भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.60

7.60.1

भगीरथं च राजानं मृतं सृञ्जय शुश्रुम ।
परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता ॥

7.60.2

यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः ।
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः ॥

7.60.3

हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम् ।
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता ॥

7.60.4

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत ॥

7.60.5

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
रथेरथे शतं नागाः सर्वे वै हेममालिनः ॥

7.60.6

सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः ।
अश्वेअश्वे शतं गावो गवां पश्चादजाविकम् ॥

7.60.7

तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत् ।
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह ॥

7.60.8

तथा मागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा ।
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा ॥

7.60.9

तां तु गाथा जगुः प्रीता गन्धर्वाः सूर्यवर्चसः ।
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः ॥

7.60.10

भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम् ।
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम् ॥

7.60.11

तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः ।
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः ॥

7.60.12

यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम् ।
भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी ॥

7.60.13

नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम् ।
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः ॥

7.60.14

येन यातौ मखमुखौ दिशाशाविह पादपाः ।
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम् ॥

7.60.15

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc