भाषा

ENहिગુ
ग्रंथ पाठ

महाभारततात्पर्यनिर्णय · भाग 141160

सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते । 20.93 ।
हन्तुं कृष्णो नरकं तत्र गत्वा गिरिदुर्गं गदया निर्बिभेद ।
वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाण्सान् । 20.94 ।
अथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः ।
त् आञ्छैलशस्त्रास्त्रशिलाभिवर्षिणण्स्चक्रे व्यसूं श्चक्रनिकृत्तकन्धरान् । 20.95 ।
तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः ।
त् आनस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः । 20.96 ।
हत्वा पञ्चत्रिं शतो मन्त्रिपुत्रान् जगाम भौमस्य सकाण्समाण्सु ।
श्रुत्वा भौमः कृष्णमायातमारादक्षोहिणीत्रिं शकेनाभ्ययात् तम् । 20.97 ।
जघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः ।
अथाऽससादाऽशु भौमोऽच्युतं तं मुञ्चञ्छरानस्त्रसम्मन्त्रितान् द्राक् ।
विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत् । 20.98 ।
अच्छेद्योऽभेद्यो नित्यसं वित्सुखात्मा नित्याव्ययः पूर्णण्सक्तिः स कृष्णः ।
निगीर्य तां देववरः शतघ्नीं नित्याण्स्रान्तोऽदर्शयच्छ्रान्तवच्च । 20.99 ।
बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृत् आन् वीक्ष्य परात्परेशः ।
भवेत् कथञ्चिद् बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम् । 20.100 ।
तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् ।
चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन । 20.101 ।
आलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे सं स्थितं भौममुग्रम् ।
सृजन्तमस्त्राण्यरिणा निकृत्तकन्धं मृत्योरर्पयामास शीघ्रम् । 20.102 ।
स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्च ।
तदाविष्टो वायुरगाच्च कृष्णमन्तः पुरं प्राविशत् सत्ययेशः । 20.103 ।
च्च्xल्व्.तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् ।
मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ । 20.104 ।
साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् ।
समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः । 20.105 ।
सं स्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन ।
शिवेन दत्तं धनदायातिसत्त्वं भगदत्ते न्यदधात् सुप्रतीकम् । 20.106 ।
करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः ।
चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै । 20.107 ।
नराधिपान् देवगन्धर्वनागान् जित्वाऽनीतं हेमरत्नोच्चराण्सिम् ।
शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः । 20.108 ।
महावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा ।
स प्राहिणोत् सर्वरत्नोच्चराण्सिं गजां श्च नारायण आदिदेवः । 20.109 ।
तत्रापश्यत् कन्यका भूमिपानां भौमानीत् आः समरे तान् विजित्य ।
द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः । 20.110 ।
काण्स्चित् तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः ।
पुत्रा अग्नेः पूर्वमासं श्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च । 20.111 ।
भार्यात्वार्थे वासुदेवस्य योषित्तनुं त् आसामिच्छतीनां समीरः ।
अदाद् वरं तपसाऽराधितः सन् स्त्रीभूतास्ते बदरीं स प्रजग्मुः । 20.112 ।

नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः ।
काण्स्चित् स्वर्गे ता निशाम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम् । 20.113 ।
आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः ।
गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै । 20.114 ।
समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् ।
नित्यामृतस्रावि जलेश्वरस्य च्छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः । 20.115 ।
च्च्xल्वि.स्वयं च सत्यासहितः समारुहत् स चाण्स्रमेणैव ययौ त्रिविष्टपम् ।
अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश । 20.116 ।
सम्पूजितः सत्यभामासहायः शक्रेण ण्सच्या सहितेन सादरम् ।
ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः । 20.117 ।
तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू ।
निर्दोषसौख्यैकतनू ण्सुभाण्सिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत् । 20.118 ।
अथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया ।
अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः । 20.119 ।
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा ।
पूर्णेन्दुकोट्योघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः । 20.120 ।
सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने ।
सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते । 20.121 ।
विदोषसं वित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् ।
सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम् । 20.122 ।
दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना ।
कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती । 20.123 ।
तरुर्जगज्जीवद मे गृहाङ्गणे सं स्थापनीयोऽयमचिन्त्यपौरुष ।
इतीरितस्तां कलशोपमस्तनीमालिङ्ग्य देवस्तरुमुद्बबर्ह । 20.124 ।
स तेन वृक्षेण सहैव केशवस्तया चदेव्याऽरुहदग्र्यपौरुषम् ।
खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः । 20.125 ।
त् आनासुरावेशयुतान् हरेश्च बलप्रकाण्साय समुद्यतान् सुरान् ।
न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः । 20.126 ।
निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम् ।
च्च्xल्विइ.प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि । 20.127 ।
विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः ।
ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम् । 20.128 ।
शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिः सृतैः शरैः ।
सवाहनो दूरतरे निपातितो गुरुत्मता ण्सम्भुरगाच्छराहतः । 20.129 ।
विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम् ।
शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन च चापजग्मिवान् । 20.130 ।
अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् ।
उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम् । 20.131 ।
जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् ।
शृङ्गं च दत्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम् । 20.132 ।

ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य ।
जगाद कृष्णोऽपि धरातल् . अस्थिते न मय्यमुं कश्चन जेष्यतीति । 20.133 ।
तमर्जुनार्थं वरमाप्य वासवः पुनः पुनश्चक्रधरं प्रणम्य ।
प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम् । 20.134 ।
कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत ।
किरीटधारी वरकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः । 20.135 ।
विरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्वचिदच्युतस्य ।
तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम् । 20.136 ।
प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तः पुरमेत्य चाङ्गणे ।
तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः । 20.137 ।
प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः ।
उद्वाह्य रेमे पृथगेव रत्नप्रासादसं स्थाभिरनन्तरूपः । 20.138 ।
च्च्xल्विइइ.पृथक्पृथक् तासु दशैव पुत्रकानधत्त कन्यामपि सर्वशः प्रभुः ।
प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः । 20.139 ।
विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् ।
ज् आतः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः । 20.140 ।
स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः ।
ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे । 20.141 ।
तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते ।
ययौ कदाचित् स तु रौग्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम् । 20.142 ।
अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च ।
विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते । 20.143 ।
तैः पूजितः साम्बसहाय आण्सु मयं च मायाविनमस्त्रवर्षैः ।
विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम् । 20.144 ।
तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ ।
सं स्पर्धयाऽयातममुष्य चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः । 20.145 ।
अस्त्राणि तावस्त्रवरैर्निहत्य तयोश्च ताभ्यां प्रतिदग्धयानौ ।
विद्राप्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे । 20.146 ।
स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुग्मिणिनन्दनः पुरीम् ।
ययौ ततो नारद आगमद् द्रुतं ज् ञातुं हरेर्बहुभार्यासु वृत्तिम् । 20.147 ।
तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् ।
सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः । 20.148 ।
स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसं स्थाम् ।
अन्या देवीः स्वापयित्वा ण्सरीरे तस्या भारत्याः पूर्णभोगार्थमेव । 20.149 ।
सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ ।
तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ । 20.150 ।
च्च्xलिx.अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम् ।
पश्येद् वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते। 20.151 ।
ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् ।
शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत् । 20.152 ।

युधिष्ठिराद्यैः सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम् ।
कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन । 20.153 ।
तस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् ।
सं वत्सरब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम् । 20.154 ।
पुनः पुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् ।
उत्पादयामास सुतं कुजां शं नाम्नैरावन्तं वरुणावेशयुक्तम् । 20.155 ।
गुणाः पितुर्मातृज् आतिः सुतानां यस्मात् सतां प्रायशस्तेन नागः ।
बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च । 20.156 ।
ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यां स्तनयोऽस्य मात्रा ।
सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्च । 20.157 ।
सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् ।
श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे । 20.158 ।
अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता ।
सं वत्सरान्ते फल्गुनस्याभिरूपा चित्राङ्गदा वीरसेनेन तोषात् । 20.159 ।
स वीरसेनस्त्वष्टुरं शो यमस्याप्यावेशयुक् सा च कन्या ण्सची हि।
त् आरादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहाऽसीत् । 20.160 ।
तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मा ।
तस्यां ज् आतो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवां शयुक्तः । 20.161 ।
पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः ।
च्च्ल्.अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम् । 20.162 ।
एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत् ।
एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनाऽनतानाम् । 20.163 ।
विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य ।
प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम् । 20.164 ।
विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे ।
प्राप्तं कृष्णः प्राहसत् सं विजानन् सत्यासहायः शयनीयाधिरूढः । 20.165 ।
सर्वज्ञा सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे ।
लील् आभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम् । 20.166 ।
आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम् ।
स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथाऽसदत् सर्ववृष्णीन् । 20.167 ।
दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज् ञातियुक्तः प्रणम्य ।
चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय । 20.168 ।
सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् ।
सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी । 20.169 ।
युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् ।
इत्युक्तवन्तं राम आहाऽप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम् । 20.170 ।
नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन ।
इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम् । 20.171 ।
नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र ।
चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत् । 20.172 ।

सं याचितः फल्गुनेनाऽह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित् ।
ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम् । 20.173 ।
च्च्लि.अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः ।
तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्चापि सर्वम् । 20.174 ।
अन्ये सर्वे वासुदेवस्य पार्थान् प्रियान् नित्यं ज् आनमाना अपि स्म ।
रामेणाऽदिष्टा उद्धवोऽथाऽहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः । 20.175 ।
दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं ज् आनमाना हरेस्तत् ।
अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः । 20.176 ।
प्रद्युम्नसाम्बप्रमुखाण्स्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः ।
पिण्डोद्धारं तत्र महोत्सवेष्वावर्तत्सु क्वचिदूचे सुभद्रा । 20.177 ।
यते तीर्थानाचरन् बान्धवां स्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् ।
कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ ओं इत्येतेषामाह चानामयं सः । 20.178 ।
भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे ।
कच्चिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम् । 20.179 ।
अत्रैवेति स्मयमानं च पार्थं पुनः पुनः पर्यपृच्छच्छुभाङ्गी ।
सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयं स्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा । 20.180 ।
ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच ।
कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थोक्तस्त्विति सा चैनमाह । 20.181 ।
नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम् ।
युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ । 20.182 ।
मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद् वासवश्चाथ शच्या ।
समं मुनीन्द्रैः फल्गुनेन स्मृतः सं स्तत्रैवाऽगात् प्रीतियुक्तो निशायाम् । 20.183 ।
कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् ।
मातापितृभ्यां सत्यकिनाऽपि युक्तो महोत्सवेऽन्याविदितो मुनीन्द्रैः । 20.184 ।
ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् ।
गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव । 20.185 ।
च्च्लिइ.सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् ।
आसीद् रावः किङ्किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः । 20.186 ।
ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च।
दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म । 20.187 ।
ततः स आबद्धतल् . आङ्गुलित्रः सतूणीरश्चापमायम्य बाणैः ।
चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च। 20.188 ।
चक्रे सारथ्यं केशवेनैतदर्थे सुशिक्षित् आ तस्य सम्यक् सुभद्रा ।
तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः । 20.189 ।
स शिक्षया त्वद्भुतया ण्सरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् ।
निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम् । 20.190 ।
प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत् तम् ।
कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग्रोधं युयुधे च च्छलेन । 20.191 ।
एको ह्यसौ मरुतां सौम्यनामा ण्सुश्रूषार्थं वासुदेवस्य जातः ।
तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची । 20.192 ।

निरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च ।
दृष्ट्वा ण्सरां स्तस्य तीक्ष्णां स्त्वचोऽपि नच्छेदकान् विपृथुः सन्तुतोष । 20.193 ।
शिक्षां पार्थस्याधिकं मानयान उपेत्य पार्थं च शशं स सर्वम् ।
आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्त् आयुधः फल्गुनेनैव पूर्वम् । 20.194 ।
ततः पराजितवच्छीघ्रमेत्य शशं स सर्वं हलिनेऽथ सोऽपि ।
प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च । 20.195 ।
कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् ।
अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः । 20.196 ।
मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन ।
च्च्लिइइ.इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव । 20.197 ।
ज् ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः ।
इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम् । 20.198 ।
अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् ।
पुरैवोक्तं तन्मया कन्यकाया मायाव्रतो नार्हति सन्निधिस्थितिम् । 20.199 ।
त् आं मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया ।
अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः । 20.200 ।
अतीतश्चायं कार्ययोगोऽसमक्षं हृत् आ कन्याऽतो नोऽत्र का मानहानिः ।
भूयस्तरां मानिनस्तस्य सा स्याज्ज्ञाता च वो विपृथोः पार्थताऽस्य । 20.201 ।
देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः ।
पौत्रश्च कृष्णस्य सुपूर्णण्सक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः । 20.202 ।
अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः ।
अनुद्रुत्यैनं यदि च स्यात् पराजयो हानिर्दृढं यशसो वो भवेत । 20.203 ।
जित्वा यद्येनं कन्यका चाऽहृत् आ चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत् ।
अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः । 20.204 ।
श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं ममास्य ।
अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै । 20.205 ।
ततोऽर्जुनो यत्र तिष्ठन् न कश्चित् पराजयं याति कृष्णाज्ञयैव ।
रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम् । 20.206 ।
सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम् ।
शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान् । 20.207 ।
सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः ।
ददौ तेषां त् आनि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च । 20.208 ।
च्च्लिव्.मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च ।
बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां च । 20.209 ।
आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः ।
आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण । 20.210 ।
प्रतिविन्ध्यः सुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः ।
युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः । 20.211 ।
चन्द्रां शयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन ।
धर्मेरशक्रां शयुतोऽश्विनोश्च तथैव कृष्णस्य स सन्निधानयुक् । 20.212 ।

सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः ।
मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन । 20.213 ।
ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे ।
आदाय यातौ परिचारकैश्च रथेन गन्धर्वरानुगीतौ । 20.214 ।
स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे ।
वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः । 20.215 ।
भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचे च मते रमेशितुः ।
पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी । 20.216 ।
प्रयाजान् देवाननुयाजां श्च शुल्कं हविर्दाने देवतानामयाचिषम् ।
बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तां श्च ददुः पुरा मम । 20.217 ।
पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा ।
यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत् । 20.218 ।
शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि ।
इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्चाथ शक्रं निरोत्स्ये । 20.219 ।
नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत् ।
पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै । 20.220 ।
च्च्ल्व्.नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः ।
नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे । 20.221 ।
नचायुक्तः केशवेनैष ण्सक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् ।
ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात् । 20.222 ।
चक्रं गोमन्ते कृष्णमापापि पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत् ।
चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽसीत् । 20.223 ।
धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसं हृतिं सः ।
अं शेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च । 20.224 ।
तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः ।
अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम् । 20.225 ।
रथं च शुभ्राण्स्वयुतं जयावहं त् ऊणौ तथाचाक्षयसायकौ शुभौ ।
ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात् । 20.226 ।
विशेषतो ध्वजसं स्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ ।
सर्वं च तद् दिव्यमभेद्यमेव विद्युत्प्रभा ज्या चगाण्डीवसं स्था । 20.227 ।
गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् ।
देवैश्च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे । 20.228 ।
इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् ।
इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार । 20.229 ।
स योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः ।
हुताण्सनोऽप्याण्सु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः । 20.230 ।
प्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽशुशुक्षणिम् ।
अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय । 20.231 ।
अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् ।
च्च्ल्वि.अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्च दृष्ट्वा बलमात्मनस्तत् । 20.232 ।

स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् ।
निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाण्स्लिषत् । 20.233 ।
विष्णुण्स्च शक्रेण सहेत्य केशवं समाण्स्लिषन्निर्विशेषोऽप्यनन्तम् ।
स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित् । 20.234 ।
ब्रह्मा चशर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम ।
सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुश्च सर्वे स्वास्त्रदाने प्रतिज्ञाम् । 20.235 ।
अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र ।
प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैस्तयोः सः । 20.236 ।
दैत्याण्स्च नागाण्स्च पिशाचयक्षा हताः सर्वे तद्वनस्था हिताभ्याम् ।
ऋते चतुष्पक्षिणण्स्चाण्स्वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम् । 20.237 ।
अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नोपदग्धाः ।
अण्स्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे । 20.238 ।
छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः ।
वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत् । 20.239 ।
मयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी ।
पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं परेशः । 20.240 ।
देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम् ।
पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः । 20.241 ।
प्राणोपकृत् प्रत्युपकारमाण्सु किं ते करोमीति स पार्थमाह ।
कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः । 20.242 ।
कृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृत् आवदिशत् तां स चक्रे ।
अनिर्गमं प्राणिनामर्थितौ तौ हुताण्सनेनाथ विधाय जग्मतुः । 20.243 ।
च्च्ल्विइ.दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य ।
कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिसुखज्ञानप्राभवौदार्यवीर्यः । 20.244 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
खाण्डवदाहो नाम विं शोऽध्यायः
च्च्ल्विइइ.(पाण्डववनप्रवेशः )
अथ एकविं शोऽध्यायः
ओं । जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम् ।
सभां विधाय भूभृते ददौ गदां वृकोदरे । 21.1 ।
स वायुधारितां गदां हि यौवनाण्स्वभूभृत् आ ।
प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह । 21.2 ।
पुनश्च वत्सरद्वयं समुष्य केशवो ययौ ।
समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः । 21.3 ।
ततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः ।
सदारपुत्रबान्धवः समन्तपञ्चकं ययौ । 21.4 ।
पृथासुताण्स्च सर्वशः सदारपुत्रमातृकाः ।
क्षितीश्वराण्स्च सर्वशः प्रियाप्रिया हरेश्च ये । 21.5 ।
तथैव नन्दगोपकः सदारगोपगोपिकः ।

मुनीश्वराण्स्च सर्वतः समीयुरत्र च प्रजाः । 21.6 ।
प्रियाण्स्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते ।
वसिष्ठवृष्णिनन्दनं भृगूत्तमं तथाऽर्चयन् । 21.7 ।
कृत् आर्थतां च ते ययू रमेशपाददर्शनात् ।
रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके । 21.8 ।
अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् ।
अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः । 21.9 ।
समस्तलोकसं स्थितात्मभक्तिमज्जनस्य सः ।
सुकालदर्शनात् परं व्यधादनुग्रहं हरिः । 21.10 ।
ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः ।
चकार तत्र चाऽह्निकं क्रतुं महाण्स्वमेधकम् । 21.11 ।
च्च्लिx.हयं सभीमफल्गुना हरे रथं समास्थिताः ।
व्यचारयन् हरेः सुता दिनस्य पादमात्रतः । 21.12 ।
जिताः समस्तभूभृतो जरासुतादयः क्षणात् ।
वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ । 21.13 ।
हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् ।
क्षमो हि गन्तुमञ्जसा दिनाण्स्वमेधसिद्धये । 21.14 ।
पराण्सरात्मजो हरिर्हरिं यदा त्वदीक्षयत् ।
तदाऽससाद ह द्विजस्तृणावहो रुराव च । 21.15 ।
ब्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् ।
इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान् । 21.16 ।
न कृष्णरामकार्ष्णिभिः सुता नु मेऽत्र पालिताः ।
क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः । 21.17 ।
तदा जगाद फल्गुनोऽसुरैर्विदूषित् आत्मना ।
न विप्र तादृशोऽस्म्यहं यथैव केशवादयः । 21.18 ।
मया जिता हिखाण्डवे सुरास्तथाऽसुरानहम् ।
निवातवर्मनामकान् विजेष्य उत्तरत्र हि । 21.19 ।
उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् ।
इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम् । 21.20 ।
विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा ।
व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे । 21.21 ।
वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः ।
ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः ।
न्ययोजयत् तत्सहाये यशस्तेष्वभिरक्षितुम् । 21.22 ।
च्च्ल्x.प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः ।
अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि।
रुग्मिपुत्र्यां रुग्मवत्यामाहृत् आयां स्वयम्बरे । 21.23 ।
रतिरेव हि या तस्यां ज् आतोऽसौ कामनन्दनः ।
पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च ।
आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित् । 21.24 ।

तस्मात् तां स्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् ।
न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः । 21.25 ।
अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापितु क्षणात् ।
अदर्शनं ययौ पार्थो विषण्णः सह यादवैः ।
अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियः पतिः । 21.26 ।
वह्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः ।
आण्सामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन् । 21.27 ।
ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः ।
घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः । 21.28 ।
सं स्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।
समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः । 21.29 ।
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।
रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा । 21.30 ।
स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य ।
सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितल् . ए प्रजाताः । 21.31 ।
दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः ।
प्रीतिर्महत्येव यतोऽर्जुने हरेः सं शिक्षयामास ततः स एनम् । 21.32 ।
अप्राकृत् आत् सदनाद् वासुदेवो विस्सृत्य सूर्याधिकलक्षदीधितेः ।
रथं समारुह्य सपार्थविप्र आगात् सुतां श्चैव ददौ द्विजाय । 21.33 ।
च्च्ल्xइ.लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने ।
चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम् । 21.34 ।
ब्रह्मादीनागतां श्चैव सदा स्वपरिचारकान् ।
पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत् । 21.35 ।
सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः ।
आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह । 21.36 ।
जघान गदया कृष्णस्तं क्षणात् सविडूरथम् ।
विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः । 21.37 ।
हरेः पार्षदः क्षिप्रं हरिमेव समाण्स्रितः ।
कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात् स्वरूपतः ।
एकीभावं स्वरूपेण द्वारपेण गमिष्यति । 21.38 ।
ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् ।
किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः । 21.39 ।
अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ ।
तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः । 21.40 ।
अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम् ।
एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः ।
अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः । 21.41 ।
घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् ।
यत्तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः ।
सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः । 21.42 ।

लोकालोकप्रदेशस्तु पञ्चाण्सल्लक्षविस्तृतः ।
सपञ्चाण्सत्सहस्रश्च तस्यापि गणनं तथा । 21.43 ।
योजनानां पञ्चविं शत्कोटयो मेरुपर्वतात् ।
च्च्ल्xइइ.चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम् । 21.44 ।
अबग्नीरनभोहऽ न्कृन्महत्तत्त्वगुणत्रयैः ।
क्रमाद् दशोत्तरैरेतदावृतं परतस्ततः । 21.45 ।
व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः ।
अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः ।
अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः । 21.46 ।
मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय ।
मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः ।
तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ । 21.47 ।
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे" 72 ।
इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः । 21.48 ।
उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः ।
अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते ।
सम्भाविताः केशवेन सौहार्देनाधिकेन च । 21.49 ।
ततः कदाचित् प्रवरे सभातल् . ए धर्मात्मजो राजभिर्भ्रातृभिश्च ।
वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत् । 21.50 ।
अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् ।
अर्द्धकोट्युच्छ्रितः स्वर्गो विमानावलिसङ्कुलः । 21.51 ।
भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ ।
महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः ।
पञ्चाण्सत्कोटिविस्तारा योजनानां समस्तशः । 21.52 ।
यावन्त एते मिल् . इत् आस्तत्प्रमाण उदीरितः ।
सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते । 21.53 ।
72 भ. गी. 18.65
च्च्ल्xइइइ.ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः ।
उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः । 21.54 ।
अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः ।
अवकाण्सवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन ।
सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः । 21.55 ।
दिव्यरत्नसमाकीर्णं तथा पाताल् . असप्तकम् ।
अधस्ताच्छेषदेवेन बलिना समधिष्ठितम् । 21.56 ।
कामभोगसमायुक्ता बहुवर्षसहस्रिणः ।
सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः । 21.57 ।
एषां च सर्वलोकानां धाता नारायणः परः ।
विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते । 21.58 ।
सेवका ब्रह्मणण्स्चैव देवा वेदाण्स्च सर्वशः ।

शक्रश्च मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः । 21.59 ।
अखिला अपि राजानः पाण्डुण्स्चास्मत्पिता मुने ।
यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च । 21.60 ।
उपास्यमानो भगवान् रामो यमसभातल् . ए ।
उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः । 21.61 ।
प्रादुर्भावाण्स्च निखिला ब्रह्मणोपासिताः सदा ।
वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः ।
गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः । 21.62 ।
रुद्रस्योग्राणि भूतानि नृसिं हात्मा ण्सिवेन च ।
उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ ।
सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता । 21.63 ।
तत्र मे सं शयो भूयान् हरिश्चन्द्रः कथं नृपः ।
च्च्ल्xइव्.ऐन्द्रं सभातल् . अं प्राप्तः पाण्डुर्नास्मत्पिता मुने । 21.64 ।
इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् ।
हरिश्चन्द्रस्य तां दृष्ट्वा पिता यमसभातल् . ए ।
स्थितस्त्वामवदत् पाण्डू रामद्वयसुदैवते । 21.65 ।
करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः ।
पालितो वासुदेवेन किं तस्यासाध्यमत्र हि । 21.66 ।
एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी ।
अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित् । 21.67 ।
सुकार्यमेतदित्यलं निशम्य सोदरोदितम् ।
अयातयत् स्वसारथिं स केशवाय भूपतिः । 21.68 ।
तदैव केशवस्य याः स्त्रियस्तदीयतातकैः ।
सहोदरैश्च यापितः सुदूत आप माधवम् । 21.69 ।
प्रणम्य केशवं वचः स आह मागधेन ते ।
विवाहबान्धवा रणे विजित्य रोधिता गिरौ । 21.70 ।
नृपायुतद्वयेन सोऽष्टविं शकैः शतैरपि ।
यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते । 21.71 ।
विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् ।
अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये । 21.72 ।
इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च ।
निशम्य तद् वचस्तदा जगाम पाण्डवालयम् । 21.73 ।
स पाण्डवैः समर्चितो मखाय धर्मजेन च ।
प्रपृष्ट आह माधवो वचो जगत्सुखावहम् । 21.74 ।
क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् ।
पदं नयेत तत्पदे सुयोग्यमेष नान्यथा । 21.75 ।
च्च्ल्xव्.अयोग्यकान्महापदे विधातुरेष हि क्रतुः ।
समानयोग्यतागणात् करोति मुक्तिगं वरम् । 21.76 ।
पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च ।
अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते । 21.77 ।

सुरां शकोऽपि ते पिता विना हिराजसूयतः ।
न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु । 21.78 ।
तपश्चरन् समागते शचीपतौ पिता तव ।
मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः । 21.79 ।
व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् ।
गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे । 21.80 ।
तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ ।
क्षमापितश्च वासवो जगाद राजसूयतः ।
त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम् । 21.81 ।
अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः ।
भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला । 21.82 ।
उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता ।
वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता । 21.83 ।
ततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा ।
जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम् । 21.84 ।
क्व राजसूयमद्य ते जरासुते तु जीवति ।
जयेत् क एव तं युधा मृतो न योऽपि सीरिणा । 21.85 ।
विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि ।
स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः । 21.86 ।
च्च्ल्xवि.इतीरिते रथाङ्गिना जगाद धर्मनन्दनः ।
निवर्तितं मनः क्रतोरलं ममामुना प्रभो । 21.87 ।
बभूवुरेव भूभृतो नचाऽधिराज्यमापिरे ।
यदा च चक्रवर्तिनस्तदेदृशा नशत्रवः । 21.88 ।
इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः ।
पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः । 21.89 ।
निजानुभाववर्जिता हरेरनुग्रहोज्झिताः ।
महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम् । 21.90 ।
स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः ।
प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः । 21.91 ।
इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः ।
स्थिते हि यज्ञकारणे वृकोदरे जगाद ह । 21.92 ।
स एक एव पूरुषो जरासुतोऽद्य वर्तते ।
समस्तसद्विरोधिनां बलं कलेरनन्तरः । 21.93 ।
तथा सतां समाण्स्रयो यदुद्भवाः सतां गुणाः ।
स एक एव तादृशस्त्वया विचिन्त्य यात्यताम् । 21.94 ।
यदि स्म तेन मागधो निहन्यते सतां जयः ।
विपर्ययेण चासतामिति स्म विद्धि नान्यथा । 21.95 ।
स पारमेष्ठ्यसत्पदं प्रयात्यसं शयं युधि ।
य एव हन्ति मागधं स वेदधर्मपालकः । 21.96 ।
निहन्ति मागधेश्वरं य एष वैष्णवं जगत् ।

करोति शर्वपालितो यतः स बार्हद्रथः । 21.97 ।
निहन्ति शैवनायकं य एष वैष्णवाग्रणीः ।
इति स्म भावसं युते वदत्यजेऽबिभेन्नृपः । 21.98 ।
च्च्ल्xविइ.युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति ।
तमाह मारुतात्मजो निहन्मि मागधं रणे । 21.99 ।
इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः ।
अहं च भीमफल्गुनौ निहन्तुमेव मागधम् । 21.100 ।
वृकोदरेण हन्यते यदि स्म मागधाधिपः ।
मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत् । 21.101 ।
इतीरिते तु शौरिणा जगाद धर्मनन्दनः ।
स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन् । 21.102 ।
भयाद्धि यस्य माधुरं विहाय मण्डलं गताः ।
भवन्त एव सागरं ततो बिभेम्यहं रिपोः । 21.103 ।
इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो ।
मनोनिभो भवान् सदा न वो विनाऽस्म्यतः पुमान् । 21.104 ।
अतो न जीवितात् प्रियानहं रिपोर्बलीयसः ।
सकाण्समात्महेतुतः प्रयातयामि वो विभो । 21.105 ।
इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् ।
यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः । 21.106 ।
वशे च यस्य तद् बलं सुरासुरोरगादिनाम् ।
स एष केशवः प्रभुः क्व चास्य बार्हद्रथः । 21.107 ।
अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च ।
समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता । 21.108 ।
अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि ।
अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम् । 21.109 ।
हनिष्य एव मागधं हरेः पुरो न सं शयः ।
च्च्ल्xविइइ.इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम् । 21.110 ।
वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे ।
हनिष्यति स्फुटं रणे वृकोदरो जरासुतम् । 21.111 ।
भयं न कार्यमेव ते मया हतः स नेति ह ।
मया हिनीतिहेतुतः स्वयं न हन्यते रिपुः । 21.112 ।
स शर्वसं श्रयाग्रणीर्मदाण्स्रयोत्तमेन तु ।
निहन्यते यदा तदा प्रकाण्सितं हि मे बलम् । 21.113 ।
अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित् ।
प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम् । 21.114 ।
इतीरितः स विष्णुना विचार्य तद्गुणान् परान् ।
तथेति चाऽह ते त्रयः प्रतस्थुराण्सु मागधान् । 21.115 ।
समेत्य मागधां स्तु ते शिवोरुलिङ्गमित्यलम् ।
सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः । 21.116 ।
स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् ।

न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत् । 21.117 ।
अद्वारतस्ते नगरं प्रविश्य माषस्य नाल् . एन कृत् आस्त्रिभेरीः ।
पुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः । 21.118 ।
तथाऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभां श्च दध्रुः ।
अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः । 21.119 ।
त् आन् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् ।
द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान् । 21.120 ।
के ष्ठाथ किं हेतुत आगताण्स्च कृतश्च मे पर्वतलिङ्गभेदनम् ।
कृतं भवद्भिः कुत एव दुर्नयाः कृत् आस्तथाऽन्ये द्विजवर्यवेषैः । 21.121 ।
च्च्ल्xइx.इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् ।
इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत् । 21.122 ।
इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः ।
वयं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ । 21.123 ।
यद् बान्धवान् नः पिशिताण्सिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे ।
इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम् । 21.124 ।
विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् ।
मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र । 21.125 ।
इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् ।
मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान् । 21.126 ।
निरायुधः सायुधो वा युष्मदिष्टायुधेन वा ।
एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान् । 21.127 ।
इत्युक्तवन्तमवददजितोरुबलो हरिः ।
एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप । 21.128 ।
येन कामयसे योद्धुं तं न आसादय द्रुतम् ।
निरायुधः सायुधो वा त्वदभीष्टायुधेन वा ।
इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्द्धयन् । 21.129 ।
घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् ।
भीमस्य कर्तुमिच्छं श्च भक्तिज्ञानादिवर्द्धनम् । 21.130 ।
तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् ।
कृष्णभीमार्जुनास्तेन विप्रवेषाण्स्च तेऽभवन् । 21.131 ।
निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन ।
ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम् । 21.132 ।
मागधस्य ससैन्यस्य स्वगृहे सं स्थितस्य च ।
च्च्ल्xx.निरायुधेन भीमेन समाह्वाने कृतेऽमितम् ।
धर्मं यशश्च भीमस्य वर्द्धयामास केशवः । 21.133 ।
तृतीयमर्जुनं चैव समादाय ययौ रिपुम् ।
हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाण्सयन् ।
मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन् । 21.134 ।
वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः ।
कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम् । 21.135 ।

पञ्चपञ्चाण्सदब्दोऽद्य ह्ययमेवं च बालवत् ।
अबलत्वाद् युवाऽप्येष बाल एव मतो मम । 21.136 ।
इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् ।
बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम् । 21.137 ।
अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् ।
एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः । 21.138 ।
ज् आनन् कृष्णे बलं घोरमविषह्यं स मागधः ।
कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत् प्रभुम् । 21.139 ।
आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति ।
हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् ।
तस्मात् तं नाह्वयामास वासुदेवं स मागधः । 21.140 ।
अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः ।
त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवा । 21.141 ।
इति मत्वाऽह्वयामास भीमसेनं स मागधः ।
कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः । 21.142 ।
इति स्म भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली ।
राज्ये निजं चाऽत्मजमभ्यषि ञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम् । 21.143 ।
च्च्ल्xxइ.बलं भीमे मन्यमानोऽधिकं तु गदाण्सिक्षामात्मनि चाधिकां नृपः ।
भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली । 21.144 ।
तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसं युतो बहिः ।
पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः । 21.145 ।
वाचाऽजयत् तं प्रथमं वृकोदरः शिवाण्स्रयं विष्णुगुणप्रकाण्सया ।
ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ । 21.146 ।
तयोर्गदे तेऽशनिसन्निकाण्से चूर्णिकृते देहमहादृढिम्ना ।
अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पां सुपिण्डौ सुमुक्तौ । 21.147 ।
सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः ।
ब्रह्मण्डस्फोटसङ्काण्सैर्यथा केशवकैटभौ । 21.148 ।
चचाल पृथ्वी गिरयश्च चूर्णित् आः कुलाचलाण्स्चेलुरलं विचक्षुभुः ।
समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः । 21.149 ।
सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य ।
पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि । 21.150 ।
मानयित्वा वरं धातुर्दिवसान् दश पञ्च च ।
वासुदेवाज्ञया भीमः शत्रुं हन्तुं नओ दधे । 21.151 ।
स प्रणम्य हृषीकेशं हर्षादाण्स्लिष्य फल्गुनम् ।
रिपुं जग्राह मकुटे वारणं मृगराडिव । 21.152 ।
पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह ।
मृतिकाले पुनर्देहं विददार यथा पुरा । 21.153 ।
मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः ।
स्वपुरुषप्रकाण्साय बभञ्जैनममर्मणि । 21.154 ।
भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः ।

बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम् । 21.155 ।
च्च्ल्xxइइ.निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः ।
कृत् आं हि भीमेन समर्चनां त् आं समक्षमादातुमिहाऽगतो ह्यजः । 21.156 ।
स्वीकृत्य पूजां च वृकोदरस्य दृढं समाण्स्लिष्य च तं जनार्दनः ।
प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन । 21.157 ।
जग्मुः सुराण्स्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराण्स्च दैत्याः ।
बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसं श्रयेण । 21.158 ।
सुतो ययौ शरणं त् आन् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् ।
रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या । 21.159 ।
रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽप्तो वसुवं शजत्वात् ।
जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै । 21.160 ।
कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् ।
भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः । 21.161 ।
नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि।
एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या ।
ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ । 21.162 ।
जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया ।
तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपां श्च ।
तैः सं स्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिनम्रैर्यथावत् । 21.163 ।
सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे ।
ययुर्गृहान् स्वानपतत् केशवद्विड्जरासुतोऽन्धे तमसि क्रमेण । 21.164 ।
कृष्णण्स्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् ।
तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव । 21.165 ।
द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय ।
तं राजसूयसहितं परमाण्स्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात् । 21.166 ।
च्च्ल्xxइइइ.कर्ता हि तस्य् अपरमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।
भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य । 21.167 ।
असाधारणहेतुर्यः कर्मणो यस्य चेतनः ।
स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः ।
विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः । 21.168 ।
हेतवोऽपि हि पापस्य न प्रायः फलभागिनः ।
देवाः पुण्यस्य दैत्याण्स्च मानुषास्तद्विभागिनः । 21.169 ।
असाधारणहेतुश्च भीम एव प्रकीर्तितः ।
यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि । 21.170 ।
जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः ।
द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः । 21.171 ।
तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् ।
अनन्यकृतमादिश्य दिशां विजयमादिशत् । 21.172 ।
अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः ।
ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो । 21.173 ।

इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते ।
समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते । 21.174 ।
तथाऽपि कीचकादयो वृकोदरादृते वशम् ।
न यान्ति नापि ते वशं प्रयाति कर्ण एव च । 21.175 ।
बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् ।
ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च । 21.176 ।
सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया ।
ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम् । 21.177 ।
च्च्ल्xxइव्.जीवग्राहभयात् कर्णो ददाति करमञ्जसा ।
भीमाय नात्र सन्देहो जितोऽनेन च सं युगे । 21.178 ।
अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ ।
वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः । 21.179 ।
जीवग्राहभयं ह्येषां भीमान्मागधपातनात् ।
तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा । 21.180 ।
प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाण्सेषदिक्षु ।
नागां श्च दैत्यां श्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र । 21.181 ।
रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् ।
येऽन्ये च बाणप्रमुखा अजेयाः शर्वाण्स्रयास्तानपि भीम एतु । 21.182 ।
तथा सुराण्स्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे ।
दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे । 21.183 ।
यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल् . याः ।
उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः । 21.184 ।
वृकोदरोऽजयन्नृपान् विराटमाससाद ह ।
जितेऽत्र कीचके रणे समाददे करं ततः । 21.185 ।
ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः ।
मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः । 21.186 ।
मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् ।
करं सुमहदादाय ततः पूर्वां दिशं ययौ । 21.187 ।
क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् ।
विरथीकृत्य कर्णं च करमादाय सर्वतः । 21.188 ।
हिमवच्छिखरे देवान् जित्वा ण्सक्रपुरोगमान् ।
क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम् । 21.189 ।
च्च्ल्xxव्.बाहुयुद्धेन शेषं च गरुडं च महाबलम् ।
क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः ।
त् आभ्यां च दृढमाण्स्लिष्टः स्नेहविक्लिन्नया धिया । 21.190 ।
पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च ।
रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः । 21.191 ।
पृष्टण्स्च गिरिशेनासौ विस्तरं दिग्जयस्य च ।
सिं हव्याघ्रादिरूपाण्स्च आत्मना विजिता यथा ।
गरुत्मच्छेषण्सक्राद्या देवाः सर्वे तदब्रवीत् । 21.192 ।

निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् ।
हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम् । 21.193 ।
स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम् ।
प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ । 21.194 ।
स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् ।
पुरो निधाय तद् वसु प्रभूतमानमत् तदा । 21.195 ।
सोऽभिवाद्याग्रजं चैव यथावृत्तं न्यवेदयत् ।
आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा । 21.196 ।
यथा जिताः कीचकाद्या एकलव्यसहायवान् ।
यथा जितः पौण्ड्रकश्च कर्णाद्याण्स्च तथाऽपरे । 21.197 ।
यथा सिं हादितनवः शेषवीन्द्रेन्द्रपूर्वकाः ।
यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत् । 21.198 ।
सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः ।
आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत् । 21.199 ।
ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् ।
जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा । 21.200 ।
च्च्ल्xxवि.विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः ।
इत्युक्त्वैनं समाण्स्लिष्य यज्ञाङ्गानि समादिशत् । 21.201 ।
तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः ।
सहदेवो दक्षिणाण्सां जित्वा रत्नान्युपाहरत् । 21.202 ।
तत्र रुग्मी न युयुधे सहदेवेन वीर्यवान् ।
जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम् । 21.203 ।
तपसा तोषित् आत् कृष्णादन्यानेवामुनाऽखिलान् ।
विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः ।
मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे । 21.204 ।
स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः ।
भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् ।
जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान् । 21.205 ।
तथा स्मृतं समागतं घटोत्कचं विभीषणे ।
समादिशद् ययौ च सोऽपि सोऽददान्महाकरम् । 21.206 ।
पुरा हिराघवोदितं तदस्य सोऽखिलं तदा ।
विचार्य केशवं च तं बलं च भीमपार्थयोः ।
दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम् । 21.207 ।
महौघरत्नसञ्चयं स आप्य भीमसेनजः ।
ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम् । 21.208 ।
नकुलः पश्चिमाण्सायां विजिग्येऽखिलभूभृतः ।
करमाप च वीरोऽसौ सौहार्दादेव मातुलात् ।
आययौ च महारत्नसञ्चयेन स्वकं पुरम् । 21.209 ।
अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी ।
यात एव दिशमुत्तरां यदा पार्वतीयकनृपाः समाययुः । 21.210 ।

च्च्ल्xxविइ.त्रैगर्ताः पार्वतेयाण्स्च सहिताः पाण्डुनन्दनम् ।
अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम् । 21.211 ।
त् आन् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् ।
प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः । 21.212 ।
सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् ।
ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः । 21.213 ।
सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् ।
नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा । 21.214 ।
स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् ।
अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः । 21.215 ।
पार्थो जित्वाऽष्टवर्षाणि षड्द्वीपानपरानपि ।
अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा । 21.216 ।
पाताल् . असप्तकं गत्वा जित्वा दैतेयदानवान् ।
बलेश्च विष्णुवचनात् करं जग्राह सामतः । 21.217 ।
जित्वा चवासुकिं भूरि रत्नमादाय सत्वरः ।
आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः । 21.218 ।
सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः ।
चत्वारो योजनानां हि दश त्रिं शच्छतं तथा । 21.219 ।
चतुः शतं च क्रमश उच्छ्रिता दिग्जयार्जिताः ।
प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः । 21.220 ।
विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थल् . ए ।
अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत् । 21.221 ।
ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः ।
ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः ।
च्च्ल्xxविइइ.द्वैपायनोक्तविधिना दीक्षयाञ्चक्रिरे नृपम् । 21.222 ।
ज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे ।
भीमार्जुनादयः सर्वे सह तेन समासिरे । 21.223 ।
ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् ।
पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे । 21.224 ।
आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः ।
स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् ।
किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः । 21.225 ।
आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् ।
सर्वमत्राऽगमद् ब्रह्मशर्वशक्रादिपूर्वकम् । 21.226 ।
भीष्मो द्रोणण्स्च विदुरो धृतराष्ट्रः सहात्मजः ।
सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः । 21.227 ।
तथैव यादवाः सर्वे बलभद्रपुरोगमाः ।
रुग्मिणीसत्यभामाद्या महिष्यः केशवस्य च । 21.228 ।
तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे ।
प्राण्स्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह । 21.229 ।

मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc