महाभारत · अध्याय 9.2
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद्दुःखतरं गतः ॥
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः ।
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत् ॥
धृतराष्ट्र उवाच ।
अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय ।
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः ॥
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् ।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥
बालभावमतिक्रम्य यौवनस्थांश्च तानहम् ।
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ ॥
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः ।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक ।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् ।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि ॥
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता ।
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः ॥
को नु मामुत्थितः काले ताततातेति वक्ष्यति ।
महाराजेति सततं लोकनाथेति चासकृत् ॥
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः ।
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः ॥
ननु नामाहमश्रौषं वचनं तव पुत्रक ।
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा ॥
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥
अश्वत्थामा च भोजश्च मागधश्च महाबलः ।
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः ॥
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह ।
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा ॥
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान् ॥
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः ।
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः ॥
एते चान्ये च बहवो राजानो राजसत्तम ।
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च ॥
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥
एकोऽप्येषां महाराज समर्थः सन्निवारणे ।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ॥
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः ॥
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे ।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान् ॥
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने ॥
यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।
न स सन्नह्यते राजन्निति मामब्रवीद्वचः ॥
एवं च वदतः सूत बहुशो मम सन्निधौ ।
युक्तितो ह्यनुपश्यामि निहतान्पाण़्डवान्रणे ॥
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः ।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।
शिखण़्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः । भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे ।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः ॥
भगदत्तो हतो यत्र गजयुद्धविशारदः ।
जयद्रथश्च निहतः किमन्यद्भागधेयतः ॥
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः ।
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः ॥
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥
बृहद्बलो हतो यत्र मागधश्च महाबलः ।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः ।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः ॥
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः ॥
नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।
निहतः सबलो वीरः किमन्यद्भागधेयतः ॥
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः । राजानो राजपुत्राश्च शूराः परिघबाहवः ।
निहता बहवो यत्र किमन्यद्भागधेयतः ॥
यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः ।
बहवो निहताः सूत महेन्द्रसमविक्रमाः ॥
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय ।
निहताः समरे सर्वे किमन्यद्भागधेयतः ॥
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः ।
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय ।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥
नान्यदत्र परं मन्ये वनवासादृते प्रभो ।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसन्क्षये ॥
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ॥
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।
दुःशासनो विविंशश्च विकर्णश्च महाबलः ॥
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।
एकेन समरे येन हतं पुत्रशतं मम ॥
असकृद्वदतस्तस्य दुर्योधनवधेन च ।
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ॥
वैशम्पायन उवाच ।
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः ।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् ॥
दुःखेन महता राजन्सन्तप्तो भरतर्षभः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥
धृतराष्ट्र उवाच ।
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।
सेनापतिं प्रणेतारं कमकुर्वत मामकाः ॥
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना ।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् ।
सराजकानां सर्वेषां पश्यतां वः किरीटिना ॥
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना ।
दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च ।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत् ॥
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् ।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः ॥
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा ।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥
को वा मुखमनीकानामासीत्कर्णो निपातिते ।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे ।
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः ॥
कथं च वः समेतानां मद्रराजो महारथः ।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि ।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् ।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥
निहते सूतपुत्रे तु पाण्डवेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥
घोरे मनुष्यदेहानामाजौ नरवरक्षये ।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत् ॥
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् ॥
न सन्धातुमनीकानि न चैवाथ पराक्रमे ।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् ॥
वणिजो नावि भिन्नायामगाधे विप्लुवा इव ।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ॥
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः ।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना ॥
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः ।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः ॥
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः ।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः ॥
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः ।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत ॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात् ॥
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः ।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः ॥
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने ।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन् ॥
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे ।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः ॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् ॥
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् ।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय ॥
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः ।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः ॥
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् ।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् ॥
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः ।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ॥
गजाश्वरथहीनास्तु पादाताश्चैव मारिष ।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव ॥
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः ॥
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम् ।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ॥
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ॥
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः ।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः ॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ॥
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः ।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् ॥
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः ।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ॥
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा ।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् ॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः ॥
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान् ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् ॥
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः ।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत ॥
ततो धनञ्जयो राजन्रथानीकमगाहत ।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः ॥
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् ।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात् ॥
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः ।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः ॥
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः ।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥
महाधनुर्धरः श्रीमानमित्रगणमर्दनः ।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः ॥
पारावतसवर्णाश्वं कोविदारवरध्वजम् ।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् ॥
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ॥
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् ॥
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् ।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव ॥
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः ।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप ॥
तत एनं शरै राजन्सहसा समवाकिरत् ।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते ॥
अन्धकारीकृते लोके शरीभूते महीतले ।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् ॥
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते ।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत् ॥
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ॥
त एनमभिगर्जन्तं सहिताः समुपाद्रवन् ।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः ॥
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम् ।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् ॥
नातिदूरापयातं च कृतबुद्धि पलायने ।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम् ॥
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः ।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत् ॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत् ॥
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान् ।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः ॥
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ॥
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः ॥
पितामहैराचरितं न धर्मं हातुमर्हथ ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् ॥
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः ।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते ॥
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः । पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति ।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे ॥
ततः प्रववृते युद्धं पुनरेव सुदारुणम् ।
तावकानां परेषां च देवासुररणोपमम् ॥
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् । अन्वधावन्महाराज पुत्रो दुर्योधनस्तव ॥ ] ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0