भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.154

7.154.1

तदुदीर्णं रथाश्वौघं बलं तव जनाधिप ।
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः ॥

7.154.2

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।
यमराष्ट्राय महते परलोकाय दीक्षिताः ॥

7.154.3

शूराः शूरैः समागम्य शरतोमरशक्तिभिः ।
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम् ॥

7.154.4

रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम् ।
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥

7.154.5

वारणाश्च महाराज समासाद्य परस्परम् ।
विषाणैर्दारयामासुः सुसङ्क्रुद्धा मदोत्कटाः ॥

7.154.6

हयारोहान्हयारोहाः प्रासशक्तिपरश्वथैः ।
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥

7.154.7

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः ।
अन्योन्यमार्दयन्राजन्नित्यं यत्ताः पराक्रमे ॥

7.154.8

गोत्राणां नामधेयानां कुलानां चैव मारिष ।
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥

7.154.9

तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वथैः ।
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥

7.154.10

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः ।
न भ्राजन्ते यथा पूर्वं भास्करस्य च नाशनात् ॥

7.154.11

तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत ।
दुर्योधनो महाराज व्यवागाहत तद्बलम् ॥

7.154.12

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।
मर्तव्यमिति सञ्चिन्त्य प्राविशच्च द्विषद्बलम् ॥

7.154.13

नादयन्रथघोषेण कम्पयन्निव मेदिनीम् ।
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥

7.154.14

स सन्निपातस्तुमुलस्तस्य तेषां च भारत ।
अभवत्सर्वसैन्यानामभावकरमो महान् ॥
धृतराष्ट्र उवाच ।

7.154.15

तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥

7.154.16

एकस्य च बहुनां च सन्निपातो महानभूत् ।
विशेषतो हि नृपतेर्विषमं प्रतिभाति मे ॥

7.154.17

सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः ।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥

7.154.18

द्रोणः कर्णः कृपश्चैव कृतवर्मा च सात्वतः ।
नावारयन्कथं युद्धे राजानं राज्यकाङ्क्षिणः ॥

7.154.19

सर्वोपायैर्हि युद्धेषु रक्षितव्यो महीपतिः ।
एषा नीतिः परा युद्धे दृष्टा तत्र मनीषिभिः ॥

7.154.20

प्रविष्टे वै मम सुते परेषां वै महद्बलम् ।
मामका रथिनां श्रेष्ठाः किमकुर्वत स्̤अञ्जय ॥
सञ्जय उवाच ।

7.154.21

राजन्सङ्ग्राममाश्चर्यं पुत्रस्य तव भारत ।
एकस्य च बहूनां च शृणु मे ब्रुवतो ध्रुवम् ॥

7.154.22

द्रोणेन वार्यमाणोऽसौ कर्णेन च कृपेण च ।
प्राविशत्पाण्डवीं सेनां मकरः सागरं यथा ॥

7.154.23

किरन्निषुसहस्राणि तत्रतत्र तथातथा ।
पाञ्चालान्पाण्डवांश्चैव विव्याध निशितैः शरैः ॥

7.154.24

यथोदयगतः सूर्यो रश्मिभिर्नाशयेत्तमः ।
तथा पुत्रस्तव बलं नाशयत्तन्महाबलः ॥

7.154.25

यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः । तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः ।
न शेकुर्भारतं युद्धे पाण्डवाः समुदीक्षितुम् ॥

7.154.26

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ॥

7.154.27

रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ।
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥

7.154.28

व्यद्रवंश्च भयाद्योधा दृष्ट्वा तं परमाहवे ।
व्यात्ताननमिव प्राप्तमन्तकं प्राणहारिणम् ॥

7.154.29

न तादृशं रमे कर्म कृतवन्तस्तु तावकाः ।
यादृशं कृतवान्राजा पुत्रस्तव विशाम्पते ॥

7.154.30

पुत्रेण तव सा सेना पाण्डवी मथिता रणे ।
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥

7.154.31

क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी ।
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥

7.154.32

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत ।
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥

7.154.33

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥

7.154.34

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः ।
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥

7.154.35

सात्वतं पञ्चभिर्विद्धा द्रौपदेयांस्त्रिभिस्त्रिभिः ।
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥

7.154.36

शतशश्चापरान्योधान्सद्विपांश्च महारणे ।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥

7.154.37

सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः ।
तव पुत्रेण सङ्ग्रामे विदुद्राव नराधिप ॥

7.154.38

तं तपन्तमिवादित्यं कुरुराजं महाहवे ।
नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः ॥

7.154.39

ततो युधिष्ठिरो राजा कुपितो राजसत्तम ।
अभ्यधावत्कुरुपतिं तव पुत्रं जिघांसया ॥

7.154.40

तावुभौ युधि कौरव्यौ समीयतुररिन्दमौ ।
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ ॥

7.154.41

ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः ।
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा ॥

7.154.42

इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप ।
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः ॥

7.154.43

धनुश्च पुनरन्येन चकर्तास्य महारथः ।
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनाः ॥

7.154.44

ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम् ।
अन्यदादाय वेगेन कौरवं प्रत्यवारयत् ॥

7.154.45

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः ।
भल्लाभ्यां पण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥

7.154.46

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः ।
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन् ॥

7.154.47

ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम् ।
वृत्रेण सह युध्यन्तं यद्वद्देवाः शतक्रतुम् ॥

7.154.48

ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष । शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम् ।
हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः ॥

7.154.49

स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः ।
निषसाद रथोपस्थे भृशं सम्मूढचेतनः ॥

7.154.50

ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान् ।
हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥

7.154.51

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष ।
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥

7.154.52

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् ।
तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥

7.154.53

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला जयगृद्धिनः । तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ।
चण्डवातः समुद्वूतो मेघानम्बुमुचो यथा ॥

7.154.54

ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः ।
तावकानां परेषां च समेतानां युयुत्सया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc