भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.4

9.4.1

एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥

9.4.2

ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥

9.4.3

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥

9.4.4

गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥

9.4.5

सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥

9.4.6

हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ॥

9.4.7

राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत् ॥

9.4.8

अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥

9.4.9

तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः । प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् ।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥

9.4.10

विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥

9.4.11

एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥

9.4.12

स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः ।
कृतागसो व यं तस्य हितं मे स कथं चरेत् ॥

9.4.13

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥

9.4.14

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥

9.4.15

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥

9.4.16

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम ॥

9.4.17

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥

9.4.18

तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥

9.4.19

यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता । उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥

9.4.20

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥

9.4.21

इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥

9.4.22

कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥

9.4.23

उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा ।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥

9.4.24

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥

9.4.25

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ॥ न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ।

9.4.26

सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥

9.4.27

नायं क्लीबायितुं कालः संयोद्वुं काल एव नः ॥

9.4.28

इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥

9.4.29

भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः ।
नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥

9.4.30

जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥

9.4.31

पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः । न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः ।
इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा ॥

9.4.32

वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम् ।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥

9.4.33

अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः ।
क्रतूनाहृत्य महतो महिमानं स गच्छति ॥

9.4.34

कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः ।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥

9.4.35

त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् ।
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम् ॥

9.4.36

शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम् । धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् ।
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे ॥

9.4.37

मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः ॥

9.4.38

पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि ।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥

9.4.39

पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः ।
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि ॥

9.4.40

पितामहेन वृद्वेन तथाऽचार्येण धीमता ।
जयद्रथेन कर्णेन तथा दुःशासनेन च ॥

9.4.41

घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः ।
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥

9.4.42

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः ॥

9.4.43

तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् ।
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम् ॥

9.4.44

ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ।
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे ॥

9.4.45

पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान् ।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम् ॥

9.4.46

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम् ॥

9.4.47

सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् ।
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा ॥
सञ्जय उवाच ।

9.4.48

एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः ।
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥

9.4.49

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥

9.4.50

ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥

9.4.51

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम् ॥

9.4.52

तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः । पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ।
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc