भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.21

8.21.1

ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः ।
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ॥

8.21.2

द्विरदनररथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः । द्विरदरथपदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते ॥

8.21.3

शितपरश्वथसासिपट्टसै-- रिषुभिरनेकविधैश्च सूदिताः । द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥

8.21.4

कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः । रुचिरमकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ ॥

8.21.5

परिघमुसलशक्तितौमरै-- र्नखरभुशुण्डिगदाशतैर्हताः । द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन् ॥

8.21.6

प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम् । तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥

8.21.7

अथ तव नरदेव सैनिका-- स्तव च सुताः सुरसूनुसन्निभाः । अमितबलपुरः सरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥

8.21.8

तदतिरुधिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् । लवणजलसमुद्वतस्वनं बलमसुरामरसैन्यसप्रभम् ॥

8.21.9

सुरपतिसमविक्रमस्तत-- स्त्रिदशवरावरजोपमं युधि । दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥

8.21.10

तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् । भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥

8.21.11

शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः । त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥

8.21.12

तदुदधिनिभमाद्रवद्बलं त्वरिततरैः समभिद्रुतं परैः । द्रुपदसुतमुखैस्तदाऽभवत् पुरुषरथाश्वगजक्षयो महान् ॥

8.21.13

अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् । अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥

8.21.14

जलदनिनदनिःस्वनं रथं पवनविधूतपताककेतनम् । सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः ॥

8.21.15

अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः ।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥

8.21.16

रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान् ।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥

8.21.17

गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥

8.21.18

तमन्तकमिव क्रुद्धमनिवार्यं महारथम् ।
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः ॥

8.21.19

तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः ।
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा ॥

8.21.20

नवमं च समाधाय व्यसृजत्प्राणघातिनम् ।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत् ॥

8.21.21

ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः ।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः ॥

8.21.22

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत् ।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात् ॥

8.21.23

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।
विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः ॥

8.21.24

न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून् ।
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः ॥

8.21.25

अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः ।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत् ॥

8.21.26

ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन् ।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥

8.21.27

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।
चेदिकारूशमात्स्यानां केकयानां च यद्बलं ॥

8.21.28

चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ॥

8.21.29

परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः ॥

8.21.30

तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः ।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः ॥

8.21.31

रथिनः समहामात्रान्गजानश्वान्ससादिनः ।
पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत ॥

8.21.32

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम् ॥

8.21.33

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन् ।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥

8.21.34

मुसलानीव सम्पेतुः परिघा इव चेषवः ।
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे ॥

8.21.35

तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् ।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च ॥

8.21.36

निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः ।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः ॥

8.21.37

त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम् ।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥

8.21.38

तमसा च महाराज रजसा च विशेषतः ।
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम् ॥

8.21.39

ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत ।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः ॥

8.21.40

कौरवेष्वपयातेषु तदा राजन्दिनक्षये ।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥

8.21.41

वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः ।
परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥

8.21.42

कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते ।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः ॥

8.21.43

ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः ।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः ॥

8.21.44

ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः ।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc