भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.62

8.62.1

आतुरो मे मतो राजा अविपह्यश्च भारत ।
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः ॥

8.62.2

त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।
मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः ॥

8.62.3

न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः ।
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥

8.62.4

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥

8.62.5

एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् ।
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः ॥

8.62.6

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥

8.62.7

एते भारत मातङ्गाः कर्णेनाभिहताः शरैः ।
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥

8.62.8

रथानां द्रवते वृन्दमेतच्चैव समन्ततः ।
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा ॥

8.62.9

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह ।
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥

8.62.10

असौ धावति राधेयो भीमसेनरथं प्रति ।
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम् ॥

8.62.11

एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना ।
शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना ॥

8.62.12

एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् ।
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥

8.62.13

एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते ।
शत्रुं जित्वा यथा शक्रो देवसङ्खैः समावृतः ॥

8.62.14

एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।
त्रासयन्तो रणे पाण्डून्सृञ्जयांश्च समन्ततः ॥

8.62.15

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।
अभिभाषति राधेयः सर्वसैन्यानि मानद ॥

8.62.16

अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः ।
यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः ॥

8.62.17

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः ।
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान् ॥

8.62.18

पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम् ।
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम् ॥

8.62.19

पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत ।
ध्रियमाणेन समरे श्रीमच्छतशलाकिना ॥

8.62.20

एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय ।
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥

8.62.21

पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।
शरांश्चाशीविषाकारान्विसृजन्तं महारणे ॥

8.62.22

असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम् । प्रार्थयन्समरं पार्थ त्वया सह परन्तप ।
वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा ॥

8.62.23

कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे ।
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् ॥

8.62.24

कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ।
अत्मानं च कृतार्थं च समीक्ष्य भरतर्षभ ॥

8.62.25

असौ दुर्योधनः क्रुद्धो रथानीकेन भारत ।
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते ॥

8.62.26

सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः ।
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥

8.62.27

अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः । देवासुरे पार्थ मृधे देवदानवयोरिव ।
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् ॥

8.62.28

त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम् ।
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते ॥

8.62.29

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ ।
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥

8.62.30

प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् ।
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥

8.62.31

पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम ।
शतान्यxxxxxxजलिनां तिन्मतेजसाम् ॥

8.62.32

पञ्च नाघxxxxx द्विगुणा वाजिनस्तथा ।
अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च ॥

8.62.33

xxxxxxxx वीर बलं तामभिवर्तते ।
द्रोमपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय ॥

8.62.34

निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम् ।
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना ॥

8.62.35

xxxxxxxxxxxxxxxभरतर्षभ । xxxxxxxxxxxxx पाञ्चालानभिघावति ।

8.62.36

xxxxxx हि पश्यामि धृष्टद्युम्नरर्थ प्रति ।
xxxxxx पाञ्चालानिति मन्ये परन्तप ॥

8.62.37

आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ ।
राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः ॥

8.62.38

असौ भीमो महाबाहुः सन्निवृत्तश्चमूयुखे ।
वृतः सृञ्जय सैन्येन शैनेयेन च भप्तत ॥

8.62.39

वध्यन्त एते समरे कौरवा निशितैः शरैः ।
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥

8.62.40

सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात् ।
वेगेन भीमसेनस्य विहता विविधैः शरैः ॥

8.62.41

विपन्नसस्येव मही रुधिरेण समुक्षिता ।
भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥

8.62.42

निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम् ।
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारति ॥

8.62.43

पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ।
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥

8.62.44

सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ।
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते ॥

8.62.45

रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ।
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥

8.62.46

निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय ।
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥

8.62.47

विमृद्रन्ति नरव्याघ्रा भीमसेनबलाश्रयात् ।
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम् ॥

8.62.48

एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान् ।
अभिद्रवन्ति च रणे मृद्रन्तः सायकैः परान् ॥

8.62.49

पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात् ।
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान् ॥

8.62.50

[शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः ।
तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च ॥

8.62.51

शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च ।
रथनागहया वीरा यशस्याः सर्व एव च] ॥

8.62.52

सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ।
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते ॥

8.62.53

सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो ।
निवारणे महेष्वासाः पाञ्चालानां परन्तप ॥

8.62.54

अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप ।
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ॥

8.62.55

रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे ।
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः ॥

8.62.56

पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी ।
वज्रिवज्रहतानीव शिखराणि धराभृताम् ॥

8.62.57

भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः ।
स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः ॥

8.62.58

एते द्रवन्ति कुरवो भीमसेनभयार्दिताः ।
त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः ॥

8.62.59

हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु ।
भीमसेनस्य निनदं द्रावयानस्य कौरवान् ॥

8.62.60

अभिजानामि भीमस्य सिंहनादं पुनःपुनः ।
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः ॥

8.62.61

एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् ।
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः ॥

8.62.62

तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः ।
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः ॥

8.62.63

हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः ।
नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः ॥

8.62.64

शक्तितोमरसङ्घतैर्विनिघ्नन्तो वृकोदरम् । सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः ।
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥

8.62.65

दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥

8.62.66

न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ।
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥

8.62.67

अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः ।
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः ॥

8.62.68

न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् ।
मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः ॥

8.62.69

एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः ।
शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित् ॥

8.62.70

राधेयो बहुभिः सार्धमसौ गच्छति वेगितः । वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः ।
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः ॥
सञ्जय उवाच ।

8.62.71

एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः । भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ।
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून् ॥

8.62.72

ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो ।
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा ॥

8.62.73

नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः ।
उत्तमं वेxxxxxप्तास्थाय चण्डवायुर्धनानिव ॥

8.62.74

अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत ।
लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः ॥

8.62.75

पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः ।
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc