महाभारततात्पर्यनिर्णय · भाग 121140
ब्राह्मण्यत्यागभीरुः स न गृह्णन् धनुरप्यसौ । 18.84 ।
धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च ।
शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः ।
एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान् । 18.85 ।
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् ।
भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसं श्रयम् । 18.86 ।
सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च ।
च्चिx.मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः ।
पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ । 18.87 ।
याजोपयाजावानीयाथार्बुदेन गवां नृपः ।
चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता ।
द्रुपदात् सुतलब्ध्यर्थं साऽहङ्काराद् व्यल् . अम्बयत् । 18.88 ।
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ ।
अजुह्वतां तत् पुत्रार्थं पत्न्याः प्राण्स्यं हविस्तदा । 18.89 ।
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि ।
दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात् समुत्थितः । 18.90 ।
किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् ।
रथेनाऽदित्यवर्णेन नदन् द्रुपदमाद्रवत् । 18.91 ।
धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः ।
मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित् । 18.92 ।
अन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता ।
प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः । 18.93 ।
तद्भार्या भारती नाम वेदरूपा सरस्वती ।
शं रूपमाण्स्रिता वायुं श्रीरित्येव च कीर्तिता । 18.94 ।
आवेशयुक्ता ण्सच्याण्स्च श्यामल् . आयास्तथोषसः ।
त् आण्स्चेन्द्रधर्मनासत्यसं श्रयाच्छ्रिय ईरिताः । 18.95 ।
सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषित् आम् ।
कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी चसा । 18.96 ।
उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषित् आ ।
सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी ।
उमां शयुक्ताऽतितरां सर्वलक्षणसं युता । 18.97 ।
च्च्x.पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः ।
विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम् । 18.98 ।
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ।
तत्रान्यगाण्स्च भवतेत्येवं शप्ताः सुराङ्गनाः । 18.99 ।
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च ।
सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे । 18.100 ।
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा ।
तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन । 18.101 ।
ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया ।
एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः । 18.102 ।
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः ।
त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम् । 18.103 ।
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ।
चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः ।
चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत् । 18.104 ।
नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च ।
अतस्त्वयैकदेहान्नो नान्य आप्नोतिः मारुतात् । 18.105 ।
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा ।
विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः ।
एकदेहस्थिताण्स्चक्रुर्गिरीशाय तपो महत् । 18.106 ।
तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् ।
तोषयामास तपसा कर्मैक्यार्थं धृतव्रता । 18.107 ।
तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः ।
अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु । 18.108 ।
च्च्xइ.सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च ।
वरं स्वभर्तृसं योगं मानुषेष्वपि जन्मसु । 18.109 ।
ततस्तदैव देहं त् आ विसृज्य नल् . अनन्दिनी ।
बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः । 18.110 ।
तदाऽसीन्मुद्गलो नाम मुनिस्तपसि सं स्थितः ।
चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे । 18.111 ।
अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः ।
भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये । 18.112 ।
इतीरितस्तं तपसा तोषयामास मुद्गलः ।
शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः । 18.113 ।
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः ।
यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे । 18.114 ।
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् ।
मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही । 18.115 ।
रेमे चे स तया सार्द्धं दीर्घकालं जगत्प्रभुः ।
ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम् । 18.116 ।
ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः ।
सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत् तपः । 18.117 ।
तद्देहगा भारती तुकेशवं शङ्करे स्थितम् ।
तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् ।
उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा । 18.118 ।
प्रत्यक्षे चशिवे जाते तद्देहस्थे च केशवे ।
पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः ।
प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत् । 18.119 ।
च्च्xइइ.शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् ।
अन्यासां शिव एवाथ प्रददौ चतुरः पतीन् । 18.120 ।
देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना ।
देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ ।
नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत् । 18.121 ।
त् आः श्रुत्वा स्वपतिं देवि नचिरात् प्रप्स्यसीति च ।
विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक् । 18.122 ।
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृत् आम् ।
रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः । 18.123 ।
अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् ।
किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम् । 18.124 ।
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे।
वरार्थमर्थितः प्रादादिति तं शिव इत्यथ । 18.125 ।
अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये ।
मत्पालिते योषितं त्वं वृथा ण्सपसि दुर्मते । 18.126 ।
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि ।
अस्याण्स्च भर्ता भवसि त्वामेवैषा वरिष्यति । 18.127 ।
पश्यात्र मदवज्ञानात् पतितां स्त्वादृशान् सुरान् ।
गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः । 18.128 ।
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् ।
पूर्वेन्द्रान् मारुतवृषनासत्यां श्चतुरः स्थितान् ।
मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः । 18.129 ।
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः ।
तत्प्रसादान्नरां शेन युक्तो भूमावजायत । 18.130 ।
च्च्xइइइ.मदवज्ञानिमित्तेन पतिता इति तान् सुरान् ।
मारुतादीन् मृषाऽवादीरिति ब्रह्मा ण्सिवं तदा । 18.131 ।
शशाप मानुषेषु त्वं क्षिप्रं ज् आतः पराभवम् ।
शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः । 18.132 ।
मच्छप्तानां च देवीनामविचार्य मया यतः ।
पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम् । 18.133 ।
मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् ।
स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत् । 18.134 ।
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् ।
मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः । 18.135 ।
त् आसां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ।
सं युक्ता व्यवहारेषु प्रवर्तेत नचान्यथा । 18.136 ।
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् ।
ज् आता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् ।
दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि । 18.137 ।
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा ण्सिवोऽभवत् ।
पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत् । 18.138 ।
वेदेषु सपुराणेषु भारते चावगम्यते ।
उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताण्स्च ये । 18.139 ।
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः ।
मानुषान्नोपभोगेन सं सर्गान्मानुषेषु च। 18.140 ।
मनुष्यपुत्रतायाण्स्च भावो मानुष एतयोः ।
अभून्नातितरामासीत् तदयोनित्वहेतुतः । 18.141 ।
याजोपयाजौ तावेव दयिता द्रुपदस्य सा ।
च्च्xइव्.मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ । 18.142 ।
ज् आतमात्मनिहन्तारं भारद्वाजो निशम्य तम् ।
यशोर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः ।
रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान् । 18.143 ।
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् ।
प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः ।
पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः । 18.144 ।
स मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः ।
तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ । 18.145 ।
ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् ।
पाण्डवानाण्स्रिता भूपा ज्ञात्वा भैमार्जुनं बलम् । 18.146 ।
विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि।
पराजिताण्स्च बहुशः कृष्णेनाचिन्त्यकर्मणा । 18.147 ।
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः ।
न स्नेहात् तद् बलं ज् ञात्वा पार्थानां केशवस्य च । 18.148 ।
जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे चपाण्डुषु ।
जरासन्धभयं त्यक्त्वा तानेव च समाण्स्रिताः । 18.149 ।
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः ।
आसुराः पूर्वसं स्कारात् सं स्कारो बलवान् यतः । 18.150 ।
देवा हि कारणादन्यानाण्स्रयन्तोऽपि नाऽन्तरम् ।
स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम् । 18.151 ।
धृतराष्ट्रो बलं ज् ञात्वा बहुशो भीमपार्थयोः ।
दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च ।
सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम् । 18.152 ।
च्च्xव्.भीमार्जुनावथो जित्वा सर्वदिक्षु चभूपतीन् ।
चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ । 18.153 ।
तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा ।
भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा । 18.154 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः
च्च्xवि.(पाण्डवराज्यलाभः )
अथ एकोनविं शोऽध्यायः
ओं । एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि ।
नास्तिक्यनीतिमखिलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः । 19.1 ।
नाम्ना कणि ङ्क इति चासुरको द्विजोऽभूच्छिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः ।
नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम् । 19.2 ।
छद्मैव यत्र परमं न सुराण्स्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च ।
धर्मादि कार्यमपि यस्य महोपाधिः स्याच्छ्रेष्ठः स एव निखिलासुरदैत्यसङ्घात् । 19.3 ।
इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः ।
तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि । 19.4 ।
सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि ।
दृष्ट्वा ण्स्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन । 19.5 ।
ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये ।
भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीत् आः । 19.6 ।
राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु ।
दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य । 19.7 ।
नाऽत्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाण्सः ।
अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम् । 19.8 ।
एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते ।
को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु । 19.9 ।
ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते ।
तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः । 19.10 ।
एवं ब्रुवत्यपि नृपे पुनराह पाप आण्स्रित्य सौबलमतं यदि नैव पार्थान् ।
अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः । 19.11 ।
च्च्xविइ.एवं निशम्य गदितं सुतहार्दपाण्सैराकृष्यताऽशु स नृपोऽरिधरेच्छयैव ।
प्रोवाच पुत्रमपि ते बलिनो न पार्थाः शक्याः पुरात् तनय यापयितुं कथञ्चित् । 19.12 ।
इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च ।
आसं स्त्रयोदश समा नगरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः । 19.13 ।
द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः ।
नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः । 19.14 ।
एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः ।
अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम् । 19.15 ।
त्रिं शच्छतं परमकाः सुरदुर्लभाण्स्च दुर्वाससो हि मनवोऽद्य मया गृहीत् आः ।
अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि । 19.16 ।
ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः ।
वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः । 19.17 ।
सौहार्दमेषु यदिवाऽतितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः ।
वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे । 19.18 ।
एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ ।
ज् आते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम् । 19.19 ।
क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य ।
पौराण्स्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च । 19.20 ।
ते तेषु दूरगमितेषु निराण्स्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते ।
भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत् । 19.21 ।
भेदः कुलस्य भविता कुलनाण्सहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु ।
तस्मादुपायबलतः प्रतियातनीयास्ते वारणावतमितो विहितोऽप्युपायः । 19.22 ।
विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु ।
च्च्xविइइ.भक्ताण्स्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक् । 19.23 ।
अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताण्स्च तत्र ।
तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम् । 19.24 ।
इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे ।
ज् ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः । 19.25 ।
भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म ।
त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः । 19.26 ।
निष्काल् . अयन्ति यदि नो निजधर्मसं स्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः ।
इत्यूचिवां सममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे । 19.27 ।
इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै ।
दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या । 19.28 ।
कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव ।
भीमस्य दोषमुभयं प्रतिहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य । 19.29 ।
हन्तव्यतामुपगतेषु सुयोधनादिष्वन्योपधान्नहि भवेन्निजधर्म एव ।
पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि । 19.30 ।
क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताण्सभयात् प्रतीत् आः ।
आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च । 19.31 ।
त् आन् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम् ।
कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम् । 19.32 ।
पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री ।
दुर्योधनं प्रतिविहाय भवत्सकाण्समायात इत्यवददेषु सकूटवाक्यम् । 19.33 ।
दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः ।
युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवां सममुमाहुरहो सुभद्रम् । 19.34 ।
च्च्xइx.दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम् ।
तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः । 19.35 ।
क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं ज् आनन् स्वचारमुखतः खनकाय चोचे ।
उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाण्सु कुरु तत्र बिलं सुदूरम् । 19.36 ।
चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम् ।
भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्द्धम् । 19.37 ।
तस्याग्रजा च सहिता सुतपञ्चकेन तत्राऽगमत् तदनु मारुतिरेष कालः ।
इत्थं विचिन्त्य स निशाम्य च तान् प्रसुप्तान् भ्रातॣऋं श्च मातरमथाऽशु बिले न्यधात् प्राक् । 19.38 ।
तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः ।
साऽप्यागता हि गरल् . एन निहन्तुमेतान् भीमस्य पूर्वभुजितो न शशाक चैतत् । 19.39 ।
तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात् ।
तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति । 19.40 ।
ज् आनन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च ।
भ्रातॣऋं श्च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान् । 19.41 ।
ज् ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः ।
किं नो भवेदिति भयं समुहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः । 19.42 ।
भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः ।
ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम् । 19.43 ।
विश्वासिता विदुरपूर्ववचोभिरेव दाण्सोदिताभिरधिरुह्य च भीमपृष्ठम् ।
सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदं श्च पौराः । 19.44 ।
हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन ।
सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय । 19.45 ।
पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति ।
ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म । 19.46 ।
च्च्xx.भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रातॣऋन् पृथां च तृषितैरभियाचितश्च ।
पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तां श्च । 19.47 ।
रक्षार्थमेव परिजाग्रति भीमसेने रक्षः स्वसारमभियापयते हिडिम्बीम् ।
सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम् । 19.48 ।
सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः ।
शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम् । 19.49 ।
त् आं भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः ।
सा चाऽह कामवशगा पुनरेतदेव स्वावेशयुग्धि मरुदग्र्यपरिग्रहस्य । 19.50 ।
सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन ।
शापाद् विमुक्तिमतितीव्रतपः प्रसन्ना तेनाऽह सा निजतनुं पवमानसूनोः । 19.51 ।
ज् ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः ।
व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम् । 19.52 ।
काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम् ।
भक्षार्थमेव हि पुरा स तुतां न्ययुङ्क्त नेतुं च तानथ समासददाण्सु भीमम् । 19.53 ।
सा भीममेव शरणं प्रजगाम तां च भ्रातॣऋं श्च मातरमथावितुमभ्ययात् तम् ।
भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च। 19.54 ।
तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितां स्तान् ।
सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः । 19.55 ।
तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितल् . ए पपात ।
वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण । 19.56 ।
हत्वैव शर्वररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः ।
भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्तीं युधिष्ठिरमथास्य कृते ययाचे । 19.57 ।
त् आभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः ।
च्च्xxइ.व्यासात्मको हरिरनन्तसुखाम्बुराण्सिर्विद्यामरीचिविततः सकलोत्तमोऽलम् । 19.58 ।
दृष्ट्वैव तं परममोदिन आण्सु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः ।
उल्लाल् . इत् आण्स्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन तदोपविष्टाः । 19.59 ।
त् आन् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आण्सु हिडिम्बया च।
एतां गृहाण युवतीं सुरसद्मशोभां ज् आते सुते सहसुता प्रतियातु चैषा । 19.60 ।
एवं ब्रुवत्यगणितोरुगुणे रमेश ओं इत्युदीर्य कृतवां श्च तथैव भीमः ।
स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी । 19.61 ।
सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितां श्च पार्थान् ।
एवं ययावपि तयोरिह वत्सरार्द्धो जातश्च सूनुरतिवीर्यबलोपपन्नः । 19.62 ।
देवोऽपि राक्षसतनुर्निरृतिः पुरा यआवेशयुक् च गिरिशस्य घटोत्कचाख्यः ।
पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम । 19.63 ।
ज् आते सुते समयतो भगवत्कृत् आत् स भीमो जगाद ससुतां गमनाय तां च ।
स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव । 19.64 ।
व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम् ।
यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आण्सु तदैकचक्राम् । 19.65 ।
त् आन् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान् ।
आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान् । 19.66 ।
भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमे विशां सदन एव गृहप्रमाणम् ।
भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याण्सङ्कयाऽवगमनस्य तमाह धार्मः । 19.67 ।
स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा ।
भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन । 19.68 ।
धर्मस्य ते सुनियतेर्बलतश्च बोधो भूयात् सुयोधनजनस्य ततो भयं मे ।
मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः । 19.69 ।
च्च्xxइइ.इत्युक्त आण्सु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः ।
भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते । 19.70 ।
तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः ।
स्त्रीबालसं युतगृहे शिशुलाल् . अनादौ लज्जेदिति स्म जननीमवदन्नचागात् । 19.71 ।
ज् आनीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम् ।
सा सं वृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः । 19.72 ।
दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्ष्यभोज्यः ।
पुं साऽनसा च सहितानडुहा पुमां स्तु नैवास्ति नोऽप्रददतां च समस्तनाण्सः । 19.73 ।
अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन ।
यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि । 19.74 ।
अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च ।
कन्याऽह चैनमहमेव न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः । 19.75 ।
कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च ।
आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं नृशनके प्रतिपादयामि । 19.76 ।
एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम् ।
एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती । 19.77 ।
पृष्टस्तयाऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम् ।
सं वत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य । 19.78 ।
श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम् ।
विष्टं बिलेष्वथ नृपान् वशमाण्सु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द । 19.79 ।
एवं बलाढ्यममुमाण्सु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह ।
सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाण्सु धरासुरं तम् । 19.80 ।
सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु ।
इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम् । 19.81 ।
च्च्xxइइइ.उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा ।
उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च । 19.82 ।
उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम् ।
प्राप्तं विलोक्य तमतीव विघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः । 19.83 ।
मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम् ।
कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च निहं सि भीमम् । 19.84 ।
यद्बाहुवीर्यपरमाण्स्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम् ।
सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाऽशु कयैव बुद्ध्या । 19.85 ।
इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः ।
सर्वैः सुरैरसुरयोगिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम् । 19.86 ।
एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु ।
इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः । 19.87 ।
गत्वा त्वरन् बकवनस्य सकाण्स आण्सु भीमः स पायससुभक्ष्यपयोघटाद्यैः ।
युक्तं च शैलनिभमुत्तममाद्यराण्सिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत् । 19.88 ।
तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाण्सु रक्षः ।
वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत् । 19.89 ।
पीत्वा पयो त्वरित एनमवीक्षमाण आचम्य तेन युयुधे गुरुवृक्षण्सैलैः ।
तेनाऽहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितल् . ए पिपेष । 19.90 ।
आक्रम्य पादमपि पादतल् . एन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः ।
मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम् । 19.91 ।
हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य ।
भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे । 19.92 ।
द्वार्येव तत् प्रतिनिधाय पुनः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव ।
च्च्xxइव्.श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनुवव्रुरतः पुरस्थाः । 19.93 ।
दृष्ट्वैव राक्षसशरीरमुरु प्रभीत् आ ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च ।
विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुण्स्च तस्मै । 19.94 ।
अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येतमाण्सु नरसिं हवपुर्धरस्य ।
चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रचुदिताः प्रययुस्ततश्च । 19.95 ।
उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरेशः ।
यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवतीति चोचुः । 19.96 ।
पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः ।
याजोपयाजमुखनिस्सृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने । 19.97 ।
यत्रक्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन ।
चक्रे स्वयम्बरविघोषणमाण्सु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे । 19.98 ।
तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम् ।
ज् आनन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृत् आनथ कुल्यहेतोः । 19.99 ।
स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् सं वञ्चयं स्तदनुसारिकथाण्स्च कृत्वा ।
भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः । 19.100 ।
तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाण्स्रित इत्युवाच ।
सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव । 19.101 ।
सर्वां श्च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम् ।
आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि । 19.102 ।
इत्युक्त आण्सु कुमतिः स हि पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा ।
आनन्दसं विदपि लोकविडम्बनाय तद् देहमस्य तिलजे पतिमभ्युपागात् । 19.103 ।
श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम् ।
पाञ्चालराजपुरुषोदितमाण्सु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च । 19.104 ।
च्च्xxव्.भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः ।
उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च । 19.105 ।
मङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत् ।
विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराण्साम् । 19.106 ।
षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहल् . अपौरुषलक्षणं च ।
दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः । 19.107 ।
रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम् ।
सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तराऽन्ये । 19.108 ।
प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्द्धरात्रे ।
दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति ह धर्षयितुं स चाऽगात् । 19.109 ।
हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याण्स्च मर्त्यचरणाय निषिद्धकाले ।
इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य । 19.110 ।
सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम् ।
इत्युक्तवन्तममुमुत्तमयानसं स्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः । 19.111 ।
आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः ।
तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाऽशु सुरेन्द्रसूनुः । 19.112 ।
पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम् ।
सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण । 19.113 ।
गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम् ।
पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद । 19.114 ।
विद्या सुशिक्षिततमा हि सुरेशसूनौ तामस्य चावददसावपि कालतोऽस्मै ।
गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात् । 19.115 ।
आधिक्यतः स्वगतसं विद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र ।
धर्मार्थमेव स तु तां परिदाय तस्मै कालेन सं विदममुष्य च धर्मतोऽयात् । 19.116 ।
च्च्xxवि.पार्थेन सोऽपि बहुलाण्स्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे ।
दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते । 19.117 ।
ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च ।
पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धावसिक्तसमितिं समलङ्कृत् आं च । 19.118 ।
राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम् ।
तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाऽह समस्तराज्ञाम् । 19.119 ।
त् आं श्च प्रदर्श्य सकलान् स हुताण्सनां शश्चापं च तत् प्रतिनिधाय सपञ्चबाणम् ।
आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताण्सनवपुर्घनतुल्यघोषः । 19.120 ।
एतेन कार्मुकवरेण तरूपरिस्थं मत्स्यावभासमुदके प्रतिवीक्ष्य येन ।
एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः । 19.121 ।
इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाण्स्चलकुण्डलास्याः ।
अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृत् आङ्गाः । 19.122 ।
केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य ।
तत्राऽससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समनुरोपणयत्न आसीत् । 19.123 ।
माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाऽशु ।
अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः । 19.124 ।
मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे ।
शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽत्मनस्तदनु भूपतयो विषण्णाः । 19.125 ।
सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः ।
चापं चकर्ष चलपादतल् . ओ बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव । 19.126 ।
ज् आनुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः ।
रौद्राद् वरात् स जल् . अतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम् । 19.127 ।
प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष ।
च्च्xxविइ.रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद् धनुषोऽन्तमाण्सु । 19.128 ।
तस्मिं श्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ ।
उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु । 19.129 ।
विप्राण्स्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ ।
दृष्ट्वैव कृष्णमुखपङ्कजमाण्सु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ । 19.130 ।
तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य ।
कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण सशरैरधुनोच्च लक्षम् । 19.131 ।
कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ ।
भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धं तदा नृपवराब्धिरिमावधावत् । 19.132 ।
द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु ।
इत्याज्ञयैव वरचक्रधरस्य लिप्सामप्यत्र चक्रुरिह नैव यदुप्रवीराः । 19.133 ।
भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाण्सु वृक्षम् ।
आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराण्स्च बभूवुरेते । 19.134 ।
भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत् ।
दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र । 19.135 ।
प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात् ।
कर्णोऽभ्ययाद्धरिहयात्मजमाण्सु मद्रराजो जगाम पवनात्मजमेव वीरः । 19.136 ।
विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाण्सनमत्र भूयात् ।
क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रां श्च याचति स मारुतिरार शल्यम् । 19.137 ।
वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय ।
बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम् । 19.138 ।
पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यस्त्रबाहुबलमाविरमुत्र चक्रे ।
तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे । 19.139 ।
च्च्xxविइइ.त्वं फल्गुनो हरिहयो द्विजसत्तपो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे ।
यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथेहि रणतस्त्विति पार्थ आह । 19.140 ।
कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः ।
नागाह्वयं पुरमथ द्रुपदात्मजां त् आमादाय चार्जुनयुतः प्रययौ स भीमः । 19.141 ।
अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ ।
भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ग्ध्वं समस्तश इति प्रददर्श कन्याम् । 19.142 ।
प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता ।
तेषां बभूव वसुदेवसुतो हरिश्च तत्राऽजगाम परमेण हि सौहृदेन । 19.143 ।
सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः ।
ज् ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीनं इमानपश्यत् । 19.144 ।
भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम् ।
तेषां निशम्य नदतां धनवद् गभीरां क्षत्रोत्तमा इति मतिं स चकार वीरः । 19.145 ।
प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन ।
सम्पूजितोऽतिविदुषा प्रतिगृह्य तां श्च प्रावेशयन्नृपतिगेहममैव मात्रा । 19.146 ।
त् आनागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः ।
पूर्णान् गृहां श्चतुर एव दिदेश राजा तत्राऽयुधादिपरिपूर्णगृहं च तेऽगुः । 19.147 ।
चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान् ।
विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम् । 19.148 ।
स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः ।
पुत्रीकृते तव सुतेन तु लक्षवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन । 19.149 ।
एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः ।
सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहाऽसमद्य । 19.150 ।
पार्थार्थमेव हि मयैष कृतः प्रयत्नस्त्वं फल्गुनोऽन्य उतवाऽद्य करं सुतायाः ।
गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम् । 19.151 ।
च्च्xxइx.नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम् ।
इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः । 19.152 ।
व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाण्सु समस्त एव ।
नत्वाऽभिपूज्य वरपीठगतस्य चाऽज्ञामादाय चोपविविशुः सहितास्तदन्ते । 19.153 ।
कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि।
नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात् । 19.154 ।
एषां श्रियश्च निखिला अपिचैकदेहाः पुत्री तवैव न ततोऽत्र विरुद्धता हि।
इत्युक्तवत्यपि यदा द्रुपदश्चकार सं वादिनीं न धियमेनमथाऽह कृष्णः । 19.155 ।
दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याऽशु पाण्डुतनयान् दिवि सं स्थितां स्त्वम् ।
एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम् । 19.156 ।
इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशां श्च ।
एतान् निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण । 19.157 ।
दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम् ।
वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाण्स्च पाणिम् । 19.158 ।
पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्च सर्वैः ।
पौरैश्च जानपदिकैश्च यथैव रामे दत्वा सुतां जनक आप मुदं ततोऽनु । 19.159 ।
उद्बाह्य तत्र निवसत्सु च पाण्डवेषु ण्स्रुत्वैव रामसहितः सह यादवैश्च ।
आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितां श्च पार्थान् । 19.160 ।
दृष्ट्वैव तं मुमुदुराण्सु कुरुप्रवीरा आण्स्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम् ।
दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात् । 19.161 ।
देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि ।
षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम् । 19.162 ।
रत्नानि गा गजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाऽशिषोऽग्र्याः ।
च्च्xxx.व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाण्स्वगजरत्नसुकाञ्चनानि । 19.163 ।
दासीश्च दाससहिताः शुभरूपवेषाः सहस्रशो ददतुरत्र हरिर्नृपश्च ।
त् आसां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम् । 19.164 ।
मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन ।
अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे तु पार्थाः । 19.165 ।
वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियौधैः ।
भूरिश्रवः प्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते । 19.166 ।
तैरर्दिते स्वपुर आण्सु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत् ।
तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताण्स्च सेनाः । 19.167 ।
चित्रे हते समर आण्सु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य ।
पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान् । 19.168 ।
तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार ।
शक्रात्मजं तदनु पर्वतसन्निकाण्सं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह । 19.169 ।
आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः ।
भूरिश्रवाः शकुनिभूरिजयद्रथाण्स्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम् । 19.170 ।
ज् ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्द्धन्त एव तनया भवतो नरेन्द्र ।
इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः । 19.171 ।
पार्था इति स्म विदुरोऽवददाण्सु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव ।
भद्रं मृत् आ नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम् । 19.172 ।
इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्षवेधम् ।
उद्बाहमप्यथ नदीजमुखाण्स्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम् । 19.173 ।
श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च ।
त् आतप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्च । 19.174 ।
च्च्xxxइ.युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान् ।
एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न सं शयोऽत्र । 19.175 ।
भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्द्धितास्ते ।
ज् ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व । 19.176 ।
आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपैषु तथाऽर्द्धराज्यम् ।
एवं कृतं तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाण्सकरोऽन्यथा स्याः । 19.177 ।
इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच ।
याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्च । 19.178 ।
तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती ।
आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव । 19.179 ।
तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः ।
भीष्मादिकाण्स्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन । 19.180 ।
कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि ।
ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात् । 19.181 ।
कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या ।
कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा । 19.182 ।
ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः ।
कृष्णा च तेषु पृथगेव चतुः स्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात् । 19.183 ।
कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाण्सात् ।
प्रायो हि नाभिमतिनाण्समवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत् । 19.184 ।
धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत् ।
शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या । 19.185 ।
नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य सं स्मृतित एव हरेर्न मोहः ।
नाऽवेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या । 19.186 ।
च्च्xxxइइ.एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः ।
अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति । 19.187 ।
वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु ।
त् आभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाण्स्च ते मुमुदिरे युतसत्कथाभिः । 19.188 ।
पूर्वं हि तेषु वनगेषु बभूव काण्सिराजः सुताकृत उरुक्षितिपालयोगः ।
तत्र स्वयम्बरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः । 19.189 ।
पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये ।
दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाण्स्च कर्णसहितेन सहानुजेन । 19.190 ।
भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि ।
युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि घर्षणेण्साः । 19.191 ।
एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा ।
द्रौणिं च रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः । 19.192 ।
एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रतिजितेऽपि न तेऽस्त्यकीर्तिः ।
एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाण्सम् । 19.193 ।
भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य ।
भृत्यो बभूव नतु भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत् । 19.194 ।
इत्युक्त आण्सु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान् ।
कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम् । 19.195 ।
सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन ।
तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ । 19.196 ।
सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा ।
न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव । 19.197 ।
एवं विधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम् ।
च्च्xxxइइइ.बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्च मे स्याः । 19.198 ।
इत्युक्त आण्सु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः ।
दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः । 19.199 ।
अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आण्सु कुरून् जगाम ।
दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च । 19.200 ।
उद्वाह्य काण्सितनयां गिरिजाधिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम् ।
तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य । 19.201 ।
पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या ।
तस्यानुजाण्स्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः । 19.202 ।
पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुः शासनस्य तदनु प्रतितप्यमानाः ।
दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं त् आं चैव ते प्रतिययुः स्म कलिङ्गदेशम् । 19.203 ।
आसीत् स्वयम्बर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः ।
रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः । 19.204 ।
तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाण्सु जित्वा ।
कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत् । 19.205 ।
दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः ।
भीमो विजित्य नृपतीन् सजरासुतां स्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान् । 19.206 ।
तेऽपि स्म कर्णसहिता मृतकप्रतीका 71 नागाह्वयं पुरमथाऽययुरप्यमीषाम् ।
दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाण्सु याहि । 19.207 ।
तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्द्धमेव च गृहाण पुरा हिशक्रः ।
तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम् । 19.208 ।
त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आण्स्वभिषेचयामि ।
71 प्राचीनकोशे "मृतकप्रतीपाः " इति पठ्यते । अर्थस्तु न स्फुटः । यतः प्रतीपशब्दः सादृश्यवाची न प्रसिद्धः -
बन्नन्जे गोविन्दाचार्यः
च्च्xxxइव्.इत्युक्त आह स युधिष्ठिर ओं इति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः । 19.209 ।
तस्याभिषेकमकरोत् प्रथमं हि कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती ।
यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः । 19.210 ।
इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषि ञ्चत् ।
एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम् । 19.211 ।
भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम् ।
अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाण्स्च सन्तः । 19.212 ।
तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण चवृष्णिपेन ।
कृष्णेन ते ययुरमा पृथया तया चपाञ्चालराजसुतया स्थलमिन्द्रवासम् । 19.213 ।
कोशस्य चार्द्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाण्स्च पौराः ।
ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान् । 19.214 ।
भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय ।
द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः । 19.215 ।
आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य ।
वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान् । 19.216 ।
सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत् ।
तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धार्मः । 19.217 ।
प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे ।
कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाऽम्बिकेयम् । 19.218 ।
इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन् ।
प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथाऽगमदत्र सोऽपि । 19.219 ।
वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः ।
सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवां श्च पुरं तथैव । 19.220 ।
च्च्xxxव्.देशं च नातिजनसं वृतमन्यदेशसं स्थैर्जनैरभिपुपूरिर आण्सु पार्थाः ।
तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतिं स्म चक्रुः । 19.221 ।
प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य ।
दुः शासनं च युवराजमसौ विधाय मेने कृत् आर्थमिव च स्वमशान्तकामः । 19.222 ।
पार्थाण्स्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयां स्तु ।
शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आण्स्रितरमापतिपादयुग्माः । 19.223 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पॣअण्डवराज्यलाभो नाम एकोनविं शोऽध्यायः
च्च्xxxवि.(खाण्डवदाहः )
अथ विं शोऽध्यायः
ओं । यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् ।
धर्मानुशास्तिहरितत्त्वशं सनस्वराष्ट्ररक्षादिषु भीम आसीत् । 20.1 ।
स्त्रीधर्मसं शासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने ।
अन्तः पुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च। 20.2 ।
बीभत्सुरासीत् परराष्ट्रमर्द्दने तेनानियम्यां स्तु जरासुतादीन् ।
स कीचकादीं श्च ममर्द्द भीमस्तस्यैव ते बलतो नित्यभीत् आः । 20.3 ।
राष्ट्रेषु भीमेन विमर्द्दितेषु जिताण्स्च युद्धेषु निरुद्यमास्ते ।
बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च तदीयशासनात् । 20.4 ।
आजीविनां वेतनदस्तदाऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः ।
सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन् । 20.5 ।
धृष्टद्युम्नस्तत्र सेनाप्रणेता ण्सक्रप्रस्थे नित्यमास्तेऽतिहार्दात् ।
विशेषतो भीमसखा सआसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम् । 20.6 ।
नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् ।
तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः । 20.7 ।
युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय ।
कार्यार्थतो नैव वृकोदरेण कार्याणि सिद्धानि यतोऽखिलानि । 20.8 ।
गन्धर्वविद्याधरचारणाण्स्च सेवन्त एतान्त्सततं समस्ताः ।
यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम् । 20.9 ।
तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाण्स्च ।
ऋद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम् । 20.10 ।
अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम् ।
स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चां शयुक्तः । 20.11 ।
च्च्xxxविइ.तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः ।
कृष्णा सैवाऽप्यन्यरूपेण जाता काण्सीशपुत्री यां प्रवदन्ति काल् . ईम् । 20.12 ।
सा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते काण्सिराजः ।
स्वयम्बरार्थं नृपतीनाजुहाव सर्वां स्तेऽपि ह्यत्र हर्षात् समेताः । 20.13 ।
तेषां मध्ये भीमसेनां स एषा मालामाधात् तत्र जरासुताद्याः ।
क्रुद्धा विष्णोराण्स्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः । 20.14 ।
पूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः ।
वेदा ह्यदोषा इति पूर्वमेव सं साधयित्वैव सदागमैश्च । 20.15 ।
वेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् ।
तथा ण्साक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम् । 20.16 ।
विष्णोराधिक्यं त् आनि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे ।
विष्णूत्कृष्टः कथितो बौद्धपूर्वाण्स्चाऽहुर्विष्णुं परमं सर्वतोऽपि । 20.17 ।
लोकायताण्स्च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः ।
सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः । 20.18 ।
तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः ।
प्रत्यक्षतश्चात्र पश्यध्वमाण्सु बलं बाह्वोर्मे विष्णुपदाण्स्रयस्य । 20.19 ।
पुर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे।
नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा । 20.20 ।
स व्याघ्ररूपी कपिलात्मकामुमां परीक्षयन् मां हन्तुमिवाऽद्रवद् द्रुतम् ।
स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः । 20.21 ।
व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे ।
तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम् । 20.22 ।
एवं प्रत्यक्षे विष्णुपदाण्स्रयस्य बलाधिक्ये किमु वक्तव्यमत्र ।
च्च्xxxविइइ.विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाऽहुः । 20.23 ।
मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः ।
ततः परं वेदविदामगम्यताण्सापं प्रादाच्छङ्करो ब्रील् . इतोऽत्र । 20.24 ।
एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु ।
क्रोधोऽधिकश्चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः । 20.25 ।
विद्राप्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा ।
बाहुभ्यां चैनं परिगृह्याऽशु विष्णोः पादोत्थायां प्राक्षिपद् देवनद्याम् । 20.26 ।
स ब्रील् . इतः प्रययौ मागधां श्च भूपैः समेतो भीमसेनो रथं स्वम् ।
आरुह्य काण्सीश्वरपूजितश्च ययौ काल् . या ण्सक्रसनामकं पुरम् । 20.27 ।
तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मतायां रममाणः सुतं च ।
शर्वत्रातं नामाजनयत् पुरा यः समानवायुर्बलवीर्ययुक्तः । 20.28 ।
कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव ।
शतधन्वानं हन्तुमैच्छत् स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम् । 20.29 ।
त् आवब्रूतां सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः ।
कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाण्स्वीं भयतः पराद्रवत् । 20.30 ।
अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन ।
गत्वा मृत् आयां बडबायां पदैव स प्राद्रवत् कृष्ण एनं पदाऽगात् । 20.31 ।
छित्वा ण्सिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् ।
अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम् । 20.32 ।
अविश्वासात् सतु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान् ।
ज् आनन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात् । 20.33 ।
बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् ।
तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने । 20.34 ।
च्च्xxxइx.ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् ।
जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम् । 20.35 ।
रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः ।
स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम् । 20.36 ।
ज् आता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् ।
कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु याऽसीत् त्रिजटैव नाम्ना । 20.37 ।
सीत् आयाः प्राङ् नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च।
उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी । 20.38 ।
एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे ।
कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चाऽनयित्वा जगाद । 20.39 ।
आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने ।
मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै । 20.40 ।
अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् ।
रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे । 20.41 ।
आस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः ।
न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः । 20.42 ।
लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः ।
प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात् । 20.43 ।
वसन्नजस्तत्र बहूं श्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् ।
हत्वा मृगान् यमुनातीरसं स्थः सोऽन्यां काल् . इन्दीं ददृशे तत्स्वसारम् । 20.44 ।
सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा ।
पृष्टाऽर्जुनेनाऽह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः । 20.45 ।
ततो गत्वा नग्नजितो गृहं च स्वयम्बरे सप्त वृषानगृह्णात् ।
सर्वैरग्राह्यानसुरान् वरेण ण्सिवस्य यैर्निर्जिता भूमिपालाः । 20.46 ।
च्च्xल्.ततो नील् आं तस्य सुतां च लेभे पूर्वं नील् आ गोपकन्याऽपि याऽसीत् ।
सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता । 20.47 ।
पितृष्वसुर्मित्रविन्दा सुता चकृष्णे मालामासजद् राजमध्ये ।
विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ । 20.48 ।
जित्वाऽवन्त्यौ तौ नृपतीं श्चैव सर्वानादाय तां प्रययौ वासुदेवः ।
पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामग्रहीद् भ्रातृभिः सः । 20.49 ।
विश्वेषां देवानामवतारा हिपञ्च ते कैकेया भ्रातरोऽस्या हरेश्च ।
भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैव्यनामर्भुरग्रे । 20.50 ।
स्वयम्बरो लक्षणायास्तथाऽसीद् यथा द्रौपद्या लक्षवेधात्मकः सः ।
मद्रेषु तस्याण्स्च पिता पिनाकं स्वयम्बरार्थं जगृहे गिरीशात् । 20.51 ।
लक्षं च तत् सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् ।
छिन्नेषुणा पातनीयं ह तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम् । 20.52 ।
तत्राऽजग्मुर्मागधाद्याण्स्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः ।
दुर्योधनाद्याण्स्च ससूतपुत्रा सज्यीकर्तुं धनुरप्युत्सहन्ते । 20.53 ।
केचिन्निपेतुर्धनुषैव ताडित् आ न वै केचिच्चालयितुं च शेकुः ।
दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्षवीक्षां न शेकुः । 20.54 ।
धनञ्जयः स्वात्मबलं प्रकाण्सयन् सज्यं कृत्वा धनुरैक्षच्च लक्षम् ।
नैवाऽददे बाणमनिच्छयैव तत् प्राप्यां ज् आनन् केशवेनैव तां च । 20.55 ।
भीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः ।
योग्ये कर्मण्यायतं श्चापराधी स्यादित्यजः पश्यमानो महात्मा । 20.56 ।
कृष्णस्ततश्चापमधिज्यमाण्सु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्षम् ।
अपातयद् दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराण्स्च । 20.57 ।
कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवां से निधाय ।
च्च्xलि.तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं स्वात्तशस्त्राः । 20.58 ।
विद्राप्य तन् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् ।
ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः । 20.59 ।
भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता ।
तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना । 20.60 ।
रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाण्स्च तस्याः ।
यदाऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम् । 20.61 ।
यदाऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विं शगुणाधिकाः स्युः ।
अनादितस्ताः केशवान्नान्यसं स्था रेमे ताभिः केशवो द्वारवत्याम् । 20.62 ।
एवं कृष्णे द्वारकामध्यसं स्थे गिरिं भूपा रैवतकं समाययुः ।
दुर्योधनाद्याः पाण्डवाण्स्चैव सर्वे नानादेश्या येचभूपालसङ्घाः । 20.63 ।
आत्मानं त् आन् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श ।
नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे । 20.64 ।
एत्याऽकाण्सान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् ।
इत्याण्स्चर्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह । 20.65 ।
दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः ।
नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि । 20.66 ।
कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति ।
ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः । 20.67 ।
या मादृशा देवताः सर्वशस्ता धृत् आस्तया प्रथितत्वात् पृथिव्या ।
शिवं शेषं गरुडं चाऽह साऽपि परवानात् पर्वतनामधेयान् । 20.68 ।
तैरेवाहं मत्समाण्स्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ ।
ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम् । 20.69 ।
च्च्xलिइ.सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज् ञेन नारायणेन ।
यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात् तदाख्या । 20.70 ।
विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् ।
न तत्समश्चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः । 20.71 ।
तयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम् ।
सर्वोत्तमोऽसीत्यवदं स चाऽह न केवलं मेऽङ्कगायाः श्रियोऽहम् । 20.72 ।
सदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया ।
यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात् । 20.73 ।
सा दक्षिणामानिनी देवता चसा च स्थिता बहुरूपा मदर्द्धा ।
वामार्द्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्द्धनारायणाख्यः । 20.74 ।
तदाऽप्यस्या उत्तमोऽहं सुपूर्णो नमादृशः कश्चिदस्त्युत्तमो वा ।
इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्वं दक्षिणानां स्मरन्त्सः । 20.75 ।
त् आभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव ।
मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति । 20.76 ।
उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् ।
सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः । 20.77 ।
प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युधेऽर्थितः केशवो वीर्यमस्यै ।
अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान् ।
निरायुधां श्चक्र एकः क्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान् । 20.78 ।
व्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः ।
चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च । 20.79 ।
एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन ।
ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम । 20.80 ।
एवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च ।
च्च्xलिइइ.तस्मादेष ह्यद्भुतोऽत्युत्तमश्चेत्युक्ता नेमुस्तेऽखिला वासुदेवम् । 20.81 ।
वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुग्मिणीं च ।
स्तुत्वा पुष्पं पारिजातस्य दत्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य । 20.82 ।
साक्षात् सत्या रुग्मिणीत्येकसं विद् द्विधाभूता नात्र भेदोऽस्ति कश्चित् ।
तथाऽपि सा प्रमदानां स्वभावप्रकाण्सनार्थं कुपितेवाऽस सत्या । 20.83 ।
साकं रुग्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम् ।
कोपाननं दर्शयन्तीमुवाच विडम्बार्थं कामिजनस्य कृष्णः । 20.84 ।
दातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद् वासवोऽपि ।
सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृत् आभ्याम् । 20.85 ।
तदैवाऽगुर्मुनयस्तेन तुन्ना बदर्यास्ते सर्व एवाऽशु कृष्णम् ।
ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च । 20.86 ।
इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् ।
आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः । 20.87 ।
नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् ।
उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा । 20.88 ।
तया युक्तो गरुडस्कन्धसं स्थो दूरानुयातो वज्रभृत् आऽप्यनुज्ञाम् ।
दत्वाऽमुष्मै प्रययौ वायुजुष्टामाण्सां कृष्णो भौमवधे धृत् आत्मा । 20.89 ।
भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै ।
दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च। 20.90 ।
भौमेन जय्यत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् ।
विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः । 20.91 ।
आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाण्सदुर्गम् ।
तस्याप्यन्तः क्षुरधारोपमं तत् पाण्साण्स्च ते षट्सहस्राण्स्च घोराः ।
अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽराधितेन । 20.92 ।
च्च्xलिव्.तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः ।
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0