भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.61

8.61.1

तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके ।
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम् ॥

8.61.2

ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत् । एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत् ।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥

8.61.3

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते ॥

8.61.4

तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत ।
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः ॥

8.61.5

एष दुर्योधनः पार्थ गजानीकेन दंशितः ।
राजा सर्वस्य लोकस्य राजानमनुधावति ॥

8.61.6

जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली ।
आशीविषसमस्पर्शैः सर्वायुधविशारदैः ॥

8.61.7

नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान् ।
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च ॥

8.61.8

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः ॥

8.61.9

पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः ।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे ॥

8.61.10

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।
समुद्रमिव वार्योघाः प्रावृट््काले महारथाः ॥

8.61.11

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम् ॥

8.61.12

यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव ।
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ॥

8.61.13

दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः ।
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥

8.61.14

रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च ।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत् ॥

8.61.15

कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते ॥

8.61.16

बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः । राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे ।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः ॥

8.61.17

तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः ।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः ॥

8.61.18

उपवासकृशो राजा भृशं भरतसत्तमः ।
ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः ॥

8.61.19

कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः ।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः ॥

8.61.20

न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः ।
यद्भीमसेनः सहते सिंहनादममर्षणः ॥

8.61.21

नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः ।
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ॥

8.61.22

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥

8.61.23

स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च ।
प्रच्छादयन्ति राजानमनुयान्ति महारथाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc