भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.143

7.143.1

स बाहुर्न्यपतद्भूमौ सखङ्गः सशुभाङ्गदः । आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः ।
यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा ॥

7.143.2

प्रहरिष्यन्हृतो बाहुरदृश्यते किरीटिना ।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥

7.143.3

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।
उत्सृज्य सात्यकिं क्रोधाद्ग्रर्हयामास पाण्डवम् ॥

7.143.4

स विबाहुर्महाराज एकपक्ष इवाण्डजः । एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः ।
उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः ॥
भूरिश्रवा उवाच ।

7.143.5

नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।
अपश्यतो विषक्तस्य यन्मे त्वं बाहुमच्छिनः ॥

7.143.6

येषु येषु नरः पार्थ वर्तते सुसमाहितः ।
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि ॥

7.143.7

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥

7.143.8

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥

7.143.9

ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि ॥

7.143.10

न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ॥

7.143.11

इदं तु नीचाचरितमसत्पुरुषसेवितम् ।
कथमाचरितं पार्थ पापकर्म सुदुष्करम् ॥

7.143.12

आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय ।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि ॥

7.143.13

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चारितव्रतः ॥

7.143.14

अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये ।
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया ॥

7.143.15

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥

7.143.16

को हि नाम प्रमत्ताय परेण सह युध्यते ।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥

7.143.17

व्रात्याः सङ्क्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः ।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥
सञ्जय उवाच ।

7.143.18

एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत् । व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः ।
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो ॥

7.143.19

जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम् ।
सङ्गामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः ॥

7.143.20

न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे ॥

7.143.21

युध्यन्ते क्षत्रियाः शत्रून्स्वैःस्वैः परिवृता नराः । भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः ।
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः ॥

7.143.22

स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च ।
अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान् ॥

7.143.23

मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम् ।
*त्वया निकृष्यमाणं च दृष्टवानस्मि निष्क्रियम् ॥

7.143.24

न च त्वं रक्षितव्यो हि एको रणगतेन हि । यो यस्य युध्यतेऽर्थाय संरक्ष्यो नराधिप ।
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे ॥

7.143.25

यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे ।
ततस्तेन वियोगश्च प्राप्यं नरकमेव च ॥

7.143.26

रक्षितव्यो मया यस्मात्तस्माल्लब्धो मया स च ।
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात् ॥

7.143.27

यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम् ।
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः ॥

7.143.28

आबद्धकवचस्येह रथमारुह्य तिष्ठतः ।
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः ॥

7.143.29

अस्मिन्रथगजानीके हयपत्तिसमाकुले ।
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे ॥

7.143.30

स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे ।
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति ॥

7.143.31

बहुभिः सह सङ्गम्य निर्जित्य च महारथान् । श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया ।
समेतः सात्यकिः सङ्ख्ये निर्जितश्च महारथः ॥

7.143.32

ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम् ।
अधिकत्वं विजानीपे स्ववीर्यवशमागतम् ॥

7.143.33

इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे । तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति ।
एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति ॥

7.143.34

त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि ।
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः ॥

7.143.35

आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः ।
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम् ॥

7.143.36

न्यस्तशस्त्रस्य हि पुनर्विकलस्य विवर्मणः ।
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत् ॥
सञ्जय उवाच ।

7.143.37

एवमुक्तो महार्बाहुर्यूपकेतुर्महायशाः ।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत् ॥

7.143.38

शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥

7.143.39

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥

7.143.40

ततस्ते सर्वसेनासु जनाः कृष्णधनञ्जयौ ।
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम् ॥

7.143.41

निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् ।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः ॥

7.143.42

तांस्तथावादिनो राजन्पुत्रांस्तव धनञ्जयः ।
अमूष्यमाणो मनसा तेषां तस्य च भाषितम् ॥

7.143.43

असङ्क्रुद्धमना वाचः स्मारयन्निव भारत ।
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥

7.143.44

मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥

7.143.45

यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥

7.143.46

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।
नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा ॥

7.143.47

दुर्योधनस्य क्षुद्रस्य अप्रमाणे च तिष्ठतः ।
सौमदत्तेरथं साधुः सर्वसाहाय्यकारिणः ॥

7.143.48

अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते ।
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः ॥

7.143.49

सात्यकश्च वशं नीतः कौरवेण महात्मना ।
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति ॥
सञ्जय उवाच ।

7.143.50

पुनश्च कृपयाऽविष्टो बहु तत्तद्विचिन्तयन् ।
उवाच चैनं कौरव्यमर्जुनः शोकपीडितः ॥

7.143.51

धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः ।
अवस्थामीदृशीं प्राप्तः शरण्यः शरणप्रदः ॥

7.143.52

नातिभारः कृतान्तस्य विद्यते कुरुनन्दन ।
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम् ॥

7.143.53

नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम ।
यत्र त्वं कुरुशार्दूल प्राप्तः पापामिमां दशाम् ॥

7.143.54

रौरवं नरकं भीमं गमिष्यति सुयोधनः ।
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम् ॥

7.143.55

को हि नाम पुमाँल्लोके मादृशः पुरुषोत्तम ।
प्रहरेत्त्वद्विधे त्वद्य प्रतिज्ञा यदि नो भवेत् ॥

7.143.56

एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत् ।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥

7.143.57

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।
युपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥
अर्जुन उवाच ।

7.143.58

या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे ।
नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥

7.143.59

मया त्वं समनुज्ञातः कृष्णेन च महात्मना ।
गच्छ पुण्यकृतां लोकाञ्छिबिरौशीनरो यथा ॥
वासुदेव उवाच ।

7.143.60

ये लोका मम विमलाः सकृद्विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः ।
तान्क्षिप्रं व्रज सतताग्निहोत्रयाजि-- न्मत्तुल्यो भव गरुडोत्तमाङ्गयानः ॥
सञ्जय उवाच ।

7.143.61

धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते ।
अवाङ्मुखा बभूवुश्च सैनिकाः सर्व एव ते ॥

7.143.62

मुहूर्तादिव विश्रम्य सात्यकिः क्रोधमूर्च्छितः ।
अमर्षवशमापन्नः सौमदत्तिनिराकृतः ॥

7.143.63

उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना ।
सङ्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥

7.143.64

निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम् ।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥

7.143.65

निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥

7.143.66

वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।
भीमेन चक्रक्षाभ्यामश्वत्थाम्ना कृपेण च ॥

7.143.67

कर्णेन वृषसेनेन सैन्धवेन तथैव च ।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम् ॥

7.143.68

प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः ।
सात्यकिः कौरवेयस्य खङ्गेनापाहरच्छिरः ॥

7.143.69

नाभ्यनन्दन्त तं सैन्याः सात्यकिं तेन कर्मणा ।
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥

7.143.70

सहस्राक्षसमं चैव सिद्धचारणमानवाः ।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥

7.143.71

अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः ।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः ॥

7.143.72

न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम् ॥

7.143.73

हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥

7.143.74

मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा ।
मन्यध्वं मृत इत्येष माभूद्वो बुद्धिलाघवम् ॥

7.143.75

तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि ।
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः ॥

7.143.76

अन्ये न युक्तमित्येव भवितव्यं तथेति च ।
केचिदासन्विमनसः केचिद्दुःखसमन्विताः ॥
सात्यकिरुवाच ।

7.143.77

न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत ।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥

7.143.78

यदा बालः सुभद्रायाः सुतः शस्त्रनिनाकृतः ।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥

7.143.79

मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि । श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम् ।
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः ॥

7.143.80

यो मां निष्पिष्य सङ्ग्रमे जीवन्हन्यात्पदा रुषा ।
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥

7.143.81

चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम् ॥

7.143.82

युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥

7.143.83

यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता ।
सखङ्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥

7.143.84

भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत् ।
सोयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥

7.143.85

अपि चापं पुरा गीतः श्लोको वाल्मीकिना भुवि ।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम ॥

7.143.86

सर्वकालं मनुष्येण व्यवसायवता सदा । पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ।
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत् ॥
सञ्चय उवाच ।

7.143.87

एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः ।
न स्म किञ्चिदभाषन्त मनसा समपूजयन् ॥

7.143.88

मन्त्रभिपूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य ।
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥

7.143.89

सुनीलकेशं वरदस्य तस्य सूरस्य पारावतलोहिताक्षम् ।
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण ॥

7.143.90

स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य ।
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेम रोदसी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc