भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.190

7.190.1

तस्मिंस्तथा वर्तमाने गजाश्वनरसन्क्षये ।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥

7.190.2

स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥

7.190.3

क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।
नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥

7.190.4

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥

7.190.5

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।
किṟअञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥

7.190.6

अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम् ।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥

7.190.7

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥

7.190.8

सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः ।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥

7.190.9

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः ।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥

7.190.10

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप ।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम् ॥

7.190.11

न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च ।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः ॥

7.190.12

न सूची कपिशो नैव न गवास्थिर्गजास्थिजः । न चूली बलिशस्तत्र न यमी नापि पाचकः ।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥

7.190.13

ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् ।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥

7.190.14

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥

7.190.15

धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान् ।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात् ॥

7.190.16

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः ।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥

7.190.17

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ ।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥

7.190.18

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥

7.190.19

दुर्योधनो महाराज किरञ्छोणितभोजनान् ।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥

7.190.20

तौ परस्परमासाद्य समीपे कुरुमाधवौ ।
हसमानौ नृशार्दूलावभीतौ समसज्जताम् ॥

7.190.21

बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनःपुनः ॥

7.190.22

अथ दुर्योधनो राजा सात्यकिं समभाषत ।
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥

7.190.23

धिक् क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् ।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥

7.190.24

यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव ।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥

7.190.25

स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ । तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे ।
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत ॥

7.190.26

तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत ।
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥

7.190.27

नेयं सभा राजपुत्र नाचार्यस्य निवेशनम् ।
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥
दुर्योधन उवाच ।

7.190.28

क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव ।
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥

7.190.29

किन्तु नो विद्यते कृत्यं धनेन धनलिप्सया ।
यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥
सञ्जय उवाय ।

7.190.30

तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् ।
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि ॥

7.190.31

यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः ।
त्वत्कृते सुकृतांल्लोकान्गच्छेयं भरतर्षभ ॥

7.190.32

या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय ।
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत् ॥

7.190.33

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः ।
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि ॥

7.190.34

तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः ।
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥

7.190.35

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः ।
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥

7.190.36

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् ।
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः ॥

7.190.37

तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः ।
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥

7.190.38

सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव ।
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः ॥

7.190.39

ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत् ॥

7.190.40

सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम् ।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते ॥

7.190.41

तामापतन्तीं सहसा शरश्रेणीं जिघांसया ।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः ॥

7.190.42

सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः ।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः ॥

7.190.43

तस्य सन्दधतश्चेषु संहितेषु च कार्मुकम् ।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत् ॥

7.190.44

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे ।
दुर्योधनो महाराज दाशार्हशरपीडितः ॥

7.190.45

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।
विसृजन्निषुजालानि युयुधानरथं प्रति ॥

7.190.46

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति ।
सततं विसृजन्राजंस्तत्सङ्कुलमवर्तत ॥

7.190.47

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु ।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान् ॥

7.190.48

तयोः शरसहस्रैश्च सञ्छन्नं वसुधातलम् ।
अगम्यरूपं च शरैराकाशं समपद्यत ॥

7.190.49

तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम् ।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥

7.190.50

न तु तं मर्षयामास भीमसेनो महाबलः ।
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥

7.190.51

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥

7.190.52

भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः ।
ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः ॥

7.190.53

रथचक्रं च कर्णस्य बभञ्ज स महाबलः ।
भग्नयक्रे रथेऽतिष्ठदकम्पः शैलराडिव ॥

7.190.54

एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः ।
एकचक्रमिवार्कस्य रथं सप्त हया यथा ॥

7.190.55

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥

7.190.56

भीमसेनस्तु सङ्क्रुद्धः सूतपुत्रमयोधयत् । तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत् ।
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च पुरुषर्षभान् ॥

7.190.57

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभान् ॥

7.190.58

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥

7.190.59

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः ।
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥

7.190.60

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः ।
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ ॥

7.190.61

ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः ।
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥

7.190.62

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः ।
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन् ॥

7.190.63

आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः ।
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम् ॥

7.190.64

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद ।
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥

7.190.65

कौरवेयांस्ततः पार्थः ससा समुपाद्रवत् । पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc