भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.13

9.13.1

अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥

9.13.2

द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः । तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः ।
भूयश्चैव महाराज शरवर्षैरवाकिरत् ॥

9.13.3

शरकण्टकितास्ते तु तावका भरतर्षभ ।
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ॥

9.13.4

अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः ।
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे ॥

9.13.5

तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः ।
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥

9.13.6

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् ।
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः ॥

9.13.7

कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो ।
युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥

9.13.8

नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् ।
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥

9.13.9

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः ।
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥

9.13.10

ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः ।
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम् ॥

9.13.11

ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः ।
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥

9.13.12

कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् ।
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ॥

9.13.13

चक्राणां पततां चापि युगानां च धरातले ।
तूणीराणां पताकानां ध्वजानां च रथैः सह ॥

9.13.14

ईषाणामनुकर्षाणां त्रिवेणूनां च भारत ।
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः ॥

9.13.15

शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् ।
भुजानां च महाभाग स्कन्धानां च समन्ततः ॥

9.13.16

छत्राणां व्यजनैः सार्धं मकुटानां च राशयः ।
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥

9.13.17

अगम्यरूपा पृथिवी मांसशोणितकर्दमा । भीरूणां त्रासजननी शूराणां हर्षवर्धिनी ।
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥

9.13.18

हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः ।
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् ॥

9.13.19

यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् ।
विधूमो दृश्यते राजंस्तथा पार्थो धṉअञ्जयः ॥

9.13.20

द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् ।
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥

9.13.21

तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ ।
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ॥

9.13.22

तयोरासीन्महाराज बाणवर्षं सुदारुणम् ।
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ॥

9.13.23

अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः ।
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥

9.13.24

तयोर्युद्धं महाराज चिरं सममिवाभवत् ।
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ॥

9.13.25

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः ।
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥

9.13.26

ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ॥

9.13.27

व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः ।
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् ॥

9.13.28

हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् ।
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥

9.13.29

तमापतन्तं सहसा हेमपट्टविभूषितम् ।
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥

9.13.30

स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः । आददे परिघं घोरं नगेन्द्रशिखरोपमम् ।
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥

9.13.31

तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः ।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥

9.13.32

स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे ।
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत ॥

9.13.33

ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण़्डवः ॥

9.13.34

सोऽतिविद्धो बलवता पार्थेन सुमहात्मना ।
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः ॥

9.13.35

सुरथं च ततो राजन्भारद्वाजो महारथम् ।
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥

9.13.36

ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः ।
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥

9.13.37

विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् ।
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥

9.13.38

सुरथं तं ततः क्रुद्धमापतन्तं महारथम् ।
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥

9.13.39

त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् । उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् ॥

9.13.40

स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः ।
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् ॥

9.13.41

ततः स पतितो भूमौ नाराचेन समाहतः ।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः ॥

9.13.42

तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् ।
आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥

9.13.43

ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।
अर्जुनं योधयामास संशप्तकवृतो रणे ॥

9.13.44

तत्र युद्धं महच्चासीदर्जुनस्य परैः सह ।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥

9.13.45

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।
यदेको युगपद्वीरान्समयोधयदर्जुनः ॥

9.13.46

विमर्दः सुमहानासीदर्जुनस्य परैः सह ।
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc