भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.22

8.22.1

स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः ।
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ॥

8.22.2

पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥

8.22.3

एको निवातकवचनानहनद्दिव्यकार्मुकः ।
एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥

8.22.4

एको ह्यरक्षद्भरतानेको भवमतोषयत् ।
तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः ॥

8.22.5

न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत् ।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ॥
सञ्जय उवाच ।

8.22.6

हतप्रहतविध्वस्ता विवर्मायुधवाहनाः ।
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः ॥

8.22.7

शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः ।
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः ॥

8.22.8

तानब्रवीत्ततः कर्णः क्रुद्वः सर्प इव श्वसन् ।
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम् ॥

8.22.9

यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा ।
सम्बोधयति चाप्येनं यथाकालमधोक्षजः ॥

8.22.10

सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥

8.22.11

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे ॥

8.22.12

सुखोषितास्तां रजनीं हृष्टा युद्वाय निर्ययुः । तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् ।
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥

8.22.13

अथ प्रतीपकर्तारं प्रवीरं परवीरहा ।
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥

8.22.14

पुरन्दरसमं युद्वे मरुद्गणसमं बले ।
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥

8.22.15

सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः ।
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥
धृतराष्ट्र उवाच ।

8.22.16

ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ।
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति ॥

8.22.17

अप्यपश्यत राधेयं शीतार्ता इव भास्करम् ।
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ॥

8.22.18

दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि भृशार्दितम् ॥

8.22.19

कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ।
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥

8.22.20

कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान् ।
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि ॥

8.22.21

तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः ।
कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः ॥

8.22.22

दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः ॥

8.22.23

कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः ।
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥

8.22.24

यः सौबलं तथा तात नीतिमानिति मन्यते ।
कर्णं चाग्रतिमं युद्वे देवैरपि दुरुत्सहम् ॥

8.22.25

मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम् । विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान् ।
मम चैव सदा मन्दः शंसते नित्यमग्रतः ॥

8.22.26

अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।
नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥

8.22.27

अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ॥

8.22.28

अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम् ।
सोढा घोराणि बहुशः शल्यभूतानि सञ्जय ॥

8.22.29

सौबलं च तदा तात नीतिमानिति मन्यते ।
कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः ॥

8.22.30

यदेवं वर्तमानेषु महायुद्वेषु सञ्जय ।
अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान् ॥

8.22.31

न पाण्डवानां समरे कश्चिदस्ति हतः किल ।
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम् ॥
सञ्जय उवाच ।

8.22.32

[राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय] ।

8.22.33

अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः ।
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥

8.22.34

तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम् ॥

8.22.35

उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः ।
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते ॥

8.22.36

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥

8.22.37

तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ ।
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते ॥

8.22.38

प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् ।
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत् ॥
कर्ण उवाच ।

8.22.39

अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।
निहनिष्यामि तं वीरं स वा मां निहनिष्यति ॥

8.22.40

बहुत्वान्मम कार्याणां तथा पार्थस्य भारत ।
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥

8.22.41

इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते ।
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥

8.22.42

हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि ।
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम् ॥

8.22.43

ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर ।
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च ॥

8.22.44

कार्यस्य महतो भेदे लाघवे दूरपातने ।
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः ॥

8.22.45

प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत ।
निमित्तज्ञानयोगे च सव्यसाची न मत्समः ॥

8.22.46

सर्वायुधमहामात्रं विजयं नाम तद्वनुः ।
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा ॥

8.22.47

येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश ॥

8.22.48

तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् ।
तद्दिव्यं भार्गवो मह्यमददद्वनुरत्तमम् ॥

8.22.49

तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम् । यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ।
निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान् ॥

8.22.50

धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता ॥

8.22.51

धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः ।
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम् ॥

8.22.52

अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।
निहत्य समरे वीरमर्जुनं जयतां वरम् ॥

8.22.53

सपर्वतवनद्वीपा हतवीरा ससागरा ।
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥

8.22.54

नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।
सम्यग्धर्मानुरक्तस्य सिद्विरात्मवतो यथा ॥

8.22.55

न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा ।
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥

8.22.56

ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी ।
सारथिस्तस्य गोविन्दो मम तादृङ्ग विद्यते ॥

8.22.57

तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि ।
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ॥

8.22.58

तत्राहमधिकः पार्थाद्वनुषा तेन पार्थिव ।
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे ॥

8.22.59

रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ।
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ॥

8.22.60

अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः ।
ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः ॥

8.22.61

कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति ।
एभिस्त्रिभिरहं हीनो युद्वुमिच्छामि पाण्डवम् ॥

8.22.62

अयं तु सदृशः शौरेः शल्यः समितिशोभनः ।
सारथ्यं यदि मे कुर्याद्द्रुवस्ते विजयो भवेत् ॥

8.22.63

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥

8.22.64

रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः ।
आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥

8.22.65

एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।
शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम् ॥

8.22.66

यथाऽश्वहृदयं वेद दाशार्हः परवीरहा ।
तथा शल्यो विजानीते हयज्ञानं महारथः ॥

8.22.67

बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः ॥

8.22.68

तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन ।
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम ॥

8.22.69

एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् ।
विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम ॥

8.22.70

समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः ।
एतत्कृतं महाराज त्वयेच्छामि परन्तप ॥

8.22.71

क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् ।
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति ॥

8.22.72

ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत ।
सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान् ॥

8.22.73

न हि मे समरे शक्ताः समुद्यातुं सुरासुराः ।
किमु पाण्डुसुता राजन्रणे मानुषयोनयः ॥
सञ्जय उवाच ।

8.22.74

एवमुक्तस्तव सुतः कर्णेनाहवशोभिना ।
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत् ॥
दुर्योधन उवाच ।

8.22.75

एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे ॥

8.22.76

नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते ।
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥
सञ्जय उवाच ।

8.22.77

एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् ।
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc