भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.1

9.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।

9.1.2

एवं निपातिते कर्णे समरे सव्यसाचिना ।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥

9.1.3

विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥

9.1.4

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥
वैशम्पायन उवाच ।

9.1.5

ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः ।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥

9.1.6

हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः ।
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह ॥

9.1.7

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् ॥

9.1.8

स दैवं बलवन्मत्वा प्रभाते विमले सति ।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ ॥

9.1.9

शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् ।
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह ॥

9.1.10

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।
बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥

9.1.11

ततः शल्यो महाराज कृत्वा कदनमाहवे ।
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः ॥

9.1.12

ततो दुर्योधनो राजा हतबन्धू रणाजिरात् ।
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात् ॥

9.1.13

अथापराह्णे तस्याह्नः परिवार्य महारथैः ।
हदादाहूय युद्वाय भीमसेनेन पातितः ॥

9.1.14

तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे ।
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् ॥

9.1.15

ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः ।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥

9.1.16

स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः ।
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम् ॥

9.1.17

धावतश्चाप्यपश्यxxx तत्रत्यान्पुरुषर्षभान् ।
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् ॥

9.1.18

दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः ।
अहो बत विपन्नोऽस्मि निधनेन महात्मनः ॥

9.1.19

अहो सुबलवान्कालो गतिश्च परमा तथा ।
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः ॥

9.1.20

तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् ।
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् ॥

9.1.21

आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः ।
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥

9.1.22

तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ।
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥

9.1.23

दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् । स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ।
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः ॥

9.1.24

तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ॥

9.1.25

नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा ।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ॥

9.1.26

मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥

9.1.27

संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह ।
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥

9.1.28

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः । उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः ।
राजानो राजपुत्राश्च सर्वे विनिहता नृप ॥

9.1.29

कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः ॥

9.1.30

दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह ।
xxxxxx महाराज शेते पांसुषु रूषितः ॥

9.1.31

xxxxxx हतो xxx जञ्शिखण्डी चापराजितः ।
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः ॥

9.1.32

पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः ।
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥

9.1.33

नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।
रथिनत्र नरव्याघ्र हयाश्च निहता युधि ॥

9.1.34

निxxxx शिबिरं रावञ्जावकानां कृतं प्रभो ।
पाण्डवानां च शूराणां समासाद्य परस्परम् ॥

9.1.35

xxxx स्रीशेषमभवज्जगत्कालेन मोहितम् ।
सप्त पाण़्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः ॥

9.1.36

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥

9.1.37

एते शेषा महाराज रथिनो नृपसत्तम ।
अक्षौहिणीनामष्टानां दशानां च न संशयः ॥

9.1.38

एते शेषा महाराज सर्वेऽन्ये निधनं गताः । कालेन निहतं सर्वं जगद्वै भरतर्षभ ।
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः ॥
वैशम्पायन उवाच ।

9.1.39

एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः ।
निपपात स राजेन्द्रो गतसत्वो महीतले ॥

9.1.40

तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः ।
निपपात महाराज शोकव्यसनकर्शितः ॥

9.1.41

गान्धारी च महाभागा सर्वाश्च कुरुयोषितः ।
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः ॥

9.1.42

निःसञ्ज्ञं पतितं भूमौ तदाऽसीद्राजमण्डलम् ।
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा ॥

9.1.43

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः ।
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥

9.1.44

लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः ।
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥

9.1.45

विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ । ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ।
एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह ॥

9.1.46

तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥

9.1.47

स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः ।
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः ॥

9.1.48

निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः ॥

9.1.49

सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् ।
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥

9.1.50

ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ॥

9.1.51

गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी ।
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् ॥

9.1.52

एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ ।
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः ॥

9.1.53

निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम ।
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ॥

9.1.54

ततो नरपतिस्तत्र लब्ध्वा सञ्ज्ञां परन्तपः । गतिर्मे को भवेदद्य इति चिन्तासमाकुलः ।
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् ॥

9.1.55

प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः ।
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः ॥

9.1.56

राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः ।
समाश्वासयत क्षत्ता वचसा मधुरेण च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc