भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.155

7.155.1

यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली ।
उक्ता दुर्योधनं मन्दं मम शास्त्रातिगं सुतम् ॥

7.155.2

प्रविश्य विचरन्तं च रथे शूरमवस्थितम् ।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥

7.155.3

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे ।
के चोत्तरमरक्षन्त निघ्नतः शास्त्रवान्बहून् ॥

7.155.4

के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः ।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः ॥

7.155.5

मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम् ।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा ॥

7.155.6

यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः ।
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ॥

7.155.7

निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥
सञ्जय उवाच ।

7.155.8

सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥

7.155.9

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः ।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम् ॥

7.155.10

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः । धृष्टद्युम्नः शतानीको विराटश्च सकेकयः । मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि ॥

7.155.11

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः ।
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥

7.155.12

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः ।
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम् ॥

7.155.13

प्रभद्रकाश्च पाञ्चालाः षट््सहस्राः प्रहारिणः ।
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥

7.155.14

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः ।
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥

7.155.15

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ ।
बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥

7.155.16

योधानामशिवा रौद्रा राजन्नन्तकगामिनी ।
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥

7.155.17

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः ।
न्यवेदयन्भयं घोरं सज्वालकबलैर्मुखैः ॥

7.155.18

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् ।
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः ॥

7.155.19

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् ।
भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥

7.155.20

गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः ।
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥

7.155.21

ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् ।
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥

7.155.22

तमसा चावृते लोके न प्राज्ञायत किञ्चन ।
सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥

7.155.23

नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥

7.155.24

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते ।
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥

7.155.25

मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा ।
फेत्कारैर्हेषितैः शब्दैः सर्वमैवाकुलं बभौ ॥

7.155.26

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते ।
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥

7.155.27

भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम् ।
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत् ॥

7.155.28

ततः सा भारती सेना मणिहेमविभूषिता ।
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥

7.155.29

गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला ।
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥

7.155.30

तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः ।
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः ॥

7.155.31

सा निशीथे महाराज सेनाऽदृश्यत भारती ।
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥

7.155.32

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥

7.155.33

ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः ।
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥

7.155.34

दुर्योधनपुरोवातां रथनागवलाहकाम् ।
वादित्रघोषस्तनितां चापविद्युद्व्वजैर्वृताम् ॥

7.155.35

द्रोणपाण्डवपर्जन्यां खङ्गशक्तिगदाशनिम् ।
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम् ॥

7.155.36

घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लुवाम् ।
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः ॥

7.155.37

तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते ।
भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥

7.155.38

रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रुवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥

7.155.39

ये ये प्रमुखतो राजन्नावर्तन्त महारथाः ।
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥

7.155.40

तानि नागसहस्राणि रथानामयुतानि च । पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च ।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc