भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.145

7.145.1

तदवस्थे हे तस्मिन्भूरिश्रवसि कौरवे ।
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.145.2

भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत ।
वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥
अर्जुन उवाच ।

7.145.3

चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः । [श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते.]
प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ॥

7.145.4

अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥

7.145.5

एतद्धि पुरुषव्याघ्र महदब्युद्यतं मया ।
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥

7.145.6

यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः ।
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥

7.145.7

ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान् ।
हयज्ञश्चोदयामास जयद्रथवधं प्रति ॥

7.145.8

तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।
त्वरमाणा महाराज सेनामुख्याः समाद्रवन् ॥

7.145.9

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥

7.145.10

समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् ।
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥

7.145.11

यथाग्निरिन्धनेद्धौ वै क्रोधेन्धनसमीरितः ।
सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतमभ्ययात् ॥

7.145.12

उपायान्तं* तु राधेयं दृष्ट्वा पार्थो महारथः ।
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥

7.145.13

एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति ।
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥

7.145.14

यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।
न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ॥
सञ्जय उवाच ।

7.145.15

एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥

7.145.16

अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव ।
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥

7.145.17

न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः । प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी ।
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥

7.145.18

न कर्णं प्राकृतं मन्ये तेन योद्धुं न साम्प्रतम् ।
यः कर्णो बलवानेष शक्तोऽस्माञ्जेतुमोजसा ॥

7.145.19

कर्णस्यैष महान्दोषो यद्दूयेन पदेपदे ।
प्रमादाच्च घृणित्वाच्च तेन शोचिति मे मनः ॥

7.145.20

अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ॥

7.145.21

यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले ।
तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना ॥
धृतराष्ट्र उवाच ।

7.145.22

योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः ।
हते तु भूरिश्रवसि तद्युद्धमभवत्कथम् ॥

7.145.23

सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.145.24

हन्त ते कथयिष्यामि यथावृत्तं महारणे । पश्यतां सर्वसैन्यानां केशवार्युनयोरपि ।
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥

7.145.25

xxमेव हि कृष्णस्य मनोगतमिदं प्रभो ।
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥

7.145.26

अतीतानागते राजन्स हि वेत्ति जनार्दनः । ततः सूतं समाहूय दारुकं सन्दिदेश ह ।

7.145.27

रथो मे युज्यतां कल्यमिति राजन्महाबालः ॥ न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः ।
मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन ।

7.145.28

पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।
तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ॥

7.145.29

सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे ।
दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ॥

7.145.30

दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् ।
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥

7.145.31

स केशवस्यानुमते रथं दारुकसंयुतम् ।
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ॥

7.145.32

कामगैः शैव्यसुग्रीवमेघपुष्पवलाहकैः ।
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥

7.145.33

युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥

7.145.34

चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।
धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ॥

7.145.35

राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥

7.145.36

नैव दैवं न गान्धर्वं नासुरं न च राक्षसम् । तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत ।
उपारसत तत्सैन्यं सरथाश्वनरद्विपम् ॥

7.145.37

तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः ।
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ॥

7.145.38

तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥

7.145.39

गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ।
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥

7.145.40

नभस्तलगताश्चैव देवगान्धर्वदानवाः ।
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥

7.145.41

मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रमे ॥

7.145.42

कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ।
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ॥

7.145.43

प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ।
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः ॥

7.145.44

कर्णः शोकसमाविष्टो महोरग इव श्वसन् । स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा ।
अभ्यधावत वेगेन पुनःपुनररिन्दम ॥

7.145.45

तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुध्यत ।
महता शरवर्षेण गजं प्रतिगजो यथा ॥

7.145.46

तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥

7.145.47

ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः ।
बिभेद सर्वगात्रेषु पुनःपुनररिन्दम ॥

7.145.48

सारथिं चास्य भल्लेन रथनीडादपातयत् ।
अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ॥

7.145.49

छित्त्वा ध्वजं रथं चैव शतधा पुनर्षर्षभ ।
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥

7.145.50

ततो विमनसो राजंस्तावकास्ते महारथाः । वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ।

7.145.51

द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ॥
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ॥

7.145.52

तथा सात्यकिना वीरे विरथे सूतजे कृते ।
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ॥

7.145.53

कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः ।
दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ॥

7.145.54

मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् ।
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥

7.145.55

तथा तु विरथं कर्णं पुत्रांश्च परिपालयन् ॥
दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ॥

7.145.56

रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम् ।
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥

7.145.57

भीमसेनेन तु वदः पुत्राणां ते प्रतिश्रुतः ।
अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥

7.145.58

वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।
नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ॥

7.145.59

द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः । निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥

7.145.60

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः ।
जितवान्सर्वसैन्यानि तावकानि हसन्निव ॥

7.145.61

कृष्णो वाऽपि भवेल्लोके पार्थो बाऽपि धनुर्धरः ।
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते ॥
धृतराष्ट्र उवाच ।

7.145.62

अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः । विरथं कृतवान्कर्णं वासुदेवसमो युधि ।
दारुकेण समायुक्तः स्वबाहुबलदर्पितः ॥

7.145.63

कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः । एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.145.64

शृणु राजन्यथावृत्तं रथमन्यं महामतिः ।
दारुकस्यानुजस्तूर्णं कल्पनाविदिकल्पितम् ॥

7.145.65

आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् ।
तारासहस्रखचितं सिंहध्वजपताकिनम् ॥

7.145.66

अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।
सैन्धवैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥

7.145.67

चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशाम्पते ।
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥

7.145.68

युक्तं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः ।
रथं सम्पादयामास मेघगम्भीरनिःस्वनम् ॥

7.145.69

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥

7.145.70

कर्णस्यापि रथं राजञ्शङ्खगोक्षीरपाण्डुरैः ।
चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः ॥

7.145.71

हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम् । अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ।
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ॥

7.145.72

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
भूयश्चापि निबोधेमं तवापन्नयजं क्षयम् ॥

7.145.73

एकत्रिंशत्तव सुता भीमसेनेन पातिताः ।
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ॥

7.145.74

शतशो निहताः शूराः सात्वतेनार्जुनेन च । भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत ।
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc