भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.144

7.144.1

अजितो द्रोणराधेयविकर्णकृतवर्मभिः । यश्चैवोत्सहते वेतुं समस्तं मामकं बलम ।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥

7.144.2

स कथं कौरवेयेण समरेष्वनिवारितः ।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥
सञ्जय उवाच ।

7.144.3

शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥

7.144.4

ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः ।
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ॥

7.144.5

बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः ।
पुरूरवस आयुस्तु आयुषो नहुषः सुतः ॥

7.144.6

नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः ।
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ॥

7.144.7

यदोरभूदन्ववाये आजमीढ इति स्मृतः ।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ॥

7.144.8

शूरस्य शौरिर्नृवरो वसुदेवो महायशाः । धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि । तद्वार्यश्चापि तत्रैव कुले शिनिरभून्नृप ॥

7.144.9

एतस्मिन्नेव काले तु देवकस्य महात्मनः ।
दुहितः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥

7.144.10

तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै ।
निर्जित्व पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥

7.144.11

तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः ।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥

7.144.12

तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमुद्भतम् ।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः ॥

7.144.13

शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥

7.144.14

मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।
कृपया च पुनस्तेन स जीवेति विसर्जितः ॥

7.144.15

तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।
प्रासादयन्महादेवममर्षवशमास्थितः ॥

7.144.16

तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः ॥

7.144.17

पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम् ।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥

7.144.18

तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव । एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ।
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ॥

7.144.19

अपातयच्च समरे सौमदत्तिः शिनेः सुतम् ।
पश्यतां सर्वसैन्यानां पदा चैनमताडयत् ॥

7.144.20

एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि ।
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः ॥

7.144.21

लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः । देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥

7.144.22

न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो ।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥

7.144.23

न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ॥

7.144.24

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे ॥

7.144.25

ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः ।
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥

7.144.26

अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।
समर्थान्नावमन्यन्ते दीनानभ्युद्वरन्ति च ॥

7.144.27

नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः ।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥

7.144.28

अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥

7.144.29

एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो ।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc