भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.63

8.63.1

निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥

8.63.2

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।
अवशेषं न पश्यामि मम सैन्येषु सञ्जय ॥

8.63.3

अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् ।
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम् ॥

8.63.4

कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान् ।
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम् ॥

8.63.5

मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

8.63.6

दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान् ।
क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत् ॥

8.63.7

तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम् । अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्राते ।
इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः ॥

8.63.8

तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।
यत्नेन महता कर्णः पर्यवस्थापयद्बली ॥

8.63.9

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥

8.63.10

प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः ।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥

8.63.11

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥

8.63.12

पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम् ।
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥

8.63.13

तथैव तावका राजन्पाण्डवानामनीकिनीम् ।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान् ॥

8.63.14

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥

8.63.15

शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव ।
दुःशासनं महाराज महासेनः समभ्ययात् ॥

8.63.16

नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः ।
उलूकं समरे राजन्सहदेवः समभ्ययात् ॥

8.63.17

सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान् ।
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः ॥

8.63.18

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥

8.63.19

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।
सहानीकान्महाबाहुरेक एव न्यवारयत् ॥

8.63.20

शिखण्डी तु ततः कर्णं विचरन्तमभीतवत् ।
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥

8.63.21

प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः ।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत् ॥

8.63.22

धारयंस्तु स तान्वाणाञ्शिखण्डी बह्वशोभत ।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥

8.63.23

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥

8.63.24

तस्य कर्णो हयान्हत्वा सारथिं च शरैः ।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥

8.63.25

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥

8.63.26

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥

8.63.27

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः ॥

8.63.28

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।
तूलराशिं समासाद्य यथा वायुर्महाबलः ॥

8.63.29

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥

8.63.30

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।
स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥

8.63.31

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥

8.63.32

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते ॥

8.63.33

अथापरैः षोडशभिर्भल्लैः कनकभूषणैः ।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत् ॥

8.63.34

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥

8.63.35

अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव ।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥

8.63.36

तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः ।
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा ॥

8.63.37

धृष्टद्युम्नं तु पश्याम घटमानं महाबलम् ।
दुःशासनेन संरुद्धं सिंहेनेव महागजम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc