भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.5

9.5.1

एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥

9.5.2

ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥

9.5.3

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥

9.5.4

गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥

9.5.5

सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥

9.5.6

हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ॥

9.5.7

राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत् ॥

9.5.8

अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥

9.5.9

तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः । प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् ।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥

9.5.10

विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥

9.5.11

एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥

9.5.12

स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः ।
कृतागसो वयं तस्य हितं मे स कथं चरेत् ॥

9.5.13

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥

9.5.14

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥

9.5.15

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥

9.5.16

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम ॥

9.5.17

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥

9.5.18

कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः ॥

9.5.19

यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता । उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥

9.5.20

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥

9.5.21

इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥

9.5.22

कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥

9.5.23

उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा ।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥

9.5.24

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥

9.5.25

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ॥

9.5.26

न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥

9.5.27

नायं क्लीबायितुं कालः संयोद्धुं काल एव नः ॥

9.5.28

इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम् ॥

9.5.29

भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः ।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥

9.5.30

जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् । भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥ == ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc