भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.3

9.3.1

शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥

9.3.2

निहते सूतपुत्रे च फल्गुनेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥

9.3.3

विमुखे तव पुत्रे च शोकोपहतचेतसि ।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥

9.3.4

ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत ।
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम् ॥

9.3.5

अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे । पतितानवनीपालान्धवजांश्चैव महात्मनाम् ।
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत ॥

9.3.6

आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् ।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ॥

9.3.7

कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः । अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् ।
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः ॥

9.3.8

दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥

9.3.9

न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते ।
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥

9.3.10

पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा ।
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन ॥

9.3.11

वधे चैव परो धर्मस्तथाऽधर्मः पलायने । ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ।
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ॥

9.3.12

हते भीष्मे च द्रोणे च कर्णे चैव महारथे । जयद्रथे च निहते तव भ्रातृषु चानघ ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥

9.3.13

येषु भारं समासज्य राज्ये मतिमकुर्महि ।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥

9.3.14

वयं त्विह विनाभूता गुणवद्भिर्महारथैः ।
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् ॥

9.3.15

सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः ।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥

9.3.16

इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् ।
वानरं केतुमासाद्य सञ्चचाल महाचमूः ॥

9.3.17

सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च ।
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः ॥

9.3.18

स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् ।
अलातमिव चाविद्वं गाण्डवीं समदृश्यत ॥

9.3.19

जाम्बूनदविचित्रं च धूयमानं महद्धनुः ।
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव ॥

9.3.20

उह्यमानश्च कृष्णेन वायुनेव बलाहकः । तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः ।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः ॥

9.3.21

गाहमानमनीकानि महेन्द्रसदृशप्रभम् । विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान् ।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ॥

9.3.22

त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्ण्डवम् ।
भूय एनमपश्याम सिंहं मृगगणानिव ॥

9.3.23

सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम् ।
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥

9.3.24

अद्य सप्तदशाहानि वर्तमानस्य भारत ।
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि ॥

9.3.25

वायुनेव विधूतानि एव सैन्यानि गच्छता ।
शरदम्भोदजालानि विशीर्यन्ते समन्ततः ॥

9.3.26

तां नावमिव पर्यस्तां मज्जमानां महार्णवे ।
तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥

9.3.27

क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः ।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु ॥

9.3.28

दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु ॥

9.3.29

वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् । सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा ।
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि ॥

9.3.30

जयद्रथो हतो राजन्किन्नु शेषमुपास्महे ।
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् ॥

9.3.31

तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः ।
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः ॥

9.3.32

नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका ।
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे ॥

9.3.33

ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् ॥

9.3.34

सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् ॥

9.3.35

उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते ।
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति ॥

9.3.36

प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना ॥

9.3.37

युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु ।
अकारणकृतान्येव तेषां वः फलमागतम् ॥

9.3.38

आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः ।
स ते संशयितस्तात आत्मा च भरतर्षभ ॥

9.3.39

रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥

9.3.40

हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा ।
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥

9.3.41

ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः ।
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ॥

9.3.42

न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥

9.3.43

अणिपत्य हि राजानं राज्यं यदि लभेमहि ।
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥

9.3.44

वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः ।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥

9.3.45

अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः ।
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः ॥

9.3.46

कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः ॥

9.3.47

यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् ।
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् ॥

9.3.48

नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु ।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥

9.3.49

एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् ।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ॥

9.3.50

पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥

9.3.51

इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc