भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.58

7.58.1

शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत् ॥

7.58.2

साद्रिद्वीपार्णववनां रथघोषेण नादयन् ।
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित् ॥

7.58.3

तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः ।
अविहिंस्य जनानन्यानवाप वसु पुष्कलम् ॥

7.58.4

सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि ।
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम् ॥

7.58.5

निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः ।
बिभर्ति दक्षिणा यस्य गङ््गायाः स्रोत आवृणोत् ॥

7.58.6

हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा ।
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत् ॥

7.58.7

यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः ।
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः ॥

7.58.8

उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च ।
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे ॥

7.58.9

नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः ।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम् ॥

7.58.10

तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः ।
हेमयूपासनगृहा हेमप्राकारतोरणाः ॥

7.58.11

शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः ।
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाहदाः ॥

7.58.12

तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः ।
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः ॥

7.58.13

यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा ।
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः ॥

7.58.14

यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम् ।
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः ॥

7.58.15

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc