् ।
ज् आनन्नप्येनं स्वीयरूपं स भीमश्चिक्रीड एतेन यथा परेण । 22.272 ।
धर्मो देवानां परमो मानुषत्वे स्वीये रूपेऽप्यन्यवदेव वृत्तिः ।
अनादानं दिव्यशक्तेर्विशेषान्नरस्वभावे सर्वदा चैव वृत्तिः ।
तस्माद् भीमो हनुमां श्चैक एव ज्यायः कनीयोवृत्तिमत्राभिपेदे । 22.273 ।
च्च्च्xइx.सर्वे गुणा आवृत् आ मानुषत्वे युगानुसारान्मूलरूपानुसारात् ।
क्रमात् सुराणां भागतोऽव्यक्तरूपा आदानतो व्यक्तिमायान्त्युरूणाम् । 22.274 ।
नैवाव्यक्तिः काचिदस्तीह विष्णोः प्रादुर्भावेऽप्यतिसुव्यक्तशक्तेः ।
इच्छाव्यक्तिः प्रायशो मारुतस्य तदन्येषां व्यक्तता कारणेन । 22.275 ।
तस्माद् भीमो धर्मवृद्ध्यर्थमेव स्वीये रूपेऽप्यन्यवद् वृत्तिमेव ।
प्रदर्शयामास तथाऽसुराणां मोहायैवाण्सक्तवच्छक्तिरूपः । 22.276 ।
तद्रूपवृद्धिं भीमसेनोऽथ दृष्ट्वा ण्स्रुत्वा हनूमन्मुखतः कथाण्स्च ।
रामस्य तच्चातुरात्म्यं च दिव्यं चातुर्युगं धर्ममप्यग्र्यमेव । 22.277 ।
ध्वजाद् बीभत्सोर्गर्जनेनैव शत्रुपराभवे तेन दत्तेऽर्जुनस्य ।
ययौ प्रणम्यैनमाण्स्वेव भीमः सौगन्धिकं वनमत्यग्र्यरूपम् । 22.278 ।
नरागम्यां नल् . इनीमेत्य तत्र दृष्ट्वा पद्मान्यद्भुताकारवन्ति ।
हैमानि दिव्यान्यतिगन्धवन्ति सामासदद् वार्यमाणो नराण्सैः । 22.279 ।
ते भीममात्तायुधमुग्ररूपं महाबलं रूपनवावतारम् ।
न्यवारयन् क्रोधवशा समेताः शतं सहस्राण्यजितानि सङ्खे । 22.280 ।
वराच्छिवस्यैव परैरजेयाः शस्त्रास्त्रवृष्टिं मुमुचुः सुभीमाम् ।
भीमेऽखिलज्ञे तपसां निधाने बलोदधौ शैवशास्त्रं वदन्तः । 22.281 ।
त् आन् वैष्णवैरेव शास्त्रैः स भीमो विजित्य पूर्वं वाङ्मये सङ्गरे तु ।
शास्त्रास्त्रवर्षस्य कुर्वन् प्रतीपं जघ्नेऽखिलान् गदया तेषु वीरान् । 22.282 ।
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः । 22.283 ।
तत्रापरां श्चैव बहूनसत्यं निरीश्वरं चाप्रतिष्ठं च लोकम् ।
सिद्धोऽहमीशोऽहमिति ब्रुवाणान् गुणान् विष्णोः ख्यापयन् वादतोऽजैत् । 22.284 ।
भिन्नं विष्णुमधिकं सर्वतश्च ब्रुवन् प्रवीरान् लक्षमेषां निजघ्ने ।
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ।
च्च्च्xx.अण्सक्नुवन्तः सहिताः समस्ता हतप्रवीराः सहसा निवृत्त् आः । 22.285 ।
विक्रम्य तान् गदयाऽसौ निहत्य विद्राप्य सर्वान् नल् . इनीं प्रविश्य ।
पीत्वाऽमृत् आम्भश्च ततोऽम्बुजानि दिव्यानि जग्राह कुरुप्रवीरः । 22.286 ।
अथो कलहशं सीनि निमित्तानि युधिष्ठिरः ।
दृष्ट्वा कृष्णामपृच्छच्च क्व भीम इति दीनधीः । 22.287 ।
सौगन्धिकार्थं यातं तं श्रुत्वा कृष्णामुखान्नृपः ।
आरुह्य राक्षसश्रेष्ठान् कृष्णया भ्रातृभिः सह । 22.288 ।
ययौ वृकोदरो यत्र दृष्ट्वा चैनमवस्थितम् ।
उवाच मैवमित्येनं भीतो गिरिशकोपतः । 22.289 ।
देवेभ्यो मरणाद् भीत् आ राक्षसा वित्तपाज्ञया ।
तदीयां नल् . इनीं ते हि रक्षन्त्यस्याऽश्रयो हरः ।
ज् आनन् वित्तेश्वरो भीममाहात्म्यं न चुकोप ह । 22.290 ।
वसत्सु तत्र पार्थेषु पुनः कतिपयैर्दिनैः ।
उवाच भीमसेनस्य यशोधर्मादिभिवृद्धये । 22.291 ।
पञ्चवर्णानि पुष्पानि कृष्णा वीक्ष्याऽहृत् आनि तु ।
मारुतेन कुबेरस्य गृहान्नृभिरगम्यतः । 22.292 ।
अगम्योऽयं गिरिः सर्वैः कुबेरेणाभिपालितः ।
अद्य त्वयैव गन्तव्यो विधूयाखिलराक्षसान् । 22.293 ।
इत्युक्त आण्सु सगदः सधनुः सबाणो भीमो गिरीन्द्रमजितोरुबलो विगाहे ।
प्राप्तं निशाम्य बलदैवतसूनुमत्र पद्मत्रयं न्यरुणदुद्धतराक्षसानाम् । 22.294 ।
अग्रे निधाय मणिमन्तमजेयमुग्रं शम्भोर्वराद् विविधशस्त्रमहाभिवृष्ट्या ।
त् आन् सर्वराक्षसगणान् मणिमत्समेतान् भीमो जघान सपदि प्रवरैः शरौघैः । 22.295 ।
अवध्यां स्तान् क्षणेनैव हत्वा भीमो महाबलः ।
रणे क्रोधवशान् सर्वानतिष्ठद् गिरिमूर्द्धनि । 22.296 ।
च्च्च्xxइ.ते हता भीमसेनेन प्रापुरन्धन्धन्तमोऽखिलाः ।
हताः सौगन्धिकवने मणिमां श्च पुनः कलौ ।
ज् आतो मिथ्यामतिं सम्यगास्तीर्याऽपुस्तमोऽधिकम् । 22.297 ।
ततो वैश्रवणो राजा महापद्मत्रये हते ।
राक्षसानामवध्यानां सखाये मणिमत्यपि ।
आरुरोह रथं दिव्यं योद्धुकामो वृकोदरम् । 22.298 ।
असुरावेशतस्तस्य भीमे क्रोधो महानभूत् ।
स आजगाम भीमेन योद्धुं वित्तपतिः स्वयम् । 22.299 ।
तस्मिन् काले भीमसेनस्य घोषं श्रुत्वा राजाऽपृच्छदाण्सु स्म कृष्णाम् ।
क्व भीम इत्येव तयोदितं च श्रुत्वा जगामऽशु रक्षोऽं ससं स्थः । 22.300 ।
सभ्रातृके मुनिभिः कृष्णया च गते राजन्यत्र भीमं कुबेरः ।
दृष्ट्वाऽसुरावेशतो धर्मजं च किञ्चिन्मुक्तः स्नेहयुक्तस्तथाऽस । 22.301 ।
धृत् आयुधं भीममीक्ष्यापि किञ्चिद् दैत्यावेशाद् बहु मेने न भीमम् ।
अगस्त्यशापं चावदत् स्वस्य पूर्वं सखायनाण्से कारणं राजराजः । 22.302 ।
दैत्यावेशादुज्झितः शान्तभावो ददौ निजं स्थानमेषां सुतुष्टः ।
आवासार्थं तेऽवसं स्तत्र पार्थास्तथाऽन्येषां दैवतानां गृहेषु । 22.303 ।
तत्रैव तेषां वसतां महात्मनामानन्दिनामब्दचतुष्टये गते ।
पञ्चाब्दमध्याप्य महान्ति चास्त्राणीन्द्रो गुर्वर्थं फल्गुनेनार्थितोऽभूत् । 22.304 ।
वधं वव्रे स्वशत्रूणामिन्द्रः पार्थात् स्वरूपतः ।
निवातकवचाख्यानां येषां ब्रह्मा ददौ वरम् ।
अवध्यत्वं सुरैर्दैत्यैर्गन्धर्वैः पक्षिराक्षसैः । 22.305 ।
पुनरिन्द्रेणार्थितोऽदाज्जहीमान् नरदेहवान् ।
इति तेनार्जुनं शक्रः स्वात्मानं नरदेहगम् ।
जगाद तान् जहीत्येव किरीटं स्वं निबद्ध्य च । 22.306 ।
च्च्च्xxइइ.ऐन्द्रं स्यन्दनमारुह्य पार्थो मातलिसं युतः ।
गाण्डीवं धनुरादाय ययौ हन्तुं महासुरान् । 22.307 ।
शङ्खं ददुस्तस्य देवा देवदत्तः स शङ्खराट्।
नादयन् शङ्खघोषेण धनुर्विष्फरयन् महत् । 22.308 ।
दधानः कुण्डले दिव्ये शक्रदत्ते सुभास्वरे ।
आससाद पुरं दिव्यं दैत्यानामिन्द्रनन्दनः । 22.309 ।
तस्य शङ्खध्वनिं श्रुत्वा गाण्डीवस्य च निस्स्वनम् ।
अभिसस्रुर्महावीर्या निवातकवचासुराः । 22.310 ।
तिस्रः कोट्यो दानवानां स्वयम्भुवरगर्विताः ।
नानायुधै रणे पार्थमभ्यवर्षन् सुसं हताः । 22.311 ।
तेषां स शस्त्राणि किरीटमाली निवार्य गाण्डीवधनुः प्रमुक्तैः ।
शरैः शिरां सि प्रचकर्त वीरो महास्त्रशिक्षाबलसम्प्रयुक्तैः । 22.312 ।
सर्वे हतास्तेन महारथेन ते दानवाः सोऽपि ययौ तथाऽन्यान् ।
पौलोमकालेयगणाभिधानान् षष्टिं सहस्राणि महारथानाम् । 22.313 ।
त् आनस्त्रशस्त्राण्यभिवर्षमाणान् धनञ्जयः पाण्सुपतास्त्रतो द्राक् ।
दग्ध्वा ययौ पुनरेवेन्द्रसद्म तं सस्वजे प्रीतियुक्तश्च शक्रः । 22.314 ।
ययुरन्धं तमस्तेऽपि सर्वदेवद्विषोऽसुराः ।
अथानुज्ञाप्य पितरं रथेनैन्द्रेण भास्वता ।
सोदर्याणां सकाण्सं स ययौ वज्रधरात्मजः । 22.315 ।
आयान्तमीक्ष्य बीभत्सुं मुमुदुर्भ्रातरोऽधिकम् ।
ऊषुण्स्च चतुरोऽब्दां स्ते पुनर्मेरौ प्रमोदिनः । 22.316 ।
कथाभिर्वासुदेवस्य ध्यानेनाभ्यर्चनेन च ।
ययौ कालः सुखेनैव तेषां विष्णुरतात्मनाम् । 22.317 ।
नैव शत्रूननुत्साद्य नानादाय महद् यशः ।
च्च्च्xxइइइ.नाकृत्वा वासुदेवाज्ञां राज्ञां मुख्यगतिर्भवेत् । 22.318 ।
तदन्येषां तु वर्णानां क्षमा बाह्येषु ण्सत्रुषु ।
प्रायो धर्म इति प्रोक्तो हरेराज्ञाऽखिलस्य च । 22.319 ।
इति भीमवचः श्रुत्वा ससोदर्यो युधिष्ठिरः ।
राक्षसस्कन्धमारूढः कृष्णया चाऽययौ पुनः । 22.320 ।
पादेषु तेषु निवसत्सु हिमाचलस्य याम्याण्स्रितेषु पवमानसुतः कदाचित् ।
धन्वी मृगाननुचरन् सहसाऽससाद हाऽयोः सुतं नहुषमाजगरोरुरूपम् । 22.321 ।
पूर्वं हि वृत्रवधतोऽम्बुजनाल् . अतन्तुसं स्थे शचीप्रणयिनि प्रविचिन्त्य देवाः ।
चक्रुस्त्रिलोकपतिमायुसुतं वरं च दत्वाऽक्षिगोचरतपोऽस्य बलं च सर्वम् । 22.322 ।
स सर्वसुरविप्रेन्द्रतपश्च बलमक्षयम् ।
अवाप्य ववृधे नित्यं दर्पादैच्छच्छचीमपि । 22.323 ।
स इन्द्रवचनाच्छच्या महर्षिगणवाहने ।
नियुक्तो वञ्चनायैव वाहयामास तानृषीन् । 22.324 ।
स शचीप्रतिषेधार्थमगस्त्येन महात्मना ।
वेदप्रामाण्यविषये पृष्टो नेत्याह मूढधीः ।
प्रमाणमिति तेनोक्तः शिरस्येनं पदाऽहनत् । 22.325 ।
तदा भृगुं तस्य जटासु लीनं कदाऽपि तस्याक्षिपथं न यातम् ।
आविश्य कञ्जप्रभवः शशाप व्रजाऽशु पापाजगरत्वमेव । 22.326 ।
षष्ठे काले यस्त्वयाऽसादितः स्यात् स ते वशं यातु बलाधिकोऽपि ।
यदा गृहीतं पुरुषं निहन्तुं न शक्ष्यसे यदि स त्वद्गृहीतः ।
शक्तोऽपि नाऽत्मानमभिप्रमोचयेत् तदाऽस्य स्यात् त्वत्तपोऽग्र्यं बलं च । 22.327 ।
सर्वदेवमुनीनां यत् तपस्त्वां समुपाण्स्रितम् ।
तच्च सर्वं तमेवैति नात्र कार्या विचारणा । 22.328 ।
यदा प्रश्नां स्त्वदीयां श्च कश्चित् परिहरिष्यति ।
च्च्च्xxइव्.तदा गन्ताऽसि च दिवं विसृज्याऽजगरं तनुम् ।
स्मृतिश्च मत्प्रसादेन सर्वदा ते भविष्यति । 22.329 ।
भृगुदेहगतेनैवं शप्तः कमलयोनिना ।
पपाताजगरो भूत्वा नहुषः क्षणमात्रतः । 22.330 ।
इन्द्रोऽप्यवाप स्वं स्थानमिष्ट्वा विष्णुं विपापकः ।
धर्मवृद्ध्यर्थमेवैतत् पापमासीच्छचीपतेः । 22.331 ।
नहि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः ।
वृत्रं हत्वा महानासेत्यादि वेदपदं च यत् । 22.332 ।
क्वचित् पापं च पुण्यानां वृद्धये भवति स्फुटम् ।
वृत्रहत्या यथेन्द्रस्य जाता धर्मस्य वृद्धये । 22.333 ।
देवानां वा मुनीनां वा भवेदेवं नवै नृणाम् ।
पापं यत् पुण्यमेवैतदसुराणां विलोमतः ।
एवं स्कान्दे हि वचनं न पापं तच्छचीपतेः । 22.334 ।
नान्यस्य पदमाप्स्यन्ति तद् देवानां व्रतं परम् ।
तस्मात् ते नहुषं शक्रपदे निदधुरीश्वराः । 22.335 ।
तस्मिन्नेवं निपतिते ब्रह्मणः शापकारणात् ।
अष्टाविं शतिमे प्राप युगे भीमस्तमुल्बणम् ।
ज् आनन्नेव तदीयं तत् तप आदातुमीप्सया । 22.336 ।
यत्तत् सुराणां सर्वेषां मुनीनां च तपः स्थितम् ।
तद् गृहीतुं वशगवदिच्छयैवाऽस मारुतिः । 22.337 ।
देवानां हि नृज् आतानामल्पं व्यक्तं भवेद् बलम् ।
इच्छया व्यक्ततां याति वायोरन्येषु तच्च न । 22.338 ।
नित्यव्यक्ता गुणा विष्णोरिति शास्त्रस्य निर्णयः ।
एवमन्येऽपि हि गुणा मानुषादिषु जन्मसु । 22.339 ।
च्च्च्xxव्.देवानां मानुषादौ तु शक्येऽप्यव्यक्तताकृतेः ।
धर्मवृद्धिर्भवेत् तेषां प्रीतो भवति केशवः । 22.340 ।
तन्मानुषे बले तस्य वराद् वारितवत् स्थिते ।
दैवं बलं न शक्तोऽपि व्यक्तं चक्रे न मारुतिः । 22.341 ।
आत्ममोक्षाय न प्रश्नान् व्याजहार स चाभिभूः ।
विद्योपजीवनं धर्मो विप्राणामपि नो यतः । 22.342 ।
किमुत क्षत्रियस्येति जानन्नपि वृकोदरः ।
तत्प्रश्नपरिहारेण नाऽत्ममोक्षं समैच्छत । 22.343 ।
अयतन्तमपि ह्येनं चालनायापि नाण्सकत् ।
पूर्णोऽपि सर्वलोकानां बलेन नहुषस्तदा ।
वेष्टयित्वैव तं भीमं स्थितोऽसौ नाण्सकत् परम् । 22.344 ।
भ्रातृमात्रादिषु स्नेहात् क्षिप्रमात्मविमोक्षणम् ।
इच्छन्नपि न मोक्षाय यत्नं चक्रे वृकोदरः ।
सर्वदेवमुनीन्द्राणां तप आदातुमत्रगम् । 22.345 ।
भ्रात्रादिषु स्नेहवशान्न स्थातव्यमिहेत्यपि ।
मन्वानः कालतो भङ्गं स्वयमेवैष यास्यति ।
आज्ञया वासुदेवस्य दार्ढ्याद् देहस्य मे तथा । 22.346 ।
स्रस्ताङ्गे पतिते सर्पे यास्यामीति विचिन्तयन् ।
तस्थौ भीमो हरिं ध्यायन् स्वभावान्न तदिच्छया । 22.347 ।
तदैव ब्रह्मवचनात् पूर्वोक्तात् केशवाज्ञया ।
बलं तपश्च सर्वस्य तत्स्थमायाद् वृकोदरम् । 22.348 ।
पूरिते नहुषस्थेन तपसा च बलेन च ।
भीमे स नहुषोऽथाऽसीत् स्रस्तभोगः शनैः शनैः । 22.349 ।
गते भीमे निमित्तानि दृष्ट्वा राजा युधिष्ठिरः ।
पप्रच्छ क्व गतो भीम इति कृष्णां चलन्मनाः । 22.350 ।
च्च्च्xxवि.यातं मृगार्थं स निशम्य तस्यास्तदूरुवेगात् पतितान् नगेन्द्रान् ।
दृष्ट्वा पथा तेन ययौ स तत्र दृष्ट्वा च सर्पावृतमन्वपृच्छत् । 22.351 ।
स कारणं नहुषात् सर्वमेव शुश्राव तत्प्रश्नमशेषतश्च ।
भ्रातृस्नेहाद् व्याकरोद् धर्मसूनुस्तदैव सोऽप्यारुहत् स्वर्गलोकम् । 22.352 ।
दिव्याम्बरे कुण्डलिनि स्वपूर्वे गते विमानेन स धर्मराजः ।
भीमश्चाऽयात् स्वाण्स्रमायैव सर्वं युधिष्ठिरः कथयामास तत्र । 22.353 ।
श्रुत्वा कृष्णा भ्रातरश्चास्य सर्वे सर्वे मुनीन्द्रा भीमसेनेऽतिभक्ताः ।
व्रील् . आं ययुर्भीमसेनग्रहेण तथाऽब्रुवन् स्नेहतो भीमसेनम् । 22.354 ।
नैतादृशं साहसं तेऽनुरूपं शक्तोऽपि यत् स्वात्मनो मोक्षणाय ।
नैवाऽचरो यत्नमतो निजानां महद् दुःखं हृदये प्रार्पयस्त्वम् । 22.355 ।
मैवं पुनः कार्यमिति ब्रुवन्तः समाण्स्लिषन् सर्व एवैत्य भीमम् ।
ततोऽहोभिः कैश्चिदापुः कुरूणां राष्ट्रं पार्था मुनिमुख्यैः समेताः । 22.356 ।
ततोऽमितौजाभगवानुपागमन्नारायणः सत्यभामासहायः ।
सम्पूजितः पाण्डवैस्तैः समेतश्चक्रेऽथ सौहार्दनिमित्तसत्कथाः । 22.357 ।
कृष्णा च सत्या च परस्परं मुदा सम्भाषणं चक्रतुर्योषिदग्र्ये ।
परीक्षन्त्या सत्यया सर्ववेत्त्र्या निर्दोषया चोदिता प्राह कृष्णा । 22.358 ।
स्त्रीधर्मानखिलां स्तत्र सत्यां निर्दोषसं विदम् ।
ज् ञात्वाऽपि कृष्णा प्रोवाच लोकशिक्षार्थमेव तु । 22.359 ।
क्रीडार्थमेव वचनं ज् ञात्वा सत्यासमीरितम् ।
तस्यानुसारवाक्यानि तत्प्रीत्या एव साऽब्रवीत् । 22.360 ।
ततः कतिपयाहानि निरुष्यात्र जनार्दनः ।
ययौ सभार्यः स्वपुरीं पाण्डवाननुमान्य च । 22.361 ।
च्च्च्xxविइ.ततः कदाचिन्मृगयां गतेषु पार्थेषु राजा सैन्धव आससाद ।
सकोटिकाण्स्यः सबलश्च तेषां वराण्स्रमं सोऽत्र ददर्श कृष्णाम् । 22.362 ।
ब्रजन् विवाहार्थमसौ निशाम्य कृष्णां कोटिं प्रेषयित्वैव काण्स्यम् ।
आयाहि मामित्यवदत् सुपापस्तया निरस्तो जगृहे करे च । 22.363 ।
तया धुतो निपपाताऽशु भूमौ पुनश्च सज्जोऽभ्यपतद् विलज्जः ।
ततोऽसहायत्वत एव कृष्णा धौम्यायोक्त्वा साग्निरन्वेहि मेति ।
समारुहत् सैन्धवस्यैव यानं सुखं न यासीति तमीरयित्वा । 22.364 ।
तदा निमित्तानि निशाम्य पार्थाः समाययुस्त्वरयैवाऽश्रमाय ।
श्रुत्वा दासीवचनात् सर्वमेव चक्रुः क्षिप्रं सैन्धवस्यानुयानम् । 22.365 ।
आक्रोशमानं भीमसेनेति धौम्यं दृष्ट्वा तस्याग्रे सैन्धवं चातिपापम् ।
चक्रुर्नादान् सिं हवत् पाण्डुपुत्रा दृष्ट्वा कृष्णा चावतरद् रथात् तदा ।
धौम्येन सार्द्धं सा ययौ चाऽश्रमाय सैन्यं पार्थास्तत्र निजघ्नुरोजसा । 22.366 ।
अग्रे कृष्णां योऽवदत् सिन्धुराजं याहीति तं कोटिकाण्स्यं सुपापम् ।
छित्वा ण्सिरो मृत्यवे भीमसेनो निवेदयामास तमः स चागात् । 22.367 ।
हत्वा सेनामखिलां सैन्धवस्य भीमार्जुनौ सयमं धर्मराजम् ।
विसृज्य धावन्तमथानुजग्मतुर्जयद्रथं विरथं फल्गुनोऽकः । 22.368 ।
पद्भ्यां धावन्तं भीमसेनो निगृह्य दत्वा प्रहारां श्च भृशं तमार्तम् ।
आदायाधाद् द्रौपदीपादयोश्च तं मोचयामास च धर्मसूनुः । 22.369 ।
दासो द्रौपद्या अहमित्येव वाक्ये तेनैवोक्ते भीमसेनोऽप्यमुञ्चत् ।
स ब्रील् . इतोऽवाग्वदनो ययौ वनं पार्थाण्स्च तत्रोषुरतिप्रमोदिनः । 22.370 ।
मार्कण्डेयस्तदाऽगत्य तेषामकथयत् कथाः ।
बह्व्यश्चैव विचित्राण्स्च भाषात्रयसमन्विताः । 22.371 ।
लोकदर्शनमाण्स्रित्य देवाण्स्च मुनयस्तथा ।
ब्रूयुः कथास्तत्र शिक्षा ग्राह्या नार्थाः कथञ्चन । 22.372 ।
च्च्च्xxविइइ.अर्थः समाधिभाषासु ग्राह्यः सर्वोऽप्यसं शयम् ।
परदर्शनभाषासु ज्ञेयं तद्दर्शनं तथा । 22.373 ।
ग्राह्यो नार्थो वैदिकं तु दर्शनं ग्राह्यमेव च ।
अन्यार्थो गुह्यभाषासु ग्राह्य एवं विनिर्णयः । 22.374 ।
जयद्रथस्तु भीमेन तदा पञ्चशिखीकृतः ।
तपसा ण्सिवमारध्य वव्रे पाण्डवरोधनम् ।
ऋतेऽर्जुनादर्जुनस्य तुष्टो हि तपसा ण्सिवः । 22.375 ।
वने वसत्स्वेव च पाण्डवेषु चक्रे यज्ञं पौण्डरीकाख्यमेव ।
सं स्पर्धया राजसूयस्य राजा दुर्योधनो नाप्यसौ तत्कलार्हः । 22.376 ।
दुर्योधनस्याऽज्ञया पाण्डवानां दुः शासनः प्रेषयामास तत्रः ।
आगच्छतेत्यवमानाय तं तु भीमोऽवादीद् रणयज्ञं स्वगम्यम् । 22.377 ।
ततो दिनैः कैश्चन धार्तराष्ट्राः सकर्णगान्धारनृपाः कुमन्त्रतः ।
सभार्यकाः पाण्डवान् द्रौपदीं च महैश्वर्यं दर्शयित्वाऽवमन्तुम् । 22.378 ।
ते स्यन्दनैः काञ्चनरत्नचित्रैर्महागजैस्तुरगैः पत्तिभिश्च ।
स्वलङ्कृत् आण्स्चित्रमाल्याम्बराण्स्च विनिर्ययुर्द्वैतवनाय शीघ्रम् । 22.379 ।
गवां दृष्टिच्छद्मना निर्गतां स्तान् ज्ञात्वा ण्सक्रस्तेजसो भङ्गकामः ।
तत्सामर्थ्यं वरमस्मै प्रदाय तद्बन्धनायादिशच्चित्रसेनम् । 22.380 ।
स षष्टिसाहस्रककोटियूथपैर्गन्धर्वमुख्यैः सं वृतोऽगात् सरस्तत् ।
यस्मिन् स्नातुं वाञ्छति धार्तराष्ट्रस्तदाज्ञया पुरुषास्तानथोचुः । 22.381 ।
स्नातुं समायास्यति धार्तराष्ट्रो र् आजेश्वरो निस्सरध्वं तदस्मात् ।
तीर्थादाज्ञां धारयन्तश्च तस्येत्युक्ता गन्धर्वा जहसुस्तानथोच्चैः । 22.382 ।
ऊचुर्वयं मानयामस्तदाज्ञां त्रिलोकानां यः पतिः शक्रदेवः ।
न मानुषाणामपि चक्रवर्तिनां किम्वल्पसारस्य सुयोधनस्य । 22.383 ।
इतीरिते कुपितो धार्तराष्ट्रो जघान गन्धर्ववराञ्छरौघैः ।
च्च्च्xxइx.जघ्नुः सकर्णा अपि तस्य सोदरा जघ्नुश्च ते धार्तराष्ट्रस्य सेनाम् । 22.384 ।
मुहूर्तमासीत् सममेव युद्धं तेषां तदा धार्तराष्ट्रस्य चैव ।
पुरां भिन्दोर्वरतो मायया च गन्धर्ववीरा ववृधुस्ततः स्म । 22.385 ।
तेजोभङ्गं तत्र सुयोधनस्य पार्थार्थमत्र प्रविधातुमेव च ।
बलं ददावब्जजः केशवश्च गन्धर्वाणां तेऽभ्ययुर्धार्तराष्ट्रान् । 22.386 ।
स चित्रसेनः प्रथमं कर्णमेव युयोध पार्थस्पर्धया तेन युद्ध्यन् ।
कर्णो नाण्सक्नोद् वचनाद् भार्गवस्य रामस्य नित्यामितषड्गुणस्य । 22.387 ।
स भग्नयानश्च विकर्णयानमास्थाय तस्यैव नियम्य वाजिनः ।
पराद्रवत् तेन सहैव शीघ्रं दुर्योधनश्चित्रसेनं युयोध । 22.388 ।
मुहूर्तमेनेन समं स युद्ध्यन्नन्यैर्गन्धर्वैर्बहुभिर्माययैव ।
भग्ने रथे भूमितल् . ए स्थितः सन् गृहीत आसीच्चित्रसेनेन सङ्खे । 22.389 ।
महाबलो धार्तराष्ट्रोऽपि शक्रवराद् विष्णोराज्ञया चाभिवृद्धे ।
स चित्रसेनेन धृतस्तदाऽसीद् बद्धः पाण्सैर्वैद्युतैरिन्द्रदत्तैः । 22.390 ।
तस्यानुजाः शकुनी राजभार्याः सर्वे बद्धाः शक्रभृत्यैः प्रणीत् आः ।
आदाय तानम्बरं सम्प्रयातेष्वरूरुवन् पाण्डवान् मन्त्रिणोऽस्य । 22.391 ।
समीपमागत्य पृथासुतानां परिभूतं वः कुलं शक्रभृत्यैः ।
धृतः सभार्यः सानुजो धार्तराष्ट्रस्तं मोचयध्वं भ्रातरं भारताग्र्याः । 22.392 ।
इत्युक्त ऊचे भीमसेनोऽग्रजं स्वं ज् आने राजन् यादृशोऽयं विमर्दः ।
ऐश्वर्यं स्वं दर्शयन् न समागाद् दुर्योधनस्तेजसो भङ्गमिच्छन् । 22.393 ।
विज्ञाय तेषां मन्त्रितं वज्रबाहुरेतच्चक्रे नात्र नः कार्यहानिः ।
दिव्यं ज् ञानं स्वात्मनो दर्शयन् स एतावदुक्त्वा विरराम भीमः । 22.394 ।
एकाहयज्ञे दीक्षितेनैव राज्ञा सम्प्रेषितो भीमसेनोऽर्जुनश्च ।
समाद्रेयो चित्रसेनं रणे तौ विजित्य दुर्योधनमाण्स्वमुञ्चताम् । 22.395 ।
च्च्च्xxx.स चित्रसेनो वासवोक्तं च सर्वं कुमन्त्रितं धार्तराष्ट्रस्य चाऽह ।
पार्थस्य भीमस्य च तन्निशम्य सुब्रील् . इतो धृतराष्ट्रात्मजोऽभूत् । 22.396 ।
समाप्य यज्ञं च ततोऽभियातं सर्वे प्रापुर्धर्मराजं स चाऽशु ।
सम्पूज्य तूत्सृज्य च चित्रसेनमूचे गान्धारे न पुनः कार्यमीदृक् । 22.397 ।
स पाण्डवैर्मोचितः सानुजश्च सभार्यकः किञ्चिदतोऽपगम्य ।
सम्मेल् . अनायोपविष्टण्स्च तत्र सुब्रील् . इतः सूतपुत्रं ददर्श । 22.398 ।
स चाऽह दिष्ट्या जयसि राजन्निति सुयोधनम् ।
ब्रील् . इतो नेति तं चोक्त्वा यथावृत्तं सुयोधनः ।
उक्त्वा प्रायोपवेशं च चक्रे तत्र सुदुःखितः । 22.399 ।
कर्णदुः शासनाभ्यां च सौबलेन च देविना ।
अन्यैश्च याच्यमानोऽपि नैवोत्तस्थौ सुयोधनः । 22.400 ।
ततो निशायां प्राप्तायां स्वपक्षे प्रविषीदति ।
मन्त्रयित्वाऽसुरैः कृत्या निर्मिता होमकर्मणा । 22.401 ।
शुक्रेणोत्पादिता कृत्या सा प्रसुप्तेषु मन्त्रिषु ।
धार्तराष्ट्रं समादाय ययौ पाताल् . अमाण्सु च ।
अथ सम्बोधयामासुर्दैत्या दुर्योधनं नृपम् । 22.402 ।
त्वं दिव्यः पुरुषो वीरः सृष्टोऽस्माभिः प्रतोषित् आत् ।
तपसा ण्सङ्कराद् वज्रकायोऽवध्यश्च सर्वदा ।
अस्माकं पक्षभूतस्त्वं देवानां चैव पाण्डवाः । 22.403 ।
इदानीं सर्वदेवानां वरात् त्वं विजितो रणे ।
वयं तथा करिष्यामो यथा जेष्यसि पाण्डवान् । 22.404 ।
कृष्णेन निहतश्चैव नरकः कर्ण आस्थितः ।
स च कृष्णार्जुनाभावं करिष्यति न सं शयः । 22.405 ।
भीष्मादीं श्च वयं सर्वानाविशाम जयाय ते ।
तपसा वर्द्धयिष्यामस्त्वां कर्णादीं श्च सर्वशः । 22.406 ।
च्च्च्xxxइ.तस्माद् गत्वा पालयस्व राज्यं राजन्नपेतभीः ।
इदं कस्यापि नाऽख्येयं सुगुप्तं भूतिवर्द्धनम् । 22.407 ।
इत्युक्त्वा कृत्यया भूयः स्वस्थाने स्थापितो नृपः ।
उमया निर्मितात्मार्द्धमुत्तरं हरनिर्मितम् ।
ज् ञात्वैवावध्यतां चैव राज्ये बुद्धिं चकार सः । 22.408 ।
नोवाच कस्यचित् तेषु स्वानुभूतं सुयोधनः ।
प्रभातायां तु शर्वर्यां पुनः कर्णो वचोऽब्रवीत् । 22.409 ।
भृत्यैस्तवैव पार्थैर्यन्मोचितोऽसि परन्तप ।
तेन मान्योऽधिकं लोके यद् भृत्या एव तादृशाः ।
किमु त्वं राजशार्दूल तदुत्तिष्ठ स्थिरो भव । 22.410 ।
या च तेऽर्जुनमाहात्म्ये शङ्का सा व्यैतु मे शृणु ।
यावन्नैवार्जुनं हन्यां पादौ प्रक्षाल् . अये स्वयम् । 22.411 ।
इत्युक्तोऽवरजैश्चैव सर्वैः शकुनिना तथा ।
याचितो रथमारुह्य ययौ नागपुरं द्रुतम् । 22.412 ।
सकुण्डलं सकवचमवध्यं सूर्यनन्दनम् ।
ज् ञात्वेन्द्र उभयं तस्मादैच्छदादातुमुत्तमम् । 22.413 ।
तद् विज्ञाय रविः कर्णं स्वप्न उक्त्वा न्यवारयत् ।
सर्वथा दास्य इत्युक्ते प्राहाऽदेयं वरायुधम् । 22.414 ।
ददौ चोत्कृत्य कवचं कुण्डले च शचीपतेः ।
अमोघां शक्तिमादाय ज्ञात्वैव द्विजरूपिणम् । 22.415 ।
ऋतेऽर्जुनादेकमेव वधिष्यस्यनयेति सः ।
दत्वा ण्सक्तिं ययौ शक्रः सार्द्धं कवचकुण्डलैः । 22.416 ।
पार्था विमुच्यैव सुयोधनं तं वने वसन्तो मुदिताः सदैव ।
सहारणीभाण्डमथो मृगेण हृतं द्विजस्याऽशु निशम्य चान्वयुः । 22.417 ।
च्च्च्xxxइइ.तस्मिन्नदृश्ये तृषित् आ एकैक उदकार्थिनः ।
ययुर्युधिष्ठिरमृते सुप्तास्ते धर्ममायया । 22.418 ।
अदृश्येनैव धर्मेण वारिता वारिपायिनः ।
क्षत्रधर्मस्य रक्षार्थं न तत्प्रश्नान् विदां वराः ।
व्याचक्रुः शक्तिमन्तोऽपि पानीयार्थमरिन्दमाः । 22.419 ।
न विप्राणां च धर्मोऽयं विद्याया उपजीवनम् ।
क्षत्रियाणां तु किमुत प्रसभं तेन ते पपुः । 22.420 ।
देवा अपि मनुष्येषु जाताः सुबलिनोऽपि हि ।
मानुषेणैव भावेन युक्ताः स्युः केशवादृते ।
कार्येष्वेषां क्रमेणैव व्यक्तिमायान्ति सद्गुणाः । 22.421 ।
अतो भीमार्जुनौ धर्मादत्युत्तमबलावपि ।
देवमायां समाण्स्रित्य धर्मेण स्वापितौ क्षणात् । 22.422 ।
मुहूर्तमेव सा माया तयोराच्छादनक्षमा ।
ततः प्रबुद्धयोर्धर्मो नैव शक्तिशतां शभाक् । 22.423 ।
उक्तं पाद्मपुराणे च तदेतत् सर्वमञ्जसा ।
तस्मान्नाण्सक्तिरनयोः सम्भाव्या भीमपार्थयोः । 22.424 ।
धर्मात्मजोऽथाऽजगामोदकान्तं दृष्ट्वा भ्रातॣऋं स्तत्र दुःखाभितप्तः ।
इच्छन् पातुं वारि सं वारितश्च पित्रा बकाकारमितेन नापात् । 22.425 ।
अर्थे भ्रातॣऋणामैच्छदसौ तदीयप्रश्नप्रतिव्याहरणं दयाल् . उः ।
ततो धर्मो यक्षतनुः स भूत्वा प्रश्नां श्चक्रे व्याकरोत् तान् स पार्थः । 22.426 ।
ततस्तुष्टो वरमस्मै ददौ स एकोत्थानं भ्रातृमध्ये स वव्रे ।
यद्येकः स्यान्नकुलोऽस्त्वित्यथाऽह तुष्टो धर्मः कथमेतत् कृतं ते ।
अतिप्रीतिर्भीमसेने तवास्ति बली चासौ राज्यहेतुस्तव स्यात् । 22.427 ।
इत्युक्त ऊचे माद्रिपुत्रं विहाय कुन्तीपुत्रो न मयोत्थापनीयः ।
च्च्च्xxxइइइ.स एवमुक्तो नितरां प्रीयमाण उत्थापयामास च तान् समस्तान् । 22.428 ।
यथेष्टरूपप्राप्तिमेषां पुनश्च स्वकामतोनिजरूपाप्तिमादात् ।
अज्ञातवासेऽज्ञाततां सर्वदैव ददौ तेषां प्रीत इवाऽनृशं स्यात् ।
एवं क्रीडन् पुत्र इत्यात्मनैव यशोधर्मावात्मनो वर्द्धयन् सः । 22.429 ।
युधिष्ठिरात्मनस्तस्य यशोधर्मविवृद्धये ।
कृत्वाऽरण्यपहारादि पुनर्दत्वा च तत् स्वयम् ।
दातुं विप्राय तद्धस्ते ययौ धर्मो दिवं पुनः । 22.430 ।
ततो राजा भीमसेनार्जुनौ च सार्द्धं यमाभ्यामरणीं प्रदाय ।
मुदा युताः कृष्णया सार्द्धमेव सन्तुष्टुवुः कृष्णमनन्तमच्युतम् । 22.431 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
अरणीप्राप्तिर्नाम द्वाविं शोऽध्यायः
च्च्च्xxxइव्.(अज् ञॣअतवाससमाप्तिः )
अथ त्रयोविं शोऽध्यायः
ओं । नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते ।
विसृज्य च ब्राह्मणादीन् सधौम्यानज्ञातवासाय ततो मनो दधुः । 23.1 ।
गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः ।
यतिः सूदः षण्ढवेषोऽश्वसूतवेषो गोपो गन्धकर्त्री चजाताः । 23.2 ।
सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः ।
युधिष्ठिरस्यैव शुश्रूषणं ते चक्रुर्हृदा वासुदेवस्य नान्यत् । 23.3 ।
परपाको गृहस्थस्य क्षत्रियस्य विशेषतः ।
न योग्य इति सूदस्य बभ्रे वेषं वृकोदरः । 23.4 ।
वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः ।
ज् आनीयुर्भीम इत्येव शूद्रवेषस्ततोऽभवत् । 23.5 ।
स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः ।
अतस्तेऽन्याण्स्रयं नैव चक्रुः स्वबलसं श्रयात् । 23.6 ।
शापादेवार्जुनः षण्ढवेषोऽभून्नकुलस्तथा ।
क्षत्रियानन्तरत्वात्तु सूतजातेस्तथाऽभवत् । 23.7 ।
सूतस्यानन्तरत्वात्तु वैश्यजातेस्तथाऽभवत् ।
सहदेवो वैश्यजातिर्गोपालस्तेषु चोत्तमः ।
ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतः । 23.8 ।
यतिरासीद् धर्मजोऽतः सोऽभ्यासार्थं सदैव च ।
अक्षासक्तोऽभवत् पश्चाद् दर्शयिष्यन् स्वशिष्टताम् । 23.9 ।
भीमसेनसधर्मार्थं शूद्रा सैरन्ध्रिकाऽभवत् ।
द्रौपदी भर्तृसाधर्म्यं स्त्रीणां धर्मो यतः सदा । 23.10 ।
अथाऽजगाम मल्लकः समस्तभूमिमण्डले ।
च्च्च्xxxव्.वरेण योऽजितो जयी शिवस्य सञ्जगर्ज च । 23.11 ।
तमीक्ष्य सर्वमल्लका विराटराजसं श्रयाः ।
प्रदुद्रुवुर्भयार्दितास्तदाऽवदद् युधिष्ठिरः । 23.12 ।
य एष सूद आण्सु तं निहत्य मल्लमोजसा ।
यशस्तवाभिवर्द्धयेत् समाह्वयाद्य तं नृप । 23.13 ।
इतीरिते समाहुतो जगाद मारुतिर्वचः ।
प्रसादतो हरेरहं निसूदयेऽद्य मल्लकम् । 23.14 ।
समस्तदेववृन्दतो महान् य एव केशवः ।
समस्तदेवनामवां स्तदीयभक्तितो बलम् । 23.15 ।
य एव देवनामधा इति श्रुतिर्जगाद हि ।
महां श्च देव एष तत् स मे जयं विधास्यति । 23.16 ।
युधिष्ठिराभिधश्च यो युधिष्ठिरे स्थितः सदा ।
त्वयि स्थितस्त्वमित्यसौ सदाऽभिधीयते हरिः । 23.17 ।
इति ब्रुवाणो मल्लं तमभियातो वृकोदरः ।
अनयन्मृत्युलोकाय बलाढ्यैरपि दुर्जयम् । 23.18 ।
एवं निवसतां तत्र पाण्डवानां महात्मनाम् ।
सं वत्सरे द्विमासोने विजित्य दिश आगतः ।
कीचको मत्स्यनृपतेः स्यालो बलवतां वरः । 23.19 ।
स द्रौपदीमीक्ष्य मनोभवार्तः सम्प्रार्थयामास तया निरस्तः ।
मासे गते भगिनीं स्वां सुदेष्णां सम्प्रार्थयामास तदर्थमेव । 23.20 ।
तया निषिद्धोऽपि पुनः पुनस्तां यदा ययाचेऽथ च साऽह कृष्णाम् ।
समानयाऽश्वेव सुरां मदर्थमितीरिता नेति भीत् आऽवदत् सा । 23.21 ।
बलात् तया प्रेषित् आ तद्गृहाय यदाऽगमत् तेन हस्ते गृहीत् आ ।
विधूय तं प्राद्रवत् सा सभायै स्मृत्वाऽदित्यस्थं वासुदेवं परेशम् । 23.22 ।
च्च्च्xxxवि.अनुद्रुत्यैतां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः ।
नारायणो हेतिनामैव रक्षो न्ययोजयत् तददृश्यं समागात् । 23.23 ।
वायुस्तमाविश्य तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः ।
चुकोप वृक्षं च समीक्षमाणं तं वारयामास युधिष्ठिरोऽग्रजः । 23.24 ।
कृष्णा रात्रौ भीमसकाण्समेत्य हन्तुं पापं कीचकं प्रैरयत् तम् ।
भीमस्य बुद्ध्या निशि सा कीचकं च जगाद गन्तुं शून्यगृहं स चागात् । 23.25 ।
तत्रैनमासाद्य तु भीमसेनो विजित्य तं बाहुयुद्धे निहत्य ।
शिरो गुदे पाणिपादौ च तस्य प्रवेशयामास विमृद्य वीरः । 23.26 ।
अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम् ।
सर्वं वराच्छङ्करस्य ह्यवध्यं सहैव कृष्णां तेन दग्धुं बबन्ध । 23.27 ।
सा नीयमाना कीचकैः सं रुराव श्रुत्वैव तं भीमसेनो महान्तम् ।
उद्धृत्य वृक्षं तेन जघान सर्वानादाय कृष्णां पुनरागात् पुरं च । 23.28 ।
एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं रणेषु ।
अवध्यता चैव षडुत्तरास्ते शतं हता भीमसेनेन सङ्खे । 23.29 ।
गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाऽथ कृष्णाम् ।
याहीत्यूचे तां सुदेष्णा भयेन त्रयोदशाहं पालयेत्याह तां सा ।
अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्र । 23.30 ।
तदा पार्थान् प्रविचिन्त्याखिलायां पृथ्व्यां छन्नान् धार्तराष्ट्रस्य दूताः ।
अविज्ञाय प्रययुर्धार्तराष्ट्रमूचुर्हतं कीचकं योषिदर्थे । 23.31 ।
तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम् ।
भीमेनागुस्तत्र दुर्योधनाद्या भीष्मादिभिः सह कर्णेन चैव । 23.32 ।
अग्रे ययौ तत्र योद्धुं सुशर्मा सगा विराटस्य समाजहार ।
श्रुत्वा विराटोऽनुययौ ससेनस्तं पाण्डवाण्स्चानुययुर्विनाऽर्जुनम् । 23.33 ।
च्च्च्xxxविइ.विजित्य सङ्खे जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः ।
स तस्य सेनां विनिहत्य मात्स्यं विमोच्य जग्राह सुशर्मराजम् ।
युधिष्ठिरो मोचयामास तं च ततो रात्रौ न्यवसन् बाह्यतस्ते । 23.34 ।
ततोऽपरदिने सर्वे भीष्मद्रोणपुरस्सराः ।
रहितं कीचकैर्मात्स्यं शक्यं मत्वाऽभिनिर्ययुः । 23.35 ।
कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि ।
जरासन्धस्य नृपतेः कं सादीनां च सर्वशः । 23.36 ।
न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन ।
तस्मात् ते कीचकं शान्तं श्रुत्वा मात्स्यं ययुर्युधे । 23.37 ।
यतिष्ये रक्षितुं भीमाद् धार्तराष्ट्रानिति स्वकाम् ।
सत्यां कर्तुं प्रतिज्ञां तु ययौ द्रोणः सपुत्रकः । 23.38 ।
यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा ।
न चेद् विराटमनतं नमयिष्यामहे वयम् ।
इति मत्वा विराटस्य जगृहुर्गाः समन्ततः । 23.39 ।
तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान् निशाम्यैव भीतः ।
ततोऽर्जुनः सारथिं तं विधाय कृच्छ्रेण सं स्थाप्य च तं ययौ कुरून् । 23.40 ।
आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः ।
निवर्त्य युद्धाय ययौ कुरूं स्तान् जिग्ये सर्वान् द्वैरथेनैव सक्तान् । 23.41 ।
एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा ।
जग्राह तेषामुत्तरीयाण्यृते तु भीष्मस्य वेदास्त्रघातं स एव । 23.42 ।
विधाय भीष्मं विरथं जगाम तदा ण्स्रुत्वा मत्स्यपतिर्जितान् कुरून् ।
मुमोद पुत्रेण जिता इति स्म तदाऽह षण्ढेन जितान् युधिष्ठिरः । 23.43 ।
तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम् ।
श्रुतं तदा कुपितौ तौ निशाम्य न्यवारयत् तावपि धर्मसूनुः । 23.44 ।
च्च्च्xxxविइइ.निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम् ।
क्षमापयेद् वध्य इत्यात्मरूपं समास्थितास्तस्थुरथापरे दिने । 23.45 ।
तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह ।
किमेतदित्यूचिवानुत्तरोऽस्मै तान् पाण्डवान् गोग्रहणे चवृत्तम् । 23.46 ।
ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थाञ्छरणं जगाम ।
ददौ च कन्यामुत्तरां फल्गुनाय पुत्रार्थमेव प्रतिजग्राह सोऽपि । 23.47 ।
एवं विराटं मोचयित्वैव गाण्स्च तमस्यन्धे कीचकान् पातयित्वा ।
प्राप्तो धर्मः सुमहान् वायुजेन तस्यानु पार्थेन च गोविमोक्षणात् । 23.48 ।
अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्द्धम् ।
आगादनन्तानन्दचिद् वासुदेवो विवाहयामासुरथाभिमन्युम् । 23.49 ।
आसीन्महानुत्सवस्तत्र तेषां दशार्हवीरैः सह पाण्डवानाम् ।
स पाञ्चालानां वासुदेवेन सार्द्धमज्ञातवासं समतीत्य मोदताम् । 23.50 ।
दुर्योधनाद्याः सूतपुत्रेण सार्द्धं ससौबलेया युधि पार्थपीडित् आः ।
भीष्मादिभिः सार्द्धमुपेत्य नागपुरं मन्त्रं मन्त्रयामासुरत्र । 23.51 ।
अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय ।
इति ब्रुवाणानाह भीष्मोऽभ्यतीतमज्ञातवासं द्रोण आहैवमेव । 23.52 ।
तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु ।
इति दूतं प्रेषयामासुरत्र जानन्ति विप्रा इति धर्मजोऽवदत् । 23.53 ।
सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम् ।
आहुश्चान्द्रेण मासेन पूर्णः कालोऽखिलोऽप्यसौ । 23.54 ।
दिनानामधिपः सूर्यः पक्षमासाब्दपः शशी ।
तस्मात् सौम्याब्दमेवात्र मुख्यमाहुर्मनीषिणः ।
सौम्यं कालं ततो यज्ञे गृह्णन्ति नतु सूर्यजम् । 23.55 ।
तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः ।
च्च्च्xxxइx.राज्यं न दत्तं पार्थेभ्यः पार्थाः कालस्य पूर्णताम् ।
ख्यापयन्तो विप्रवरैरुपप्लाव्यमुपाययुः । 23.56 ।
सुवासुदेवा अखिलैश्च यादवैः पाञ्चालमत्स्यैश्च युताः सभार्याः ।
उपप्लाव्ये ते कतिचिद् दिनानि वासं चक्रुः कृष्णसं शिक्षित् आर्थाः । 23.57 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
अज्ञॣअतवाससमाप्तिर्नाम त्रयोविं शोऽध्यायः
च्च्च्xल्.(युद्धोद्योगः )
अथ चतुर्विं शोऽध्यायः
ओं । ततः सम्मन्त्र्यानुमते कृष्णस्य स्वपुरोहितम् ।
द्रुपदः प्रेषयामास धृतराष्ट्राय शान्तये । 24.1 ।
स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम् ।
उवाच न विरोधस्त उत्पाद्यो धर्मसूनुना ।
यस्य भीमार्जुनौ यौधौ नेता यस्य जनार्दनः । 24.2 ।
श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः ।
यथा च रुद्रवचनादवध्या राक्षसाधिपाः । 24.3 ।
तीर्थविघ्नकराः सर्वतीर्थान्याच्छाद्य सं स्थिताः ।
तिस्रः कोट्यो महावीर्या भीमेनैव निसूदिताः । 24.4 ।
भ्रातॣऋणां ब्राह्मणानां च लोकानां च हितैषिणा ।
ततो हि सर्वतीर्थानि गम्यान्यासन् नृणां क्षितौ । 24.5 ।
यथा जटासुरः पापः शर्वाणीवरसं श्रयात् ।
अवध्यो विप्ररूपेण वञ्चयन्नेव पाण्डवान् । 24.6 ।
ज् ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः ।
योग्य इत्यहतो भीमे मृगयार्थं गते क्वचित् । 24.7 ।
यमौ युधिष्ठिरं कृष्णां चाऽदायैव पराद्रवत् ।
दृष्टो भीमेन तां स्त्यक्त्वा सं सक्तस्तेन सङ्गरे । 24.8 ।
निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः ।
जगाम किमु ते पुत्राः शक्या हन्तुमिति स्म ह । 24.9 ।
निवातकवचाण्स्चैव हताः पार्थेन ते श्रुताः ।
ज् आनासि च हरेर्वीर्यं यस्येदमखिलं वशे ।
सब्रह्मरुद्रशक्राद्यं चेतनाचेतनात्मकम् । 24.10 ।
च्च्च्xलि.तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु ।
दीयतामिति तेनोक्तो धृतराष्ट्रो नचाकरोत् । 24.11 ।
ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम् ।
युद्धसाहाय्यमिच्छन्तौ धार्तराष्ट्रधनञ्जयौ । 24.12 ।
युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम् ।
दुर्योधनः शिरस्थान आसीनोऽभूद्धरेस्तदा । 24.13 ।
दर्पान्नाहं राजराज उपास्ये पादयोरिति ।
तयोरागमनं पूर्वं ज् ञात्वैव हि हरिः प्रभुः । 24.14 ।
असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः ।
प्रणम्य पादयोः प्रह्वो भक्त्युद्रेकात् कृत् आञ्जलिः । 24.15 ।
तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम् ।
स्वागतं फल्गुनेत्युक्ते पूर्वमागामहं त्विति ।
आह दुर्योधनस्तं च स्वागतेनाभ्यपूजयत् । 24.16 ।
तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः ।
एकः पूर्वागतोऽत्रान्यः पूर्वदृष्टो मया यतः । 24.17 ।
समं करिष्ये युवयोरेकत्राहं निरायुधः ।
अन्यत्र दशलक्षं मे पुत्राः शूराः पदातयः । 24.18 ।
इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः ।
अन्यस्तत्राभक्तिमत्त्वाद् वव्रे गोपान् प्रयुद्ध्यतः । 24.19 ।
पार्थानामेव साहाय्यं करिष्यन्नपि केशवः ।
तस्याभक्तिं दर्शयितुं चक्रे समवदीश्वरः । 24.20 ।
ततः पार्थेन सहितः पाण्डवान् केशवो ययौ ।
दुर्योधनो ययौ रामं स भयात् केशवस्य च ।
न साहाय्यं करोमीति प्राह तत्स्नेहवानपि । 24.21 ।
च्च्च्xलिइ.उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन् ।
निराकृतः सात्यकिना समक्षं केशवस्य च । 24.22 ।
ततो दुर्योधनं नायात् स च हार्दिक्यसं युतः ।
जगाम हस्तिनपुरमक्षोहिण्यो दशाभवन् ।
एका च धार्तराष्ट्रस्य नानादेश्यैर्नृपैर्युताः । 24.23 ।
सप्त पाण्डुसुतानां च मात्स्यद्रुपदकेकयैः ।
धृष्टकेतुजरासन्धसुतकाण्सीनृपैर्युताः । 24.24 ।
पुरुजित् कुन्तिभोजश्च चेकितानश्च सात्यकिः ।
पाण्डवान् सेनया युक्ताः समीयुर्देवपक्षिणः । 24.25 ।
विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकेकयाः ।
क्षेमधूर्तिर्दण्डधारः कलिङ्गोऽम्बष्ठ एव च । 24.26 ।
श्रुतायुरच्युतायुश्च बृहद्बलसुदक्षिणौ ।
श्रुतायुधः सैन्धवश्च राक्षसोऽलम्बुसस्तथा । 24.27 ।
अलायुधोऽलम्बलश्च दैत्या दुर्योधनं ययुः ।
गत्वा दुर्योधनाहूतो भगदत्तोऽपि तं ययौ । 24.28 ।
सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि ।
प्रीत्यर्थं धृतराष्ट्रस्य बभूवुस्तत्सुतानुगाः । 24.29 ।
पाण्ड्यश्च वीरसेनाख्यः पाण्डवानेव सं श्रितः ।
शल्यं च पाण्डवानेव यान्तं ज् ञात्वा सुयोधनः ।
सुसभाः कारयामास सर्वभोगसमन्विताः । 24.30 ।
त् आ युधिष्ठिरक्लृप्ताः स मत्वा ण्सल्योऽब्रवीदिदम् ।
य एताः कारयामास तदभीष्टं करोम्यहम् । 24.31 ।
लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत ।
देहि मे युद्धसाहाय्यमिति सोऽपि यशोऽर्थयन् ।
रक्षार्थमात्मवाक्यस्य तथेत्येवाभ्यभाषत । 24.32 ।
च्च्च्xलिइइ.स पाण्डवां स्ततो गत्वा तैरनुज्ञात एव च ।
तेजोवधार्थं कर्णस्य धनञ्जयकृतेऽर्थितः ।
तथेत्युक्त्वा ययौ धर्मनन्दनं कौरवान् प्रति । 24.33 ।
सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये ।
पाण्डवान् प्रत्यधर्मं च युद्धं स प्रत्यपादयत् । 24.34 ।
हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा ।
तमेवोक्त्वा धर्मजस्तु चकार च निरुत्तरम् ।
कृष्णोऽपि तस्य धर्मस्य प्रामाण्यं प्रत्यपादयत् । 24.35 ।
ततो निरुत्तरः कृष्णं पाण्डवां श्च प्रणम्य सः ।
धृतराष्ट्रं ययौ तं च विनिन्द्य प्रययौ गृहम् । 24.36 ।
निन्दितः सञ्जयेनासावाहूय विदुरं निशि ।
पप्रच्छ सोऽवदद् धर्मं पार्थानां राज्यदापनम् । 24.37 ।
ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् ।
अन्यथा सर्वपुत्राणां नाण्सं धर्मातिलङ्घनम् । 24.38 ।
तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम् ।
विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम् । 24.39 ।
स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा ।
न गतिश्चेत्यथ प्रातः सञ्जयः पाण्डवोदितम् ।
अवदद् धृतराष्ट्राय सभायां कुरुसन्निधौ । 24.40 ।
तच्छ्रुत्वा सतुभीतोऽपि पुत्रस्नेहानुगो नृपः ।
राज्यं नादात् पाण्डवानां ततो धर्मसुतो नृपः । 24.41 ।
यदुक्तवान् सञ्जयाय यदि दित्सतिः नः पिता ।
राज्यं तदा त्वमागच्छ विदुरो वा न चेन्नच ।
त् आवथानागतौ ज्ञात्वा मन्त्रयामास शौरिणा । 24.42 ।
च्च्च्xलिव्.सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ ।
वक्ष्ये पथ्यानि युक्तानि यदि नासौ ग्रहीष्यति ।
वध्यः सर्वस्य लोकस्य स भवेत् सर्वधर्महा । 24.43 ।
इत्युक्ते वैरमात्मोत्थं लोकमध्ये प्रहापयन् ।
लोकसङ्ग्रहणार्थाय भीमसेनोऽब्रवीद् वचः । 24.44 ।
नास्मन्निमित्तनाण्सः स्यात् कुलस्यापि वयं कुलम् ।
रक्षितुं धार्तराष्ट्रस्य भवेमाधश्चरा इति । 24.45 ।
इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना ।
भीमेनोक्तो वासुदेवो लोकसङ्ग्रहणेच्छया । 24.46 ।
वधं तेषां धर्ममेव लोके ज्ञापयितुं हरिः ।
आक्षिपन्निव भीमं तं युद्धाय प्रेरयद् दृढम् । 24.47 ।
अभिप्रायं केशवस्य जानन् भीमो निजं बलम् ।
राज्ञां मध्येऽवदत् तच्च कृष्णोऽभ्यधिकमेव हि । 24.48 ।
शशं स सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाण्सयन् ।
वधं कुरूणां सद्धर्मं गुणान् भीमस्य चामितान् । 24.49 ।
नित्यमेकमनस्कौ तावपि केशवमारुती ।
एवं लोकस्य सं वादहेतोः सं वादमक्रताम् । 24.50 ।
ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम् ।
हेतुमद्भिः शुभैर्वाक्यैरनुनीय जगत्पतिः ।
उक्तो मानुषया बुद्ध्या नकुलेन सुनीतिवत् । 24.51 ।
शौर्यप्रकाण्सनायैव युद्धं योजयतां भवान् ।
इत्युक्तः सहदेवेन युयुधानेन चाच्युतः । 24.52 ।
दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः ।
अतो न धार्तराष्ट्रैर्नः सन्धिः स्यादिति पार्षती ।
जगाद कृष्णं सोऽप्येनां ओं इत्युक्त्वा विनिर्ययौ । 24.53 ।
च्च्च्xल्व्.ससात्यकिः स्यन्दनवर्यसं स्थितः पृथातनूजैरखिलैः स भूमिपैः ।
अन्वागतो दूरतरं गिरा तान् सं स्थाप्य विप्रप्रवरैः कुरून् ययौ । 24.54 ।
एकोऽपि विष्णुः स तु भार्गवात्मा व्यासः सशिष्यस्तदनन्यदृश्यः ।
ययौ तदुक्तेर्हि गुणान् प्रवेत्तुं नान्यो हि शक्तस्तमृते यतः प्रभुम् । 24.55 ।
स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः ।
सं स्तूयमानः प्रणतोऽब्जजादिभिर्गजाह्वयं प्राप परोऽप्रमेयः । 24.56 ।
स भीष्ममुख्यैः सरसाभियातः सहैव तैः प्रययौ राजमार्गे ।
दिदृक्षवस्तं जगदेकसुन्दरं गुणार्णवं प्राययुरत्र सर्वे । 24.57 ।
सभाजितस्तैः परमादरेण विवेश गेहं नृपतेरनन्तः ।
स भीष्ममुख्यान् पुरतो निधाय वैचित्रवीर्येण समर्चितोऽजः ।
रौग्मे निषण्णः परमासने प्रभुर्बभौ स्वभासा ककुभोऽवभासयन् । 24.58 ।
यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः ।
पूजां तदीयां गुणवद्द्विडित्यसौ जग्राह नो विदुरं चाऽजगाम । 24.59 ।
स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः ।
उपेक्षित् आ द्रौपदीयप्रमेयो जगाम गेहं विदुरस्य शीघ्रम् । 24.60 ।
स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्वरोऽजः ।
भक्त्याऽभिपूर्णेन ससम्भ्रमेण सम्पूजितः सर्वसमर्पणेन । 24.61 ।
परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः सं सदि कौरवाणाम् ।
विवेश दिव्ये मणिकाञ्चनासने सार्द्धं मुनीन्द्रैः परमार्थवेदिभिः । 24.62 ।
सम्पूजितो भीष्ममुख्यैः समस्तै रराज राजीवसमाननेत्रः ।
यथोचितास्तत्र विधाय वार्ता जगाद काले कलिकल्मषापहः । 24.63 ।
वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय ।
यशश्च धर्मं परमं प्रसादं मम त्वमाप्नोषि तदैव राजन् ।
अतोऽन्यथा यशसो धर्मतश्च हीनः प्रतीपत्वमुपैषि मेऽतः । 24.64 ।
च्च्च्xल्वि.इतीरितः प्राह ममातिवर्तिनः सुतं स्वयं मे प्रतिबोधयेति ।
स वासुदेवेन विबोधितोऽपि पापाभिसन्धिर्धृतराष्ट्रसूनुः ।
उत्थाय तस्मादनुजैरमात्यैर्नियन्तुमीशं कुमतिर्व्यधान्मतिम् । 24.65 ।
येये तदा केशवसं यमाय न्यमन्त्रयं स्ते विबुधप्रतीपाः ।
अतो विकर्णप्रमुखा अपि स्म वध्यत्वमायन्नशुभां गतिं च । 24.66 ।
कर्णः सुराग्र्योऽपि सुयोधनार्थे न्यमन्त्रयद् भावतो नैव दुष्टः ।
अतो गतिश्चास्य सुशोभनाऽभूद् येऽत्रानुकूलाः परमस्य ते शुभाः । 24.67 ।
ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा ।
वासुदेवात्मना चैव त्रिरूपेणैव विष्णुना । 24.68 ।
मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः ।
दुर्योधनो मन्त्रयते मुकुन्दस्याऽशु बन्धनम् । 24.69 ।
सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा ।
सं स्थाप्य कृतवर्माणं रहः सात्यकिरत्र च ।
अभ्येत्य केशवं प्राह दुर्योधनविनिश्चयम् । 24.70 ।
ज् आनन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात् ।
वैचित्रवीर्यमवदत् पश्य मामिति सर्वगम् । 24.71 ।
अथ तेनाऽहुते पुत्रे सामात्ये पुरुषोत्तमः ।
स्वं रूपं दर्शयामास सर्वगं पूर्णसद्गुणम् । 24.72 ।
तत् कालसूर्यामितदीप्ति सर्वजगद्भरं शाण्स्वतमप्रमेयम् ।
दृष्ट्वैव चक्षूं षि सुयोधनाद्या न्यमीलयन् दीधितिवारितानि । 24.73 ।
पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः ।
कृत्वाऽन्धमेव प्रययौ सुयोधनं सहानुगं पापतमं प्रकाण्स्य । 24.74 ।
अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे ।
नैव व्यधादेनमथोक्तकारिणं निपातयन्नन्धतमस्यनन्तः । 24.75 ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0