भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.15

9.15.1

ततः सेना तव विभो मद्रराजपुरस्कृता ।
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे ॥

9.15.2

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् ॥

9.15.3

ते वध्यमानाः समरे पाण्डवा नावतस्थिरे ।
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः ॥

9.15.4

ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः ।
अवाकिरच्छरौघेण कृतवर्माणमेव च ॥

9.15.5

शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् ।
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् ॥

9.15.6

द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् ।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥

9.15.7

भीमसेनस्तु राजानं गदापाणिरवारयत् ।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥

9.15.8

ततः समभवद्युद्धं संसक्तं तत्रतत्र ह ।
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥

9.15.9

तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे ।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् ॥

9.15.10

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥

9.15.11

पीडयित्वा तु राजानं शरैराशीविषोपमैः ।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥

9.15.12

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् ।
अपूजयन्ननीकानि परेषां तावकानि च ॥

9.15.13

पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः ।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥

9.15.14

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥

9.15.15

ततः पौरुषमास्थाय मद्रराजमताडयत् ।
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः ॥

9.15.16

समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः ॥

9.15.17

भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः । कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ॥

9.15.18

भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् ॥

9.15.19

तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ ॥

9.15.20

अजेयौ वासवेनापि समरे शूरसम्मतौ ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ॥

9.15.21

मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ । मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः ।
इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥

9.15.22

योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः ।
स्वमंशमभिसन्धाय विजयायेतराय वा ॥

9.15.23

तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च ।
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः ॥

9.15.24

शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् ।
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥

9.15.25

पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः ।
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥

9.15.26

एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः ॥

9.15.27

ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे ।
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः ॥

9.15.28

प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् । ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् ।
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥

9.15.29

तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् ।
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥

9.15.30

हादेन गजघण्टानां शङ्खानां निनदेन च ।
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥

9.15.31

तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् ।
महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥

9.15.32

शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् ।
ववर्ष शरवर्षेण शम्बरं मघवा इव ॥

9.15.33

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः । द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ॥

9.15.34

न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥

9.15.35

तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् ।
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥

9.15.36

भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः ॥

9.15.37

पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥

9.15.38

तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥

9.15.39

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा ।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् ॥

9.15.40

स किङ्किणीकजालेन महता चारुदर्शनः ।
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः ॥

9.15.41

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।
क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥

9.15.42

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥

9.15.43

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥

9.15.44

हतसूता हयास्तस्य रथमादाय भारत ।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् ॥

9.15.45

तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः ।
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः ॥

9.15.46

तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् ।
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥

9.15.47

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥

9.15.48

तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे ।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥

9.15.49

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥

9.15.50

यांयां प्रत्युद्ययौ सेनां तान्तां ज्येष्ठः स पाण्डवः ।
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥

9.15.51

साश्वसूतध्वजरथान्रथिनः पातयन्बहून् ।
अक्रीडदेको बलवान्पवनस्तोयदानिव ॥

9.15.52

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा ।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥

9.15.53

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् ॥

9.15.54

तस्य तच्चरितं दृष्ट्वा सन्ग्रामे भीमकर्मणः ।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥

9.15.55

ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ ।
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः ॥

9.15.56

शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् ।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् ॥

9.15.57

अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ । उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ।
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ ॥

9.15.58

दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ ।
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ॥

9.15.59

हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ।
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ॥

9.15.60

इतीव निश्चयो नाभूद्योधानां तत्र भारत ।
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ॥

9.15.61

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ।
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत ॥

9.15.62

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ।
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥

9.15.63

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ।
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ॥

9.15.64

ततोऽस्य दीप्यमानेन पीतेन निशितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम् ॥

9.15.65

ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम ॥

9.15.66

ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् ।
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥

9.15.67

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥

9.15.68

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥

9.15.69

तथान्यद्धनुरादाय बलवान्वेगवत्तरम् ॥
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् ॥

9.15.70

ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥

9.15.71

सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत् ॥

9.15.72

तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् ।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् ॥

9.15.73

कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥

9.15.74

बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च ।
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव ॥

9.15.75

तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc