भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.188

7.188.1

ते तथैव महाराज दंशिता रणमूर्धनि ।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥

7.188.2

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥

7.188.3

द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात् ।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥

7.188.4

रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः ।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः ॥

7.188.5

रथा रथैरिभैर्नागास्तथैव भरतर्षभ ।
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे ॥

7.188.6

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।
क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ॥

7.188.7

शङ्खबेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥

7.188.8

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।
द्रवतां च पदातीनां शस्त्राणां पततामपि ॥

7.188.9

हयानां हेषतां चापि रथानां च निवर्तताम् ।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥

7.188.10

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा ।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥

7.188.11

भूमावश्रूयत महांस्तदाऽसीत्कृपणं महत् ।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम् ॥

7.188.12

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः । स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान् ।

7.188.13

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥

7.188.14

उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः ।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥

7.188.15

अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वथैः ।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥

7.188.16

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥

7.188.17

आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम् ।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम् ॥

7.188.18

शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः ।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥

7.188.19

संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ।
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे ॥

7.188.20

क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥

7.188.21

मञ्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः । कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः ।
कुलसत्वबलोपेता वाजिनो वारणोपमाः ॥

7.188.22

विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम् ।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥

7.188.23

तावेवास्तां निलयनं तावार्तायनमेव च ।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥

7.188.24

आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥

7.188.25

अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम् ।
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये ॥

7.188.26

न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम् ।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥

7.188.27

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ ।
न कृपं मद्रराजं च कृतवर्माणमेव च ॥

7.188.28

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।
पश्याम राजन्संसक्तान्सैन्येन रजसा धृतान् ॥

7.188.29

सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते ।
त्रियामामिव सम्प्राप्ताममन्यन्त निशाचराः ॥

7.188.30

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः ।
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा ॥

7.188.31

हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान् ।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥

7.188.32

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च ॥

7.188.33

तत्र नागा हया योधा रथिनोऽथ पदातयः ।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥

7.188.34

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥

7.188.35

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥

7.188.36

तद्धोरं महदाश्चर्यं युद्धं दैवासुरोपमम् ।
रथर्षभाणामुग्राणां सन्निपातममानुषम् ॥

7.188.37

रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम् ।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥

7.188.38

यतमानाः पराक्रान्ताः परस्परजिगीषवः ।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥

7.188.39

ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः ।
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः ॥

7.188.40

योधास्ते तु महाराज क्रोधामर्षसमन्विताः । स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः ।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव ॥

7.188.41

न नूनं देहभेदोऽस्ति काले राजन्ननागते ।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥

7.188.42

बाहुभिश्चपरणैश्चिन्नैः शिरोभिश्च सकुण्डलैः ।
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टसैः ॥

7.188.43

नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः ।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥

7.188.44

विचित्रैर्विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥

7.188.45

शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः ।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥

7.188.46

वातायमानैरसकृद्धतवीरैरलन्कृतैः ।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥

7.188.47

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः ।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥

7.188.48

उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।
आसीदायोधनं तत्र नभस्तारागणैरिव ॥

7.188.49

ततो दुर्योधनस्यासीन्नकुलेन समागमः ।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥

7.188.50

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत् ॥

7.188.51

अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा । नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः ।
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम् ॥

7.188.52

ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् ।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥

7.188.53

स सर्वतो निवार्यैनं शरजालेन पीडयन् ।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥

7.188.54

तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव ।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc