भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.59

7.59.1

रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम । यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम् ।
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि ॥

7.59.2

यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः ।
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः ॥

7.59.3

जघान च जनस्थाने राक्षसान्मनुजर्षभः ।
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश ॥

7.59.4

तत्रैव वसतस्तस्य रावणो नाम राक्षसः ।
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम् ॥

7.59.5

रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः ।
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम् ॥

7.59.6

तेन रामः सुसङ्गम्य वानरैश्च महाबलैः ।
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे ॥

7.59.7

तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान् ।
मायाविनं महाघोरं रावणं लोककण्टकम् ॥

7.59.8

सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम् ।
जघान स महाबाहुः पौलस्त्यं सगणं रणे ॥

7.59.9

हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः ।
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम् ॥

7.59.10

भार्यया सह संयुक्तस्ततो वानरसेनया ।
अयोध्यामागतो वीरः पुष्पकेण विराजता ॥

7.59.11

तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः ।
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान् ॥

7.59.12

शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः ।
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम् ॥

7.59.13

भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम् ।
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः ॥

7.59.14

दशवर्षसहस्राणि दशवर्षशतानि च ।
चतुःसगारपर्यन्तां पृथिवीमन्वशासत ॥

7.59.15

अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः ।
यश्च विप्रप्रसादेन सर्वकामानवाप्य च ॥

7.59.16

सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः ।
सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन् ॥

7.59.17

स निर्गलं मुख्यतममश्वमेधशतं प्रभुः । आजहार सुरेशस्य हविषा मुदमाहरन् ।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः ॥

7.59.18

क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम् ।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा ॥

7.59.19

अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ । ऋषीणां देवतानां च मानुषाणां च सर्वशः ।
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति ॥

7.59.20

नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा ।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति ॥

7.59.21

पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन् ।
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा ॥

7.59.22

वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः ।
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च ॥

7.59.23

अदंशमशका देशा नष्टव्यालसरीसृपाः ।
नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत् ॥

7.59.24

अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा ।
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन् ॥

7.59.25

स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम् ।
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः ॥

7.59.26

सहस्रपुत्राः पुरुषा दशवर्षशतायुषः ।
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते ॥

7.59.27

श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः ।
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः ॥

7.59.28

दशवर्षसहस्राणि दशवर्षशतानि च ।
सर्वभूतमनःकान्तो रामो राज्यमकारयत् ॥

7.59.29

रामो रामो राम इति प्रजानामभवत्कथा ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥

7.59.30

चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः ।
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा ॥

7.59.31

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc