भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.156

7.156.1

तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥

7.156.2

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥

7.156.3

निहते सैन्धवे वीरे भूरिश्रवसि चैव ह ।
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः ॥

7.156.4

किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने ।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत ॥

7.156.5

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् । के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।
के पुरस्तादवर्तन्त निघ्नन्तः शास्त्रवान्रणे ॥

7.156.6

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो ॥

7.156.7

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥

7.156.8

सर्वेषु योधेषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु ।
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन् ॥

7.156.9

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि । रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 5-156-10 तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम् । अन्धे तमसि मग्नानामभवत्का मतिस्तदा ॥

7.156.11

प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान् ।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान् ॥

7.156.12

कथमेषां तदा तत्र पार्थानामपलायिनाम् ।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ॥
सञ्जय उवाच ।

7.156.13

रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः ॥

7.156.14

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः ॥

7.156.15

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत ॥

7.156.16

प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम् ।
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान् ॥

7.156.17

तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् ।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः ॥

7.156.18

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत् ॥

7.156.19

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत् ॥

7.156.20

ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत् ।
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून् ॥

7.156.21

कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे ।
पूर्वं पितृवधात्क्रुद्धौ भीमसेनमुपाद्रवत् ॥

7.156.22

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
विशोकं त्रिभिरानर्च्छद्वजमेकेन पत्रिणा ॥

7.156.23

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह ॥

7.156.24

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥

7.156.25

तस्मिन्हते तदा तेन सिंहनादो महानभूत् ।
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम् ॥

7.156.26

तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप ।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥

7.156.27

ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः ।
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥

7.156.28

यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया ।
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत ॥

7.156.29

तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा ।
स तदा पाण़्डुपुत्रेण बलिनाऽभिहतोऽपतत् ॥

7.156.30

तं निहत्य महाराज भीमसेनो महाबलः ।
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥

7.156.31

जयरातं तु चरणे गृह्य भीमो महाबलः ।
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च ॥

7.156.32

पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः ।
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम् ॥

7.156.33

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥

7.156.34

कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः ।
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना ॥

7.156.35

एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः ।
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम् ॥

7.156.36

तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम् । न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते ।
महता शरवर्षेण च्छादयन्तो महारथाः ॥

7.156.37

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ॥

7.156.38

दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे । तावेकरथमारूढौ भ्रातरौ परतापनौ ।

7.156.39

सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥

7.156.40

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥

7.156.41

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥

7.156.42

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।
पादप्रहारेण धरां प्रावेशयदरिन्दमः ॥

7.156.43

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।
मुष्टिनाऽहत्य सङ्क्रुद्धौ ममर्द चरणेन ह ॥

7.156.44

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन् ।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति ॥

7.156.45

एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः ।
विसञ्ज्ञा वाहयन्वाहान्न च द्वौ सह धावतः ॥

7.156.46

ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥

7.156.47

ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः ।
वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥

7.156.48

ततः सुतास्ते वरुणात्मजोपमा रुपान्विताः सह गुरुणा महात्मना ।
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥

7.156.49

ततो यमौ द्रुपदसुताः ससैनिका युधिष्ठिरद्रुपदविराटसात्वताः ।
घटोत्कचो जयविजयौ द्रुमो वृकः ससृञ्जयास्तव तनयानवारयन् ॥

7.156.50

ततोऽभवत्तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम् ।
निशामुखे वृकबलगृध्रमोदनं महात्मना नृपवर युद्धमद्भुतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc