भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.187

7.187.1

त्रिभागमात्रेषायां रात्र्यां युद्धमवर्तत ।
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते ॥

7.187.2

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकृर्वन्निवाम्बरम् ॥

7.187.3

प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव । प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम् ।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम् ॥

7.187.4

ततो रथाश्वांश्च मनुष्ययाना-- न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः ।
दिवाकरस्याभिमुखं जपन्तः सन्ध्यागताः प्राञ्जलयो बभूवुः ॥

7.187.5

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥

7.187.6

द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।
सपत्नान्सव्यतः कुर्याः सव्यसाचिन्निमान्कुरून् ॥

7.187.7

स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः ।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥

7.187.8

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः ।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह ॥
भीमसेन उवाच ।

7.187.9

अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम ।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥

7.187.10

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ॥

7.187.11

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि ।
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु ॥
सञ्जय उवाच ।

7.187.12

स सव्यसाची भीमेन चोदितः केशवेन च ।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥

7.187.13

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् । पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः ।
नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥

7.187.14

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम् ॥

7.187.15

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः ।
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥

7.187.16

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः ।
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥

7.187.17

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च ।
तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥

7.187.18

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते ।
सैन्येन रजसा मूढं सर्वमन्घमिवाभवत् ॥

7.187.19

नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम् । शब्दमात्रेण जानीमो वयं ते च परस्परम् ।
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥

7.187.20

विरथा रथिनो राजन्समासाद्य परस्परम् ।
केशेषु समसज्जन्त कवचेषु भुजेषु च ॥

7.187.21

हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः ।
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥

7.187.22

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः ।
गतसत्वा व्यदृश्यन्त तथैव सह सादिभिः ॥

7.187.23

ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् ।
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥

7.187.24

तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु ।
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते ॥

7.187.25

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा ।
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत ॥

7.187.26

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् ।
नैनमाशंसिरे जेतुं दानवा वासवं यथा ॥

7.187.27

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः ।
विस्मिताश्चाभवन्केचित्केचिद्वृष्टाऽभवन्युधि ॥

7.187.28

हस्तैर्हस्ताग्रमपरे प्रत्यपिम्पन्नराधिपाः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः ॥

7.187.29

व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान् ।
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥

7.187.30

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः ।
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥

7.187.31

ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे ।
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥

7.187.32

द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते ।
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥

7.187.33

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः ।
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥

7.187.34

ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान् ।
मात्स्यांश्चैवाजयत्कृत्स्नान्भारद्वाजो महारथान् ॥

7.187.35

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत् ।
द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥

7.187.36

तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः ।
तौ शरैश्छादयामास विराटद्रुपदावुभौ ॥

7.187.37

द्रोणेन च्छाद्यमानौ तु क्रुद्धौ सङ्ग्राममूर्धनि ।
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ ॥

7.187.38

तत द्रोणो महाराज क्रोधामर्षसमन्वितः ।
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः ॥

7.187.39

ततो विराटः कुपितः समरे तोमरान्दश ।
दश चिक्षेप च शरान्द्रोणस्य वधकाङ्क्षया ॥

7.187.40

शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम् ।
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति ॥

7.187.41

ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमारान्दश ।
शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः ॥

7.187.42

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः ।
द्रुपदं च विराटं च प्रेषयामास मृत्यवे ॥

7.187.43

हते विराटे द्रुपदे केकयेषु तथैव च ।
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च ॥

7.187.44

हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु । द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः ।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥

7.187.45

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत् ॥

7.187.46

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।
आयाद्द्रोणं सहानीकाः पाञ्चाल्यऋ परवीरहा ॥

7.187.47

पाञ्चालास्त्वेकतो द्रोणभ्यघ्नन्पाण्डवैः सह । दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥

7.187.48

रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः ।
यतमानास्तु पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥

7.187.49

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष ।
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः ॥
भीमसेन उवाच ।

7.187.50

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः ।
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥

7.187.51

पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहर्षयेत् ।
विशेषतस्तु शपथं शपित्वा राजसंसदि ॥

7.187.52

एष वैश्वानर इव समिद्धः स्वेन तेजसा ।
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥

7.187.53

पुरा करोति निःशेषां पाण्डवानामनीकिनीम् ।
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥

7.187.54

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः ।
शरैः पूर्णायतोत्सृष्टौर्द्रावयंस्तव वाहिनीम् ॥

7.187.55

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् ।
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥

7.187.56

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् ।
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥

7.187.57

संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष ।
हतानि च विकीर्णानि सरीराणि शरीरिणाम् ॥

7.187.58

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः ।
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे ॥

7.187.59

तथा संसक्तयुद्धं तदभवद्भृशदारुणम् ।
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc