भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.189

7.189.1

ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥

7.189.2

तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥

7.189.3

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥

7.189.4

यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
ततो दुःशासनः सूतं बुबुधे गतचेतसम् ॥

7.189.5

स हयान्सन्निगृह्याजौ स्वयं हयविशारदः ।
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च ॥

7.189.6

तदस्यापूजयन्कर्म स्वे परे चापि संयुगे ।
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥

7.189.7

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥

7.189.8

स रश्मिषु विषक्तत्वादुत्सर्ज शरासनम् ।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत् ॥

7.189.9

छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥

7.189.10

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः ।
आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत् ॥

7.189.11

स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः । भीममावारयामास विकिरन्निशिताञ्छरान् ।
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥

7.189.12

तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ ।
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ॥

7.189.13

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥

7.189.14

गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।
बिभेद शतधा राजंस्तदद्भुतमिवाभवत् ॥

7.189.15

ततो भीमस्य राधेयो गदामाविध्य वीर्यवान् ।
अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥

7.189.16

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ॥

7.189.17

प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ।
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ॥

7.189.18

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।
पपात सारथिश्चास्य मुमोह च गदाहतः ॥

7.189.19

स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः ।
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ॥

7.189.20

चिच्छेद परवीरघ्नः प्रहसन्निव भारत ।
ध्वजं शरासनं चैव शरावापं च भारत ॥

7.189.21

कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् । ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥

7.189.22

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः ॥

7.189.23

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि ॥

7.189.24

लघुसन्धानयोगाभ्यां रथयोश्च रणेन च ।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥

7.189.25

उपारमन्त ते सर्वे योधाऽस्माकं परे तथा । विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ ।

7.189.26

अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः ॥

7.189.27

पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ॥

7.189.28

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।
आमिषार्थे महाराज गगने श्येनयोरिव ॥

7.189.29

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥

7.189.30

यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम् ।
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥

7.189.31

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।
मुक्तम्मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥

7.189.32

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥

7.189.33

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।
तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ॥

7.189.34

स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि ।
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥

7.189.35

मेने चात्मानमधिकं पृथिव्यामधि भारत ।
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्य परन्तपः ॥

7.189.36

वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् ।
यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः ॥

7.189.37

ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः ।
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥

7.189.38

तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम् ।
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥

7.189.39

तत्रास्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।
द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप ॥

7.189.40

विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश ।
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ॥

7.189.41

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।
न दैवं न च गान्धर्वं ब्राह्मणं ध्रुवमिदं परम् ॥

7.189.42

विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ।
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ॥

7.189.43

नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित् ॥

7.189.44

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥

7.189.45

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे । शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ।

7.189.46

नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः ।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥

7.189.47

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः ॥

7.189.48

यदा द्रोणं महाराज विशेषयति पाण्डवः ।
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ॥

7.189.49

तदस्त्रं संहितं राजन्धोररूपं महाहवे ।
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च ॥

7.189.50

ततश्चचाल पृथिवी सपर्वतवनद्रुमा । सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम् ।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥

7.189.51

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥

7.189.52

ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥

7.189.53

यदा न गम्यते पारं तयोरन्यतरस्य वा ।
ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम् ॥

7.189.54

नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते ।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप ॥

7.189.55

द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत ।
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून् ॥

7.189.56

शरौघैरथ ताभ्यां तु छायाभूतं महामृधे ।
तुमलं प्रबभौ राजन्सर्वस्य जगतो भयम् ॥

7.189.57

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc