भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.20

8.20.1

अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव सङ्क्षयम् ॥

8.20.2

यथा त्वं मे कथयसे यथा युद्वमवर्तत ।
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः ॥

8.20.3

दुर्योधनश्च विरथः कृतस्तत्र महारथः ।
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम् ॥

8.20.4

अपराह्णे कथं युद्वमभवद्रोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।

8.20.5

संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते ॥

8.20.6

क्रोधेन महता युक्तः सविषो भुजगो यथा । दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम् ।
प्रोवाच सूतं त्वरितो याहियाहीति भारत ॥

8.20.7

तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।
ध्रियमाणातप्रतेण राजा राजति दंशितः ॥

8.20.8

स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥

8.20.9

ततो युधिष्ठिरः क्रुद्वः प्रभिन्न इव कुञ्जरः ।
सारथिं चोदयामास याहि यत्र सुयोधनः ॥

8.20.10

तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ॥

8.20.11

समेत्य च महावीरौ संरब्धौ युद्वदुर्मदौ ।
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥

8.20.12

ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥

8.20.13

तं नामृष्यत सङ्क्रुद्धो ह्यवमानं युधिष्ठिरः ।
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ॥

8.20.14

अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ।
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ॥

8.20.15

अथान्यद्वनुरादाय पुत्रस्ते भरतर्षभ । युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान् ।
रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान् ॥

8.20.16

तावन्योन्यं सुसङ्क्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम् ।
सिंहाविव सुसंरब्धौ परस्परजिगीषया ॥

8.20.17

जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव ।
अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ ॥

8.20.18

ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ ।
विरेजतुर्महाराज किंशुकाविव पुष्पितौ ॥

8.20.19

ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः ।
तलयोश्च तथा शब्दान्धनुषश्च महाहवे ॥

8.20.20

शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ ।
अन्योन्यं तौ महाराज पीडयाञ्चक्रतुर्भृशम् ॥

8.20.21

ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः ।
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः ॥

8.20.22

प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः ।
पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः ॥

8.20.23

ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥

8.20.24

तामापतन्तीं सहसा धर्मराजः शितैः शरैः ।
त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः ॥

8.20.25

निपपात ततः साऽथ स्वर्णदण्डा महास्वना ।
निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा ॥

8.20.26

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते ।
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥

8.20.27

सोऽतिविद्वो बलवता शत्रुणआ शत्रुतापनः ।
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥

8.20.28

समाधत्त च तं बाणं धनुर्मध्ये महाबलः ।
चिक्षेप च महाराज ततः क्रुद्वः पराक्रमी ॥

8.20.29

स तु बाणः समासाद्य तव पुत्रं महारथम् ।
व्यामोहयत राजानं धरणीं च ददार ह ॥

8.20.30

ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।
विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत् ॥

8.20.31

तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम् ।
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ॥

8.20.32

दीप्यमानां महावेगां महोल्कां ज्वलितामिव ।
यमदण्डनिभां घोरां कालरात्रिमिवापराम् ॥

8.20.33

रथस्थः स तया विद्वो वर्म भित्त्वा स्तनान्तरे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥

8.20.34

नभस्तमाह च ततः प्रतिज्ञामनुपालय ।
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत ॥

8.20.35

ततस्त्वरितमागम्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं निम्नं व्यसनार्णवे ॥

8.20.36

गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥

8.20.37

एवं तदभवद्युद्धं त्वदीयानां परैः सह ।
अपराह्णे महाराज काङ्क्षतां विजयं युधि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc