महाभारततात्पर्यनिर्णय · भाग 161180
तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् ।
नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि । 21.230 ।
बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते ।
मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम् । 21.231 ।
ज् आनमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।
सं शयं भूभृत् आं भेत्तुं भीष्मं पप्रच्छ धर्मवित् । 21.232 ।
नास्ति नारायणसममिति वादेन निर्णये ।
कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे । 21.233 ।
च्च्ल्xxइx.नृपास्तस्मादयं कृष्णो नारायण इति स्म ह ।
सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत । 21.234 ।
ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः ।
नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि । 21.235 ।
सर्वशास्त्रविदं भीष्मं ज् आनन्त्येते नृपा अपि ।
तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा । 21.236 ।
पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे ।
ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च ।
इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम् । 21.237 ।
यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।
प्रादुर्भूतस्तथाऽप्येते नृपा हिव्यासरामयोः । 21.238 ।
विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् ।
मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः । 21.239 ।
अविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित् ।
तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् । 21.240 ।
कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा ।
विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृत् आ ।
ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः । 21.241 ।
व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् ।
अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन् । 21.242 ।
अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाण्सु च चेदिराजः ।
श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः । 21.243 ।
दूरेऽपि केशवविनिन्दनकारिजिह्वां मुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा ।
भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय । 21.244 ।
च्च्ल्xxx.मयैव वध्याविति तावाह यत् केशवः पुरा ।
तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात् । 21.245 ।
ज् आनन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः ।
भीम एतावदुचितमिति मत्वा स्थितः पुनः । 21.246 ।
देवसङ्घभविनां महानभूदीक्ष्य तोष इह केशवेऽधिकाम् ।
अर्चनां य इह मानुषो जनो मध्य एव स तु सं स्थितोऽभवत् । 21.247 ।
आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे ।
दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम् । 21.248 ।
समाह्वयच्च केशवं युधे तमाण्सु केशवः ।
निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः । 21.249 ।
निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ ।
तमाण्स्रितश्च योऽसुरो महातमः प्रपेदिवान् । 21.250 ।
जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् ।
असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः । 21.251 ।
सुवर्णरत्नभारकान् बहून् नृपा उपानयन् ।
उपायनं सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च । 21.252 ।
अभोजयं स्तथा द्विजान् यथेष्टभक्ष्यबोज्यकैः ।
सुवर्णरत्नभारकान् बहूं श्च दक्षिणा ददुः । 21.253 ।
यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः ।
समस्तमत्र सर्वशोऽथ सस्नुरुद्भृत् आ मुदा । 21.254 ।
नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः ।
प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन् । 21.255 ।
समस्तराजसं युता विगाह्य जाह्नवीजले ।
च्च्ल्xxxइ.पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः । 21.256 ।
गतेषु सर्वराजसु स्वकां पुरं स्वकेषु च।
सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च। 21.257 ।
विचित्ररत्ननिर्मिते रविप्रभे सभातल् . ए ।
सकेशवो वरासने विवेश धर्मनन्दनः । 21.258 ।
तथैव रुग्मिणीमुखाः परिग्रहा रमेशितुः ।
तथैव भीमफल्गुनावुपाविशन् हरेरुप । 21.259 ।
सहैव वायुसूनुना तथैव पार्षतात्मजा ।
उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम् । 21.260 ।
यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् ।
तथैव रामसात्यकी समीप एव भूभृतः । 21.261 ।
समासतां तु सा सभा व्यरोचताधिकं तदा ।
यथा सभा स्वयम्भुवः समास्थिता च विष्णुना । 21.262 ।
विचित्रहेममालिनः शुभाम्बराण्स्च तेऽधिकम् ।
स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः । 21.263 ।
विशेषतो जनार्दनः सभार्यको जगत्प्रभुः ।
यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः । 21.264 ।
उपासिरे च तान् नृपाः समस्तशः सुहृद्गणाः ।
तदाऽजगाम खड्गभृत् सहानुजः सुयोधनः । 21.265 ।
द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तिम् ।
अभ्यन्तराणां दृशि नो विघातिनीं सं स्फाटिकामाण्सु दृढं चुचुम्बे । 21.266 ।
प्रवेशयेतां च यमौ तमाण्सु सभां भुजौ गृह्य नृपोपदिष्टौ ।
तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम् । 21.267 ।
च्च्ल्xxxइइ.तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् ।
रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे । 21.268 ।
तं प्राहसद् भगवता क्षितिभारनाण्सहेतोः सुसूचित उरुस्वरतोऽत्र भीमः ।
पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः । 21.269 ।
मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य ।
नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि । 21.270 ।
कृष्णावृकोदरगतं बहल् . अं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः ।
सम्ब्रील् . इतो नृपतिं दत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम् । 21.271 ।
यौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ ।
तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे । 21.272 ।
यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् ।
अग्रपूजां च कृष्णस्य विलुम्पेयं न सं शयः । 21.273 ।
ईदृशं पाण्डवैश्वर्यं दृष्ट्वा कोनाम जीवितम् ।
इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः । 21.274 ।
इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् ।
किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः । 21.275 ।
अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् ।
इतीरितोऽतिसं वृद्धकोप आह सुयोधनः । 21.276 ।
यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः ।
सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते । 21.277 ।
नच बाहुबलाच्छक्ष्य आदातुं त् आं श्रियं क्वचित् ।
नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः । 21.278 ।
इतीरितः पापतम आह गान्धारको नृपः ।
पापानामखिलानां च प्रधानं चक्रवर्तिनम् । 21.279 ।
च्च्ल्xxxइइइ.यान्तां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि ।
त् आमक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके । 21.280 ।
इतीरितः प्रसन्नधीः सुयोधनो बभूव ह ।
प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम् । 21.281 ।
धृतराष्ट्रमथोवाच द्वापरां शोऽतिपापकृत् ।
नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम् । 21.282 ।
दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः ।
अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि । 21.283 ।
श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाण्सकारणम् ।
कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाण्स्रियो हि ते । 21.284 ।
त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः ।
विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम् । 21.285 ।
यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि ।
मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव । 21.286 ।
यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् ।
सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन । 21.287 ।
वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः ।
त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत् । 21.288 ।
अतः स्वधर्म एवायं तवापि स्यात् फलं महत् ।
इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत् । 21.289 ।
एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् ।
पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति । 21.290 ।
आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये ।
च्च्ल्xxxइव्.अं शेन तत आरभ्य नैवास्मादपजग्मिवान् । 21.291 ।
यावत् पुरं परित्यज्य वनमेव विवेश ह ।
तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत् । 21.292 ।
न्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाण्सकोऽयम् ।
समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात् । 21.293 ।
इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् ।
द्रष्टुं सुतान् क्रीडत एकसं स्थानिच्छामि पार्थां श्च सुयोधनादीन् । 21.294 ।
अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः ।
ययौ स विदुरः पार्थान् द्वारकां केशवे गते । 21.295 ।
गते हि पार्थसन्निधेः सुयोधने तु नारदः ।
शशं स धर्मसूनुना प्रचोदितोऽरिमागतम् । 21.296 ।
क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः ।
स सौभराड्वरं शिवादवाप वृष्णिनिर्जयम् । 21.297 ।
पां सुमुष्टिं सकृद्ग्रासी बहूनब्दां स्तपश्चरन् ।
आजगाम हरादाप्य वरं कृष्णजये पुनः । 21.298 ।
स श्रुत्वा मागधवधं दिशां विजयमेव च ।
राजसूयं क्रतुं चैव शिशुपालवधं तथा । 21.299 ।
यदून् प्रत्युद्यमं त् ऊर्णं करोतीति निशम्य तत् ।
समैक्षद् धर्मजः कृष्णमुखशीत् आं शुमण्डलम् । 21.300 ।
अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् ।
प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः । 21.301 ।
विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् ।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट्।
सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम् । 21.302 ।
च्च्ल्xxxव्.ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम् ।
नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून् । 21.303 ।
इतीह दोषसञ्चयस्तथाच ते पितुर्वचः ।
समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः । 21.304 ।
इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः ।
विचित्रवीर्यजं च तं समासदत् ससैनिकः । 21.305 ।
कल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा ।
आहूतो द्यूतरणान्निवर्तेयं नैव वारितोऽपीति । 21.306 ।
तेनाऽयात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाण्सु ।
नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः । 21.307 ।
वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशां त् आम् ।
प्रातश्च भीष्ममुखराः सकलाण्स्च भूपा आसेदुराण्सु च सभां सह पाण्डुपुत्रैः । 21.308 ।
वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः ।
प्राप्ताः सभातल् . अमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय । 21.309 ।
सर्वां श्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् ।
क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाण्सनकर्मवृत्त् आः । 21.310 ।
भीमादिभिः स विदुरेण चवार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् ।
गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय । 21.311 ।
तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण ।
राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः । 21.312 ।
सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि
क्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् ।
नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं
ज् ञात्वा दुः शासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम् । 21.313 ।
च्च्ल्xxxवि.स पापपूरुषोत्तमः प्रगृह्य केशपक्षके ।
पुरः स्वमातुरानयत् सभामयुग्मवाससीम् । 21.314 ।
समाहृत् आ रजस्वला जगाद भीष्मपूर्वकान् ।
अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः । 21.315 ।
कथं छलात्मके द्यूते जिते धर्मजयो भवेत् ।
नहि द्यूतं धर्म्यमाहुर्विशेषेण तुभूभुजाम् । 21.316 ।
ये धर्मं न वदन्तीह न ते वृद्धा इतीरिताः ।
अवृद्धमण्डित् आं नैव सभेत्याहुर्मनीषिणः । 21.317 ।
कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते ।
समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः । 21.318 ।
सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया ।
दासीत्वं न पृथङ् मेस्याज्जितेऽपि हि पतौ ततः । 21.319 ।
इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः ।
पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे । 21.320 ।
दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा ।
उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम् । 21.321 ।
न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः ।
ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयं स्तदा । 21.322 ।
स्वाण्सक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः ।
अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति । 21.323 ।
एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् ।
आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाण्सयन् ।
अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत् । 21.324 ।
च्च्ल्xxxविइ.दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा ।
राजा ण्सास्यो युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे । 21.325 ।
इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ ।
नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः । 21.326 ।
वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् ।
उत्तमे वचसा ण्सिक्षा मध्यमेऽर्थापहारणम् ।
अधमे देहदण्डण्स्च तस्माद् वाच्यो युधिष्ठिरः । 21.327 ।
अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने ।
धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् ।
परस्परविरोधार्थं पाण्डवानामिदं वचः । 21.328 ।
युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः ।
इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम् । 21.329 ।
इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसं शयेन ।
गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः । 21.330 ।
बलज्यैष्ठ्ये यदि वः सं शयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः ।
मृद्गामि वः पादतल् . एन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः । 21.331 ।
इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा ।
विघूर्णित् आ सभाऽखिला भयान्नचाऽह किञ्चन । 21.332 ।
भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ ।
गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः । 21.333 ।
निवारितो धर्मजेन गुरुभिश्चापरैस्तदा ।
माननार्थं गुरूणां तु न भीमस्तान् जघान ह । 21.334 ।
नचात्यवर्तत ज्येष्ठं धर्मात्मानं युधिष्ठिरम् ।
तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन् । 21.335 ।
च्च्ल्xxxविइइ.अथ दुर्योधनः पापो भीमसेनस्य पश्यतः ।
ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम् । 21.336 ।
तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः ।
ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय । 21.337 ।
अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः ।
निपात्य भूतल् . ए हितेशिरो मृदिष्य इत्यलम् । 21.338 ।
स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् ।
विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः । 21.339 ।
पुनश्च पापवृद्धये तदैव नो जघान तम् ।
विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम् । 21.340 ।
प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः ।
इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः । 21.341 ।
उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे ।
ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत् । 21.342 ।
दुः शासनैषां वासां सि दासानां नो व्यपाकुरु ।
इत्युक्तोऽभ्यगमत् पार्थान् स्ववासां स्यथ ते ददुः । 21.343 ।
ते चर्मवसना भूत्वातानशिष्टान् प्रकाण्स्य च ।
निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृत् आम् । 21.344 ।
पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् ।
चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः । 21.345 ।
पापेषु पूर्वस्य तथाऽधमस्य वं शे कुरूणामुरुधर्मशीलिनाम् ।
दुः शासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम् । 21.346 ।
विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि ।
तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम् । 21.347 ।
च्च्ल्xxxइx.पुनः पुनश्चैव विकर्षमाणे दुः शासनेऽन्यानि च तादृशानि ।
बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम् । 21.348 ।
वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः ।
प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः । 21.349 ।
तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा ।
भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं त्वक्षकितवं सहदेवो वधिष्यति । 21.350 ।
इत्युक्ते तत् तथेत्याह भीमसेनः सभातल् . ए ।
प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा ।
नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति । 21.351 ।
ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् ।
गृहाय तन्निशाम्य तु क्रुधाऽह मारुतात्मजः । 21.352 ।
अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते ।
पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च ।
फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति । 21.353 ।
इति वेदोदितं वाक्यं न सुतो दारदूषणे ।
दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः ।
अरक्षणाद् दूषित् आया न त्यागाच्च शुभं भवेत् । 21.354 ।
अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् ।
इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा । 21.355 ।
ददर्श च महाघोरमादातुं परिघं रुषा ।
कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रज् आन् । 21.356 ।
तदा ण्सिवा ववाण्सिरे सुयोधनाग्निगेहतः ।
तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु । 21.357 ।
च्च्xच्.निमित्तान्यतिघोराणि कुपिते मारुतात्मजे ।
दृष्ट्वाऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम् । 21.358 ।
आह तं विदुरो ज्येष्ठं क्षणेऽस्मिं स्तव पुत्रकाः ।
सानुबन्धा नशिष्यन्ति वृकोदरबलाहताः । 21.359 ।
क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति ।
अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान् । 21.360 ।
स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा ।
न दत्तमाहुर्विद्वां सस्तस्य बन्धुभिरेव च । 21.361 ।
आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः ।
तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम् । 21.362 ।
इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् ।
न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम् । 21.363 ।
तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृत् आन् ।
विद्धि भीमेन निष्पिष्टान् माऽत्र ते सं शयो भवेत् । 21.364 ।
कृष्णा च पाण्डवाण्स्चैव तपोवृद्धिमभीप्सवः ।
तपसा नैव दक्ष्यन्ति तेन जीवन्ति ते सुताः । 21.365 ।
तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् ।
हनिष्यति न सन्देहो बलेनैव वृकोदरः । 21.366 ।
इतीरितो विनिर्भर्त्स्य पुत्रं दुः शासनं नृपः ।
अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम् । 21.367 ।
छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता ।
नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम् । 21.368 ।
युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् ।
ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत् । 21.369 ।
च्च्xचि.भर्तुर्विष्णोण्स्च नान्यस्माद् वरस्वीकार इष्यते ।
एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम् । 21.370 ।
अधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् ।
इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम् । 21.371 ।
श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः ।
उक्ताः शतं च विप्राया धर्मे भागवते ततः ।
हेतुनाऽनेन वव्रे सा नान्यत् किञ्चिदतः परम् । 21.372 ।
ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः ।
दुर्योधनानन्तरजो जगाद तातं निजं पापकृत् आं प्रधानः । 21.373 ।
समस्तपाण्डवश्रियं समागतामहो पुनः ।
व्यमोचयो वृकोदराद् वधश्च नो ध्रुवो भवेत् । 21.374 ।
अतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते ।
पुनश्च देवनं भवेज्जितो वनं प्रयातु च । 21.375 ।
तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् ।
पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः ।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत् सभाम् । 21.376 ।
द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् ।
वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः । 21.377 ।
कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् ।
एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम् । 21.378 ।
वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा ।
दुर्योधनः पणं चक्रे बुद्ध्या दुः शासनोक्तया । 21.379 ।
गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः ।
पराजितो वनं यातुमैच्छत् सभ्रातृको यदा । 21.380 ।
च्च्xचिइ.तदा ननर्त पापकृत् सुयोधनानुजो हसन् ।
वदं श्च मारुतात्मजं पुनः पुनश्च गौरिति । 21.381 ।
उवाच च पुनः कृष्णां नृत्यन्नेव सभातल् . ए ।
अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम् । 21.382 ।
एतेऽखिलाः षण्ढतिलास्तमोऽन्धमाप्ता नचैषां पुनरुत्थितिः स्यात् ।
इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राण्स्च सर्वे । 21.383 ।
तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम् ।
इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः । 21.384 ।
यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा ।
नचात्येति गुरून् भीम इति तं शरणं ययुः । 21.385 ।
अब्रवीद् धार्तराष्ट्रां श्च द्रोणो विप्रोऽपि सन्नहम् ।
सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते । 21.386 ।
रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः ।
नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम् । 21.387 ।
ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः ।
गत्याऽनुचक्रे युवसिं हखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य । 21.388 ।
दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह सं रक्तनेत्रः ।
ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः । 21.389 ।
प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी ।
रोरुद्यमानां विदुरः स्थापयामास तां गृहे ।
प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः । 21.390 ।
युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा ।
दहेयं कौरवान् सर्वानिति कारुणिको नृपः । 21.391 ।
च्च्xचिइइ.उद्धृत्य बाहू प्रययौ बाहुषाल् . ई वृकोदरः ।
आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति । 21.392 ।
अबद्धकेशा प्रययौ द्रौपदी सा सभातल् . आत् ।
मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति । 21.393 ।
वर्षन् पां सून् ययौ पार्थ इत्थं शत्रुषु सायकान् ।
वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः । 21.394 ।
यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् ।
पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ । 21.395 ।
प्रेतसं स्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ ।
हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति । 21.396 ।
त् आनथानुययुः सूता रथैः परिचतुर्दशैः ।
सूदाः पौरोगवाण्स्चैव भृत्या ये त्वाप्तकारिणः । 21.397 ।
ततस्ते जाह्नवीतीरे वने वटमुपाण्स्रिताः ।
न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः । 21.398 ।
ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् ।
स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम् । 21.399 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पॣअण्डववनप्रवेशो नाम एकविं शोऽध्यायः
च्च्xचिव्.(अरणीप्राप्तिः )
अथ द्वाविं शोऽध्यायः
ओं । आगन्तुकामान् पुरवासिनस्ते सं स्थाप्य कृच्छ्रेण कुरुप्रवीराः ।
रात्रौ प्रविष्टा गहनं वनं च किर्मीरमासेदुरथो नराण्सम् । 22.1 ।
बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः ।
सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन् । 22.2 ।
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याऽशु धरातल् . ए तम् ।
चक्रे मखे सङ्गरनामधेये प्रसं ह्य नारायणदैवते पशुम् । 22.3 ।
निहत्य रक्षो वनमध्यसं स्थास्तदा यतीनामयुतैः समेताः ।
अण्सीतिसाहस्रमुनिप्रवीरैर्दशां शयुक्तैः सहिता व्यचिन्तयन् । 22.4 ।
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम् ।
दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च । 22.5 ।
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिं शतदासिदासकान् ।
सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके । 22.6 ।
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः ।
शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्च पुरातनास्तथा । 22.7 ।
एवं गजानां बहुकोटिवृन्दां स्तथा रथानां च हयां श्च वृन्दशः ।
विसृज्य रत्नानि नरां श्च वृन्दशो वने विजह्रुर्दिवि देववत् सुखम् । 22.8 ।
गवां च लक्षं प्रददाति नित्यशः सुवर्णभारां श्च शतं युधिष्ठिरः ।
सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम् । 22.9 ।
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन ।
आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽम्बिकेयः । 22.10 ।
ज् ञातं प्रतीपोऽसि ममाऽत्मजानां न मे त्वया कार्यमिहास्ति किञ्चित् ।
यथेष्टस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान् । 22.11 ।
च्च्xच्व्.तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा ।
सञ्ज्ञामवाप्याऽदिशदाण्सु सञ्जयं जीवामि चेदाण्सु ममाऽनयानुजम् । 22.12 ।
इतीरितः सञ्जयः पाण्डवेयान् प्राप्याऽनयद् विदुरं शीघ्रमेव ।
सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाण्स्लिषत् । 22.13 ।
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा ।
क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात् ।
सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः । 22.14 ।
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः ।
व्यासोऽभिगम्यावददाम्बिकेयं निवारयाऽश्वेव सुतं तवेति । 22.15 ।
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसं शयम् ।
इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न सं वदे तैः । 22.16 ।
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह ।
त् आं चेत् करोत्येष सुतस्तवास्य भद्रं तदा स्याच्छप्स्यति त्वन्यथा सः । 22.17 ।
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु ।
सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः । 22.18 ।
सर्वाण्स्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च ।
तथाऽपि विष्णुर्विनिवारयेत् क्वचिद् वाचा विधत्ते च जनान् विडम्बयन् । 22.19 ।
मैत्रेय आगादथ भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान् ।
सम्पूजयामास मुनिं स चाऽह दातुं राज्यं पाण्डवान् सम्प्रशं सन् । 22.20 ।
विशेषतो भीमबलं शशं स किर्मीरनाण्सादि वदन् मुनीन्द्रः ।
श्रुत्वाऽसहं स्तद् धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः । 22.21 ।
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम् ।
इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद् राज्यदस्त्वं तथेति ।
श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टक्षत्रोक्तं सोऽत्रसद् धार्तराष्ट्रः । 22.22 ।
च्च्xच्वि.वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराण्सु ।
कृष्णे सोऽपि द्रुतमायात् ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः । 22.23 ।
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः ।
गुणां स्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाऽप पादौ ।
सा पादयोः पतिता वासुदेवमस्तौत् समस्तप्रभुमात्मतन्त्रम् । 22.24 ।
अचिन्त्य नित्याव्यय पूर्णसद्गुणार्णवैकदेहाखिलदोषदूर ।
रमाब्जजेशेरसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य ।
समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताण्स्रय सर्वसार । 22.25 ।
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य ।
यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेण्सविपादिकेभ्यः । 22.26 ।
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाण्स्च योषाः ।
पतीन् समालिङ्ग्य विमुक्तकेश्यान् भीमाहतान् दर्शये नान्यथेति ।
त् आं सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद । 22.27 ।
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम् ।
साल्वराजं दुरात्मानं हतश्चासौ सुपापकृत् । 22.28 ।
सन्निधानेऽथ दूरे वा कालव्यवहितेऽपि वा ।
स्वभावाद् वा व्यवहिते वस्तुव्यवहितेऽपि वा ।
नाण्सक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः । 22.29 ।
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः ।
दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः । 22.30 ।
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम् ।
धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च। 22.31 ।
योग्यताक्रमतो विष्णुरिच्छयेत्थमचीक्लृपत् ।
एधमानद्विल् . इत्येव विष्णोर्नाम हि वैदिकम् । 22.32 ।
च्च्xच्विइ.स्वयोग्यताया अधिकधर्मज्ञानादिजं फलम् ।
भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम् । 22.33 ।
पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु ।
व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः ।
तेषां प्रवासनं चैव प्रियं न मम सर्वथा । 22.34 ।
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः ।
प्रिया इत्येव कथनात् पाण्डवानां शुभोन्नतेः । 22.35 ।
गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम् ।
नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः । 22.36 ।
द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत् ।
सा हिभीममनो वेद न कार्यः शाप इत्यलम् । 22.37 ।
तस्माद् यथायोग्यतया हरिणा धर्मवर्द्धनम् ।
कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत् । 22.38 ।
साल्वं श्रुत्वा समायातं रौग्मिणेयादयो मया ।
प्रस्थापिता हि भवतां सकाण्सात् ते ययुः पुरीम् ।
तदा साल्वोऽपि सौभेन द्वारकामर्दयद् भृशम् । 22.39 ।
प्रद्युम्न आण्सु निरगादथ सर्वसैन्यैरन्यैश्च यादवगणैः सहितोऽनुजैश्च ।
साल्वोऽवगम्य तनयं मम तद्विमानात् पापोऽवरुह्य रथमारुहदत्र योद्धुम् । 22.40 ।
कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः ।
दत्तं मया ण्सरममोघमथाऽददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद् वचः खे । 22.41 ।
नारायणेन हि पुरा मनसाऽभिक्लृप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम् ।
इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात् । 22.42 ।
वध्यस्त्वया नहि ततोऽयमयं च बाणण्स्चक्रायुधस्य दयितो नितराममोघः ।
मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन । 22.43 ।
च्च्xच्विइइ.श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आण्सु स च साल्वपतिः स्वसौभम् ।
आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम् । 22.44 ।
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम् ।
आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम् । 22.45 ।
यस्मिञ्छरे करगते विजयो ध्रुवः स्यान्मत्तेजसा तदनुसङ्ग्रहणात् सुतान्मे ।
यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैव तेन तदनुब्रजनं कृतं मे । 22.46 ।
तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे ।
तं सन्निवार्य तु मया ण्सरपूगविद्धो माया युयोज मयि पापतमः स साल्वः । 22.47 ।
त् आः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूं श्च दैत्यान् ।
हत्वाऽशु तं च गिरिवर्षिणमाण्सु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम् । 22.48 ।
तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य ।
चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च । 22.49 ।
तस्मादिदं व्यसनमास हि विप्रकर्षान्मे कार्यतस्त्विति निगद्य पुनश्च पार्थान् ।
कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती । 22.50 ।
पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः ।
अन्वेव पाण्डवान् याता वनमत्रैव च स्थिताः । 22.51 ।
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम् ।
प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ । 22.52 ।
धृष्टकेतुश्च भागिनीं काण्सिराजः सुतामपि ।
पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः । 22.53 ।
पार्वती नकुलस्याऽसीद् भार्या पूर्वं तिलोत्तमा ।
पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हिवारिताः । 22.54 ।
सुभद्रामभिमन्युं च रथमारोप्य केशवः ।
पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ । 22.55 ।
च्च्xचिx.कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे ।
ययुर्द्वारवतीमेव तत्रोषुः कृष्णलाल् . इत् आः । 22.56 ।
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह ।
भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा । 22.57 ।
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः ।
भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः । 22.58 ।
अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः ।
तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा । 22.59 ।
एवं सदा विष्णुपरायणानां तत्प्रापणान्नैकभुजां प्रयातः ।
सं वत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री । 22.60 ।
अतिमार्दवयुक्तत्वाद् धर्मराजश्चतुर्दशे ।
अपि वर्षे गुरुभयाद् राज्यं नेच्छेदिति प्रभुः ।
मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे । 22.61 ।
क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने ।
राज्ञां सामर्थ्ययुक्तानामिति सं स्थाप्य शास्त्रतः । 22.62 ।
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान् ।
कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह । 22.63 ।
कारयन् सत्यशपथं विवादस्य क्रमेच्छया ।
आदिशत् प्रथमं कृष्णां भीमः सा नृपमब्रवीत् । 22.64 ।
नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम् ।
इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत् समस्तम् । 22.65 ।
कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम् ।
तस्मान्न कोपविषयोऽस्ति कुतश्च कश्चित् तस्मात् क्षमैव सकलेषु परोऽस्य धर्मः । 22.66 ।
च्च्च्.इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः ।
राज्ञा नकृत्यं नच लोकयात्रा भवेज्जगत् कापुरुषैर्विनश्येत् । 22.67 ।
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरस्सराण्स्च ।
काष्ठादिवत् तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य । 22.68 ।
तदाज्ञया पुरुषण्स्चेष्टमानश्चेष्टानुसारेण ण्सुभाण्सुभस्य ।
भोक्ता न तच्चेष्टितमन्यथा भवेत् कर्ता तस्मात् पुरुषोऽप्यस्य वश्यः । 22.69 ।
वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः ।
विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद् भवतो हि तौ हरेः । 22.70 ।
तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ ।
लिप्येत ताभ्यां परमस्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः । 22.71 ।
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत् ।
कुतर्कमाण्स्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा । 22.72 ।
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री ।
वाचाल् . अता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम् । 22.73 ।
राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः ।
तथाऽपि पुं सा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात् । 22.74 ।
प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य ।
स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते । 22.75 ।
तेनैति सम्यग्गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा ।
हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात् कार्यमेव स्वकर्म । 22.76 ।
ज् ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवाऽत्मनः कार्यकर्म ।
प्रत्यक्षैषा कर्तृत् आ जीवसं स्था तथाऽगमादनुमानाच्च सर्वम् । 22.77 ।
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म ।
तत्प्रेरकं विष्णुमेवाभिजानन् भवेत् प्रमाणत्रितयानुगामी । 22.78 ।
च्च्चि.पूर्णं प्रमाणं तत्त्रयं चाविरोधेनैकत्रस्थं तत्त्रयं चाविरोधि ।
पृथङ् मध्यं चाप्रमाणं विरोधि स्यात् तत् तस्मात् त्रयमेकत्र कार्यम् । 22.79 ।
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृस्वात्मकर्म प्रजह्यात् ।
विद्वान् जीवं विष्णुवशं विदित्वा करोति कर्तव्यमजस्रमेव । 22.80 ।
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या ।
सा कारणं तत् प्रथमं तु द्वितीयमनादि कर्मैव तथा तृतीयः ।
जीवप्रयत्नः पौरुषाख्यस्तदेतत् त्रयं विष्णोर्वशगं सर्वदैव । 22.81 ।
स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः ।
हठश्चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्च यावत् ।
हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यत्नो हठकर्मप्रयोक्ता । 22.82 ।
विना यत्नं न हठो नापि कर्म फलप्रदौ वासुदेवोऽखिलस्य ।
स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत् । 22.83 ।
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता ।
नास्यापगच्छेत् स हि सर्वशक्तिर्नाण्सक्तता क्वचिदस्य प्रभुत्वात् । 22.84 ।
तस्मात् कार्यं तेन क्लृप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव ।
अतोऽन्यथा निरयः सर्वथा स्यात् स्वकर्म विप्रस्य जपोपदेशौ ।
विष्णोर्मुखाद् विप्रजातिः प्रवृत्त् आ मुखोत्थितं कर्म तेनास्य सोऽदात् । 22.85 ।
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि ।
प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्चातिसामीप्यतोऽस्य ।
जपोपदेशौ क्षत्रियस्यापि विष्णुण्स्चक्रे धर्मौ यज्ञकर्मापि विप्रे । 22.86 ।
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः ।
तत्सादृश्यात् स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः ।
वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङ्घ्रिजः शूद्र उक्तः । 22.87 ।
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव ।
हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्च समीपगत्वात् । 22.88 ।
च्च्चिइ.भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम् ।
बलं ज् ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि ।
तस्मात् पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ । 22.89 ।
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्वमेवाखिलानाम् ।
वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्वत् । 22.90 ।
एतैर्धर्मैर्विष्णुना पूर्वक्लृप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः ।
तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं ज् ञानमस्यापि पूजा । 22.91 ।
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव ।
तद्भक्तत्वाद् देवताण्स्चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः । 22.92 ।
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव ।
स्वतन्त्रत्वात् सुखदुःखप्रदोऽसौ नान्यः स्वतस्तद्वशा यत् समस्ताः । 22.93 ।
स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च ।
स्वतन्त्रत्वात् सर्वदोषोज्झितश्च निस्सीमशक्तिर्हि यतः स्वतन्त्रः । 22.94 ।
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निस्सीमत्वाद् विद्यते तस्य यस्मात् ।
एवं गुणैरखिलैश्चापि पूर्णो नारायणः पूज्यतमः स्वधर्मैः ।
अस्माकं यत् तेन नातिक्षमैव धर्मो दुष्टानां वारणं ह्येव कार्यम् । 22.95 ।
हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियां श्च विशेषतो युद्धगतान् स्मरन् हरिम् ।
स्वबाहुवीर्येण च तस्य बाहू चैतन्यमात्रौ भवतः सदेहौ । 22.96 ।
पापाधिकां श्चैव बलाधिकां श्च हत्वा मुक्तावधिकानन्दवृद्धिः ।
प्रीतिश्च विष्णोः परमैव तत्र तस्माद्धन्तव्याः पापिनः सर्वथैव । 22.97 ।
ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम् ।
राजानं वा राजपुत्रं तथैव राजानुजं वाऽभियातं निहन्यात् । 22.98 ।
राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव ।
क्रूरं चान्यद् धर्मयुक्तं परैस्तत् प्रसाधनीयं क्षत्रियैर्न स्वकार्यम् ।
च्च्चिइइ.एवं धर्मो विहितो वेद एव वाक्यं विष्णोः पञ्चरात्रेषु तादृक् । 22.99 ।
अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन ।
न कुत्रचिद् विधिरस्यास्ति तेन न तद् दत्तं द्यूतहृतं वदन्ति । 22.100 ।
भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव ।
एवं धर्मः शाण्स्वतो वैदिको हि द्यूते स्त्रियां नाल्पमाहार्यमाहुः । 22.101 ।
यद्येषां वै भोग्यमल्पं तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम् ।
निवारणे पुरुषस्य त्वशक्तैस्तद् राज्यं न पुनराहार्यमेव । 22.102 ।
त्वं धर्मनित्यश्चाग्रजश्चेति राजन् ऋतेऽनुज्ञां न मया तत् कृतं च ।
दातास्यनुज्ञां यदि तान् निहत्य त्वय्येव राज्यं स्थापयाम्यद्य सम्यक् । 22.103 ।
सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादशः नः प्रयाताः ।
वेदप्रामाण्याद् वत्सरास्ते हि मासैः सहस्राब्दं सत्रमुक्तं नराणाम् ।
अज्ञातमेकं मासमुष्याऽथ शत्रून् निहत्य राज्यं प्रतिपालयामः । 22.104 ।
मा मित्राणां त् आपकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्चैव राजन् ।
ज्वलस्वारीणां मूर्ध्नि मित्राणि नित्यमाह्लादयन् वासुदेवं भजस्व । 22.105 ।
स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन् ।
यस्मात् कृष्णो व्यजयच्छङ्करादीन् जरासुतादीन् कादिवरैरजेयान् । 22.106 ।
ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे ।
पाराण्सर्यो दिव्यदृष्टिं प्रदाय स्वातन्त्र्यं नोऽदर्शयत् सर्वलोके । 22.107 ।
तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम् ।
एवञ्च ते कीर्तिधर्मौ महान्तौ प्राप्यौ राजन् वासुदेवप्रसादात् । 22.108 ।
एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः ।
त्रयोदशाब्दस्यान्तेऽहं कुर्यामेव त्वदीरितम् । 22.109 ।
सत्यमेतन्न सन्देहः सत्येनाऽत्मानमालभे ।
लोकापवादभीरुं मां नातोऽन्यद् वक्तुमर्हसि । 22.110 ।
च्च्चिव्.तुदसे चातिवाचा मां यद्येवं भीम मां वदेः ।
तदैव मेऽत्ययः कार्यो हन्तव्याण्स्चैव शत्रवः ।
नैतादृशैरिदानीं तु वाक्यैर्बाधितुमर्हसि । 22.111 ।
भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याण्स्च कथं युधि ।
पूज्यास्ते बाहुयुद्धेन न निवार्याः कथञ्चन । 22.112 ।
अस्त्राणि जानन्नपि हि न प्रयोजयसि क्वचित् ।
तस्माद् तदैव गन्तव्यं विज्ञातास्त्रे धनञ्जये । 22.113 ।
इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः ।
नोवाच किञ्चिद् वचनं स्वाभिप्रेतमवाप्य च । 22.114 ।
अभिप्रायो हि भीमस्य निश्चयेन त्रयोदशे ।
युधिष्ठिरस्य राज्यार्थं गमनार्थे प्रतिश्रवः ।
अन्यथाऽतिमृदुत्वात् स न गच्छेद् भिन्नधीः परैः । 22.115 ।
कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः ।
भीष्मद्रोणादिविजयः कथं स्यादित्यचिन्तयत् । 22.116 ।
निवारणं गुरूणां हि भीम इच्छति न क्वचित् ।
तस्मात् ते ह्यर्जुनेनैव निवार्या इत्यचिन्तयत् । 22.117 ।
आपद्येव हि भीमस्तान् निवारयति नान्यथा ।
एवं चिन्तासमाविष्टं विज्ञायैव युधिष्ठिरम् । 22.118 ।
सर्वज्ञः सर्वशक्तिश्च कृष्णद्वैपायनोऽगमत् ।
नृपतिं बोधयामास चिन्ताव्याकुलमानसम् । 22.119 ।
इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः ।
भीष्मद्रोणादिकान् सर्वान् तं त्वं वद धनञ्जये । 22.120 ।
इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम् ।
न स्वयं ह्यवदत् पार्थे फलाधिक्यं यतो भवेत् । 22.121 ।
च्च्च्व्.भीष्मद्रोणादिविजय एतावद् वीर्यमेव हि ।
अलं नातोऽधिकं कार्यमेतावद् योग्यमस्य च ।
फल्गुनस्येति भगवान् न स्वयं ह्यवदन्मनुम् । 22.122 ।
गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि ।
धर्मराजोऽदिशन्मन्त्रं फल्गुनाय रहस्यमुम् । 22.123 ।
तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च ।
यमजौ च समाण्स्लिष्य गिरिमेवेन्द्रकीलकम् ।
तपश्चचार तत्रस्थः शङ्करस्थं हरिं स्मरन् । 22.124 ।
षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ ।
वराहरूपमायातं वधार्थं फल्गुनस्य च । 22.125 ।
तं ज् ञात्वा फल्गुनो वीरः सज्यं कृत्वा तुगाण्डिवम् ।
चिक्षेप वज्रसमितां स्तत्काये सायकान् बहून् । 22.126 ।
किरातरूपस्तमनु सभार्यश्च त्रियम्बकः ।
स ममार हतस्ताभ्यां दानवः पापचेतनः । 22.127 ।
तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि ।
तमविध्यो यतस्त्वं हि तद् युद्ध्यस्व मया सह । 22.128 ।
इत्युक्तः फल्गुनः प्राह तिष्ठ तिष्ठ न मोक्ष्यसे ।
इत्युक्त्वा तावुभौ युद्धं चक्रतुः पुरुषर्षभौ । 22.129 ।
तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः ।
ततोऽर्जुनस्तु गाण्डीवं समादायाभ्यताडयत् । 22.130 ।
तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा ।
बाहुयुद्धं ततस्त्वासीत् तयोः पुरुषसिं हयोः । 22.131 ।
पिण्डीकृत्य ततो रुद्रश्चिक्षेपाथ धनञ्जयम् ।
मूर्च्छामवाप महतीं फल्गुनो रुद्रपीडितः । 22.132 ।
च्च्च्वि.पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम् ।
अवराणां वरं मत्तो येषां त्वं सम्प्रयच्छसि ।
अजेयत्वं प्रसादात् ते विजेयाः स्युर्मयाऽपि ते । 22.133 ।
इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम् ।
तेनाजयच्छ्वेतवाहं गिरिशो रणमध्यगम् । 22.134 ।
केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ ।
एतावताऽलं भीष्मादेर्जयार्थमिति चिद्धनः । 22.135 ।
केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः ।
अतिवृद्धस्य पार्थस्य दर्पः स्यादित्यचिन्तयत् । 22.136 ।
पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम् ।
व्यासोदितेन मन्त्रेण तानि पुष्पाणि तच्छिरः । 22.137 ।
आरुहन् स तु तं ज् ञात्वा रुद्र इत्येव फल्गुनः ।
नमश्चक्रे ततः प्रादादस्त्रं पाण्सुपतं शिवः । 22.138 ।
अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत् ।
तस्मात् पाण्सुपतं नाम स्वान्यस्त्राण्यपरे सुराः ।
ददुस्तदैव पार्थाय सर्वे प्रत्यक्षगोचराः । 22.139 ।
इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ ।
रुद्रदेहस्थितं ब्रह्म विष्ण्वाख्यं तोषितं त्वया ।
तेन लोकं ममाऽगच्छ प्रेषयामि रथं तव । 22.140 ।
इत्युक्त्वा प्रययाविन्द्रस्तद्रथेन च मातलिः ।
आयात् पार्थस्तमारुं ह्य ययौ तातनिवेशनम् । 22.141 ।
पूजितो दैवतैः सर्वैरिन्द्रेणैव निवेशितः ।
तेन सार्द्धमुपासीदत् तस्मिन्नैन्द्रे वरासने । 22.142 ।
प्रीत्या समाण्स्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः ।
च्च्च्विइ.ईक्षन् मुखं तस्य मुमोद सोऽपि ह्युवास तस्मिन् वत्सरान् पञ्च लोके । 22.143 ।
अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम् ।
सम्प्राप्य भावेन तु मानुषेण माता कुलस्येति निराकृत् आऽभूत् । 22.144 ।
षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात् ।
सं वत्सरं षण्ढरूपी चरस्व न षण्ढता ते भवतीति धृष्णुः । 22.145 ।
ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन् ।
गन्धर्वाच्चित्रसेनात्तु तथाऽस्त्राणि सुरेश्वरात् । 22.146 ।
सुभद्रयाऽभिमन्युना सह स्वकां पुरं गतः ।
जनार्दनोऽत्र सं वसन् कदाचिदित्थमैक्षत । 22.147 ।
मया वरो हि शम्भवे प्रदत्त आस पूर्वतः ।
वरं ग्रहीष्य एव ते सकाण्सतो विमोहयन् । 22.148 ।
"त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा कलया मानुषादिषु" 73 । 22.149 ।
इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी ।
प्रीत्यर्थं वासुदेवस्य रुग्मिणी वाक्यमब्रवीत् । 22.150 ।
"जातेऽपि पुत्रे पुत्रार्थं सा हि वेद मनोगतम् ।
पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः " । 22.151 ।
इत्युक्तो भगवान् देव्या सम्मोहाय सुरद्विषाम् ।
ययौ सुपर्णमारुह्य स्वीयं बदरिकाण्स्रमम् । 22.152 ।
"एष मोहं सृज् आम्याण्सु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । 22.153 ।
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
73 पद्म पु. 6.71.106
च्च्च्विइइ.प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु । 22.154 ।
अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः ।
तमोऽसुरा नान्यथा हियान्तीत्येतन्मतं मम" । 22.155 ।
इत्युक्तवचनं पूर्वं केशवेन शिवाय यत् ।
तत् सत्यं कर्तुमायातं कृष्णं बदरिकाण्स्रमम् ।
सर्वज्ञा मुनयः सर्वे पूजयाञ्चक्रिरे प्रभुम् । 22.156 ।
रात्रौ कृष्णे मुनिमध्ये निविष्टे घण्टाकर्णः कर्णनामा पिशाचौ ।
समायातां गिरिशेन प्रदिष्टौ कृष्णं द्रष्टुं द्वारकां गन्तुकामौ । 22.157 ।
तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः ।
कृत्वा स्वजातिचेष्टाण्स्च ध्यानेनैनमपश्यताम् । 22.158 ।
दृष्ट्वा हृदि स्थितं तं तु कौतूहलसमन्वितौ ।
स्तुत्वा भक्त्या प्रणामं च बहुशश्चक्रतुः शुभौ । 22.159 ।
तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ ।
चकार क्षणमात्रेण दिव्यरूपस्वरान्वितौ । 22.160 ।
त् आभ्यां पुनर्नृत्तगीतसं स्तवैः पूजितः प्रभुः ।
ययौ कैलासमद्रीशं चकारेव तपोऽत्र च । 22.161 ।
स्वीयानेव गुणान् विष्णुर्भुञ्जन् (युञ्जन्) नित्येन शोचिषा ।
शार्वं तपः करोतीव मोहयामास दुर्जनान् । 22.162 । 74
पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा ।
शर्वं प्रति तवाहं तु कुर्यां द्वादशवत्सरम् । 22.163 ।
तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः ।
74 गुणान्विष्णोर्युञ्जन्नित्यत्र नित्येन शोचिषा प्रकाण्सरूपा
साक्षिणा युञ्जन् मनसा ध्यायन् । भुञ्जन्निति पाठे ऽभुजि
पॣअलनाभ्यवहारायोः ऽ इति धातोः मनसा पालयन् ध्यात्वा
स्थिरीकुर्वन्, इति भावः । -भा.प्र.
च्च्चिx.इति तस्मात् तदा कृष्ण एकाहेन बृहस्पतिम् । 22.164 ।
आज्ञया चारयामास क्षिप्रं द्वादशराण्सिषु ।
द्वादशाब्दमभूत् तेन तदहः केशवेच्छया । 22.165 ।
एकस्मिन्नह्नि भगवान् राण्सिं राण्सिं च वत्सरम् ।
कल्पयित्वोपवासादीन् मनसा नियमानपि । 22.166 ।
मासब्रतं सार्द्धशतश्वासकालैरकल्पयत् ।
मनसैव स्वभक्तानां द्वादशाब्दव्रताप्तये । 22.167 ।
तत्रास्य गरुडाद्याण्स्च परिचर्यां स्वपार्षदाः ।
चक्रुर्होमादिकाण्स्चैव क्रियाण्स्चक्रे जनार्दनः ।
स्वात्मानं प्रति पापानां शिवायेति प्रकाण्सयन् । 22.168 ।
एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः ।
अभ्याययुः पितृमुनीन्द्रगणैः समेता गन्धर्वसिद्धवरयक्षविहङ्गमाद्याः । 22.169 ।
शर्वोऽपि सर्वसुरदैवतमात्मदैवमायातमात्मगृहसन्निधिमाण्स्ववेत्य ।
अभ्याययौ निजगणैः सहितः सभार्यो भक्त्याऽतिसम्भ्रमगृहीतसमर्हणाग्र्यः । 22.170 ।
अभ्येत्य पादयुगल् . अं जगदेकभर्तुः कृष्णस्य भक्तिभरितः शिरसा ननाम ।
चक्रे स्तुतिं च परमां परमस्य पूर्णषाड्गुण्यविग्रहविदोषमहाविभूतेः । 22.171 ।
कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छं स्तुष्टाव रुद्रहृदिगं निजमेव रूपम् ।
रुद्रो निशम्य तदुवाच सुरान् समस्तान् सत्यं वदामि शृणुताद्य वचो मदीयम् ।
विष्णुः समस्तसुजनैः परमो ह्युपेयस्तत्प्राप्तयेऽहमनिलोऽथ रमाऽभ्युपायाः । 22.172 ।
एष ह्यशेषनिगमार्थविनिर्णयोत्थो यद् विष्णुरेव परमो मम चाब्जयोनेः ।
अव्यक्ततः सकलजीवगणाच्च नित्य इत्येव निश्चय उतैतदनुस्मरध्वम् ।
इत्युक्तवत्यखिलदेवगणा गिरीशे कृष्णं प्रणेमुरतिवृद्धरमेशभक्त्या । 22.173 ।
उक्तैरन्यैश्च गिरिशवाक्यैस्तत्त्वविनिर्णयैः ।
कृष्णस्यैव गुणाख्यानैः पुनरिन्द्रादिदेवताः ।
ज् ञानाभिवृद्धिमगमन् पुराऽपि ज्ञानिनोऽधिकम् । 22.174 ।
च्च्च्x.सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा ।
तथाऽपि तत्प्रमाणानां बहुत्वाद् येऽत्र सं शयाः ।
युक्तिमात्रे तेऽपि रुद्रवाक्यादपगतास्तदा । 22.175 ।
ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः ।
यदुक्तवाञ्छिवं पूर्वं सत्यं कर्तुं तदब्रवीत् । 22.176 ।
पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव ।
ज् आतः प्रद्युम्ननामा यः स मद्दत्तः प्रवादतः । 22.177 ।
पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः ।
देहि कान्तं ममेत्येव तदा तामहमब्रुवम् । 22.178 ।
उत्पत्स्यते वासुदेवाद् यदा तं पतिमाप्स्यसि ।
इत्यतोऽसौ मया दत्त इव देव त्वदाज्ञया । 22.179 ।
दासोऽस्मि तव देवेश पाहि मां शरणागतम् ।
इत्युक्त्वाऽभिप्रणम्यैनं पुनराह सुरान् हरः । 22.180 ।
यदर्थमेष आयातः केशवः शृणुतामराः ।
योऽसुरो वक्रनामाऽसीदवध्यो ब्रह्मणो वरात् ।
तदाजाताद् वासुदेवपुत्रात् कामादृते क्वचित् । 22.181 ।
तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च ।
आयात इह तं चापि ददाह स्वोदरात् सुतम् ।
निस्सारयित्वा कक्षं च दग्धं पश्यत देवताः । 22.182 ।
ज्वालामालाकराल् . एन स्वतेजोवर्द्धितेन च ।
प्रद्युम्नेनैव तं दैत्यं दग्ध्वा वनसमन्वितम् ।
पुनश्च स्वोदरे पुत्रं स्थापयामास केशवः । 22.183 ।
सद्योगर्भं पुनस्तं च रुग्मिण्यां जनयिष्यति ।
पूर्ववत् क्षणमात्रेण युवा च स भविष्यति । 22.184 ।
च्च्च्xइ.दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च ।
एवं क्रीडत्ययं देवः पूर्णैश्वर्येण केवलम् ।
इत्युक्ते केशवं नेमुर्देवाः शक्रपुरोगमाः । 22.185 ।
ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसं स्थः ।
पुनः पुनः प्रणतः शङ्करेण स्तुतस्तृतीयेऽह्नि निजां पुरीमगात् । 22.186 ।
कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रौ वासुदेवः समागात् ।
सहैकलव्येन निजेन मातुः पित्रा तथाऽक्षोहिणिकत्रयेण । 22.187 ।
पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः ।
सं योधयामासुरथाभ्यवर्षच्छरैर्निषादाधिप एकलव्यः । 22.188 ।
तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विहतप्रदीपाः ।
सहैव रामेण ण्सिनेश्च नप्त्रा समाविशन् स्वां पुरमेव सर्वे । 22.189 ।
पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम् ।
विनिस्सृत् आ आत्तशस्त्राः स्वपुर्याः सिं हा यथा धर्षित् आः सद्गुहायाः । 22.190 ।
"अथाऽससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम् ।
अयुद्ध्यतां तौ सात्यकिः पौण्ड्रकश्च तथाऽन्योन्यं विरथं चक्रतुश्च" 75 । 22.191 ।
ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्चैकलव्यश्च वीरौ ।
कृत्वाऽन्योन्यं विरथं गदाभ्यामयुद्ध्यतां ज् आतदर्पौ बलाग्र्यौ । 22.192 ।
तस्मिन् काले केशवो वैनतेयमारुं ह्याऽयाद् यत्र ते युद्दसं स्थाः ।
दृष्ट्वा कृष्णं हर्षसम्पूरितात्मा रामो हन्तुं चैकलव्यं समैच्छत् । 22.193 ।
उद्यम्य दोर्भ्यां स गदां जवेनैवाभ्यापतद् रौहिणेयो निषादम् ।
बलं कोपं चास्य दृष्ट्वैकलव्यः पराद्रवज्जीवितेच्छुः सुदूरम् । 22.194 ।
विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः ।
वेलान्तं तं द्रावयित्वाऽत्र तस्थौ रामो गदापाणिरदीनसत्त्वः । 22.195 ।
75 हरिवं शे भविष्यत्पर्वणि अ. 102
च्च्च्xइइ.सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयातं पुनश्च ।
समुद्रेऽशीतिं योजनानामतीत्य पश्चादैक्षद् द्वीपमेवाधिरुं ह्य । 22.196 ।
रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद ।
पौण्ड्रस्त्ववज्ञाय शिनिप्रवीरं निवार्यमाणोऽपि ययौ जनार्दनम् । 22.197 ।
तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम् ।
प्रस्थापयामास पुनश्च दूतं कृष्णायैको वासुदेवोऽहमस्मि । 22.198 ।
मदीयलिऽ न्गानि विसृज्य चाऽशु समागच्छेथाः शरणं मामनन्तम् ।
तद्दूतोक्तं वाक्यमेतन्निशम्य यदुप्रवीरा उच्चकैः प्राहसन् स्म । 22.199 ।
कृष्णः प्रहस्याऽह तवाऽयुधानि दास्याम्यहं लि ङ्गभूतानि चाऽजौ ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0