भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.14

9.14.1

दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥

9.14.2

ततो राजन्समापेतुः शरधाराः सहस्रशः ।
अम्बुदानां यथा काले जलधाराः समन्ततः ॥

9.14.3

राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः ।
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः ॥

9.14.4

धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥

9.14.5

पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥

9.14.6

स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् ।
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् ॥

9.14.7

शिखण्डी कृतवर्माणं गौतमं च महारथम् ॥
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥

9.14.8

तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते ।
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने ॥

9.14.9

शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम् ।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥

9.14.10

तथा तौ तु यमौ यमतुल्यपराक्रमौ ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च ॥

9.14.11

शल्यसायकनुन्नानां पाण्डवानां महामृधे ।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥

9.14.12

ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥

9.14.13

सञ्छाद्य समरे वीरं नकुलः परवीरहा ।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥

9.14.14

सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः ।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥

9.14.15

शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः ।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥

9.14.16

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् ॥

9.14.17

तानापतत एवाशु पूरयाणान्रथस्वनैः । दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम् ।
प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥

9.14.18

युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः ।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥

9.14.19

ततस्तु सशरं चापं नकुलस्य महात्मनः ।
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष ॥

9.14.20

तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः । अथान्यद्धनुरादाय माद्रीपुत्रो महारथः ।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥

9.14.21

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥

9.14.22

भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः ।
मद्रराजमभिद्रुत्य जघ्नतुः xxङ्कपत्रिभिः ॥

9.14.23

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥

9.14.24

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥

9.14.25

विरथं सात्यकिं कृत्वा मद्रराजो महारथः ।
विशिखानां शतेनैनमाजघान समन्ततः ॥

9.14.26

माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् ।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥

9.14.27

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥

9.14.28

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः । पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ।
अभिदुद्राव वेगेन मद्राणामधिपं बलात् ॥

9.14.29

आपतन्तं रथं तस्य शल्यः समितिशोभनः ।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥

9.14.30

स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः । सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥

9.14.31

सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥

9.14.32

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥

9.14.33

ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् ।
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया ॥

9.14.34

तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥

9.14.35

तेषामासीन्महाराज व्यधिक्षेपः परस्परम् ।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥

9.14.36

तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् ।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥

9.14.37

शरान्धकारं सहसा कृतं तेन समन्ततः ।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥

9.14.38

तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः ।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा ॥

9.14.39

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।
यदेकः समरे शूरो योधयामास वै बहून् ॥

9.14.40

मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥

9.14.41

तत्र शल्यरथं राजन्विचरन्तं महाहवे ।
अपश्याम यथापूर्वं शक्रस्यासुरसन्क्षये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc